अथर्ववेदः/काण्डं ११/सूक्तम् ११
← सूक्तं ११.१० | अथर्ववेदः - काण्डं ११ सूक्तं ११.११(११.०९) काङ्कायनः |
सूक्तं ११.१२ → |
दे. अर्बुदिः। अनुष्टुप्, १ ........ |
11.9(११.११)
ये बाहवो या इषवो धन्वनां वीर्याणि च ।
असीन् परशून् आयुधं चित्ताकूतं च यद्धृदि ।
सर्वं तदर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥१॥
उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम् ।
संदृष्टा गुप्ता वः सन्तु या नो मित्राण्यर्बुदे ॥२॥
उत्तिष्ठतमा रभेतामादानसंदानाभ्याम् ।
अमित्राणां सेना अभि धत्तमर्बुदे ॥३॥
अर्बुदिर्नाम यो देव ईशानश्च न्यर्बुदिः ।
याभ्यामन्तरिक्षमावृतमियं च पृथिवी मही ।
ताभ्यामिन्द्रमेदिभ्यामहं जितमन्वेमि सेनया ॥४॥
उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह ।
भञ्जन्न् अमित्राणां सेनां भोगेभिः परि वारय ॥५॥
सप्त जातान् न्यर्बुद उदाराणां समीक्षयन् ।
तेभिष्ट्वमाज्ये हुते सर्वैरुत्तिष्ठ सेनया ॥६॥
प्रतिघ्नानाश्रुमुखी कृधुकर्णी च क्रोशतु ।
विकेशी पुरुषे हते रदिते अर्बुदे तव ॥७॥
संकर्षन्ती करूकरं मनसा पुत्रमिच्छन्ती ।
पतिं भ्रातरमात्स्वान् रदिते अर्बुदे तव ॥८॥
अलिक्लवा जाष्कमदा गृध्राः श्येनाः पतत्रिणः ।
ध्वाङ्क्षाः शकुनयस्तृप्यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥९॥
अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः ।
पौरुषेयेऽधि कुणपे रदिते अर्बुदे तव ॥१०॥ {२५}
आ गृह्णीतं सं बृहतं प्राणापानान् न्यर्बुदे ।
निवाशा घोषाः सं यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥११॥
उद्वेपय सं विजन्तां भियामित्रान्त्सं सृज ।
उरुग्राहैर्बाह्वङ्कैर्विध्यामित्रान् न्यर्बुदे ॥१२॥
मुह्यन्त्वेषां बाहवश्चित्ताकूतं च यद्धृदि ।
मैषामुच्छेषि किं चन रदिते अर्बुदे तव ॥१३॥
प्रतिघ्नानाः सं धावन्तूरः पटौरावाघ्नानाः ।
अघारिणीर्विकेश्यो रुदत्यः पुरुषे हते रदिते अर्बुदे तव ॥१४॥
श्वन्वतीरप्सरसो रूपका उतार्बुदे ।
अन्तःपात्रे रेरिहतीं रिशां दुर्णिहितैषिणीम् ।
सर्वास्ता अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥१५॥
खडूरेऽधिचङ्क्रमां खर्विकां खर्ववासिनीम् ।
य उदारा अन्तर्हिता गन्धर्वाप्सरसश्च ये ।
सर्पा इतरजना रक्षांसि ॥१६॥
चतुर्दंष्ट्रां छ्यावदतः कुम्भमुष्कामसृङ्मुखान् ।
स्वभ्यसा ये चोद्भ्यसाः ॥१७॥
उद्वेपय त्वमर्बुदेऽमित्राणाममूः सिचः ।
जयंश्च जिष्णुश्चामित्रां जयतामिन्द्रमेदिनौ ॥१८॥
प्रब्लीनो मृदितः शयां हतोऽमित्रो न्यर्बुदे ।
अग्निजिह्वा धूमशिखा जयन्तीर्यन्तु सेनया ॥१९॥
तयार्बुदे प्रणुत्तानामिन्द्रो हन्तु वरंवरम् ।
अमित्राणां शचीपतिर्मामीषां मोचि कश्चन ॥२०॥ {२६}
उत्कसन्तु हृदयान्यूर्ध्वः प्राण उदीषतु ।
शौष्कास्यमनु वर्तताममित्रान् मोत मित्रिणः ॥२१॥
ये च धीरा ये चाधीराः पराञ्चो बधिराश्च ये ।
तमसा ये च तूपरा अथो बस्ताभिवासिनः ।
सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥२२॥
अर्बुदिश्च त्रिषन्धिश्चामित्रान् नो वि विध्यताम् ।
यथैषामिन्द्र वृत्रहन् हनाम शचीपतेऽमित्राणां सहस्रशः ॥२३॥
वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः ।
गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।
सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥२४॥
ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः ।
ईशां व इन्द्रश्चाग्निश्च धाता मित्रः प्रजापतिः ।
ईशां व ऋषयश्चक्रुरमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥२५॥
