अथर्वपरिशिष्टः/परिशिष्टः ७१-७२
(परिशिष्ट_७१. औशनसाद्भुतानि)
(७१,१.१) पप्रच्छोशनसं काव्यं नारदः पर्यवस्थितः । दिव्यांश्चैवान्तरिक्षांश्च उत्पातान् पार्थिवांस्तथा ॥
(७१,१.२) ऋतूनां च विपर्यासे तथैव मृगपक्षिणाम् । अमानुषाणां व्याहारे स्थावराणां व्यतिक्रमे ॥
(७१,१.३) योनिव्यतिकरे चैव मांसशोनितवर्षणे । अनग्निज्वलने चैव तथा यानानुसर्पणे ॥
(७१,१.४) शस्त्रप्रज्वलने चैव चैत्यशुष्कविरोहणे । लिङ्गायतनचित्राणां रोदने गर्जने तथा ॥
(७१,१.५) उदपानतडागाबान् ज्वलने गर्जनेऽपि वा । मत्स्यसर्पद्विजातीनां रसानां च प्रवर्षणे ॥
(७१,२.१) आयुधानां प्रज्वलने गर्जने च विशेषतः । पुष्पे फले च वृक्षाणामकाले च विरोहणे ॥
(७१,२.२) प्रासादाद्रिविमानानां प्राकाराणां च कम्पने । गीतवादित्रशब्दाश्च यत्र स्युरनिमित्ततः ॥
(७१,२.३) ये चान्ये के चिदुत्पाता जायन्ते विकृतात्मकाः । तेषां फलं च कालं च तत्त्वेनाचक्ष्व भार्गव ॥
(७१,२.४) स तस्मै पृच्छते सम्यङ्नारदायाशनाः कविः । त्रिविधानप्यथोत्पातान् व्याख्यातुमुपचक्रमे ॥
(७१,२.५) यदा शीते भवत्युष्णमुष्णे शीतमतीव च । नवमासात्परं विद्यात्तेषु देशेषु वै भयम् ॥
(७१,३.१) यत्रानृतौ प्रबद्धेन त्र्यहादूर्ध्वं प्रवर्षति । तस्मिन् देशे प्रधानस्य पुरुषस्य वधो भवेत् ॥
(७१,३.२) कोकिलाश्च मयूराश्च अकाले मदभागिनः । संसर्गं वापि गच्छेयुर्विद्याज्जानपदं भयम् ॥
(७१,३.३) रुरवश्चैव रौद्राश्च पृषता हरिणास्तथा । येषु देशेषु दृश्यन्ते तानरण्याय निर्दिशेत् ॥
(७१,३.४) प्रधानाश्चैव वध्यन्ते पक्षे सप्तदशे तथा । तस्मिञ्जनपदे चैव महदुत्पद्यते भयम् ॥
(७१,३.५) गावोऽश्वाः कुञ्जराः श्वानः खरोष्ट्रा वानरोरगाः । नकुलाः पक्षिणो व्यालाः सूकरा महिषा मृगाः ॥
(७१,४.१) सत्त्वान्येतानि जल्पन्ति येषु देशेषु मानुषम् । तेषु देशेषु राजा तु षष्ठे मासि विनश्यति ॥
(७१,४.२) उत्पाता विकृतात्मानो दृश्यन्ते यत्र तत्र वै । देशे भवति शीघ्रं हि षण्मासाद्भयमुत्तमम् ॥
(७१,४.३) आसनं शयनं यानं यदा यत्र प्रसर्पति । विपक्षात्तत्र तत्स्वामी भयं प्राप्नोति दारुणम् ॥
(७१,४.४) धान्यकोष्ठायुधागाराः पाषाणाः कूपपर्वताः । एतानि यत्र सर्पन्ति विकृतानि वदन्ति च ॥
(७१,४.५) बहु वा जायते तीव्रं तस्मिन् देशे भयं महत् । त्रीन्मासान् परकाले तु शेषे सौम्यातिकं फलम् ॥
(७१,५.१) देशे वा यदि वा ग्रामे योनिव्यतिकरो भवेत् । तत्र संवत्सरादूर्ध्वं महदुत्पद्यते भयम् ॥
