अथर्ववेदः/काण्डं १८/सूक्तम् ०२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १८.१ अथर्ववेदः - काण्डं १८
सूक्तं १८.२
अथर्वा
सूक्तं १८.३ →
दे. यमः, मन्त्रोक्ताः, ४-३४ अग्निः, ५ जातवेदाः, २९ पितरः। त्रिष्टुप्, - --- - - -

आदितस्तिसृणाम् ऋचां पूर्वर्चा सह प्रेतोत्थापनकर्मणि उक्तो विनियोगः

18.2
यमाय सोमः पवते यमाय क्रियते हविः ।
यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः ॥१॥
यमाय मधुमत्तमं जुहोता प्र च तिष्ठत ।
इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥२॥
यमाय घृतवत्पयो राज्ञे हविर्जुहोतन ।
स नो जीवेष्वा यमेद्दीर्घमायुः प्र जीवसे ॥३॥
मैनमग्ने वि दहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम् ।
शृतं यदा करसि जातवेदोऽथेमेनं प्र हिणुतात्पितॄंरुप ॥४॥
यदा शृतं कृणवो जातवेदोऽथेममेनं परि दत्तात्पितृभ्यः ।
यदो गछात्यसुनीतिमेतामथ देवानां वशनीर्भवाति ॥५॥
त्रिकद्रुकेभिः पवते षडुर्वीरेकमिद्बृहत्।
त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आर्पिता ॥६॥
सूर्यं चक्षुषा गच्छ वातमात्मना दिवं च गच्छ पृथिवीं च धर्मभिः ।
अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥७॥
अजो भागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः ।
यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥८॥
यास्ते शोचयो रंहयो जातवेदो याभिरापृणासि दिवमन्तरिक्षम् ।
अजं यन्तमनु ताः समृण्वतामथेतराभिः शिवतमाभिः शृतं कृधि ॥९॥
अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधावान् ।
आयुर्वसान उप यातु शेषः सं गच्छतां तन्वा सुवर्चाः ॥१०॥ {७}
अति द्रव श्वानौ सारमेयौ चतुरक्षौ शबलौ साधुना पथा ।
अधा पितॄन्त्सुविदत्रामपीहि यमेन ये सधमादं मदन्ति ॥११॥
यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिषदी नृचक्षसा ।
ताभ्यां राजन् परि धेह्येनं स्वस्त्यस्मा अनमीवं च धेहि ॥१२॥
उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनामनु ।
तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥१३॥
सोम एकेभ्यः पवते घृतमेक उपासते ।
येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात्॥१४॥
ये चित्पूर्व ऋतसाता ऋतजाता ऋतावृधः ।
ऋषीन् तपस्वतो यम तपोजामपि गच्छतात्॥१५॥
तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः ।
तपो ये चक्रिरे महस्तांश्चिदेवापि गच्छतात्॥१६॥
ये युध्यन्ते प्रधनेषु शूरासो ये स्वर्तनूत्यजः ।
ये वा सहस्रदक्षिणास्तां चिदेवापि गच्छतात्॥१७॥
सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् ।
ऋषीन् तपस्वतो यम तपोजामपि गच्छतात्॥१८॥
स्योनास्मै भव पृथिव्यनृक्षरा निवेशनी ।
यछास्मै शर्म सप्रथाः ॥१९॥
असंबाधे पृथिव्या उरौ लोके नि धीयस्व ।
स्वधा याश्चकृषे जीवन् तास्ते सन्तु मधुश्चुतः ॥२०॥ {८}
ह्वयामि ते मनसा मन इहेमान् गृहामुप जुजुषाण एहि ।
सं गच्छस्व पितृभिः सं यमेन स्योनास्त्वा वाता उप वान्तु शग्माः ॥२१॥
उत्त्वा वहन्तु मरुत उदवाहा उदप्रुतः ।
अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तु बालिति ॥२२॥
उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे ।
स्वान् गच्छतु ते मनो अधा पितॄंरुप द्रव ॥२३॥
मा ते मनो मासोर्माङ्गानां मा रसस्य ते ।
मा ते हास्त तन्वः किं चनेह ॥२४॥
मा त्वा वृक्षः सं बाधिष्ट मा देवी पृथिवी मही ।
लोकं पितृषु वित्त्वैधस्व यमराजसु ॥२५॥
यत्ते अङ्गमतिहितं पराचैरपानः प्राणो य उ वा ते परेतः ।
तत्ते संगत्य पितरः सनीडा घासाद्घासं पुनरा वेशयन्तु ॥२६॥
अपेमं जीवा अरुधन् गृहेभ्यस्तं निर्वहत परि ग्रामादितः ।
मृत्युर्यमस्यासीद्दूतः प्रचेता असून् पितृभ्यो गमयां चकार ॥२७॥
ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा अहुतादश्चरन्ति ।
परापुरो निपुरो ये भरन्त्यग्निष्टान् अस्मात्प्र धमाति यज्ञात्॥२८॥
सं विशन्त्विह पितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः ।
तेभ्यः शकेम हविषा नक्षमाणा ज्योग्जीवन्तः शरदः पुरूचीः ॥२९॥
यां ते धेनुं निपृणामि यमु क्षीर ओदनम् ।
तेना जनस्यासो भर्ता योऽत्रासदजीवनः ॥३०॥ {९}
अश्वावतीं प्र तर या सुशेवा र्क्षाकं वा प्रतरं नवीयः ।
यस्त्वा जघान वध्यः सो अस्तु मा सो अन्यद्विदत भागधेयम् ॥३१॥
यमः परोऽवरो विवस्वान् ततः परं नाति पश्यामि किं चन ।
यमे अध्वरो अधि मे निविष्टो भुवो विवस्वान् अन्वाततान ॥३२॥
अपागूहन्न् अमृतां मर्त्येभ्यः कृत्वा सवर्णामदधुर्विवस्वते ।
उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥३३॥
ये निखाता ये परोप्ता ये दग्धा ये चोद्धिताः ।
सर्वांस्तान् अग्न आ वह पितॄन् हविषे अत्तवे ॥३४॥
ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते ।
त्वं तान् वेत्थ यदि ते जातवेदः स्वधया यज्ञं स्वधितिं जुषन्ताम् ॥३५॥
शं तप माति तपो अग्ने मा तन्वं तपः ।
वणेषु शुष्मो अस्तु ते पृथिव्यामस्तु यद्धरः ॥३६॥
ददाम्यस्मा अवसानमेतद्य एष आगन् मम चेदभूदिह ।
यमश्चिकित्वान् प्रत्येतदाह ममैष राय उप तिष्ठतामिह ॥३७॥
इमां मात्रां मिमीमहे यथापरं न मासातै ।
शते शरत्सु नो पुरा ॥३८॥
प्रेमां मात्रां मिमीमहे यथापरं न मासातै ।
शते शरत्सु नो पुरा ॥३९॥
अपेमां मात्रां मिमीमहे यथापरं न मासातै ।
शते शरत्सु नो पुरा ॥४०॥ {१०}
वीमां मात्रां मिमीमहे यथापरं न मासातै ।
शते शरत्सु नो पुरा ॥४१॥
निरिमां मात्रां मिमीमहे यथापरं न मासातै ।
शते शरत्सु नो पुरा ॥४२॥
उदिमां मात्रां मिमीमहे यथापरं न मासातै ।
शते शरत्सु नो पुरा ॥४३॥
समिमां मात्रां मिमीमहे यथापरं न मासातै ।
शते शरत्सु नो पुरा ॥४४॥
अमासि मात्रां स्वरगामायुष्मान् भूयासम् ।
यथापरं न मासातै शते शरत्सु नो पुरा ॥४५॥
प्राणो अपानो व्यान आयुश्चक्षुर्दृशये सूर्याय ।
अपरिपरेण पथा यमराज्ञः पितॄन् गच्छ ॥४६॥
ये अग्रवः शशमानाः परेयुर्हित्वा द्वेषांस्यनपत्यवन्तः ।
ते द्यामुदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः ॥४७॥
उदन्वती द्यौरवमा पीलुमतीति मध्यमा ।
तृतीया ह प्रद्यौरिति यस्यां पितर आसते ॥४८॥
ये न पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् ।
य आक्षियन्ति पृथिवीमुत द्यां तेभ्यः पितृभ्यो नमसा विधेम ॥४९॥
इदमिद्वा उ नापरं दिवि पश्यसि सूर्यम् ।
माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥५०॥ {११}
इदमिद्वा उ नापरं जरस्यन्यदितोऽपरम् ।
जाया पतिमिव वाससाभ्येनं भूम ऊर्णुहि ॥५१॥
अभि त्वोर्णोमि पृथिव्या मातुर्वस्त्रेण भद्रया ।
जीवेषु भद्रं तन् मयि स्वधा पितृषु सा त्वयि ॥५२॥
अग्नीषोमा पथिकृता स्योनं देवेभ्यो रत्नं दधथुर्वि लोकम् ।
उप प्रेष्यन्तं पूषणं यो वहात्यञ्जोयानैः पथिभिस्तत्र गच्छतम् ॥५३॥
पूषा त्वेतश्च्यावयतु प्र विद्वान् अनष्टपशुर्भुवनस्य गोपाः ।
स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥५४॥
आयुर्विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे पुरस्तात्।
यत्रासते सुकृतो यत्र त ईयुस्तत्र त्वा देवः सविता दधातु ॥५५॥
इमौ युनज्मि ते वह्नी असुनीताय वोढवे ।
ताभ्यां यमस्य सादनं समितिश्चाव गच्छतात्॥५६॥
एतत्त्वा वासः प्रथमं न्वागन्न् अपैतदूह यदिहाबिभः पुरा ।
इष्टापूर्तमनुसंक्राम विद्वान् यत्र ते दत्तं बहुधा विबन्धुषु ॥५७॥
अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व मेदसा पीवसा च ।
नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्षन् परीङ्खयातै ॥५८॥
दण्डं हस्तादाददानो गतासोः सह श्रोत्रेण वर्चसा बलेन ।
अत्रैव त्वमिह वयं सुवीरा विश्वा मृधो अभिमातीर्जयेम ॥५९॥
धनुर्हस्तादाददानो मृतस्य सह क्षत्रेण वर्चसा बलेन ।
समागृभाय वसु भूरि पुष्टमर्वाङ्त्वमेह्युप जीवलोकम् ॥६०॥ {१२}

