अथर्ववेदः/काण्डं १९/सूक्तम् १५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १९.१४ अथर्ववेदः - काण्डं १९
सूक्तं १९.१५
अथर्वा
सूक्तं १९.१६ →
दे. १-४ इन्द्रः, मन्त्रोक्ताः। त्रिष्टुप्, १ पथ्याबृहती, २,५ जगती, ३ विराट् पथ्यापङ्क्तिः।

यत इन्द्र भयामहे ततो नो अभयं कृधि ।
मघवंछग्धि तव त्वं न ऊतिभिर्वि द्विषो वि मृधो जहि ॥१॥
इन्द्रं वयमनूराधं हवामहेऽनु राध्यास्म द्विपदा चतुष्पदा ।
मा नः सेना अररुषीरुप गुर्विषूचिरिन्द्र द्रुहो वि नाशय ॥२॥
इन्द्रस्त्रातोत वृत्रहा परस्फानो वरेण्यः ।
स रक्षिता चरमतः स मध्यतः स पश्चात्स पुरस्तान् नो अस्तु ॥३॥
उरुं नो लोकमनु नेषि विद्वान्त्स्वर्यज्ज्योतिरभयं स्वस्ति ।
उग्रा त इन्द्र स्थविरस्य बाहू उप क्षयेम शरणा बृहन्ता ॥४॥
अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे इमे ।
अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु ॥५॥
अभयं मित्रादभयममित्रादभयं ज्ञातादभयं पुरो यः ।
अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु ॥६॥