अथर्ववेदः/काण्डं १९/सूक्तम् ३०
← सूक्तं १९.२९ | अथर्ववेदः - काण्डं १९ सूक्तं १९.३० ब्रह्मा |
सूक्तं १९.३१ → |
दे. दर्भमणिः। अनुष्टुप्। |
यत्ते दर्भ जरामृत्यु शतं वर्मसु वर्म ते ।
तेनेमं वर्मिणं कृत्वा सपत्नां जहि वीर्यैः ॥१॥
शतं ते दर्भ वर्माणि सहस्रं वीर्याणि ते ।
तमस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः ॥२॥
त्वामाहुर्देववर्म त्वां दर्भ ब्रह्मणस्पतिम् ।
त्वामिन्द्रस्याहुर्वर्म त्वं राष्ट्राणि रक्षसि ॥३॥
सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः ।
मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते ॥४॥
यत्समुद्रो अभ्यक्रन्दत्पर्जन्यो विद्युता सह ।
ततो हिरण्ययो बिन्दुस्ततो दर्भो अजायत ॥५॥
सायणभाष्यम्
'यत् ते दर्भ' इति चतुर्थं सूक्तम् । तस्य ऐन्द्र्याख्यायां महाशान्तौ दर्भमणिबन्धने विनियोगः पूर्वसूक्तेन सह उक्तः।
यत्ते॑ दर्भ ज॒रामृ॑त्यु श॒तं वर्म॑सु॒ वर्म॑ ते।
तेने॒मं व॒र्मिणं॑ कृ॒त्वा स॒पत्नां॑ ज॒हि वी॒र्यैः॑ ।।१।।
यत् । ते । दर्भ । जराऽमृत्युः । शतम् । वर्मऽसु । वर्म । ते ।
तेन । इमम् । वर्मिणम् । कृत्वा । सऽपत्नान् । जहि । वीर्यैः ॥ १ ॥
हे दर्भ ते तव मर्मसु ग्रन्थिषु यत् जरामृत्युशतम् जरसां मृत्यूनां च शतम् । वर्तत इति शेषः । शतशब्दः अपरिमितवचनः । परुषाम् अपरिमितत्वात् । प्रतिपरुर्विच्छेदस्य सुकरत्वात् जरामृत्युशतास्पदत्वं दर्भस्य । यच्च ते तव वर्म जरामृत्युपरिहारकं कवचम् अस्ति तेन मर्मगतजरामृत्युशतपरिहारकेण वर्मणा इमं तव धारकं रक्षाजयादिकामं पुरुषं वर्मिणम् आमुक्तवर्माणं कृत्वा वीर्यैः परकृतोपद्रवपरिहारशत्रुविजयकरणादिलक्षणैः सामर्थ्यैः सपत्नान् अमुष्य राज्ञः शत्रून् जहि पराभव नाशय ।
श॒तं ते॑ दर्भ॒ वर्मा॑णि स॒हस्रं॑ वी॒र्या॑णि ते।
तम॒स्मै विश्वे॒ त्वां दे॑वा ज॒रसे॒ भर्त॒वा अ॑दुः ।।२।।
शतम् । ते । दर्भ । वर्माणि । सहस्रम् । वीर्याणि । ते।
तम् । अस्मै । विश्वे । त्वाम् । देवाः । जरसे । भर्तवै । अदुः ॥ २ ॥
हे दर्भ मणिरूप ते तव मर्माणि पर्वाणि परकृतपीडाविषयभूतानि शतं सन्ति । तत्परिहाराय ते तव वीर्याणि सामर्थ्यान्यपि सहस्रम् सहस्रसंख्याकानि सन्ति । तं तादृशं मर्मशताच्छादनसाधनवीर्योपेतं त्वाम् अस्मै रक्षादिकामाय राज्ञे विश्वे सर्वे देवाः जरसे जरानिमित्तम् अस्य जरापरिहाराय भर्तवै भरणाय पोषणाय प्रयोजनाय अदुः दत्तवन्तः । अतः अमुष्य जरां परिहृत्य भरणं कुर्वित्यर्थः । भर्तवै । तवैप्रत्ययः ।