सायणभाष्यम्

द्वितीयेनुवाके षट् सूक्तानि । तत्र ‘यमाय सोमः' इति प्रथमं सूक्तम् । अत्र आदितस्तिसृणाम् ऋचां पूर्वर्चा सह प्रेतोत्थापनकर्मणि उक्तो विनियोगः ।
पितृमेधे 'मैनमग्ने' (४) इत्यादिभिः 'सहस्रणीथाः कवयः' (१८) इत्यन्ताभिः 'अव सृज' (१०) ' इत्यृग्वर्जिताभिश्चतुर्दशभिर्ऋग्भिर्दह्यमानं प्रेतशरीरं सर्वे गोत्रिण उपतिष्ठेरन् ।
'मैनमग्ने' इति चतसृभिः प्रेतशरीरे कनिष्ठपुत्रेण दत्तम् अग्निं गोत्रिण आदीपयेयुः।
तत्रैव कर्मणि 'अजो भागः' (८) इति द्वाभ्यां चितेर्दक्षिणपार्श्वे अजपशुं बध्नीयात् । यथा दह्यते तथा बन्धनं कार्यं मोचनं न कर्तव्यम् । तथा च माहकिराचार्यः- 'अजो हन्यते दह्यते एकाग्निप्रेतशरीरदहने' इति ।
पितृमेध एव चतुर्थेऽहनि 'अव सृज' इत्यनया 'एकाग्निकस्याहिताग्नेः शरीरम् अनुमन्त्रयेत।

य॒माय॒ सोमः॑ पवते य॒माय॑ क्रियते ह॒विः।
य॒मं ह॑ य॒ज्ञो ग॑छत्य॒ग्निदू॑तो॒ अरं॑कृतः ।।१।।
यमाय । सोमः । पवते । यमाय । क्रियते । हविः।
यमम् । ह । यज्ञः । गच्छति । अग्निऽदूतः । अरम्ऽकृतः ॥ १ ॥
यमाय देवाय सोमः पवते पूयते अभिषूयते सोमयागे यजमानैः । कर्मणि कर्तृप्रत्ययः शप् पूधातोः । सोमसाधनो ज्योतिष्टोमादिरननुष्ठितश्चेद् यमो नरके पातयिष्यतीति भिया यमप्रीतये सोमोभिषूयत इत्यर्थः । अथवा पितॄणां सोमसंबन्धेन यमस्यापि सोमोस्त्येव । किं च यमाय एव हविः आज्यादिलक्षणं क्रियते संस्क्रियते उत्पवनादिसंस्कारेण । किं च यमं ह यममेव यज्ञः कृत्स्नो ज्योतिष्टोमादिः गच्छति। कीदृशो यज्ञः। अग्निदूतः । दूतो यथा स्वामिना दत्तं धनादिकं दातव्याय प्रयच्छति एवम् अग्निरपि यजमानेन दत्तं हविस्तस्मैतस्मै देवाय प्रयच्छतीत्यग्निर्दूत इत्यभिधीयते । अलंकृतः स्तोत्रशस्त्रादिभिर्भूषितः । यद्वा अलम् अत्यर्थं निष्पादितः । साङ्गोपाङ्ग इत्यर्थः। यद्यपि सोमो हविश्च उभे सर्वार्थं क्रियेते तथा यज्ञोपि सर्वदेवार्थः तथापि यमस्य सर्वप्राणिसंहर्तृत्वेन वा सर्वेषां पितृ. लोकप्रापकत्वेन वा प्राधान्याद् यमायैव सोमादिकं क्रियत इत्युपचर्यते।


य॒माय॒ मधु॑मत्तमं जु॒होता॒ प्र च॑ तिष्ठत।
इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे॑भ्यः पथि॒कृद्भ्यः॑ ।।२।।
यमाय । मधुमत्ऽतमम् । जुहोत । प्र । च । तिष्ठत ।
इदम् । नमः । ऋषिऽभ्यः । पूर्वऽजेभ्यः । पूर्वेभ्यः । पथिकृत्ऽभ्यः ॥ २ ॥
अत्रापि पूर्वमन्त्रवद् यमस्य प्राधान्याभिप्रायेण होमप्रतिष्ठे तस्यैव कर्तव्ये इत्यभिधीयते । हे यजमानाः यमाय एव देवाय मधुमत्तमम् अतिशयेन मधुमत् सोमाज्यादिकं हविः जुहोत जुहुत । 'तप्तनप्तन' (पा ७,१,४५) इति तस्य तबादेशे गुणः । प्र च तिष्ठत प्रतिष्ठां समाप्तिं यमायैव कुरुत । ननु यमायैव हूयते तत्सहचारिणां पितॄणां किं स्याद् इत्याशङ्क्य तेषां नमस्कारः क्रियत इत्याह इदं नम इति । ऋषिभ्यः मन्त्रादिद्रष्टुभ्यः अङ्गिरःप्रभृतिभ्यः । 'ऋषिर्दर्शनात् । स्तोमान् ददर्शत्यौपमन्यवः' इति निरुक्तम्, 'तद् यद् एनांस्तपस्यमानान् ब्रह्म 'स्वयंभ्वभ्यानर्षत् त ऋषयोऽभवंस्तद् ऋषीणाम् ऋषित्वम् इति विज्ञायते' ( नि २,११ ) इति च निरुक्तम् । ऋषयो विशेष्यन्ते--पूर्वजेभ्यः पूर्वम् उत्पन्नेभ्यः इदानींतनयजमानापेक्षया तेषां पूर्वजत्वम् । अत एव पूर्वेभ्यः पथिकृद्भ्यः। पथिकृतः पितृलोकस्य पथां कर्तारः । ये प्रथमं परेताः स्वर्गमार्गाणां दर्शयितारस्ते पथिकृतः पितृगणगताः । तेषां मार्गाणाम् इदानीन्तनैरपि अनुस्रियमाणत्वात् । एवंमहानुभावेभ्य ऋषिभ्यः अङ्गिरःप्रभृतिभ्यः इदं नमः नमस्कारोस्तु ।


य॑माय घृ॒तव॒त्पयो॒ राज्ञे॑ ह॒विर्जु॑होतन।
स नो॑ जी॒वेष्वा य॑मेद्दी॒र्घमायुः॒ प्र जी॒वसे॑ ।।३।।
यमाय । घृतऽवत् । पयः । राज्ञे। हविः । जुहोतन ।
सः । नः । जीवेषु । आ । यमेत् । दीर्घम् । आयु: । प्र । जीवसे ॥ ३ ॥
हे यजमानाः यमाय राज्ञे घृतवत् घृतोपेतं पयः क्षीरं हविः हवीरूपेण संस्कृतं जुहोतन जुहोत जुहुत । तस्य तनबादेशे गुणः । तेन किं लभ्यत इत्यत आह । स प्राप्तहविः सन् नः अस्मान् जीवेषु जीवत्सु प्राणिषु मध्ये आ यमत् नियमयेत् स्थापयेत् । यथा मृतिर्न भवेत् तथा करोतु । किं च स यमः दीर्घम् आयुः शतसंवत्सरलक्षणम् प्रयच्छतु इति शेषः । किमर्थम् । जीवसे जीवनाय ।


मैन॑मग्ने॒ वि द॑हो॒ माभि॑ शूशुचो॒ मास्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रम्।
शृ॒तं य॒दा कर॑सि जातवे॒दो ऽथे॑मेनं॒ प्र हि॑णुतात्पि॒तॄँरुप॑ ।।४।।
मा । एनम् । अग्ने । वि । दहः । मा । अभि । शूशुचः । मा । अस्य । त्वचम् । चिक्षिपः । मा । शरीरम् ।
शृतम् । यदा । करसि । जातऽवेदः । अथ । ईम् । एनम् । प्र । हिनुतात् । पितॄन् । उप ॥ ४ ॥
हे अग्ने एनं प्रेतं मा वि दहः विदाहम् अतिदाहं मा कार्षीः । तथा माभि शूशुचः । शुचेर्लुङि चङि रूपम् । 'दीर्घो लघोः' (पा ७,४,९४ ) इति अभ्यासस्य दीर्घः । अभितः शोकयुक्तं मा कार्षीः । उपर्यधश्च उभयोः पार्श्वयोरपि दाहाद् अभितः शोको भवति तदभावोत्र प्रार्थ्यते । किं च अस्य त्वचं मा चिक्षिपः अन्यत्र मा गमय । त्वग्भेदं मा कुर्वित्यर्थः । तथा शरीरम् अपि मा चिक्षिपः । अस्य शवशरीरस्य आहुतिरूपत्वात् पुरोडाशादिवद् विदाहाद्यभावः प्रार्थ्यते । यदा त्वम् एतच्छरीरं शृतम् हविर्योग्यं पक्वं करसि करोषि । श्रा पाके । 'शृतं पाके' (पा ६,१,२७ ) इति कर्मणि कर्तरि वा निपातनात भावः । करसीति । करोतेः औत्सर्गिकः शप । लेटि वा अडागमः । हे जातवेदः जातप्रज्ञ अग्ने अथ शृतकरणानन्तरम् ईम् एनं पितृभ्यः' उप पितृसमीपं प्र हिणुतात् प्रहिणु प्रेरय ।