(७१,५.२) गौरश्वं वडवा वापि यस्मिन् देशे प्रसूयते । अभ्यन्तरेण तद्वर्षाद्राज्ञो मरणमादिशेत् ॥
(७१,५.३) मानुषी जनयेद्यत्र तृणादान् विविधान् पशून् । षण्मासोत्थं भयं तीव्रं तत्र तूत्पद्यते महत् ॥
(७१,५.४) परचक्रागमं चैव निर्दिशेदिह शास्त्रवित् । संग्रामाश्चात्र विपुला जायन्ते विकृतात्मकाः ॥
(७१,५.५) सर्पं वा पक्षिणं वापि जनयेद्यत्र मानुषी । प्रचलस्तस्य देशस्य षण्मासात्तु परं भवेत् ॥
(७१,६.१) उष्ट्रं वा या प्रसूयेत वानरं वापि मानुषी । अन्यद्वा जङ्गमं किं चित्स्थावरं वापि किं चन ॥
(७१,६.२) रोगेण शस्त्रपातेन दुर्भिक्षेण च पीडितः । स देशो व्यथते शीघ्रं राजा तत्र विनश्यति ॥
(७१,६.३) अमानुषी मानुषं वा मानुषी वाप्यमानुषम् । प्रसूयते तु जानीयात्परचक्रागमं ध्रुवम् ॥
(७१,६.४) चतुरक्षं द्विशीर्षं वा गात्रैर्न्यूनाधिकैस्तथा । व्यञ्जनैश्चोपसंपन्नं मानुषी या प्रसूयते ॥
(७१,६.५) द्विसंवत्सरपर्यन्ताद्राजा तत्र विनश्यति । उष्ट्रो वृषो वाप्यश्वो वा गजो वा यत्र जायते ॥
(७१,६.६) पक्षान्मासाच्च भवति राज्ञस्तत्र भयं महत् । परचक्रसमुत्थं वा स देशो भयमृच्छति ॥
(७१,७.१) योनिव्यतिकरं यत्र कुर्युरेवंविधं स्त्रियः । गौर्वा सूयेत्तथान्यानि तत्र राज्यं विनश्यति ॥
(७१,७.२) वसन्ति येषु देशेषु तेषु विद्यान्महद्भयम् । तस्मादेतानि सत्त्वानि राजा क्षिप्रं प्रवासयेत् ॥
(७१,७.३) अश्वा किशोरं जनयेच्छृङ्गिणं यत्र तत्र तु । आदिशेन्मरणं राज्ञो वर्षाभ्यन्तर एव हि ॥
(७१,७.४) माघे बुधे च महिषी श्रावणे वडवा दिवा । सिंहे गावः प्रसूयन्ते स्वामिनो मृत्युदायकाः । इति शास्त्रसमुच्चयात् ॥
(७१,७.५) नारी खरवृषोष्ट्राश्वाञ्शुनः सूकरगर्दभान् । राक्षसान् वा पिशाचान् वा यदाप्येवं प्रसूयते ॥
(७१,७.६) व्यापद्यन्तेऽत्र धान्यानि सस्यानि च धनानि च । चतुर्विधं भयं घोरं क्षिप्रं तत्र प्रवर्तते ॥
(७१,८.१) वध्यन्ते हि प्रधानास्तु सार्धमासाष्टमे तथा । व्याधींश्च तेषु देशेषु त्रीणि वर्षाणि निर्दिशेत् ॥
(७१,८.२) अनग्निर्ज्वलते यत्र देशे तूर्णमनिन्धनः । यो राजा तस्य देशस्य सदेशः स विनश्यति ॥
(७१,८.३) मांसवर्षेण मघवा यत्र देशे प्रवर्षति । अस्थीनि रुधिरं मज्जां वसां चैतेषु वै ध्रुवम् ॥
(७१,८.४) परचक्रागमः शीघ्रं विज्ञेयस्तु महद्भयम् । आहवाश्चात्र जायन्ते विपुला विकृतात्मकाः ॥
(७१,८.५) अङ्गारवालुकाधान्यं यत्र देवः प्रवर्षति । क्षिप्रं तत्र भयं घोरं प्रवर्तेत चतुर्विधम् ॥