तेषां सर्वेषामीशाना उत्तिष्ठत सं नह्यध्वम् ।
मित्रा देवजना यूयमिमं संग्रामं संजित्य यथालोकं वि तिष्ठध्वम् ॥२६॥ {२७}
सायणभाष्यम्
पञ्चमेऽनुवाके षट सूक्तानि । तत्र 'ये बाहवः' इत्यादिसूक्तत्रयम् 'उत्तिष्ठत सं नह्यध्वम्' इत्यादिसूक्तत्रयं च अर्थसूक्तम् । आभ्याम् अर्थसूक्ताभ्याम् जयकामो राजा युद्धकाले यथालिङ्गं स्वीयान् भटान् प्रति संप्रैषं कुर्यात् जपं कुर्याच्च ।
तथा शत्रुजयकर्मणि 'ये बाहवः इत्यनुवाकेन पृषदाज्यं सक्तूंश्च जुहुयात् ।
तथा अनेनानुवाकेन धनुरिध्मेऽग्नौ पृषदाज्येन अक्ता धनुःसमिध आदध्यात् । इष्विध्मेऽग्नौ पृषदाज्येन अक्ता इषुसमिध आदध्यात् ।
तथा अनेनानुवाकेन पृषदाज्येन धनुः संपात्य विमृज्य अभिमन्त्र्य योद्ध्रे जयकामाय राज्ञे प्रयच्छेत् ।
अनेनानुवाकेन भाङ्गपाशान् पृषदाज्येन संपात्य अभिमन्त्र्य परसेनाक्रमणस्थानेषु प्रक्षिपेत् ।
तथा अनेनानुवाकेन मौञ्जपाशान् आमपात्राणि त्रिसंधीनि लोहमयानि पात्राणि वज्ररूपाणि अर्बुदरूपाणि वा पृषदाज्येन संपात्य अभिमन्त्र्य युद्धस्थानेषु प्रक्षिपेत् ।
तथा अनेन अनुवाकेन शितिपदीं गां पृषदाज्येन संपात्य अभिमन्त्र्य राज्ञश्चिह्नितकेतुदण्डे रहस्यं बध्नीयात् । अन्यां शितिपदीं गां संपात्य अभिमन्त्र्य शत्रुसेनामध्ये निरस्येत् । ततो युद्धार्थं सेनानायकम् उत्सृजेत् ।
एतत् सर्वं कौशिकेन सूत्रितम्- 'ये बाहवः', 'उत्तिष्ठत' ( अ ११,१२ ) इति यथालिङ्गं संप्रेष्यति । होमार्थे पृषदाज्यम् । प्रदानान्तानि वाप्यानि । वाप्यैस्त्रिषन्धीनि वज्ररूपाण्यर्बुदरूपाणि । शितिपदीं संपातवतीं दर्भरज्ज्वा क्षत्रियायोपासङ्गदण्डे बध्नाति । द्वितीयाम् अस्यति ( कौ सू १६,२१-२६ ) इति ।
ये बा॒हवो॒ या इष॑वो॒ धन्व॑नां वी॒र्या॑णि च।
अ॒सीन्प॑र॒शूनायु॑धं चित्ताकू॒तं च॒ यद्धृ॒दि।
सर्वं॒ तद॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ।।१
ये। बाहवः । याः । इषवः । धन्वनाम् । वीर्याणि । च ।
असीन् । परशून् । आयुधम् । चित्तऽआकूतम् । च । यत् । हृदि ।
सर्वम् । तत् । अर्बुदे । त्वम् । अमित्रेभ्यः । दृशे । कुरु । उतऽआरान् । च । प्र । दर्शय ॥ १ ॥
ये अस्मदीयानां योद्धॄणां भटानां बाहवः आयुधग्राहिणो हस्ताः या इषवः बाणाः तथा धन्वनाम् धनुषाम् अस्मदीयानां यानि च वीर्याणि वीरकर्माणि शत्रुनिपातनसामर्थ्यानि सन्ति तान् सर्वान् बाह्वादीन् असीन् खड्गान् परशून् परश्वधान् कुठारविशेषान् यद् अन्यदपि आयुधम् आयोधनसाधनशस्त्रम् यत् च अस्मदीयानां योद्धॄणां हृदि हृदये अवस्थितं चित्ताकूतम् चित्तेन मनसा संकल्प्यमानं शत्रूणां मारणम् । यद्वा चित्तानि अस्मदीयानां भटानां धैर्ययुक्तानि मनांसि आकूतानि संकल्पाः इमम् अनेन प्रकारेण हनिष्यामि इमम् अनेनेत्येवं बहुधा भिन्नाः । द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' (पा २, ४,२ ) इति एकवद्भावाद् एकवचनम् । ये बाहव इत्यादिना यद् एतद् अनुक्रान्तं तत् सर्वम् हे अर्बुदे । अर्बुदो नाम सर्पऋषिः । तथा च ऐतरेयके समाम्नायते- अर्बुदः काद्रवेयः सर्पऋषिर्मन्त्रकृत्' ( ऐब्रा ६,१) इति तस्य द्वौ पुत्रौ अर्बुदिश्च न्यर्बुदिश्चेति । अपत्येर्थे 'अत इञ्' (पा ४,१,९५) इति इञ् । 'संज्ञापूर्वको विधिरनित्यः' (पाका ६,४,१४६) इति आदिवृद्धिर्न क्रियते । हे अर्बुदस्य पुत्र हे सर्प त्वम् उक्तं सर्वम् अमित्रेभ्यः अस्मच्छत्रुभ्यः दृशे दृष्टये कुरु । यथा शत्रूणां मनसि भीतिर्जायते तथा अस्मदीयानि युद्धोपकरणानि दर्शयेत्यर्थः । अपि च उदारान् उद्गतान् अन्तरिक्षचरान् रक्षःपिशाचादीन् मन्त्रसामर्थ्योद्भावितान् शत्रूणां भीत्यर्थं प्र दर्शय । यद्वा सूर्यरश्मिप्रभवा उल्कादय आन्तरिक्ष्या उत्पाता उदाराः । तानपि तेभ्यः पराजयार्थं प्रदर्शय । तस्मात् तेपानाद् उदारा अजायन्त' ( तैब्रा २,२,९,२ ) इति तैत्तिरीयकम् । उदारयन्ति आर्तिम् उद्भावयन्तीति उदाराः । ऋ गतौ । अस्मात् उत्पूर्वात् ण्यन्तात् पचाद्यच् ।