य॒दा शृ॒तं कृ॒णवो॑ जातवे॒दो ऽथे॒ममे॑नं॒ परि॑ दत्तात्पि॒तृभ्यः॑।
य॒दो गछा॒त्यसु॑नीतिमे॒तामथ॑ दे॒वानां॑ वश॒नीर्भ॑वाति ।।५।।
यदा । शृतम् । कृणवः । जातऽवेदः । अथ । इमम् । एनम् । परि । दत्तात् । पितृऽभ्यः ।
यदो इति । गच्छाति । असुऽनीतिम् । एताम् । अथ । देवानाम् । वशऽनीः । भवाति ॥
हे जातवेदः प्राप्तहविर्लक्षणधन अग्ने त्वम् एनं शृतम् पक्वं यदा कृणवः अकरोः अथ अनन्तरम् इदम् इदानीम् एनं दाहेन संस्कृतं पुरुषं पितृभ्यः परि दत्तात् प्रयच्छ । यद्वा परिदानं रक्षणाय दानम् इति प्रसिद्धेस्तस्य रक्षणाय प्रयच्छ । उ अपि च अयम् एतां प्रसिद्धाम् असुनीतिम् असून् प्राणान् नयति लोकान्तरम् इति असुनीतिः प्राणापहर्त्री देवता तां यदा गच्छाति गच्छति अथ अनन्तरम् अयं देवानाम् द्योतमानानां स्वकीयानाम् इन्द्रियाणां वशनीः वशं नयतीति वशनीः 'सत्सूद्विष' (पा ३,२,६१) इत्यादिना क्विप् । चक्षुरादीन्द्रियाणां सूर्यादिदेवताप्रापको भवाति भवति ।


त्रिक॑द्रुकेभिः पवते॒ षडु॒र्वीरेक॒मिद्बृ॒हत्।
त्रि॒ष्टुब्गा॑य॒त्री छन्दां॑सि॒ सर्वा॒ ता य॒म आर्पि॑ता ।।६।।
त्रिकद्रुकेभिः । पवते । षट् । उर्वीः । एकम् । इत् । बृहत् ।
त्रिऽस्तुप् । गायत्री । छन्दांसि । सर्वा । ता । यमे । आर्पिता ॥ ६ ॥
त्रिकद्रुकेभिः त्रिकद्रुकैः । ज्योतिष्टोमगोष्टोमायुष्टोमास्त्रयः त्रिकद्रुका इत्युच्यन्ते । तैर्निमित्तभूतैस्तेषां निष्पत्तये पवते पूयते यमार्थम् अभिषूयते । सोम इति शेषः । ज्योतिष्टोमादीनाम् अननुष्ठाने यमो हनिष्यतीति भीत्या तेषु सोमोभिषूयत इत्यर्थः । तथा षडुर्वीः षडुर्व्यः । षण्मोर्वीरंहसस्पान्तु' ( आश्रौ १,२,१) इत्यत्राम्नानाद् द्यौश्च पृथिवी च अहश्च रात्रिश्च आपश्च ओषधयश्च एताः षड् उर्व्यः । ता अपि एकमित् एकमेव बृहत् महान्तं यमम् । उद्दिश्यैव प्रवर्तन्त इति शेषः । अथवा बृहत् इति उत्तरत्र अन्वेति । बृहत् बृहती छन्दः तथा त्रिष्टुब् गायत्री इति च्छन्दांसि । ता तानि इतराणि सर्वा सर्वाणि छन्दांसि यमे आर्पिता आर्पितानि पर्यवसितानि । छन्दोभिरुपलक्षिताः सर्वे मन्त्रा यमैकविषया इत्यर्थः । ऋ गतौ । 'अर्तिह्री' (पा ७,३,३६) इत्यादिना पुगागमः । 'जुष्टार्पिते च च्छन्दसि' (पा ६,१,२०९) इति आद्युदात्तत्वम् ।


सूर्यं॒ चक्षु॑षा गछ॒ वात॑मा॒त्मना॒ दिवं॑ च॒ गछ॑ पृथि॒वीं च॒ धर्म॑भिः।
अ॒पो वा॑ गछ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ।।७।।
सूर्यम् । चक्षुषा । गच्छ । वातम् । आत्मना । दिवम् । च । गच्छ । पृथिवीम् । च । धर्मऽभिः ।
अपः। वा । गच्छ । यदि । तत्र । ते। हितम् । ओषधीषु । प्रति । तिष्ठ । शरीरैः ॥७॥
हे मृत पुरुष त्वं सूर्यं देवं चक्षुषा चक्षुर्द्वारेण गच्छ । सूर्यप्राप्तौ चक्षुरेव द्वारम् । 'आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्' (ऐआ २,४,२) इति पूर्वम् अक्षिणि आदित्यानुप्रवेशात् । तथा वातम् वायुं सूत्रात्मानम् आत्मना । अत्र आत्मशब्देन मुख्यः प्राणोभिधीयते । तेन तं गच्छ । अत्रापि 'वायुः प्राणो भूत्वा नासिके प्राविशत्' (ऐआ २,४,२ ) इति श्रुतेः वातप्राप्तौ प्राण एव द्वारम् । एवं धर्मभिः शरीरधारकैः इतरैरिन्द्रियैः दिवं च पृथिवीं च गच्छ। वा अथ वा अपो गच्छ उदकानि अन्तरिक्षं वा प्राप्नुहि । यदि तत्र अप्सु अब्देवतायां ते तव हितं भवेत् । अनेन तत्तत्स्थानप्राप्तेरैच्छिकत्वं सूचितं भवति । ओषधीषु व्रीहियवादिषु शरीरैः स्वावयवैः कर्मेन्द्रियैः । यद्वा पूजार्थं बहुवचनम् । शरीरेण स्थूलेन प्रति तिष्ठ प्रतिष्ठितो भव ।


अ॒जो भा॒गस्तप॑स॒स्तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः।
यास्ते॑ शि॒वास्त॒न्वो॑ जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ।।८।।
अजः । भागः । तपसः । तम् । तपस्व । तम् । ते । शोचिः । तपतु । तम् । ते। अर्चिः ।
याः। ते। शिवाः । तन्व: । जातऽवेदः । ताभिः। वह । एनम् । सुऽकृताम् । ऊं इति । लोकम् ॥
हे अग्ने अयम् अजः तव भागः । अनुस्तरणीत्वेन अजस्य हन्यमानत्वाद् एवम उच्यते । तं तपसा तापकेन तव तेजसा तपस्व संतापय । तम् एव अजं भागं ते तव शोचिः दीप्तिः तपतु संतापयतु । तम् एव अजं ते अर्चिः ज्वालालक्षणं तेजः तपतु । एवम अजस्य तापादिविषयताम अभिधाय अथ प्रेतस्य अभिमत लोकप्राप्तिम् आशास्ते - उ अपि च हे जातवेदः प्राप्तपशुलक्षणधन त्वं ते याः शिवाः सुखकराः तन्वः सन्ति । 'ये ते अग्ने शिवे तनुवौ' (तैब्रा १,१,७,२ ) इत्यध्वर्युमन्त्रोक्ता विराट्स्वराडाद्याः शिवास्तन्वः सन्ति ताभिः तनूभिः शरीरसुखकरीभिः एनं प्रेतं सुकृताम् पुण्यकृतां लोकम् स्थानं वह प्रापय।


यास्ते॑ शो॒चयो॒ रंह॑यो जातवेदो॒ याभि॑रापृ॒णासि॒ दिव॑म॒न्तरि॑क्षम्।
अ॒जं यन्त॒मनु॒ ताः समृ॑ण्वता॒मथेत॑राभिः शि॒वत॑माभिः शृ॒तं कृ॑धि ।।९।।
याः । ते । शोचयः । रंहयः । जातऽवेदः । याभिः । आऽपृणासि । दिवम् । अन्तरिक्षम् ।
अजम् । यन्तम् । अनु । ताः । सम् । ऋण्वताम् । अथ । इतराभिः। शिवऽतमाभिः । शतम् । कृधि ।
हे जातवेदः ते याः शोचयः । शोचयन्तीति शोचयः । तादृशो याः सन्ति । तथा या रंहयः वेगवत्यः । रहि गतौ । औणादिक इप्रत्ययः । तन्वः सन्ति । किं च याभिः तनूभिर्ज्वालारूपाभिः दिवम् अन्तरिक्षं च आप्रीणासि पूरयसि तर्पयसि वा ताः तव तन्वो यन्तं गच्छन्तम् अजम् अनुस्तरणीलक्षणं समृण्वताम् संगच्छन्ताम् । अथ । अथेत्ययं प्रकारान्तरद्योतनार्थः । इतराभिः तनूभिः शिवतराभिः अत्यन्तसुखकराभिः अमुं प्रेतं शृतम् पक्वं हविर्योग्यं कृधि कुरु।


अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धावा॑न्।
आयु॒र्वसा॑न॒ उप॑ यातु॒ शेषः॒ सं ग॑छतां त॒न्वा॑ सु॒वर्चाः॑ ।।१०।। {७}
अव । सृज । पुनः । अग्ने । पितृऽभ्यः । यः । ते । आऽहुतः । चरति । स्वधाऽवान् ।
आयुः । वसानः । उप । यातु । शेषः । सम् । गच्छताम् । तन्वा । सुऽवर्चाः ॥ १० ॥
हे अग्ने त्वम् एनं प्रेतं तव हविष्ट्वेन कल्पितं पितृभ्यः पुनरव सृज अत्यन्तं त्यज प्रयच्छ । पितृलोकस्थानायेत्यर्थः । यः प्रेतपुरुषः ते त्वयि आहुतः आहुतित्वेन दत्तः स्वधावान् अस्माभिर्दत्ताभिः स्वधाभिस्तद्वान् सन् चरति गच्छति । किं च शेषः । अपत्यनामैतत् । ‘शेष इत्यपत्यनाम। शिष्यते प्रयतः' (नि ३,२) इति निरुक्तम् । आयुर्वसानः 'आयुष्मान् सन् उप यातु स्वगृहं प्रति गच्छतु । स च प्रेतः सुवर्चाः शोभनेन वर्चसा युक्तः सन् तन्वा पितृलोकावस्थानोचितेन शरीरेण सं गच्छताम् युक्तो भवतु । यद्वा चतुर्थपादोपि अपत्यविषयतया योजनीयः । तत्पक्षेपि स च शेषः सुवर्चाः सन् तन्वा स्वीयेन शरीरेण सं गच्छताम् । अनेन पितृमृतिदुःखात् पुत्रस्य शरीरत्यागाभावो वर्चस्वित्वं च प्रार्थितं भवति ।

इत्यष्टादशे काण्डे द्वितीयेऽनुवाके प्रथमं सूक्तम् ।


पितृमेधे 'अति द्रव' इति अष्टानाम् ऋचां दह्यमानप्रेतशरीरोपस्थाने विनियोग उक्तः।
तथा एताभिरष्टभिर्दहनदेशं नीयमानं प्रेतशरीरम् अनुमन्त्रयेत ।
संचयनकर्मणि एताभिरष्टभिः हरिणीसंज्ञिकाभिर्ऋग्भिः अस्थिपूर्णं कलशं निखननप्रदेशं प्रति हरेयुः।
तत्र 'अति द्रव' इति तिसृभिः प्रेतहस्तयोर्दीयमानं गोपशुवृक्कद्वयम् अनुमन्त्रयेत । 'स्योनास्मै भव' इति तिसृभिर्मुमूर्षुं यजमानम् अग्निहोत्रशालायाम् आस्तीर्णेषु दर्भेषु स्थापयेत् ।
तथा एताभिस्तिसृभिर्ऋग्भिः अग्नेरुत्तरपार्श्वे प्रेतस्य शरीरं शकटाद् अवतारयेत् । इदं कर्म दहनस्थाने कर्तव्यम् ।
तथा अस्थिपूर्णकलशस्य भूमौ निखननपक्षे 'स्योनास्मै भव' (१९) इत्यृचा कलशम् अभिमन्त्र्य निखनेत् ।

अति॑ द्रव॒ श्वानौ॑ सारमे॒यौ च॑तुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था।
अधा॑ पि॒तॄन्त्सु॑वि॒दत्राँ॒ अपी॑हि य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति ।।११।।
अति । द्रव । श्वानौ । सारमेयौ । चतुःऽअक्षौ । शबलौ । साधुना । पथा ।
अध । पितॄन् । सुऽविदत्रान् । अपि । इहि । यमेन । ये । सधऽमादम् । मदन्ति ॥ ११ ॥
प्रेतः संबोध्यते । हे पितृलोकं गच्छन् प्रेत सारमेयौ सरमा नाम देवशुनी तस्याः पुत्रौ । 'स्त्रीभ्यो ढक्' (पा ४,१,१२० ) । चतुरक्षौ चत्वारि अक्षीणि ययोः । एकैकस्य चतुरक्षत्वम् । बहुव्रीहौ सक्थ्यक्ष्णोः ( पा ५,४,११३ ) इति षच् समासान्तः । शबलौ शबलवर्णौ । यद्वा नामधेयम् एतत् । श्यामशबलसंज्ञकौ। शबलाविति द्विवचनेन श्यामोपि विवक्ष्यते । स्मर्यते हि
श्वानौ द्वौ श्यामशबलौ वैवस्वतकुलोद्भवौ ।
ताभ्यां बलिं प्रदास्यामि स्यातां मे तावहिंसकौ ॥' (तु. आह्निकसूत्रावलि, वैश्वदेवप्रयोग) इति ।
तौ श्वानौ साधुना समीचीनेन ऋजुना पथा मार्गेण अति द्रव अतीत्य गच्छ । अध अथ अनन्तरं सुविदत्रान् । विदत्रशब्दो धनवाची । सुधनान् शोभनहवीरूपान्नान् । यद्वा । वेत्तेः कत्रन् प्रत्ययः । ज्ञानवाची विदत्रशब्दः। संज्ञानान् पितॄन् अपेहि । अपशब्दः उपोपसर्गस्यार्थे । उपेहि । उपगच्छेत्यर्थः । यद्वा अपशब्दो वर्जनार्थः । अपवृज्य मार्गे आसीनौ श्वानौ वर्जयित्वा पितॄन् इहि गच्छ । एतेर्लोटि रूपम् । ये पूर्वजाः पितरो यमेन पितृराजेन सधमादम् सह मादनं तृप्तिर्यस्मिन् कर्मणि तत् सधमादं सह तृप्तिर्हर्षो वा यथा भवति तथा मदन्ति माद्यन्ति तान् इहीति संबन्धः । 'सध मादस्थयोश्छन्दसि' (पा ६,३,९६ ) इति सहस्य सधादेशः । मादयतेरेरजन्तो माद इति माद्यतेर्वा व्यत्ययेन घञ्।


यौ ते॒ श्वानौ॑ यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒षदी॑ नृ॒चक्ष॑सा।
ताभ्यां॑ राज॒न्परि॑ धेह्येनं स्व॒स्त्य॑स्मा अनमी॒वं च॑ धेहि ।।१२।।
यौ । ते । श्वानौ । यम । रक्षितारौ । चतुःऽअक्षौ । पथिसदी इति पथिऽसदी । नृऽचक्षसा।
ताभ्याम् । राजन् । परि । धेहि । एनम् । स्व॒स्ति । अस्मै । अनमीवम् । च । धेहि ॥ १२ ॥
यमरक्षितारौ यमो रक्षिता गोपायिता ययोः । 'ऋतश्छन्दसि' (पा ५,४,१५८ ) इति कबभावः । 'अन्तोदात्तप्रकरणे त्रिचक्रादीनाम् उपसंख्यानम्' ( पावा ६,२,१९९) इति अन्तोदात्तत्वम् । यद्वा यमशब्देन तत्स्वामिकं पुरम् उच्यते । यमपुरस्य पालयितारौ। कृदुत्तरपदप्रकृतिस्वरत्वेन अन्तोदात्तत्वम् । चतुरक्षौ व्याख्यातम् । पथिसदी पितृभिर्गन्तव्ये मार्गे सीदन्तौ । 'छन्दसि वनसनरक्षिमथाम्' (पा ३,२,२७ ) इति विहित इन्प्रत्ययः सदेरपि व्यत्ययेन भवति । नृचक्षसा नृचक्षसौ नृणां गन्तॄणां द्रष्टारौ हे राजन् पितॄणां स्वामिन् ते त्वदीयौ यौ श्वानौ वर्तेते ताभ्यां श्वभ्याम् एनम् अन्वादिष्टं प्रेतं परि धेहि । परिदेहीत्यर्थः। रक्षणार्थं दानं परिदानम् इत्युच्यते । किं च अस्मै त्वदीयं लोकं गच्छते स्वस्ति । स्वस्तीत्यविनाशिनाम । अविनाशम् अनमीवम् अमीवो रोगः बाधा तद्रहितं स्थानं च धेहि विधेहि ।


उ॑रूण॒साव॑सु॒तृपा॑वुदुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒ अनु॑।
ताव॒स्मभ्यं॑ दृ॒शये॒ सूर्या॑य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रम् ।।१३।।
उरुऽनसौ । असुऽतृपौ । उदुम्बलौ । यमस्य । दूतौ । चरतः । जनान् । अनु ।
तौ । अस्मभ्यम् । दृशये । सूर्याय । पुनः । दाताम् । असुम् । अद्य । इह । भद्रम् ॥ १३ ॥
उरुणसा' उरुणसौ विस्तीर्णनासिकौ । नासिकाशब्दस्य नस्भावः। सुप आकारः। असुतृपौ प्राणिनाम् असुभिः प्राणैस्तृप्यन्तौ । प्राणापहारकौ उदुम्बलौ । विस्तीर्णबलावित्यर्थः । पूर्वपदे वर्णोपजनश्छान्दसः । यमस्य दूतौ प्रेष्यौ जनान् जननवतः उत्पत्तिमतः प्राणिनः अनु अनुलक्ष्य चरतः तेषां प्राणान् अपहर्तुं सर्वत्र संचरतः । तौ दूतौ सूर्याय । 'क्रियाग्रहणं कर्तव्यम्' (पावा १,४,३२) इति कर्मणः संप्रदानत्वाच्चतुर्थी । दृशये दर्शनाय । 'इगुपधात् कित्' (पाउ ४,१२० ) इति औणादिक इप्रत्ययः । कित्त्वात् लघूपधगुणाभावः । सूर्यं द्रष्टुम् अद्य इदानीम् इह अस्मच्छरीरे भद्रम् भन्दनीयम् असुम् पञ्चवृत्तिकं प्राणम् अस्मभ्यं पुनर्दाताम् पुनः प्रयच्छताम् । ददातेश्छान्दसे लुङि गातिस्था (पा २,४,७७) इति सिचो लुक् । बाहुलकाद् अमाङ्योगेपि अडभावः ।


सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते।
येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ तांश्चि॑दे॒वापि॑ गछतात् ।।१४।।
सोमः । एकेभ्यः । पवते । घृतम् । एके । उप । आसते ।
येभ्यः । मधु । प्रऽधावति । तान् । चित् । एव । अपि । गच्छतात् ॥ १४ ॥
इदमादिभिः पञ्चभिर्ऋग्भिः म्रियमाणानां यजमानानां वर्तनम् अत्र प्रतिपाद्यते । एकेभ्यः केभ्यश्चित् पितृभ्यः सोमः पवते उपभोगाय कुल्यारूपेण प्रवहति येषां गोत्रजाः सामानि ब्रह्मयज्ञसमयेऽधीयते । श्रूयते हि- 'यत् सामानि सोम एभ्यः पवते' (तैआ २,१०,१) इति । एके अन्ये पितरः घृतम् आज्यम् उपासते उपगच्छन्ति । उपभुञ्जत इत्यर्थः । येषां पुत्रादयो यजूंषि ब्रह्मयज्ञकालेऽधीयते । श्रुतिश्च भवति- 'यद् यजूंषि घृतस्य कूल्याः' (तैआ २,१०,१) इति । येभ्यः पितृभ्यः । तादर्थ्ये चतुर्थी । उपभोगाय मधु क्षौद्रं प्रधावति प्रवाहरूपेण शीघ्रं गच्छति । ये आथर्वणान् मन्त्रान् ब्रह्मयज्ञार्थम् अधीयते तेषां पितॄन् प्रति मधु मधुकुल्या प्रवहति । तथा चाम्नायते- 'यद् अथर्वाङ्गिरसो' मधोः कूल्याः' (तैआ २,२०,१) इति । तांश्चिदेव पूर्वोक्तान् सर्वान् एव हे म्रियमाण प्रेत वा अपि गच्छतात् अपिगच्छ प्राप्नुहि । 'तुह्योः' ( पा ७,१,३५) इति हेस्तातङ् आदेशः।


ये चि॒त्पूर्व॑ ऋ॒तसा॑ता ऋ॒तजा॑ता ऋता॒वृधः॑।
ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गछतात् ।।१५।।
ये । चित् । पूर्व । ऋतऽसाताः । ऋतऽजाताः । ऋतऽवृधः ।
ऋषीन् । तपस्वतः । यम । तपःऽजान् । अपि । गच्छतात् ॥ १५ ॥
ये चित् ये च पूर्वे पूर्वपुरुषा ऋतसाताः ऋतम् सत्यं यज्ञो वा तेन दत्ताः संभक्ता वा। सनोतेर्निष्ठायां 'जनसनखनां सञ्झलोः' (पा ६,४,४२ ) इति आत्त्वम् । अत एव ऋतजाताः ऋतेन सत्येन जाता उत्पन्नाः ऋतावृधः 'ऋतस्य वर्धकाश्च' भवन्ति । तपस्वतः तपसा युक्तान् तपोजान् तपसः सकाशादेव उत्पन्नान् ऋषीन् अतीन्द्रियार्थदर्शिनस्तान् हे यम यमवत् नियत यद्वा यमेन पितृराजेन नीयमान हे प्रेत त्वम् अपि गच्छतात् अपिगच्छ प्राप्नुहि ।


तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व॑र्य॒युः।
तपो॒ ये च॑क्रि॒रे मह॒स्तांश्चि॑दे॒वापि॑ गछतात् ।।१६।।
तपसा । ये । अनाधृष्याः । तपसा । ये । स्वः । ययुः ।
तपः । ये । चक्रिरे । महः । तान् । चित् । एव । अपि । गच्छतात् ॥ १६ ॥
ये जनाः तपसा कृच्छ्रचान्द्रायणादिना युक्ताः सन्तः अनाधृष्याः पापैरप्रधृष्या भवन्ति । ये च तपसा यागादिरूपेण साधनेन स्वः स्वर्गं ययुः यान्ति प्राप्नुवन्ति । ये च महः महत् तपः अन्यैर्दुष्करं राजसूयाश्वमेधादिकं हिरण्यगर्भाद्युपासनं वा चक्रिरे कुर्वन्ति । एते येषु लोकेषु वर्तन्ते तेषु लोकेषु तांश्चिदेव तानेव तपस्विनः हे प्रेत अपि गच्छतात् अपिगच्छ ।


ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये स्व॑र्तनू॒त्यजः॑।
ये वा॑ स॒हस्र॑दक्षिणा॒स्तां चि॑दे॒वापि॑ गछतात् ।।१७।।
ये। युध्यन्ते । प्रऽधनेषु । शूरासः । ये । तनूऽत्यजः ।
ये । वा । सहस्रऽदक्षिणाः । तान् । चित् । ए॒व । अपि । गच्छतात् ॥ १७ ॥
प्रधनेषु । प्रकीर्णानि अस्मिन् धनानि भवन्तीति प्रधनाः संग्रामाः । तेषु शूरासः शौर्यवन्तो ये युध्यन्ते शत्रून् संप्रहरन्ते । ये च तनूत्यजः तत्र ये शरीराणि त्यक्तारो भवन्ति । ये वा ये च सहस्रदक्षिणाः सहस्रदक्षिणान् क्रतून् अनुष्ठितवन्तः तान् सर्वान् एव हे प्रेत त्वम् इतो गच्छ । ते येषु उत्तमेषु लोकेषु निवसन्ति तं लोकं प्राप्नुहीत्यर्थः।


स॒हस्र॑णीथाः क॒वयो॒ ये गो॑पा॒यन्ति॒ सूर्य॑म्।
ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गछतात् ।।१८।।
सहस्रऽनीथाः । कवयः । ये । गोपायन्ति । सूर्यम् ।
ऋषीन् । तपस्वतः । यम । तपःऽजान् । अपि । गच्छतात् ॥ १८ ॥
सहस्रणीथाः सहस्रनयनाः कवयः क्रान्तदर्शिनो ये सूर्यम् आदित्यं गोपायन्ति रक्षन्ति तपस्वतः तपसा युक्तान् तपोजान् तपसः सकाशादेव उत्पन्नान् तान् ऋषीन् हे यम नियत शकटे बद्ध वा यमेन नीयमान वा हे प्रेत त्वम् अपि गच्छतात् अपिगच्छ ।


स्यो॒नास्मै॑ भव पृथिव्यनृक्ष॒रा नि॒वेश॑नी।
यछा॑स्मै॒ शर्म॑ स॒प्रथाः॑ ।।१९।।
स्योना । अस्मै । भव । पृथिवि । अनृक्षरा । निऽवेशनी ।
यच्छ । अस्मै । शर्म । सऽप्रथाः ॥ १९ ॥
हे पृथिवि प्रथिते भूमे वेदिरूपे त्वम् अनृक्षरा अनाधिका निवेशनी निविशन्ति अत्रेति निवेशनी शयनार्हा सती अस्मै मुमूर्षवे जनाय अस्थिरूपप्रेताय वा स्योना सुखकरी भव । किं च अस्मै पूर्वोक्ताय सप्रथाः प्रथः प्रख्यानं विस्तीर्णता तत्सहिता त्वं शर्म सुखं यच्छ देहि । दाण् दाने । 'पाघ्रा' (पा ७,३,७८ ) इत्यादिना यच्छादेशः।


अ॑संबा॒धे पृ॑थि॒व्या उ॒रौ लो॒के नि धी॑यस्व।
स्व॒धा याश्च॑कृ॒षे जीव॒न्तास्ते॑ सन्तु मधु॒श्चुतः॑ ।।२०।। {८}
असम्ऽबाधे । पृथिव्याः । उरौ । लोके । नि । धीयस्व ।
स्वधाः । याः । चकृषे । जीवन् । ताः । ते । सन्तु । मधुऽश्चुतः ॥ २० ॥
हे मुमूर्षो प्रेत वा असंबाधे । संबाधः संमर्दः । तदहिते उरौ विस्तीर्णे पृथिव्याः अग्निहोत्रवेदिलक्षणाया लोके लोक्यमाने स्थाने नि धीयस्त्र निधापितो भव । दधातेः कर्मणि यक् । पूर्वं त्वं जीवन् जीवनवान् याः स्वधाः स्वम् आत्मानं दधाति पुष्णाति धिनोतीति स्वधा अन्नं दैवानि हवींषि स्वधाकारेण दत्तानि पित्र्याणि हवींषि च चकृष कृतवान् असि । करोतेर्लिटि क्रादिनियमाद् इडभावः । ताः स्वधाः ते तव मधुश्च्युतः मधुप्रवाहक्षारयित्र्यः सन्तु भवन्तु । उपलक्षणम् एतत् । मधुररसघृतसोमादिप्रवाहरूपा भवन्तु ।
इति द्वितीयेनुवाके द्वितीयं सूक्तम् ।


'ह्वयामि' (२१) इति आद्यायाः ‘स्योनास्मै भव' (१९) इत्यनया सह उक्तो विनियोगः।
'उत् त्वा वहन्तु' (२२) इत्यनया चितेर्दक्षिणपार्श्वे अजं पशु बध्नाति । यथा दह्यते तथा बध्नीयात् ।।
आहिताग्नेः संस्कारार्थं विहितेषु त्रिष्वग्निषु 'अपेमम्' (२७) इत्यृचा आज्यं जुहुयात् ।
पिण्डपितृयज्ञे बर्हिषि उदपात्रनिनयनानन्तरं 'ये दस्यवः' (२८) इत्यृचा उभयत आदीप्तम् उल्मुकं निरस्येत् । सूत्रितं हि- " यज्ञोपवीती 'ये दस्यवः' इत्युभयत आदीप्तम् उल्मुकं त्रिः प्रसव्यं परिहृत्य निरस्यति' ( कौसू ८७,३०) इति ।
पिण्डपितृयज्ञ एव 'सं विशन्तु” (२९) इत्यनया आस्तीर्णे बर्हिषि तिलान् प्रकिरेत् ।

