अथर्ववेदः/काण्डं १९/सूक्तम् १८

विकिस्रोतः तः
← सूक्तं १९.१७ अथर्ववेदः - काण्डं १९
सूक्तं १९.१८
अथर्वा
सूक्तं १९.१९ →
दे. मन्त्रोक्ताः। १, ८ साम्नी त्रिष्टुप्, - - - -

अग्निं ते वसुवन्तमृच्छन्तु ।
ये माघायवः प्राच्या दिशोऽभिदासान् ॥१॥
वायुं तेऽन्तरिक्षवन्तमृच्छन्तु ।
ये माघायव एतस्या दिशोऽभिदासान् ॥२॥
सोमं ते रुद्रवन्तमृच्छन्तु ।
ये माघायवो दक्षिणाया दिशोऽभिदासान् ॥३॥
वरुणं त आदित्यवन्तमृच्छन्तु ।
ये माघायव एतस्या दिशोऽभिदासान् ॥४॥
सूर्यं ते द्यावापृथिवीवन्तमृच्छन्तु ।
ये माघायव प्रतीच्या दिशोऽभिदासान् ॥५॥
अपस्त ओषधीमतीर्ऋच्छन्तु ।
ये माघायव एतस्या दिशोऽभिदासान् ॥६॥
विश्वकर्माणं ते सप्तऋषिवन्तमृच्छन्तु ।
ये माघायव उदीच्या दिशोऽभिदासान् ॥७॥
इन्द्रं ते मरुत्वन्तमृच्छन्तु ।
ये माघायव एतस्या दिशोऽभिदासान् ॥८॥
प्रजापतिं ते प्रजननवन्तमृच्छन्तु ।
ये माघायवो ध्रुवाया दिशोऽभिदासान् ॥९॥
बृहस्पतिं ते विश्वदेववन्तमृच्छन्तु ।
ये माघायव ऊर्ध्वाया दिशोऽभिदासान् ॥१०॥