उत्ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्।
संदृ॑ष्टा गु॒प्ता वः॑ सन्तु॒ या नो॑ मि॒त्राण्य॑र्बुदे ।।२
उत् । तिष्ठत । सम् । नह्यध्वम् । मित्राः । देवऽजनाः । यूयम् ।
सम्ऽदृष्टा । गुप्ता । वः । सन्तु । या । नः । मित्राणि । अर्बुदे ॥ २ ॥
हे मित्राः मित्रभूता अस्माकं जये प्रवृत्ता हे देवजनाः यूयम् उत्तिष्ठत अस्मात् सेनानिवेशाद् उद्गच्छत । 'उदोऽनूर्ध्वकर्मणि' (पा १,३,२४) इति पर्युदस्तत्वाद् आत्मनेपदाभावः । सं नह्यध्वम् उत्थानानन्तरं युद्धाय संनद्धा भवत । तथा वः युष्माभिः संदृष्टाः सम्यङ् निरीक्षिताः अस्मदीया भटाः गुप्ताः रक्षिताः सन्तु भवन्तु । व इति तृतीयार्थे षष्ठी। हे अर्बुदे सर्प नः अस्माकं या यानि मित्राणि अस्मदीयैः शत्रुभिः सह योद्धुम् आगतानि तानि त्वया गुप्तानि रक्षितानि भवन्त्वित्यर्थः ।
उत्ति॑ष्ठत॒मा र॑भेतामादानसंदा॒नाभ्या॑म्।
अ॒मित्रा॑णां॒ सेना॑ अ॒भि ध॑त्तमर्बुदे ।।३
उत् । तिष्ठतम् । आ । रभेथाम् । आदानऽसंदानाभ्याम् ।
अमित्राणाम् । सेनाः । अभि । धत्तम् । अर्बुदे ॥ ३ ॥
हे अर्बुदे त्वं च न्यर्बुदिश्च युवाम् उत्तिष्ठतम् स्थानाद् उच्चलतम् । आ रभेथाम् युद्धम् उपक्रमेथाम् । रभ राभस्ये । 'राभस्यं कार्योपक्रमः' (क्षीरतरङ्गिणी ) इति तद्वृत्तिः । अनन्तरम् आदानसंदानाभ्याम् आदीयते गृह्यते अनेनेति ग्रहणार्थं रज्जुयन्त्रम् आदानम् । संदीयते बध्यते अनेनेति संदानं बन्धनरज्जुः । ताभ्यां रज्जुभ्याम् अमित्राणां शत्रूणां संबन्धिनीं सेनाम् अभि धत्तम् बध्नीतम् । अभिपूर्वो दधातिर्बन्धने वर्तते । यथा 'अश्वाभिधानीमादत्ते' (तै ५,१,२,१ ) इति ।
अर्बु॑दि॒र्नाम॒ यो दे॒व ईशा॑नश्च॒ न्य॑र्बुदिः।
याभ्या॑म॒न्तरि॑क्ष॒मावृ॑तमि॒यं च॑ पृथि॒वी म॒ही।
ताभ्या॒मिन्द्र॑मेदिभ्याम॒हं जि॒तमन्वे॑मि॒ सेन॑या ।।४
अर्बुदिः । नाम । यः । देवः । ईशानः । च । निऽअर्बुदिः ।
याभ्याम् । अन्तरिक्षम् । आऽवृतम् । इयम् । च । पृथिवी । मही ।
ताभ्याम् । इन्द्रमेदिऽभ्याम् । अहम् । जितम् । अनु । एमि । सेनया ॥ ४ ॥
अर्बुदिन्यर्बुद्योर्माहात्म्यम् अनया प्रतिपाद्यते- अर्बुदिः इति प्रसिद्धः सर्पात्मको यो देवः तथा ईशानः सर्वस्य ईशिता यश्च न्यर्बुदिः इति प्रसिद्धः सर्पः याभ्याम् अर्बुदिन्यर्बुदिभ्याम् अन्तरिक्षम् सर्वम् आवृतम् स्वशरीरैरावेष्टितम् इयं परिदृश्यमाना मही महती पृथिवी च याभ्याम् आवृता । तौ सर्पात्मकौ देवौ संग्रामजयकर्मणि सर्वोत्कर्षेण वर्तते इत्यर्थः । ताभ्यां द्यावापृथिव्यौ व्याप्य वर्तमानाभ्याम् इन्द्रमेदिभ्याम् इन्द्रस्य स्निग्धाभ्याम् । ञिमिदा स्नेहने । अस्मात् ताच्छीलिको णिनिः । अर्बुदिन्यर्बुदिभ्यां जितं शत्रुबलम् अहं पश्चात् सेनया अन्वेमि अनुगच्छामि ।
उत्ति॑ष्ठ॒ त्वं दे॑वज॒नार्बु॑दे॒ सेन॑या स॒ह।
भ॒ञ्जन्न॒मित्रा॑णां॒ सेना॑म्भो॒गेभिः॒ परि॑ वारय ।।५
उत् । तिष्ठ । त्वम् । देवऽजन । अर्बुदे । सेनया । सह ।
भञ्जन् । अमित्राणाम् । सेनाम् । भोगेभिः । परि । वारय ॥ ५ ॥
हे देवजन देवजातीय अर्बुदे त्वं सेनया आत्मीयया सह उत्तिष्ठ उद्गच्छ । शत्रून् प्रथमम् अभियाहीत्यर्थः । अनन्तरम् अमित्राणाम् शत्रूणां सेनां भञ्जन् आमर्दयन् भग्नवीर्यां कुर्वन् भोगेभिः भोगैः आत्मीयैः सर्पशरीरैः परि वारय परिवेष्टय । यथा शत्रुसेना अस्मान् न पश्यति तथा तदीयानि अक्षीणि पिधेहीत्यर्थः ।