ह्वया॑मि ते॒ मन॑सा॒ मन॑ इ॒हेमान्गृ॒हामुप॑ जुजुषा॒ण एहि॑।
सं ग॑छस्व पि॒तृभिः॒ सं य॒मेन॑ स्यो॒नास्त्वा॒ वाता॒ उप॑ वान्तु श॒ग्माः ।।२१।।
ह्वयामि । ते । मनसा । मनः । इह । इमान् । गृहान् । उप । जुजुषाणः । आ । इहि ।
सम् । गच्छस्व । पितृऽभिः । सम् । यमेन । स्योनाः । त्वा । वाताः । उप । वान्तु । शग्माः ॥
हे प्रेतपुरुष ते तव संबन्धि मनः अन्तःकरणम् अस्मदीयेन मनसा इह अस्मिन् लोके ह्वयामि आह्वयामि । इमान् अस्मदीयान् गृहान् येषु त्वाम् उद्दिश्य और्ध्वदेहिकं कर्म क्रियते तान् जुजुषाणः सेवमानः प्रीयमाणो वा। जुषी प्रीतिसेवनयोः। व्यत्ययेन श्लुः। उपेहि उपागच्छ । उपेत्य च संस्कारोत्तरकालं पितृभिः पितृपितामहप्रपितामहैः सं गच्छस्व सापिण्ड्यकरणेन संगतो भव । 'समो गम्यृच्छि” (पा १,३,२९ ) इति आत्मनेपदम् । यमेन तद्राजेन' च सं संगतो भव । स्योनाः । षिवु तन्तुसंताने । अस्माद् औणादिको नप्रत्ययः ( पाउ ३,९ )। 'च्छ्वोः शूडनुनासिके च' (पा ६, ४,१९) इति वकारस्य ऊडादेशः । पितृलोकगमनसमये तव अध्वजन्यश्रमम् अपनेतुं संतताः नैरन्तर्येण वर्तमानाः शग्माः सुखकराः शैत्यमान्द्यसौरभ्ययुक्ता वाताः वायवः त्वा त्वाम् उप वान्तु उपगच्छन्तु । वा गतिगन्धनयोः । अदादित्वात् शपो लुक् ।


उत्त्वा॑ वहन्तु म॒रुत॑ उदवा॒हा उ॑द॒प्रुतः॑।
अ॒जेन॑ कृ॒ण्वन्तः॑ शी॒तं व॒र्षेणो॑क्षन्तु॒ बालिति॑ ।।२२।।
उत् । त्वा । वहन्तु । मरुतः । उदऽवाहाः । उदऽप्रुतः ।
अजेन । कृण्वन्तः । शीतम् । वर्षेण । उक्षन्तु । बाल् । इति ॥ २२ ॥
हे प्रेत मरुतः मरुत्संज्ञका देवाः त्वा त्वाम् उद्वहन्तु ऊर्ध्वम् आकाशे वहन्तु धारयन्तु । यद्वा उदवाहसमभिव्याहारात् मरुच्छब्देन वायव उच्यन्ते । वायवस्त्वाम् उपरिलोकं प्रापयन्तु इत्यर्थः । अपि च उदवाहाः उदकं वहन्ति धारयन्तीति उदवाहा मेघाः । 'पेषंवासवाह' (पा ६,३,५८) इति उदकशब्दस्य उदभावः । अत एव उदप्लुतः उदकैर्भूमिं प्लावयन्तः आर्द्रीकुर्वन्तः । शीतम् शैत्यगुणं कृण्वन्तः कुर्वन्तः एवंगुणविशिष्टा मेघाः समीपबद्धेन अजेन सहितं त्वां वर्षेण वर्षजलेन उक्षन्तु सिञ्चन्तु । इतिशब्दः बाल् इत्यस्य अनुकरणशब्दतां द्योतयति । उक्षणसमये बाल् इत्येवमात्मकः शब्दो यथा जायेत तथा उक्षन्तु इत्यर्थः । उक्ष सेचने ।


उद॑ह्व॒मायु॒रायु॑षे॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑।
स्वान्ग॑छतु ते॒ मनो॒ अधा॑ पि॒तॄँरुप॑ द्रव ।।२३।।
उत् । अहम् । आयुः । आयुषे । क्रत्वे । दक्षाय । जीवसे ।
स्वान् । गच्छतु । ते । मनः । अध। पितॄन् । उप । द्रव ॥ २३ ॥
हे प्रेत ते त्वदीयम् आयुः उदह्वम् उच्चैःस्वरेण आह्वयामि । 'छन्दसि लुङ्लङ्लिटः' (पा ३,४,६ ) इति लुङ् । 'लिपिसिचिह्वश्च' (पा ३,१,५३) इति च्लेः अङ् आदेशः । किमर्थम् । आयुषे जीवनाय क्रत्वे क्रतवे यज्ञादिकर्मणे दक्षाय बलाय । यद्वा 'प्राणो वै दक्षः । अपानः क्रतुः' (तै २,५,२,४ ) इति श्रुतेर्दक्षक्रतुशब्दाभ्यां प्राणापानावभिधीयेते । क्रत्वे अपाननव्यापाराय दक्षाय प्राणनव्यापाराय । प्राणवायोर्नासारन्ध्राद् बहिर्नि:सरणं प्राणनम् । अन्तराकर्षणम् अपाननम् । जीवसे जीवनाय प्राणधारणाय । सर्वत्र तादर्थ्ये चतुर्थी । एतत् सर्वम् आयुषि सत्येव भवतीति तदाह्वानं क्रियत इत्यर्थः । ते त्वदीयं मनः स्वाम् स्वकीयां तनुं संस्कारजन्यम् अभिनवशरीरं गच्छतु । अध अथ शरीरप्राप्त्यनन्तरं पितॄन वस्वादिरूपान् उप द्रव उपलक्ष्य गच्छ । द्रु गतौ।


मा ते॒ मनो॒ मासो॒र्माङ्गा॑नां॒ मा रस॑स्य ते।
मा ते॑ हास्त त॒न्व॑१ः॒ किं च॒नेह ।।२४।।
मा । ते । मनः । मा । असोः । मा । अङ्गानाम् । मा । रसस्य । ते ।
मा । ते । हास्त । तन्वः । किम् । चन । इह ॥ २४ ॥
हे प्रेतपुरुष ते तव मनः मानसम् इन्द्रियं मा हास्त त्वां मा परित्याक्षीत् । ओहाक् त्यागे। व्यत्ययेन आत्मनेपदम् । यद्वा । ओहाङ् गतावित्यस्य रूपम् । मा गच्छतु त्वां विहाय इह मा तिष्ठतु । तथा असोः त्वदीयस्य प्राणस्य किं चन किमपि रूपं मा हास्त । अङ्गानाम् अवयवानां हस्तपादादीनां किमपि मा हास्त । तथा ते तव देहसंबन्धिनो रसस्य रुधिरादेः किमपि मा हास्त । इह अस्मिन् लोके ते तव तन्वः शरीरस्य किं चन किमप्यङ्गं मा हास्त । लोकान्तरे मनःप्राणादिसर्वाङ्गसहितशरीरयुक्तो भवेत्यर्थः।


मा त्वा॑ वृ॒क्षः सं बा॑धिष्ट॒ मा दे॒वी पृ॑थि॒वी म॒ही।
लो॒कं पि॒तृषु॑ वि॒त्त्वैध॑स्व य॒मरा॑जसु ।।२५।।
मा। त्वा । वृक्षः । सम् । बाधिष्ट । मा । देवी । पृथिवी । मही।
लोकम् । पितृषु | वित्त्वा । एधस्व । यमराजऽसु ॥ २५ ॥
हे प्रेत त्वा त्वां वृक्षः त्वदाश्रयभूतो मा सं बाधिष्ट संबाधं हिंसनं मा कार्षीत् । बाधृ विलोडने । 'माङि लुङ्' ( पा ३,३,१७५ )। तथा देवी द्योतमाना दानादिगुणयुक्ता वा मही महती पृथिवी त्वदाश्रयभूता भूमिस्त्वां मा सं बाधिष्ट । त्वं च यमराजसु यमो राजा ईश्वरो येषां ते यमराजानः तथाविधेषु पितृषु पितृदेवतासु लोकम् स्थानं वित्त्वा लब्ध्वा एधस्व वर्धस्व । विद्लृ लाभे । 'समानकर्तृकयोः पूर्वकाले' (पा ३,४,२१) इति क्त्वाप्रत्ययः । 'एकाच उपदेशे” (पा ७,२,१० ) इति इट्प्रतिषेधः।


