अथर्ववेदः/काण्डं १९/सूक्तम् २६

विकिस्रोतः तः
← सूक्तं १९.२५ अथर्ववेदः - काण्डं १९
सूक्तं १९.२६
अथर्वा।
सूक्तं १९.२७ →
दे. अग्निः, हिरण्यं च। त्रिष्टुप्, ३ अनुष्टुप्, ४ पथ्यापङ्क्तिः।

अग्नेः प्रजातं परि यद्धिरण्यममृतं दध्रे अधि मर्त्येषु ।
य एनद्वेद स इदेनमर्हति जरामृत्युर्भवति यो बिभर्ति ॥१॥
यद्धिरण्यं सूर्येण सुवर्णं प्रजावन्तो मनवः पूर्व ईषिरे ।
तत्त्वा चन्द्रं वर्चसा सं सृजत्यायुष्मान् भवति यो बिभर्ति ॥२॥
आयुषे त्वा वर्चसे त्वौजसे च बलाय च ।
यथा हिरण्यतेजसा विभासासि जनामनु ॥३॥
यद्वेद राजा वरुणो वेद देवो बृहस्पतिः ।
इन्द्रो यद्वृत्रहा वेद तत्त आयुष्यं भुवत्तत्ते वर्चस्यं भुवत्॥४॥