स॒प्त जा॒तान्न्य॑र्बुद उदा॒राणां॑ समी॒क्षय॑न्।
तेभि॒ष्ट्वमाज्ये॑ हु॒ते सर्वै॒रुत्ति॑ष्ठ॒ सेन॑या ।।६
सप्त । जातान् । निऽअर्बुदे । उत्ऽआराणाम् । सम्ऽईक्षयन् ।
तेभिः । त्वम् । आज्ये । हुते । सर्वैः । उत् । तिष्ठ । सेनया ॥ ६ ॥
हे न्यर्बुदे एतत्संज्ञ सर्प उदाराणाम् प्रागुक्तलक्षणानां मध्ये सप्त सप्तसंख्याकान् जातान् उत्पन्नान् दृष्टितिरोधायकान् समीक्षयन् शत्रूणां दर्शयन् त्वम् आज्ये हुते । उपलक्षणम् एतत् । आज्योपलक्षितेषु द्रव्येषु हुतेषु सत्सु तेभिः तैः सर्वैः उपलक्षितः सन् अस्मदीयया सेनया सह उत्तिष्ठ उद्गच्छ ।
प्र॑तिघ्ना॒नाश्रु॑मु॒खी कृ॑धुक॒र्णी च॑ क्रोशतु।
वि॑के॒शी पुरु॑षे ह॒ते र॑दि॒ते अ॑र्बुदे॒ तव॑ ।।७
प्रतिऽघ्नाना । अश्रुऽमुखी । कृधुऽकर्णी । च । क्रोशतु ।
विऽकेशी । पुरुषे । हृते । रदिते । अर्बुदे । तव ॥ ७ ॥
हे अर्बुदे तव रदिते दन्तैर्विलेखने खादने सति तथा तेन रदनेन शत्रुभूते पुरुषे हते मृते सति तदीया जाया प्रतिघ्नाना प्रतिमुखं स्वकीयं वक्षस्ताडयन्ती। प्रतिपूर्वात् हन्तेर्लटः शानच् । 'गमहन' (पा ६,४,९८ ) इति उपधालोपः। अश्रुमुखी बाष्पमुखी कृधुकर्णी । कृध्विति ह्रस्वनाम । कर्णाभरणपरित्यागेन ह्रस्वकर्णी च विकेशी विकीर्णशिरोरुहा च सती क्रोशतु रोदनं करोतु । क्रुश आह्वाने रोदने च।
सं॒कर्ष॑न्ती क॒रूक॑रं॒ मन॑सा पु॒त्रमि॒छन्ती॑।
पतिं॒ भ्रात॑र॒मात्स्वान्र॑दि॒ते अ॑र्बुदे॒ तव॑ ।।८
सम्ऽकर्षन्ती । करूकरम् । मनसा | पुत्रम् । इच्छन्ती ।
पतिम् । भ्रातरम् । आत् । स्वान् । रदिते । अर्बुदे । तव ॥ ८॥
हे अर्बुदे तव त्वदीये रदिते रदने दन्तैर्विलेखने सति विषावेशवशात् शत्रुस्त्री करूकरं संकर्षन्ती। करु इति अनुकरणशब्दोऽयम् । तत्करोतीति करूकरम् हस्तपादाद्यवयवगतं संधिमद् अस्थिजातं तत् सम्यक् कर्षन्ती। लोके हि भयवशाद् उभयोर्हस्तयोः परस्पराङ्गुलिनिपीडनेन तादृशं शब्दम् उत्पादयन्ति । तदनन्तरं मनसा अन्तःकरणेन विषप्रतीकाराय पुत्रम् आत्मीयं सुतम् इच्छन्ती । तदनन्तरं पतिम् भर्तारम् इच्छन्ती। ततो भ्रातरम् आत्मीयं सहजम् । आत् अनन्तरं स्वान् स्वकीयान् बन्धुजनान् विषनिर्हरणाय इच्छन्ती। इत्थम् इतिकर्तव्यतामूढा भवत्वित्यर्थः।
अ॒लिक्ल॑वा जाष्कम॒दा गृध्राः॑ श्ये॒नाः प॑त॒त्रिणः॑।
ध्वाङ्क्षाः॑ श॒कुन॑यस्तृप्यन्त्व॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ।।९
अलिक्लवाः । जाष्कमदाः । गृध्राः । श्ये॒नाः । पतत्रिणः।
ध्वाङ्क्षाः । शकुनयः । तृप्यन्तु। अमित्रेषु । सम्ऽईक्षयन् । रदिते । अर्बुदे । तव ॥९॥
अलिक्लबाः विशिष्टक्लैब्ययुक्ता विक्लबाः तद्विपरीता अलिक्लबाः । धृष्टाः पक्षिण इत्यर्थः । याः च पक्षिजातयः क्लमदाः क्लमस्य शरीरावसादस्य दात्र्यः ता अनुक्रामति - गृध्राः श्वेतवर्णा मांसाभिलाषिणः पक्षिणः । श्येनाः प्रसिद्धाः। पतत्रिणः अन्ये च मांसभक्षकाः पक्षिणः पतत्रिशब्देन विवक्षिताः । ध्वाङ्क्षाः काकाः । एवमात्मकाः शकुनयः हे अर्बुदे तव रदिते त्वदीये रदने विषदन्तैर्विलेखने अमित्रेषु अस्मदीयेषु शत्रुषु सति समीक्षयन् । व्यत्ययेन एकवचनम् । तन्मरणं प्रतीक्षमाणास्तदनन्तरं तद्भक्षणेन तृप्यन्तु तृप्ता भवन्तु ।
अथो॒ सर्वं॒ श्वाप॑दं॒ मक्षि॑का तृप्यतु॒ क्रिमिः॑।
पौरु॑षे॒ये ऽधि॒ कुण॑पे रदि॒ते अ॑र्बुदे॒ तव॑ ।।१० {२५}
अथो इति । सर्वम् । श्वापदम् । मक्षिका । तृप्यतु । क्रिमिः ।
पौरुषेये । अधि । कुणपे । रदिते । अर्बुदे । तव ॥ १० ॥