(७१,९.१) सर्पान्मत्स्यान् पक्षिणो वा यत्र देवः प्रवर्षति । तत्र सस्योपघातः स्याद्भयं चातिप्रवर्तते ॥
(७१,९.२) सुरासवं तथा क्षौद्रं सर्पिस्तैलं पयो दधि । यत्र वर्षति पर्जन्यः क्षुद्रोगस्तत्र जायते ॥
(७१,९.३) उल्काताराश्च धिष्ण्येषु यदाङ्गारांश्च वर्षति । तदा व्याधिभयं घोरं तेषु देशेषु निर्दिशेत् ॥
(७१,९.४) पुमानश्वो गजो वापि यदा यत्र प्रदीप्यते । दशमासात्परं तत्र जानीयाद्राष्ट्रसंप्लवम् ॥
(७१,९.५) नाराचाः शक्तयः खड्गाः प्रदीप्यन्ते यदा मुहुः । तदा शस्त्रभयं घोरं तेषु देशेषु निर्दिशेत् ॥
(७१,१०.१) चैत्यवृक्षाः प्रभज्यन्ते विस्वरं विनदन्ति च । प्रहसन्ति प्रसर्पन्ति गायन्ति च रुदन्ति च ॥
(७१,१०.२) आगमः परचक्रस्य तेषु चापद्यते त्वरम् । सचक्रा वापि नश्यन्ति प्रधानश्चात्र वध्यते ॥
(७१,१०.३) यत्र स्रवेच्चैत्यवृक्षः सहसा विविधान् रसान् । पृथक्पृथक्समस्तान् वा तत्प्रवक्ष्यामि लक्षणम् ॥
(७१,१०.४) घृते मधुनि दुग्धे च घृते दुग्धे तथाम्भसि । क्षौद्रे मधुनि तैले वा व्याधयः स्युः सुदारुणाः ॥
(७१,१०.५) सुरासवे मिथोभेदः शोणिते शस्त्रपातनम् । तैले प्रधाना वध्यन्ते भक्षे क्षुद्भयमादिशेत् ॥
(७१,११.१) अनृतौ चेत्फलं यत्र पुष्पं वा सूयते द्रुमः । विद्याद्द्वादशमे मासि राज्ञस्तत्र विपर्ययम् ॥
(७१,११.२) पुष्पे पुष्पं भवेद्यत्र फले वा स्यात्तथा फलम् । पर्णे पर्णं विजानीयात्तत्र जानपदं भयम् ॥
(७१,११.३) शुक्लेन वाससा यत्र चैत्यवृक्षः समावृतः । ब्राह्मणानां भयं घोरमाशु तीव्रं विनिर्दिशेत् ॥
(७१,११.४) रक्तवस्त्रावृतैश्चान्यैः क्षत्रियाणां महद्भयम् । पीतवस्त्रैस्तु वैश्यानां शूद्राणां कृष्णवाससैः ॥
(७१,११.५) नीलैः सस्योपघातः स्याच्चित्रैस्तु मृगपक्षिणाम् । विवर्णैर्व्याधयस्तीव्राः परं स्युर्दशमासतः ॥
(७१,१२.१) दैवतानि प्रसर्पन्ति यत्र राष्ट्रे हसन्ति वा । उदीक्षन्तेऽथ रोधांसि तत्र विद्यान्महद्भयम् ॥
(७१,१२.२) विहसन्ति निमीलन्ति गायन्ति विकृतानि च । मांसशोनितगन्धानि यत्र तत्र महद्भयम् ॥
(७१,१२.३) यत्र चित्रमुदीक्षेत गायते चेष्टते मुहुः । एतेष्वष्टसु मासेषु राज्ञो मरणमादिशेत् ॥
(७१,१२.४) चित्राणि यत्र लिङ्गानि तथैवायतनानि च । विकारं कुर्युरत्यर्थं तत्र विद्यान्महद्भयम् ॥
(७१,१२.५) उदपानं तडागं वा सरः पर्वत एव वा । समुद्देशेषु दीप्यन्ते विद्याद्भयमुपस्थितम् ॥
(७१,१३.१) [प्रहसेयुः स्तनेयुर्वा] श्वा वा मार्जारवद्वदेत् । तस्य देशस्य राजा तु पीडामाप्नोति दारुणाम् ॥
