अथर्ववेदः/काण्डं १६/सूक्तम् ०९

विकिस्रोतः तः
← सूक्तं १६.८ अथर्ववेदः - काण्डं १६
सूक्तं १६.९
यमः
दे. १ प्रजापति-, २ अग्निः, सोमः, पूषा, ३-४ सूर्यः। - - - - -- -

जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः ॥१॥
तदग्निराह तदु सोम आह पूषा मा धात्सुकृतस्य लोके ॥२॥
अगन्म स्वः स्वरगन्म सं सूर्यस्य ज्योतिषागन्म ॥३॥
वस्योभूयाय वसुमान् यज्ञो वसु वंसिषीय वसुमान् भूयासं वसु मयि धेहि ॥४॥