अथर्ववेदः/काण्डं १९/सूक्तम् ०५

विकिस्रोतः तः
← सूक्तं १९.०४ अथर्ववेदः - काण्डं १९
सूक्तं १९.५
अथर्वाङ्गिराः।
सूक्तं १९.०६ →
दे. इन्द्रः। त्रिष्टुप्।

इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति ।
ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक्॥१॥