(७१,१३.२) शङ्खवैणवतूर्याणां दुन्दुभीनां च निस्वनः । देशे यत्र भृशं तत्र राजदण्डो निपात्यते ॥
(७१,१३.३) यस्य राज्ञो जनपदे नित्योद्विग्नाः प्रजाः क्षयम् । गच्छन्ति न चित्रात्तत्र विनाशमपि निर्दिशेत् ॥
(७१,१३.४) यस्य राज्ञो जनपदे नित्यमेव गवां क्षयः । भयं तत्र विजानीयादचिरात्समुपस्थितम् ॥
(७१,१३.५) यस्य राज्ञो जनपदे नदी वहति कर्दमम् । काष्ठं तृणं चोपलं वा मृतमत्स्यान् ग्रहांस्तथा ॥
(७१,१४.१) मद्यं क्षौद्रं च मांसं च सर्पिस्तैलं पयो दधि । अन्यराजागमभयं तत्र देशे समादिशेत् ॥
(७१,१४.२) यस्य राज्ञो जनपदे प्रतिस्रोतो नदी वहेत् । मासाष्टकाज्जानपदं भयं स्याच्छस्त्रपाणिनः ॥
(७१,१४.३) कूपो वा गर्जते यत्र यदा वाप्यवदीर्यते । लोहितं वाथ पूयं वा भयं तत्र विनिर्दिशेत् ॥
(७१,१४.४) आयुधानि प्रधावन्ति तीव्रं प्रत्याहरन्ति च । तूणीरात्सहसा बाणा उद्गिरन्ति नदन्ति च ॥
(७१,१४.५) स्वभावतश्च पूर्यन्ते धनूम्षि प्रज्वलन्ति च । संग्रामो दारुणस्तत्र देशे भवति बिश्चितः ॥
(७१,१५.१) अकाले पुष्पवन्तश्च फलवन्तश्च पादपाः । दृश्यन्ते यस्य राष्ट्रेषु तस्य नाशो विभाव्यते ॥
(७१,१५.२) वृक्षा वल्ल्यश्च तरुणा यत्र स्युः फलपुष्पदाः । अकाले चापि दृश्येयुस्तत्र विद्यान्महद्भयम् ॥
(७१,१५.३) प्रासादानि विमानानि प्रज्वलन्ति तु यत्र वै । दृढानि च विशीर्यन्ते यस्य स म्रियतेऽचिरात् ॥
(७१,१५.४) वदन्त्यरण्ये तूर्याणि श्रूयन्ते व्योम्नि नित्यशः । निवसेत तदा राजा समागम्य दिशो दश ॥
(७१,१५.५) यस्य वेश्मनि श्रूयन्ते गीतवादित्रनिस्वनाः । अकस्मान्म्रियते सम्यग्धनं चास्य विलुप्यते ॥
(७१,१५.६) शङ्खवैणववीणाश्च भेरीमुरजगोमुखाः । वाद्यमानाः प्रदृश्यन्ते देशे यत्राप्यघट्टिताः ॥
(७१,१५.७) संभृत्यैव ततो भारमन्यं जनपदं व्रजेत् । मृगवांस्तु स देशो हि वायुश्चात्रोपजायते ॥
(७१,१५.८) अनाहता दुन्दुभयो वादित्राणि वदन्ति च । छिद्राणि च गृहे यस्य स शीघ्रं भयमृच्छति ॥
(७१,१५.९) देवराजध्वजानां च पतनं भङ्ग एव वा । क्रव्यादानां प्रवेशं च राज्ञः पीडाकरं भवेत् ॥
(७१,१५.१०) वाजिवारणमुख्यानामकस्मान्मरणं भवेत् । इतरक्षमापतेस्तत्र विज्ञेया सत्वरागतिः ॥
(७१,१६.१) अश्वत्थे पुष्पिते क्षत्रं ब्राह्मणं चाप्युदुम्बरे । प्लक्षे वैश्याश्तु पीड्यन्ते न्यग्रोधे दस्यवस्तथा ॥
(७१,१६.२) श्वेतमिन्द्रायुधं विप्रान् रक्तं क्षत्रियनाशनम् । वैश्यानां पीतकं रात्रौ कृष्णं शूद्रविनाशनम् ॥