त्वामा॑हुर्देव॒वर्म॒ त्वां द॑र्भ॒ ब्रह्म॑ण॒स्पति॑म्।
त्वामिन्द्र॑स्याहु॒र्वर्म॒ त्वं रा॒ष्ट्राणि॑ रक्षसि ।।३।।
त्वाम् । आहुः । देवऽवर्म । त्वाम् । दर्भ । ब्रह्मणः । पतिम् ।
त्वाम् । इन्द्रस्य । आहुः । वर्म । त्वम् । राष्ट्राणि । रक्षसि ॥ ३ ॥
हे दर्भ मणे त्वां देववर्म आहुः देवानां रक्षणार्थं कवचम् आहुः । तथा त्वां ब्रह्मणस्पतिम् वेदस्य पालयितारम् एतन्नामानं देवम् आहुः वेदविदितस्यापि रक्षाकारित्वात्। किं च त्वाम् इन्द्रस्य देवाधिपतेरपि वर्म कवचम् आहुः । देवा बृहस्पतिर् (? ब्रह्मणस्पतिर्) इन्द्रश्च त्वां स्वस्वरक्षार्थं धारयन्ति इत्यभिप्रायः । यत एवम् अतः त्वं राष्ट्राणि त्वां धारयतो राज्ञो राज्यानि रक्षसि पालयसि पालय ।
स॑पत्न॒क्षय॑णं दर्भ द्विष॒तस्तप॑नं हृ॒दह्।
म॒णिं क्ष॒त्रस्य॒ वर्ध॑नं तनू॒पानं॑ कृणोमि ते ।।४।।
सपत्नऽक्षयणम् । दर्भ । द्विषतः । तपनम् । हृदः ।
मणिम् । क्षत्रस्य । वर्धनम् । तनूऽपानम् । कृणोमि । ते ॥ ४ ॥
हे दर्भ ते त्वा त्वां सपत्नक्षयणम् शत्रूणां नाशकम् । 'कृत्यल्युटो बहुलम्' (पा ३,३,११३ ) इति कर्तरि ल्युट् । तथा द्विषतः द्वेष्टुः हृदः हृदयस्य तपनम् संतापकं क्षत्रस्य बलस्य वर्धनम् वर्धकम् । तथा तनूपानम् तन्वाः शरीरस्य पातारं रक्षितारम् एवंमहानुभावं मणिं कृणोमि करोमि । अथवा रक्षाकामः पुरुषः संबोध्यते -- हे राजन् दर्भमणिं सपत्नक्षयणादिसामोपेतं ते तुभ्यं क्षत्रस्य वर्धनं तनूपानं च कृणोमीति संबन्धनीयम्।
यत्स॑मु॒द्रो अ॒भ्यक्र॑न्दत्प॒र्जन्यो॑ वि॒द्युता॑ स॒ह।
ततो॑ हिर॒न्ययो॑ बि॒न्दुस्ततो॑ द॒र्भो अ॑जायत ।।५।।
यत् । समुद्रः । अभिऽअक्रन्दत् । पर्जन्यः । विऽद्युता । सह ।
ततः । हिरण्ययः । बिन्दुः । ततः । दर्भः । अजायत ॥ ५॥
यत् यस्मिन् स्थाने समुद्रः समुद्द्रवन्ति अस्माद् आप इति समुद्रः। तादृशः पर्जन्यः मेघो विद्युता सह अभ्यक्रन्दत् अभिक्रन्दनं स्तननम् अकार्षीद् वृष्ट्युत्पादनाय ततः अभिक्रन्दतो मेघात् हिरण्ययो हिरण्मयो बिन्दुः उदभूत् । ततः तस्माद् उत्पन्नात् हिरण्यबिन्दोः सकाशाद् दर्भो अजायत प्रादुर्बभूव । अनेन दर्भोत्पत्तिवर्णनेन दर्भमयस्य मणेरतिशयितवीर्यत्वम् उक्तं भवति । हिरण्यय इति । 'ऋत्व्यवास्त्व्यवास्त्व' (पा ६,४,१७५ ) इत्यादिना हिरण्यमयशब्दस्य मयटो मकारलोपो निपातितः।
इति चतुर्थेऽनुवाके चतुर्थं सूक्तम् ।