यत्ते॒ अङ्ग॒मति॑हितं परा॒चैर॑पा॒नः प्रा॒णो य उ॑ वा ते॒ परे॑तः।
तत्ते॑ सं॒गत्य॑ पि॒तरः॒ सनी॑डा घा॒साद्घा॒सं पुन॒रा वे॑शयन्तु ।।२६।।
यत् । ते । अङ्गम् । अतिऽहितम् । पराचैः । अपानः ।प्राणः । यः । ऊं इति । वा । ते । पराऽइतः ।
तत्। ते। सम्ऽगत्य । पितरः । सऽनीडाः। घासात् । घासम् । पुनः। आ। वेशयन्तु ।
हे प्रेत ते तव यद् अङ्गम् शरीरं पराचैः पराङ्मुखम् अतिहितम् अतीत्य स्थितम् । अतिक्रम्य गतम् इत्यर्थः । तस्मिन् शरीरे वर्तमानः अपानः अपानवायुः प्राणः प्राणवायुः । उशब्दः अप्यर्थे । अपि वा ये च अन्ये चक्षुःश्रोत्रादिरूपाः सप्त शीर्षण्याः प्राणाः ते त्वदीयाः परेताः परागताः । अपुनरावृत्तये शरीरान्निर्गता इत्यर्थः। ते त्वदीयं तत् सर्वं सनीलाः समाननिलयाः पितरः पितृदेवताः संगत्य संघीभूय । संपूर्वाद् गमेः क्त्वो ल्यप् । 'अनुदात्तोपदेश' (पा ६,४,३७ ) इत्यादिना अनुनासिकलोपे 'ह्रस्वस्य पिति” (पा ६,१,७१) इति तुक् । घासात् । अद्यते भुज्यते अस्मिन्निति घासः भोगायतनं शरीरम् । अद भक्षणे। अधिकरणे घञ् । 'घञपोश्च' (पा २,४,३८) इति घस्लादेशः । घासात् भोजनाधिकरणाच्छरीराद् घासम् भोजनाधिकरणम् अन्यच्छरीरं पुनरावेशयन्तु अभिप्रापयन्तु।


अपे॒मं जी॒वा अ॑रुधन्गृ॒हेभ्य॒स्तं निर्व॑हत॒ परि॒ ग्रामा॑दि॒तः।
मृ॒त्युर्य॒मस्या॑सीद्दू॒तः प्रचे॑ता॒ असू॑न्पि॒तृभ्यो॑ गम॒यां च॑कार ।।२७।।
अप । इमम् । जीवाः । अरुधन् । गृहेभ्यः । तम् । निः। वहत । परि। ग्रामात् । इतः । .
मृत्युः। यमस्य । आसीत् । दूतः । प्रऽचेताः । असून् । पितृऽभ्यः । गमयाम् । चकार ॥२७॥
जीवाः जीवन्तः प्राणधारिणो बान्धवा इमं प्रेतं गृहेभ्यः सकाशाद् अपारुधन्। प्रेतशरीरम् अपगमयन्तु इत्यर्थः । रुधिर् आवरणे । 'इरितो वा' (पा ३,१,५७) इति च्लेः अङ् आदेशः । तं प्रेतदेहम् इतः अस्माद् ग्रामात् परि । परिः पञ्चम्यर्थानुवादी। यद्वा परिहरणार्थः । हे बान्धवाः तं मृतदेहं परिहृत्य निर्वहत ग्रामाद् निर्गमयत । कुत इत्यत आह- मृत्युः मारकः पुरुषो यमस्य राज्ञो दूतः कर्मकर आसीत् अभवत् । प्रचेताः प्रकृष्टज्ञानः सः म्रियमाणस्य पुरुषस्य असून् प्राणान् पितृभ्यः पितॄन् अनुप्रवेशयितुम् । 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' (पा २,३,१४ ) इति चतुर्थी । गमयांचकार प्रापयामास । गमेर्ण्यन्तात् 'कास्प्रत्ययाद्' (पा ३,१,३५) इति आम्प्रत्ययः । कृञोऽनुप्रयोगश्च ।


ये दस्य॑वः पि॒तृषु॒ प्रवि॑ष्टा ज्ञा॒तिमु॑खा अहु॒ताद॒श्चर॑न्ति।
प॑रा॒पुरो॑ नि॒पुरो॒ ये भर॑न्त्य॒ग्निष्टान॒स्मात्प्र ध॑माति य॒ज्ञात् ।।२८।।
ये। दस्यवः । पितृषु । प्रऽविष्टाः । ज्ञातिऽमुखाः । अहुतऽअदः । चरन्ति ।
पराऽपुरः । निऽपुरः। ये । भरन्ति । अग्निः । तान् । अस्मात् । प्र । धमाति । यज्ञात् ॥२८॥
ये दस्यवः उपक्षयकारिणो राक्षसा ज्ञातिमुखाः ज्ञातीनां मुखमिव मुखं येषां ते तथोक्ताः । ज्ञातिप्रतिरूपा इत्यर्थः । अत एव पितृषु पितृपितामहप्रपितामहेषु मध्ये प्रविष्टाः अहुतादः अहुतं लौकिकम् अन्नम् अदन्ति भक्षयन्तीति अहुतादः । यद्वा अहुतावस्थमेव हविर्मायया अदन्तीति अहुतादः । चरन्ति पितृषु मध्ये वर्तन्ते । परापुरः परापृणन्ति पिण्डान् ददतीति परापुरः पिण्डदातारः पुत्राः । निपुरः निपृणन्ति नियमेन पिण्डदानादिकं कुर्वन्तीति निपुरः पौत्राः । पॄ पालनपूरणयोः । इत्यस्माद् उभयत्र कर्तरि क्विप् । 'उदोष्य्ौपूर्वस्य' (पा ७,१,१०२) इति उत्त्वम् । ये च राक्षसाः पिण्डोदकदानादिना पालयितॄन् पुत्रपौत्रादीन् भरन्ति हरन्ति । नाशयन्तीत्यर्थः । तान् मायाविनो राक्षसान् अग्निः अस्माद् यज्ञात् पितॄन् उद्दिश्य क्रियमाणात् प्र धमाति प्रधमतु प्रकर्षेण निर्गमयतु । ध्मा शब्दाग्निसंयोगयोः । अस्मात् लेटि आडागमः । 'पाघ्रा' (पा ७,३,७८) इत्यादिना धमादेशः।


सं वि॑शन्त्वि॒ह पि॒तरः॒ स्वा नः॑ स्यो॒नं कृ॒ण्वन्त॑ह्प्रति॒रन्त॒ आयुः॑।
तेभ्यः॑ शकेम ह॒विषा॒ नक्ष॑माणा॒ ज्योग्जीव॑न्तः श॒रदः॑ पुरू॒चीः ।।२९।।
सम् । विशन्तु । इह । पितरः । स्वाः । नः । स्योनम् । कृण्वन्तः । प्रऽतिरन्तः । आयुः ।
तेभ्यः । शकेम । हविषा । नक्षमाणाः । ज्योक् । जीवन्तः । शरदः । पुरूचीः ॥ २९॥
इह अस्मिन् यज्ञे नः अस्माकं स्वाः ज्ञातयो गोत्रजाः पितरः पितृपितामहप्रपितामहाः सं विशन्तु सम्यग् उपविशन्तु । उपविष्टास्ते स्योनम् सुखम् अस्माकं कृण्वन्तः कुर्वन्तः आयुः जीवनं प्रतिरन्ते । प्रपूर्वस्तरतिर्वर्धनार्थः । प्रवर्धयन्तु । चिरकालम् अस्मान् जीवयन्तु इत्यर्थः । दक्षमाणाः वर्धमाना वयं तेभ्यः पितृभ्यो हविषा चरुपुरोडाशादिलक्षणेन शकेम परिचरितुं शक्ता भूयास्म । शक्लृ शक्तौ इत्यस्माद् आशिषि लिङि 'लिङ्याशिष्यङ्' (पा ३,१,८६ ) इति अङ्प्रत्ययः । पुरूचीः पुरु बहुलम् अञ्चन्ति गच्छन्तीति पुरूच्यः । अञ्चतेः 'ऋत्विग्' (पा ३,२,५९ ) इत्यादिना क्विन् । 'अनिदिताम्' (पा ६,४,२४) इति नलोपः। 'अचः' (पा ६,४,१३८ ) इति अकारलोपे 'चौ' (पा ६,३,१३८ ) इति दीर्घः । 'अञ्चतेश्चोपसंख्यानम्' ( पावा ४,१,६ ) इति ङीप् । पुरूचीः बह्वीः शरदः संवत्सरान् । अत्यन्तसंयोगे द्वितीया । ज्योक् चिरकालं जीवन्तः पितृप्रसादाज्जीवितारो भवेम।


यां ते॑ धे॒नुं नि॑पृ॒णामि॒ यमु॑ क्षी॒र ओ॑द॒नम्।
तेना॒ जन॑स्यासो भ॒र्ता यो ऽत्रास॒दजी॑वनः ।।३०।। {९}
याम् । ते । धेनुम् । निऽपृणामि । यम् । ऊ इति । ते । क्षीरे । ओदनम् ।
तेन । जनस्य । असः । भर्ता । यः । अत्र । असत् । अजीवनः ॥ ३० ॥
हे प्रेत ते तुभ्यं यां धेनुम् दोग्ध्रीं गां निपृणामि प्रयच्छामि । निपूर्वः पृणातिः पित्र्ये दाने वर्तते । त्वाम् उद्दिश्य गां दत्तवान् अस्मीत्यर्थः । तथा क्षीरे पयसि पक्वं यम् उ यं च ओदनं ते तुभ्यं निपृणामि तेन धेनुसहितेन ओदनेन जनस्य जनिमतो लोकस्य भर्ता धारयिता पोषयिता वा असः भवेः । डुभृञ् धारणपोषणयोः । यो जनः अत्र अस्मिन् लोके अजीवनः जीवनरहितः असत् भवेत् । तस्य जनस्येति संबन्धः । यद्वा अस्मिन् लोके जीवनरहितः असत् । पुरुषव्यत्ययः । स त्वम् इति संबन्धः । अस इति । अस्तेर्लेटि अडागमः' । 'इतश्च लोपः परस्मैपदेषु' (पा ३,४,९७) इति इकारलोपः।
इति द्वितीयेऽनुवाके तृतीयं सूक्तम् ।