(७१,१६.३) निर्घाते भूमिकम्पे च चैत्यशुष्कविरोहणे । देशपीडां विजानीयात्प्रधानश्चात्र वध्यते ॥
(७१,१६.४) इन्द्रयष्टिर्भज्यते वा विशस्तो वा पशुर्व्रजेत् । यदा तदा विजानीयाद्राज्ञः पीडामुपस्थिताम् ॥
(७१,१६.५) पितामहे वासुदेवे सोमधर्मार्यमेष्वपि । निमित्तमशुभं यत्र ब्राह्मणानां भयावहम् ॥
(७१,१७.१) बृहस्पतौ वा शुक्रे वा पावके पाकशासने । यानि रूपाणि दृश्यन्ते विद्यात्तानि पुरोहिते ॥
(७१,१७.२) महादेवे कुबेरे च तथा स्कन्दविशाखयोः । निमित्तं तत्पार्थिवेषु विज्ञेयं संप्रवर्तितम् ॥ [अकस्माद्दृश्यते यत्तु निमित्तं संप्रकीर्तितम् ॥]
(७१,१७.३) देवानां पार्थिवानां च रथो यत्र निमज्जति । भयं तत्र विजानीयात्पार्थिवस्याशुरद्भुतम् ॥
(७१,१७.४) सोमे च वासुदेवे च वरुणे पाकशासने । यद्भयं दृश्यते तद्धि ज्ञेयं भाण्डाधिके कने ॥
(७१,१७.५) वाते प्राजापतौ चैव विश्वकर्मणि चैव हि । प्रवर्तते यन्निमित्तं तज्जानपदिकं भवेत् ॥
(७१,१७.६) कुमारीषु कुमारीणां कुमाराणां कुमारजम् । तथा प्रेष्येषु सर्वेषु कल्पयेच्छास्त्रतः फलम् ॥
(७१,१७.७) इन्द्राणि वरुणानी च भद्रकाली महाबला । वीरमाता च यद्ब्रूयुस्तद्राजमहिषीभयम् ॥
(७१,१७.८) एकैवासां तथा चान्या याश्चान्या देवताः स्त्रियः । कुर्युर्निमित्तं तत्स्त्रीणां प्रधानानां च निर्दिशेत् ॥
(७१,१७.९) गन्धर्वेषु निमित्तं यत्तदन्येषु प्रदृश्यते । सेनापतीनां भयकृत्सचिवानां भयाय च ॥
(७१,१७.१०) रक्षपन्नगयक्षेषु लिङ्गस्यायतनेषु च । यथारूपं यथाकर्म पुरुषेषु व्यवस्थितम् ॥
(७१,१८.१) दक्षिणेषु शरीरेषु देवतानां च वेश्मसु । सर्वेष्वङ्गेषु नारीणां तुल्यं स्यादुभयोर्भयम् ॥
(७१,१८.२) स्वशरीरे यथोत्पाता विहिता दैवचिन्तकैः । तथैव परिसंख्येयं सर्वत्रैव शुभाशुभम् ॥
(७१,१८.३) माणिभद्रादयो यक्षा गन्धर्वाश्चित्रसेनयः । तद्भयं तु प्रधानानाममात्यानां विभावयेत् ॥
(७१,१८.४) येषु देशेषु दृश्येत दैवतेषु शुभाशुभम् । ते च देशा विनश्यन्ति राजा वाथ विनश्यति ॥
(७१,१८.५) ब्राह्मणा यत्र वध्यन्ते ग्रामे राष्ट्रेऽथ वा पुरे । राजधानीषु वा यत्र तदभावस्य लक्षणम् ॥
(७१,१९.१) यत्राबलं वध्यमानं राजा नैवाभिरक्षति । तत्र दैवकृतो दण्डो निपतत्याशु राजनि ॥
(७१,१९.२) छत्त्रध्वजपताकासु देवस्थाने गृहेषु च । द्वाराट्टालकहर्म्येषु [कारयेद्धोमवाचनम्] ॥
(७१,१९.३) यत्र प्रकृतिभूतानि लिङ्गानि विकृतानि च । देवताश्चापि नद्यश्च क्षरक्षाममहीरुहाः ॥