अथो अपि च सर्वं श्वापदम् शुनः पदानीव पदानि यस्य सृगालव्याघ्रादेः तत् सर्वं श्वापदम् । मक्षिका मांसनिषेविणी या नीलमक्षिकेति प्रसिद्धा । क्रिमिः मांसेषु जीर्णेषु जायमानः प्राणी । एतत् सर्वम् हे अबुदे तव रदिते सति पौरुषेये पुरुषसम्बन्धिनि कुणपे शवशरीरे अधि उपरि तृप्यतु । तव खादनेन सर्वेषु शत्रुषु मृतेषु तच्छरीराणि गृध्रादयः पक्षिणः श्वसृगालादयश्च भक्षयन्त्वित्यर्थः।
इति पञ्चमेऽनुवाके प्रथमं सूक्तम् ।
'आ गृह्णीतम्' इति सूक्तस्य शत्रुजयकर्मणि विनियोग उक्तः।
आ गृ॑ह्णीतं॒ सं बृ॑हतं प्रानापा॒नान्न्य॑र्बुदे।
नि॑वा॒शा घोषाः॒ सं य॑न्त्व॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ।।११
आ । गृह्णीतम् । सम् । बृहतम् । प्राणापानान् । निऽअर्बुदे ।
निऽवाशाः । घोषाः । सम् । यन्तु । अमित्रेषु । सम्ऽईक्षयन् । रदिते । अर्बुदे । तव ॥११॥
हे न्यबुदे त्वं च अर्बुदिश्च युवां शत्रुसंबन्धिनः प्राणापानान् आ गृह्णीतम् आ समन्तात् स्वीकुरुतम् । तदनन्तरं सं बृहतम् समूलम् उत्खिदतम् । वृहू उद्यमने । तुदादित्वात् शप्रत्ययः । हे अबुदे तव रदिते सति अमित्रेषु शत्रुषु तद् रदितं समीक्षयन् । षष्ठ्यर्थे प्रथमा । समीक्षयतां जनानां निवाशाः नीचीनं वाश्यमाना आभाष्यमाणा घोषाः शब्दाः सं यन्तु सम्यग् वर्तन्ताम् । विषनिपीडितानाम् आर्तस्वरा उत्पद्यन्ताम् इत्यर्थः।
उद्वे॑पय॒ सं वि॑जन्तां भिया॒मित्रा॒न्त्सं सृ॑ज।
उ॑रुग्रा॒हैर्बा॑ह्व॒ङ्कैर्विध्या॑मित्रान्न्यर्बुदे ।।१२
उत् । वेपय । सम् । विजन्ताम् । भिया । अमित्रान् । सम् । सृज ।
उरुऽग्राहैः । बाहुऽअङ्कैः । विध्य । अमित्रान् । निऽअर्बुदे ॥ १२ ॥
हे न्यर्बुदे एतत्संज्ञ सर्पजातीय देव अमित्रान् अस्मदीयान् शत्रून् उद् वेपय उत्कम्पय । टुवेपृ कम्पने इति धातुः । ते च अनन्तरं सं विजन्ताम् भयात् स्वस्थानात् प्रचलिताः उद्विग्ना भवन्तु । ओविजी भयचलनयोः । भिया अस्मत्सकाशाज्जनितया भीत्या सं सृज संयोजय । तदनन्तरम् ऊरुग्राहैः ऊरूणां ग्रहणैः बाहुवङ्कैः बाहुना वक्रबन्धनैः अमित्रान् अस्मदीयान् शत्रून् विध्य ताडय ।
मुहन्त्वेषां बाहर्वश्चित्ताकृतं च यद्धदि । _ मैषामुच्छेषि' किं चन रदिते अबुदे तव ॥ १२ ॥
मुह्य॑न्त्वेषां बा॒हव॑श्चित्ताकू॒तं च॒ यद्धृ॒दि।
मैषा॒मुच्छे॑षि॒ किं च॒न र॑दि॒ते अ॑र्बुदे॒ तव॑ ।।१३
हे अर्बुदे तव रदिते खादने सति एषां शत्रूणां बाहवः विषावेशवशाद् मुह्यन्तु मूढा व्यापारासमर्था भवन्तु । एषां शत्रूणां हृदि हृदये यत् चित्ताकूतम् चित्तेन संकल्पितम् अर्थजातं तदपि मुह्यतु मूढं विस्मृतं भवतु । यद्वा चित्तानि मनांसि आकूतानि कर्तव्यविशेषविषयास्तद्वृत्तयः । तत् सर्वं मुह्यतु । अपि च एषां शत्रूणां संबन्धि किं चन किमपि रथतुरगहस्त्यादिलक्षणं बलं मा उच्छेषि उच्छिष्टम् अवशिष्टं मा भूत् । सर्वमपि त्वया हन्यताम् इत्यर्थः।
प्र॑तिघ्ना॒नाः सं धा॑व॒न्तूरः॑ पटू॒रावा॑घ्ना॒नाः।
अ॑घा॒रिणी॑र्विके॒श्यो॑ रुद॒त्यः॒ पुरु॑षे ह॒ते र॑दि॒ते अ॑र्बुदे॒ तव॑ ।।१४
प्रतिऽघ्नानाः । सम् । धावन्तु । उरः । पटूरौ । आऽघ्नानाः ।
अघारिणीः । विऽकेश्यः । रुदत्यः । पुरुषे । हते । रदिते । अर्बुदे । तव ॥१४॥
हे अर्बुदे तव रदिते खादने सति पुरुषे स्वकीये भर्तरि हते सति तदीयाः स्त्रियः प्रतिघ्नानाः प्रतिमुखं स्वशरीरम् आघ्नत्यस्ताडयन्त्यः। तथा उरः वक्षःस्थलं पटूरौ तत्प्रदेशौ च आघ्नानाः हस्ताभ्याम् आताडयन्त्यः । विकेश्यः विकीर्णकेश्यः । अघारिणीः अघेन भर्तृवियोगजनितेन दुःखेन आर्ताः । रुदत्यः संजातरोदनाः सत्यः सं धावन्तु मृतपुरुषसमीपं शीघ्रं गच्छन्तु । 'सर्तेर्वेगितायां गतौ धावादेशो वक्तव्यः' ( पाका ७,३,७८ ) इति 'पाघ्रा' ( पा ७,३,७८ ) इत्यादिना धौरादेशः ।