पितृमेधे 'अश्वावतीम्' ( ३१ ) इत्यृचा शवदाहानन्तरं स्नानं कृत्वा नदीं तरतोऽनुमन्त्रयेत । पिण्डपितृयज्ञ 'ये निखाताः' ( ३४ ) इति द्वाभ्यां द्वे समिधावादध्यात् । 'शं तप' ( ३६ ) इत्यृचा प्रेतशरीरे पुत्रेण दत्तम् अग्निं पुत्रो गोत्रिणो वा दीपयेयुः। 'ददामि' (३७) इत्यनया काम्पीलशाखया दहनस्थानं संप्रोक्षेत । 'इमां मात्रां मिमीमहे' (३९) इत्यादिभिः सप्तभिः श्मशानदेशं प्रतिदिशं मिमीते । दिष्टिवितस्त्यादिभिः प्रमाणैः सप्त दक्षिणतो मिमीते । सप्त उत्तरतः । पञ्च पुरस्तात् । पञ्च पश्चाद् इत्यादिक्रमेणेत्यर्थः ।

अश्वा॑वतीं॒ प्र त॑र॒ या सु॒शेवा॒ र्क्षाकं॑ वा प्रत॒रं नवी॑यः।
यस्त्वा॑ ज॒घान॒ वध्यः॒ सो अ॑स्तु॒ मा सो अ॒न्यद्वि॑दत भाग॒धेय॑म् ।।३१।।
अश्वऽवतीम् । प्र । तर । या । सुऽशेवा । ऋक्षाकम् । वा । प्रऽतरम् । नवीयः ।
यः । त्वा । जघान । वध्यः । सः । अस्तु । मा । सः । अन्यत् । विदत । भागऽधेयम् ॥३१॥
हे प्रेत अश्वावतीम् अश्वा अस्यां सन्तीति अश्वावती अश्वानाम् आकरभूता नदी । 'मन्त्रे सोमाश्वेन्द्रिय' ( पा ६,३,१३१ ) इति मतौ दीर्घः । संज्ञाशब्दोयम् । एतत्संज्ञां नदीं प्र तरय प्रकर्षण तारय उत्तारय । सा च नदी सुशेवा अस्मभ्यं सुसुखा भवतु । तथा ऋक्षाकं वा । वाशब्दश्चार्थे । ऋक्षाकम् ऋक्षैः भल्लूकैरुपेतं दुष्टमृगनिषेवितं नवीयः नवतरम् अदृष्टपूर्वम् अरण्यमपि प्रतरम् प्रकर्षेण तरामि । हे प्रेत त्वा त्वां यः पुरुषः जघान स वध्यः वधार्हः अस्तु भवतु । स घातकः पुरुषः अन्यद् भागधेयम् पूर्वम् उपभुक्ताद् अन्यद् उपभोग्यं वस्तु मा विदत मा लभताम् । निर्धनो भवत्वित्यर्थः । विद्लृ लाभे । अस्मात् माङि लुङि आत्मनेपदैकवचने लृदित्वात् च्लेः अङ् आदेशः।


य॒मः परो ऽव॑रो॒ विव॑स्वा॒न्ततः॒ परं॒ नाति॑ पश्यामि॒ किं च॒न।
य॒मे अ॑ध्व॒रो अधि॑ मे॒ निवि॑ष्टो॒ भुवो॒ विव॑स्वान॒न्वात॑तान ।।३२।।

अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वा सव॑र्णामदधु॒र्विव॑स्वते।
उ॒ताश्विना॑वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ।।३३।।

ये निखा॑ता॒ ये परो॑प्ता॒ ये द॒ग्धा ये चोद्धि॑ताः।
सर्वां॒स्तान॑ग्न॒ आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे ।।३४।।

ये अ॑ग्निद॒ग्धा ये अन॑ग्निदग्धा॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते।
त्वं तान्वे॑त्थ॒ यदि॒ ते जा॑तवेदः स्व॒धया॑ य॒ज्ञं स्वधि॑तिं जुषन्ताम् ।।३५।।

शं त॑प॒ माति॑ तपो॒ अग्ने॒ मा त॒न्व॑१ं॒ तपः॑।
वणे॑षु॒ शुष्मो॑ अस्तु ते पृथि॒व्याम॑स्तु॒ यद्धरः॑ ।।३६।।

ददा॑म्यस्मा अव॒सान॑मे॒तद्य ए॒ष आग॒न्मम॒ चेदभू॑दि॒ह।
य॒मश्चि॑कि॒त्वान्प्रत्ये॒तदा॑ह॒ ममै॒ष रा॒य उप॑ तिष्ठतामि॒ह ।।३७।।

इ॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।३८।।

प्रेमां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।३९।।

अपे॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।४०।। {१०}

वीमां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।४१।।

निरि॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।४२।।

उदि॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।४३।।

समि॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।४४।।

अमा॑सि॒ मात्रां॒ स्व॑रगा॒मायु॑ष्मान्भूयासम्।
यथाप॑रं॒ न मासा॑तै श॒ते श॒रत्सु॑ नो पु॒रा ।।४५।।

प्रा॒णो अ॑पा॒नो व्या॒न आयु॒श्चक्षु॑र्दृ॒शये॒ सूर्या॑य।
अप॑रिपरेण प॒था य॒मरा॑ज्ञः पि॒तॄन्ग॑छ ।।४६।।

ये अग्र॑वः शशमा॒नाह्प॑रे॒युर्हि॒त्वा द्वेषां॒स्यन॑पत्यवन्तः।
ते द्यामु॒दित्या॑विदन्त लो॒कं नाक॑स्य पृ॒ष्ठे अधि॒ दीध्या॑नाः ।।४७।।

उ॑द॒न्वती॒ द्यौर॑व॒मा पी॒लुम॒तीति॑ मध्य॒मा।
तृ॒तीया॑ ह प्र॒द्यौरिति॒ यस्यां॑ पि॒तर॒ आस॑ते ।।४८।।

ये न॑ पि॒तुः पि॒तरो॒ ये पि॑ताम॒हा य आ॑विवि॒शुरु॒र्व॒न्तरि॑क्षम्।
य आ॑क्षि॒यन्ति॑ पृथि॒वीमु॒त द्यां तेभ्यः॑ पि॒तृभ्यो॒ नम॑सा विधेम ।।४९।।

इ॒दमिद्वा उ॒ नाप॑रं दि॒वि प॑श्यसि॒ सूर्य॑म्।
मा॒ता पु॒त्रं यथा॑ सि॒चाभ्ये॑नं भूम ऊर्णुहि ।।५०।। {११}

इ॒दमिद्वा उ॒ नाप॑रं ज॒रस्य॒न्यदि॒तो ऽप॑रम्।
जा॒या पति॑मिव॒ वास॑सा॒भ्ये॑नं भूम ऊर्णुहि ।।५१।।

अ॒भि त्वो॑र्णोमि पृथि॒व्या मा॒तुर्वस्त्रे॑ण भ॒द्रया॑।
जी॒वेषु॑ भ॒द्रं तन्मयि॑ स्व॒धा पि॒तृषु॒ सा त्वयि॑ ।।५२।।

अग्नी॑षोमा॒ पथि॑कृता स्यो॒नं दे॒वेभ्यो॒ रत्नं॑ दधथु॒र्वि लो॒कम्।
उप॒ प्रेष्य॑न्तं पू॒षणं॒ यो वहा॑त्यञ्जो॒यानैः॑ प॒थिभि॒स्तत्र॑ गछतम् ।।५३।।

पू॒षा त्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः।
स त्वै॒तेभ्यः॒ परि॑ ददत्पि॒तृभ्यो॒ ऽग्निर्दे॒वेभ्यः॑ सुविद॒त्रिये॑भ्यः ।।५४।।

आयु॑र्वि॒श्वायुः॒ परि॑ पातु त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त्।
यत्रास॑ते सु॒कृतो॒ यत्र॒ त ई॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ।।५५।।

इ॒मौ यु॑नज्मि ते॒ वह्नी॒ असु॑नीताय॒ वोढ॑वे।
ताभ्यां॑ य॒मस्य॒ साद॑नं॒ समि॑ति॒श्चाव॑ गछतात् ।।५६।।

ए॒तत्त्वा॒ वासः॑ प्रथ॒मं न्वाग॒न्नपै॒तदू॑ह॒ यदि॒हाबि॑भः पु॒रा।
इ॑ष्टापू॒र्तम॑नु॒संक्रा॑म वि॒द्वान्यत्र॑ ते द॒त्तं ब॑हु॒धा विब॑न्धुषु ।।५७।।

अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ मेद॑सा॒ पीव॑सा च।
नेत्त्वा॑ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग्वि॑ध॒क्षन्प॑री॒ङ्खया॑तै ।।५८।।

द॒ण्डं हस्ता॑दा॒ददा॑नो ग॒तासोः॑ स॒ह श्रोत्रे॑ण॒ वर्च॑सा॒ बले॑न।
अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वा॒ मृधो॑ अ॒भिमा॑तीर्जयेम ।।५९।।

धनु॒र्हस्ता॑दा॒ददा॑नो मृ॒तस्य॑ स॒ह क्ष॒त्रेण॒ वर्च॑सा॒ बले॑न।
स॒मागृ॑भाय॒ वसु॑ भूरि पु॒ष्टम॒र्वाङ्त्वमेह्युप॑ जीवलो॒कम् ।।६०।। {१२}