(७१,१९.४) सेना चैव न दृश्येत हस्त्यश्वैश्च पदातिभिः । हीनाङ्गा विकृताङ्गा वा प्रलयं तत्र निर्दिशेत् ॥
(७१,१९.५) स्तम्भवृक्षा ध्वजा यत्र स्रवेयू रुधिराम्बु च । धूमयेयुर्ज्वलेयुर्वा मन्त्रिणां तत्र वै वधः ॥
(७१,१९.६) जगत्स्वामिनि जानीयाद्यदि चेद्दिवि जायते । आन्तरिक्षं तु देशे स्याद्भौमं सस्योपतिष्ठति ॥
(७१,१९.७) भार्यायां वाहने पुत्रे कोशे सेनापतौ पुरे । पुरोहिते नरेन्द्रे वा पतते दैवमष्टधा ॥
(७१,१९.८) माहेन्द्रीममृतां रौद्रीं वैश्वदेवीमथापि वा । उत्पातेषु महाशान्तिं कारयेद्बहुदक्षिणाम् ॥
(७१,१९.९) शाम्यन्ति येन घोराणि योगक्षेमं च जायते । राजानो मुदितास्तत्र पालयन्ति वसुंधराम् ॥
(परिशिष्ट_७२. महाद्भुतानि)
(७२,१.१) अथ महाद्भुतानि व्याख्यास्यामः ॥
(७२,१.२) क्षिप्रविपाकीन्यमोघानि घोराणि ग्रहोपहतमुल्काभिहतं ग्रस्तं निरस्तमुपधूपितं वा यदा स्याज्जन्मनक्षत्रं कर्मनक्षत्रमभिषेचनीयजनपदनक्षत्रम्
(७२,१.३) एतेषु क्षिप्रमेव महाशान्तिममृतां कारयेद्राजाष्टमे च चन्द्रमसः स्थाने <वज्रे> च देवोपसृष्टे स्कम्भे वा
(७२,१.४) अथ वा नानावर्णे बहुरूपे शृङ्गिणि चादित्ये कीलवति च्[आद्भुतान्य्] उल्काभिहते
(७२,१.५) कचन्ध एव निश्वसति हसति भ्रमति
(७२,१.६) हासे भासे नादे शब्दे वासने च वैश्वानरेऽप्रज्वलितेऽन्तरिक्षे भस्मास्थ्यश्माङ्गारा वीथी चेन्द्रधनुषि रात्रौ वीध्र एव तु ॥
(७२,२.१) चन्द्रार्कौ यस्य राष्ट्रे परिविष्येतातां तान् विपक्षान् परोलकसंस्थाञ्जनपदांस्
(७२,२.२) तथैव काककपोतकङ्कगृध्रयक्षराक्षसपिशाचश्वापदेषु नक्तं वदत्स्वभिवदत्सु गायत्सु रायत्सु वा चक्रध्वजवेश्मावसथप्रासादाग्रे
(७२,२.३) वापीकूप उदपाने चोद्गिरति नदति विद्योतति वा
(७२,२.४) रथयन्त्रवारणप्रवहणवादित्रादिषूल्कादयोऽङ्गारा धूमोऽर्चिर्वा प्रादुर्भावे
(७२,२.५) लिङ्गं विलिङ्गे राज्ञः
(७२,२.६) कालोलूककृकलासश्येननिपतिते राजछत्त्रे भग्ने ध्वजे चक्रस्य राज्ञो दण्डे राज्ञश्च दन्ते
(७२,२.७) हस्तिन्यां च मत्तायां ग्रामे च प्रसूतायाम्
(७२,२.८) राजरथश्च राजाधिरूढो भग्नाक्षः सप्तरात्राद्राज्ञो हन्ति पुरोहितममात्यं सेनापतिं जायां हस्तिनं महिषीं कुमारं राजानमेव वा ऋध्नुयाद्य एवं वेद
(७२,२.९) द्वादशं शतं गवां धेनूनां कंसवसनं हिरण्यं निष्कोऽश्व एताश्च दक्षिणाः ॥
(७२,३.१) नानुत्पन्नेषु दैवेषु राज्ञां शान्तिर्विधीयते । अस्थानेषु कृता शान्तिर्निमित्तायोपपद्यते । तस्मात्स्थानं समुद्दिश्य कारयेच्छान्तिमात्मनः ॥
