अथर्ववेदः/काण्डं १६/सूक्तम् ०१

विकिस्रोतः तः
अथर्ववेदः - काण्डं १६
सूक्तं १६.१
अथर्वा
सूक्तं १६.२ →
दे. प्रजापतिः (नव पर्यायाः)। .....

अतिसृष्टो अपां वृषभोऽतिसृष्टा अग्नयो दिव्याः ॥१॥
रुजन् परिरुजन् मृणन् प्रमृणन् ॥२॥
म्रोको मनोहा खनो निर्दाह आत्मदूषिस्तनूदूषिः ॥३॥
इदं तमति सृजामि तं माभ्यवनिक्षि ॥४॥
तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
अपामग्रमसि समुद्रं वोऽभ्यवसृजामि ॥६॥
योऽप्स्वग्निरति तं सृजामि म्रोकं खनिं तनूदूषिम् ॥७॥
यो व आपोऽग्निराविवेश स एष यद्वो घोरं तदेतत्॥८॥
इन्द्रस्य व इन्द्रियेणाभि षिञ्चेत्॥९॥
अरिप्रा आपो अप रिप्रमस्मत्॥१०॥
प्रास्मदेनो वहन्तु प्र दुष्वप्न्यं वहन्तु ॥११॥
शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ॥१२॥
शिवान् अग्नीन् अप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः ॥१३॥