श्व॑न्वतीरप्स॒रसो॑ रूपका उ॒तार्बु॑दे।
अ॑न्तःपा॒त्रे रेरि॑हतीं रि॒शां दु॑र्णिहितै॒षिणी॑म्।
सर्वा॒स्ता अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ।।१५
श्वन्ऽवतीः । अप्सरसः । रूपकाः । उत । अबुदे ।
अन्तःऽपात्रे । रेरिहतीम् । रिशाम् । दुर्निहितऽएषिणीम् ।
सर्वाः । ताः । अर्बुदे । त्वम् । अमित्रेभ्यः । दृशे । कुरु । उत्ऽआरान् । च । प्र । दर्शय ॥ १५ ॥
श्वन्वतीः शुना क्रीडार्थेन सारमेयेण सहिता अप्सरसः गन्धर्वस्त्रियः। रूपकाः मायावशात् केवलं रूपमात्रेण उपलभ्यमानाः सेना रूपकाः । हे अर्बुदे ताः सर्वा अमित्रेभ्यो दर्शय । तथा पात्रे अन्तः मध्ये रेरिहतीम् पुनःपुनर्लिहतीं दुर्निहितैषिणीम् दुष्टनिक्षिप्तम् इच्छन्तीं वशाम्' गाम् हे अर्बुदे त्वं सर्वास्ताः प्राग् उदीरिता अमित्रेभ्यः शत्रुभ्यो दृशे दर्शनाय कुरु । उदारान् उल्कापातादीन् अद्भुतान् विकृतदर्शनान् यक्षराक्षसान् च प्रदर्शय।
ख॒दूरे॑ ऽधिचङ्क्र॒मां खर्वि॑कां खर्ववा॒सिनी॑म्।
य उ॑दा॒रा अ॒न्तर्हि॑ता गन्धर्वाप्स॒रस॑श्च॒ ये स॒र्पा इ॑तरज॒ना रक्षां॑सि ।।१६
खडूरे । अधिऽचक्रमाम् । खर्विकाम् । खर्वऽवासिनीम् ।
ये । उत्ऽआराः । अन्तःऽहिताः । गन्धर्वऽअप्सरसः । च । ये ।सर्पाः । इतरऽजनाः । रक्षांसि ॥
दूरभूतं खं खदूरम् आकाशे दूरदेशे अधि उपरि चक्रमाम् चङ्क्रमणशीलां मायावशाद् इतस्ततः प्रादुर्भवन्तीं खर्विकाम् अल्पह्रस्वां खर्ववाशिनीम् खर्वम् अल्पं शब्दायमानां मानवशात् मितभाषमाणाम् हे अर्बुदे त्वं शत्रुभ्यः प्र दर्शय यथा ते पराजयेरन् । ये उदाराः यक्षराक्षसादयः अन्तर्हिताः स्वमायया व्यवहिताः अस्मद्दृग्गोचरा न भवन्ति ये च गन्धर्वाप्सरसः तथाविधाः तान् सर्वान् पराजयार्थं शत्रुभ्यो दर्शय । सर्पाः सर्पस्वरूपाः इतरजनाः इतरजनसंज्ञका देवाः । यद्वा सर्पाः सर्पात्मका देवास्तदपेक्षया इतरजनाः तत्सदृशा देवजातयः। रक्षांसि राक्षसाः[१६] ।
चतु॑र्दम्ष्ट्रां छ्या॒वद॑तः कु॒म्भमु॑ष्काँ॒ असृ॑ङ्मुखान्।
स्व॑भ्य॒सा ये चो॑द्भ्य॒साः ।।१७
चतुःऽदंष्ट्रान् । श्यावऽदतः । कुम्भऽमुष्कान् । असृक्ऽमुखान् ।
स्वऽभ्यसाः । ये । च । उत्ऽभ्यसाः ॥ १७ ॥
ते च चतुर्दंष्ट्राः दंशनसाधनचतुर्दन्तयुक्ताः । तान् । श्यावदतः श्यामवर्णदन्तयुक्तान् । एतानपि मायामयान् अमित्रेभ्यो दर्शय । तथा कुम्भमुष्कान् कुम्भाकृतिमुष्कयुक्तान् । असृङ्मुखान् रक्तास्यान् स्वभ्यसाः स्वायत्तभीतयो राक्षसाः । ये च उद्भ्यसाः उद्गतभीतयः । भ्यस भये । 'घञर्थे कविधानम्' (पा ३,३,२८ ) इति कप्रत्ययः । घोरेण रूपेण इत्थं विविधभयजनका राक्षसा इत्यर्थः । तान् सर्वान् अमित्रेभ्यो मायया दर्शय [१७] ।
उद्वे॑पय॒ त्वम॑र्बुदे॒ ऽमित्रा॑णाम॒मूः सिचः॑।
जयां॑श्च जि॒ष्णुश्चा॒मित्राँ॒ जय॑ता॒मिन्द्र॑मेदिनौ ।।१८
उत् । वेपय । त्वम् । अर्बुदे । अमित्राणाम् । अमू: । सिचः ।
जयन् । च । जिष्णुः । च । अमित्रान् । जयताम् । इन्द्रऽमेदिनौ ॥ १८ ॥
हे अर्बुदे त्वम् अमित्राणाम् शत्रूणां अमूः सेनाः शुचः शोचमाना विषावेशजनितशोकार्ताः उद्वेपय उत्कम्पय । शुच शोके । अस्मात् 'क्विप् च' (पा ३,२,५) इति क्विप् । तथा अमित्रान् शत्रून् जयन् पराभावयन् जिष्णुः जयशीलः च अर्बुदिन्यर्बुदी इन्द्रमेदिनौ इन्द्रेण सह स्निह्यन्तौ जयताम् अस्माकं जयं कुरुताम् ।
प्रब्ली॑नो मृदि॒तः श॑यां ह॒तो ऽमित्रो॑ न्यर्बुदे।
अ॑ग्निजि॒ह्वा धू॑मशि॒खा जय॑न्तीर्यन्तु॒ सेन॑या ।।१९