(७२,३.२) सर्पसमितौ वायुसंभ्रमे उदकप्रादुर्भावगमनेषु
(७२,३.३) धनुःसंध्योल्कापरिवेषविद्युद्दण्डाशनिपरिघपरिधिनिर्घाते
(७२,३.४) रजोवर्षमुपलवर्षं दधिमधुघृतक्षीरवर्षं मज्जारुधिर<वर्षम्> वर्षति
(७२,३.५) हीनगभस्ती द्वे मार्गे वीथ्यौ वित्तक्षये सोमस्य क्षयेऽपूर्णपूरणे क्षयस्यावभासाः सद्योऽपररात्राद्दिग्दाहोपधूपनम्
(७२,३.६) ग्रहवैषम्यमारोहणमाक्रमणं गन्धर्वनगरं मारुतप्रकोपस्तिथिकरणमुहूर्तनक्षत्रग्रहादीनां सोमवियोगः
(७२,३.७) प्रतिस्रोतोगामिन्यो नद्यः प्रासादतोरणध्वजेषु वायससमवाया वृकशकटारोहणं वृषदंशातिमार्जनमुलूकप्रतिगर्जनं श्येनगृध्रादीनां ध्वजाभिलपनम्
(७२,३.८) विकृताश्च मानुषामानुषप्रभवाः स्त्रीबालवृद्धप्रलापाः प्रदीप्तेन्द्रयष्टिपादभग्नेऽद्रव्येष्वेकवृक्षे द्विछाये प्रतिछाये परिवृक्तम्
(७२,३.९) अत ऊर्ध्वम् [छायो]ऽकस्माच्चैत्यवृक्षस्तम्भपतने विरोहत्स्वविरोहेष्वछिन्नपर्णप्रपाताच्छुष्कशाखिनो द्रुमा धूमरजोदकप्रादुर्भावगमनेषु वनस्पतिषु
(७२,३.१०) बहुशस्त्रभङ्ग इन्द्रकीलगोपुराट्टालकध्वजादीनां भङ्ग उचितानां व्युच्छेदनेऽनुचितानां प्रवर्धने दृढभङ्गेसु
(७२,३.११) शुष्कविरोहे गृहे वल्मीके शयनदेशे दर्हस्तम्बोत्पत्तौ मित्रविरोधेऽमित्रप्रीतौ च देवतार्चयो तथछेदने
(७२,३.१२) यत्र राजाप्रसादमुखः पौरेषु च भृत्यादिषु भवति भवन्ति चात्र श्लोकाः
(७२,३.१३) यदा तु प्रतिपत्सोमो विकृत्या विकृतो भवेत् । अनुद्भिन्नो विलूनो वा राज्ञो मरणमादिशेत् ॥
(७२,३.१४) आयुधाकाररूपाणि श्वेतवर्णाकृतीनि च । पञ्चवर्णानि चाभ्राणि तथा दण्डनिभानि च ॥
(७२,३.१५) यदा चन्द्रार्कयोर्मध्ये कृष्णं भवति मण्डलम् । स शङ्कुरिति विज्ञेयो ग्रहः परमदारुणः ॥
(७२,३.१६) तत्र राज्ञो वधं विद्यात्सर्वभूतभयावहम् । तत्र कुर्यान्महाशान्तिममृतां विश्वभेषजीमिति ॥
(७२,४.१) अथ यस्मिन्नेव जनपदे गोब्राह्मणसूतसांवत्सरवैद्यानां परिव्राजकचारणवानप्रस्थब्रह्मचारिणां वापि संकरः प्रवर्तते तदद्भुतं विद्यात्
(७२,४.२) कर्मसंकरं यज्ञसंकरं व्यवहारसंकरं च यत्र च धर्मोऽधर्मेष पीड्यते तदद्भुतं विद्यात्
(७२,४.३) तेषामज्ञातप्रायश्चित्तं यदज्ञातमनाम्नातमिति मध्ये जुहुयात्पुरुषसूक्तं च तेष्वकृतप्रायश्चित्तेषु महाद्भुतानि प्रादुर्भवन्ति ॥
