अथर्ववेदः/काण्डं १६/सूक्तम् ०६

विकिस्रोतः तः
← सूक्तं १६.५ अथर्ववेदः - काण्डं १६
सूक्तं १६.६
यमः
सूक्तं १६.७ →
दे. दु-स्वप्ननाशनम्, उषा। - - - - -- -

अजैष्माद्यासनामद्यामूमनागसो वयम् ॥१॥
उषो यस्माद्दुष्वप्न्यादभैष्माप तदुच्छतु ॥२॥
द्विषते तत्परा वह शपते तत्परा वह ॥३॥
यं द्विष्मो यश्च नो द्वेष्टि तस्मा एनद्गमयामः ॥४॥
उषा देवी वाचा संविदाना वाग्देव्युषसा संविदाना ॥५॥
उषस्पतिर्वाचस्पतिना संविदानो वाचस्पतिना संविदानः ॥६॥
तेऽमुष्मै परा वहन्त्वरायान् दुर्णाम्नः सदान्वाः ॥७॥
कुम्भीकाः दूषीकाः पीयकान् ॥८॥
जाग्रद्दुष्वप्न्यं स्वप्नेदुष्वप्न्यम् ॥९॥
अनागमिष्यतो वरान् अवित्तेः संकल्पान् अमुच्या द्रुहः पाशान् ॥१०॥
तदमुष्मा अग्ने देवाः परा वहन्तु वघ्रिर्यथासद्विथुरो न साधुः ॥११॥