प्रऽब्लीनः । मृदितः । शयाम् । हतः । अमित्रः । निऽअर्बुदे ।
अग्निऽजिह्वाः । धूमऽशिखाः । जयन्तीः । यन्तु । सेनया ॥ १९ ॥
हे न्यर्बुदे अमित्रः अस्मदीयः शत्रुः प्रव्लीनः प्रभीतः मृदितः संपिष्टगात्रः हतः गतासुः शयाम् शेताम् । 'लोपस्त आत्मनेपदेषु' ( पा ७,१,४१ ) इति तलोपः । व्ली भये । अस्मात् प्रपूर्वात् कर्मणि निष्ठा । तकारस्य नत्वम् (पा ८,२,४४) । अग्निजिह्वाः अग्नेर्ज्वालाः धूमशिखाः धूमप्ररोहाः मायावशात् त्वयोत्पादिता जयन्तीः शत्रुबलं जयन्त्यः सेनया अस्मदीयया सह यन्तु गच्छन्तु ।
तया॑र्बुदे॒ प्रणु॑त्ताना॒मिन्द्रो॑ हन्तु॒ वरं॑वरम्।
अ॒मित्रा॑णां॒ शची॒पति॒र्मामीषां॑ मोचि॒ कश्च॒न ।। २०{२६}
तया । अर्बुदे । प्रऽनुत्तानाम् । इन्द्रः । हन्तु । वरम्ऽवरम् ।
अमित्राणाम् । शचीऽपतिः । मा । अमीषाम् । मोचि । कः । चन ॥ २० ॥
हे अर्बुदे त्वया प्रणुत्तानाम् युद्धरङ्गात् प्रच्यावितानाम् । 'नसत्तनिषत्तानुत्तप्रतूर्त' (पा ८,२,६१) इति निपातनात् निष्ठानत्वाभावः । अमित्राणां शत्रूणां शचीपतिः शच्याः पतिः इन्द्रः वरंवरम् श्रेष्ठंश्रेष्ठं हन्तु मारयतु । अमीषां शत्रूणां मध्ये कश्चन कश्चिदपि मा मोचि मा मुच्यताम् क्रमशः सर्वो हन्यताम् इत्यर्थः । मुच्लृ मोक्षणे इत्यस्मात् कर्मणि माङि लुङ् । 'चिण् भावकर्मणोः' (पा ३,१,६६ ) इति च्लेश्चिण् आदेशः । 'चिणो लुक्' ( पा ६,४,१०४ ) इति तशब्दस्य लुक् ।
इति पञ्चमेऽनुवाके द्वितीयं सूक्तम् ।
'उत्कसन्तु हृदयानि' इति सूक्तस्य शत्रुजयकर्मणि विनियोग उक्तः ।
उत्क॑सन्तु॒ हृद॑यान्यू॒र्ध्वः प्रा॒ण उदी॑षतु।
शौ॑ष्का॒स्यमनु॑ वर्तताम॒मित्रा॒न्मोत मि॒त्रिणः॑ ।।२१
उत् । कसन्तु । हृदयानि । ऊर्ध्वः । प्राणः । उत् । ईषतु ।
शौष्कऽआस्यम् । अनु । वर्तताम् । अमित्रान् । मा । उत । मित्रिणः ॥ २१ ॥
शत्रूणां संबन्धीनि हृदयानि अन्तःकरणानि उत् कसन्तु शरीराद् उद्गच्छन्तु । तथा प्राणः प्राणवायुः ऊर्ध्वः सन् उदीषतु । शत्रुशरीरान्निर्गच्छतु । ईष गतौ । अमित्रान् शत्रून् शौष्कास्यम् शुष्कास्यता भीतिवशाद् आस्यस्य निर्द्रवत्वम् । तद् अनु वर्तताम् अनुगच्छतु । आस्यशोषणेन शत्रवो म्रियन्ताम् इत्यर्थः । उत अपि च मित्रिणः अस्माकं मित्रभूतान् जनान् मा अनुवर्तताम् । तेषाम् आस्यशोषो मा भूद् इत्यर्थः ।
ये च॒ धीरा॒ ये चाधी॑राः॒ परा॑ञ्चो बधि॒राश्च॒ ये।
त॑म॒सा ये च॑ तूप॒रा अथो॑ बस्ताभिवा॒सिनः॑।
सर्वां॒स्ताम॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ।।२२
ये। च । धीराः । ये । च । अधीराः । पराञ्चः । बधिराः । च । ये ।
तमसाः । ये। च । तूपराः । अथो इति । बस्तऽअभिवासिनः । सर्वान् । तान् । अर्बुदे । त्वम् । अमित्रेभ्यः । दृशे । कुरु । उत्ऽआरान् । च । प्र । दर्शय ॥ २२ ॥
ये च धीराः शूरा भटाः ये च अधीराः अशूराः कातराः। पराञ्चः पराङ्मुखा युद्धात् पलायमानाः ये च बधिराः भयवशात् हतश्रवणसामर्थ्याः । तमसा मोहेन ये च तूपराः तूपरः शृङ्गहीनः पशुः तद्वद् अवस्थिताः । अथो अपि च बस्ताविवाशिनः बस्ताश्व अवयश्च बस्तावयः तद्वद् वाशितुं शीलम् एषां ते बस्ताविवाशिनः । बस्ताविध्वनिं कुर्वाणा इत्यर्थः । हे अर्बुदे त्वं सर्वांस्तान् स्वमायया उद्भावितान् अमित्रेभ्यः शत्रुभ्यो दृशे दर्शनाय कुरु पराजयार्थम् । गतम् अन्यत् ।
अर्बु॑दिश्च॒ त्रिष॑न्धिश्चा॒मित्रा॑न्नो॒ वि वि॑ध्यताम्।
यथै॑षामिन्द्र वृत्रह॒न्हना॑म शचीपते॒ ऽमित्रा॑णां सहस्र॒शः ।।२३
अर्बुदिः । च । त्रिऽसंधिः । च । अमित्रान् । नः । वि । विध्यताम् ।
यथा । एषाम् । इन्द्र । वृत्रऽहन् । हनाम । शचीऽपते । अमित्राणाम् । सहस्रऽशः ॥२३॥