(७२,४.४) दिव्यानीत्याचक्षते देवगृहेष्वथ हसन्ति गायन्ति रुदन्ति क्रोशन्ति प्रस्विद्यन्ति प्रधूमायन्ति प्रज्वलन्ति प्रकम्पन्त्युन्मीलयन्ति निमीलयन्ति लिहितं स्रवन्ति परिवर्तयन्ति वा
(७२,४.५) तेषां प्रादुर्भावगमनेष्वन्यराजागमनं वा विद्यादुदग्रं वा[ङ्गेगम्] अवृष्टिशस्त्रभयं बुभुक्षामारं जानपदममात्यानां राज्ञो विनाशम्
(७२,४.६) तेषु सर्वेषु भृग्वङ्गिरोविदमित्युक्तं स चतुष्पथ ईशानं प्रपद्येत ॥ ओं प्रपद्ये भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये जनत्प्रपद्य इति प्रपद्येत
(७२,४.७) कपिलानामष्टशतस्य क्षीरेण पायसं श्रपयित्वा कपिलास्वलभ्यमानासु दोग्ध्रीणां शतस्य क्षीरेण पायसं शरपयित्वा प्राञ्चमिध्ममुपसमाधाय परिस्तीर्य बर्ही रौद्रेण गणेन शान्ता जुहुयात् ॥ सर्पिर्जुहुयात्पायसं जुहुयाच्छुक्लाः सुमनस उपहरेद्ब्राह्मणान् भक्तेनोपेपसन्ति ता एव गा दद्याद्राज्यं वा परिमितकालं तस्य परितुष्टये गोसहस्रं कर्त्रे दद्याद्ग्रामवरं च ॥
(७२,५.१) अथ यत्रैतच्छयने वाथ वस्त्रे वा जायते यद्धुताशनः । एतदत्यद्भुतं नाम सर्वक्षयकरं नृणाम् ॥
(७२,५.२) अत्र ब्राह्मीं महाशान्तिं कारयेद्बहुदक्षिणाम् । बह्वन्नां बहुसंभारामनूचानसुदक्षिणाम् । राज्यकामोऽर्थकामो वा पूजयेत्तु बृहस्पतिम् ॥
(७२,५.३) सृजन्ति देवा दिव्याद्भुतानि प्रागुपसर्गात्प्रतिबोधनार्थम् । कार्याणि विघ्नानि तथा जनानां कर्माकुले वर्णसमाकुले च ॥
(७२,५.४) दैव्योपसृष्टेन बलेन कार्यं कार्य च शान्तिः प्रणिपत्य देवान् । ततोपसर्गाद्विघ्नात्प्रमुच्यते दिवि चेदनिष्टं न पुनः स कुर्यात् ॥
(७२,५.५) पृथिव्यामन्तरिक्षे च दिवि चाप्युपलक्षयेत् । चेष्टितं सर्वभूतानां रुतं च मृगपक्षिणाम् ॥
(७२,६.१) ग्रामे कुले वा यदि वापि देशे राजन्यमात्येषु तथा द्विजेषु । भावः पशूनां विकृतो विरूपस्तदद्भुतं तस्य देशस्य विद्यात् ॥
(७२,६.२) अमात्यभेदो विविधैकशीर्ष एकद्विशीर्षे भवति द्विराज्यम् । अपादहस्ते म्रियते ह्यमात्यो जाते कवन्धे नृपतिर्विनश्येत् ॥
(७२,६.३) यदाधिकाङ्गो यदि वाङ्गहीनो भवेत्पशूनां विकृतो विरूपः । स्त्रीणां तथैव विकृतो विरूपस्तदद्भुतं तस्य देशस्य विद्यात् ॥
(७२,६.४) अनास्यं वाप्यनोष्ठं वा जायते चेद्विदूलकम् । अरूपमसरूपं वा जायते चेद्विदूलकम् ॥
(७२,६.५) अधरादीन्नचक्षुर्वा जायते चेद्विदूलकम् । एतदत्यद्भुतं नाम राष्ट्रे राज्यक्षयम्करम् ॥
(७२,६.६) तमद्भिः स्नातं सुरभिं सुगन्धिं गतासुमग्नौ जुहुयाद्घृताक्तम् । गनेण रौद्रेण घृतं च हुत्वा तथा महात्मा शिवमस्य कुर्यात् ॥