त्रिषंधिः कश्चित् सेनामोहको देवः संधित्रयोपेतवज्रायुधाभिमानी वा। स च अर्बुदिश्च उभौ नः अस्माकम् अमित्रान् शत्रून् वि विध्यताम् विविधं ताडयताम् । हे वृत्रहन् वृत्रस्य हन्तः इन्द्र हे शचीपते शच्या देव्याः पते यथा येन प्रकारेण एषाम् अमित्राणाम् शत्रूणां संबन्धिनो जनान् सहस्रशः सहस्रसंख्याकान् एकोद्योगेन हनाम मारयाम। तथा वि विध्यताम् इति संबन्धः । 'संख्यैकवचनाच्च वीप्सायाम्' ( पा ५,४,४३ ) इति सहस्रशब्दात् शस्प्रत्ययः ।
वन॒स्पती॑न्वानस्प॒त्यानोष॑धीरु॒त वी॒रुधः॑।
ग॑न्धर्वाप्स॒रसः॑ स॒र्पान्दे॒वान्पु॑ण्यज॒नान्पि॒तॄन्।
सर्वां॒स्ताँ अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ।।२४
वनस्पतीन् । वानस्पत्यान् । ओषधीः । उत' । वीरुधः । गन्धर्वऽअप्सरसः । सर्पान् । देवान् । पुण्यऽजनान् । पितॄन् ।
सर्वान् । तान् । अर्बुदे । त्वम् । अमित्रेभ्यः। दृशे । कुरु । उत्ऽआरान् । च । प्र। दर्शय ॥ २४ ॥
वनस्पतीन् वृक्षान् । वानस्पत्यान् वनस्पतिविकारान् । ओषधीः व्रीहियवाद्याः । उत वीरुधः विरोहणशीला आरण्याः गन्धर्वाप्सरसः गन्धर्वान् अप्सरसश्च सर्पान् विकृतवेषान् भुजङ्गान् देवान् पुण्यजनान् यक्षान् पितॄन् मृतान् पूर्वपुरुषान् मायामयान् । तान् सर्वान् हे अर्बुदे त्वम् अमित्रेभ्यः शत्रुभ्यो दृष्टिविषयान् कुरु । उक्तार्थम् अन्यत् ।
ई॒शां वो॑ म॒रुतो॑ दे॒व आ॑दि॒त्यो ब्रह्म॑ण॒स्पतिः॑।
ई॒शां व॒ इन्द्र॑श्चा॒ग्निश्च॑ धा॒ता मि॒त्रः प्र॒जाप॑तिः।
ई॒शां व॒ ऋष॑यश्चक्रुर॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ।।२५
ईशाम् । वः । मरुतः । देवः । आदित्यः । ब्रह्मणः । पतिः ।
ईशाम् । वः । इन्द्रः । च । अग्निः । च । धाता । मित्रः । प्रजाऽपतिः ।
ईशाम् । वः । ऋषयः । चक्रुः । अमित्रेषु । सम्ऽईक्षयन् । रदिते । अर्बुदे । तव ॥ २५ ॥
हे शत्रवः वः युष्माकं मरुदाद्या देवाः । प्रत्ययश्रवणसामर्थ्यात् चक्रुरिति अन्ते श्रूयमाणं सर्वत्र संबध्यते । ईशां चक्रुः ईश्वराः शिक्षका भवन्तु । तथा इन्द्रश्च अग्निश्च इत्यनुक्रान्ताश्च देवाः हे शत्रवः वः युष्माकम् ईशां चक्रुः ईश्वराः युष्माकं नियन्तारो भवन्तु । तथा ऋषयः अथर्वाङ्गिरःप्रभृतयः ईशां चक्रुः ईश्वराः शिक्षका भवन्तु । ईश ऐश्वर्ये । 'इजादेश्च गुरुमतोऽनृच्छः' (पा ३,१,३६ ) इति आम्प्रत्ययः । 'आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य' (पा १,३,६३ ) इत्यनुप्रयुज्यमानस्य करोतेः आत्मनेपदाभावश्छान्दसः । हे अबुदे अमित्रेषु अस्मदीयेषु शत्रुषु तव रदिते दन्तैर्विलेखने खादने सति तत् समीक्षयन् । व्यत्ययेन एकवचनम् । अवलोकयन्तो देवाद्याः । ईशां चक्रुः इति सम्बन्धः ।
तेषां॒ सर्वे॑षा॒मीशा॑ना॒ उत्ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्।
इ॒मं सं॑ग्रा॒मं सं॒जित्य॑ यथालो॒कं वि ति॑ष्ठध्वम् ।।२६ {२७}
तेषाम् । सर्वेषाम् । ईशानाः । उत् । तिष्ठत । सम् । नह्यध्वम् । मित्राः । देवऽजनाः । यूयम् ।
इमम् । सम्ऽग्रामम् । सम्ऽजित्य । यथाऽलोकम् । वि । तिष्ठध्वम् ॥ २६ ॥
तेषां सर्वेषाम् अस्मदीयानां शत्रूणाम् ईशानाः ईश्वराः शिक्षकाः सन्तः उत्तिष्ठत सं नह्यध्वं च तेषां शिक्षणाय उत्थाय संनद्धा भवत । हे मित्रा देवजनाः यूयम् इमम् अस्मदीयं प्रस्तुतं संग्रामं संजित्य सम्यग् जित्वा अस्मदीयान् शत्रून् निरस्य यथालोकं यथास्थानम् वि तिष्ठध्वम् स्वंस्वं स्थानं गच्छतेत्यर्थः । 'समवप्रविभ्यः स्थः' (पा १,३,२२) इति आत्मनेपदम् ।
इति पञ्चमेऽनुवाके तृतीयं सूक्तम् ।
टिप्पणी
द्र. ऋ. १०.९४