अथर्वपरिशिष्टः/परिशिष्टः २१-३०

विकिस्रोतः तः
Jump to navigation Jump to search

(परिशिष्ट_२१. संभारलक्षणम्)
(२१,१.१) ओं संभारान् कीर्तयिष्यामो यथालक्षणसंयुतान् । यैः कर्म क्रियमाणं हि फलवत्स्याद्द्विजन्मनाम् ॥
(२१,१.२) अछिन्नाग्रान् कुशानार्द्रानिन्द्रनीलसमप्रभान् । शुष्कानपि श्वेतवर्णानाहुः शान्तिकरान् बुधाः ॥
(२१,१.३) सुरभीणि च पुष्पाणि सुस्वादूनि फलानि च मनोहराणि वासांसि संभारेषूपकल्पयेत् ॥
(२१,१.४) सुरभीण्येव बीजानि अन्यवस्तूनि यानि च । अर्घचन्दनधूपादि हेमरत्नादि चोत्तमम् ॥
(२१,१.७ द्) गावश्च दक्षिणार्थं हि पयस्विन्यः सुलक्षणाः ।
(२१,१.८ ब्) षोडशाष्टौ च चत्वारश्चतुर्णां वेदवित्तमाः ॥
(२१,१.५) ऋत्विजस्तु समाख्याता वयःशीलगुणान्विताः । द्वात्रिंशत्षोडशाष्टौ वा शान्तिकार्ये तथाद्भुते ॥
(२१,१.६) सहिरण्याः सवस्त्राश्च सालंकाराः सवत्सकाः । ते सदस्या इति प्रोक्ता वाचने यज्ञकर्मणि ॥
(२१,१.७ ब्) सर्वे तेऽपि ह्यथर्वाण ऋत्विजः षोडश स्मृताः ।
(२१,१.८ द्) शुद्धात्मानो जपैर्होमैर्वैदिकैर्वीतमत्सराः ॥
(२१,२.१) ताम्रराजतहैमानां मृन्मयानामथापि वा । अछिद्राणां सवर्णानां कलशानां च संग्रहः ॥
(२१,२.२) चरूणामथ पात्राणामिन्धनानां विशेषतः । यवव्रीहितिलऽऽआदीनामाज्यस्याहरणं तथा ॥
(२१,२.३) अछिद्रास्फातितावक्रा दीर्घपर्वाः सुमध्यमाः । शमीदूर्वातरूणां तु ज्ञेयाः शान्तौ शभावाः ॥
(२१,२.४) पुष्करतन्तुगोवालत्रुटिसर्षपयवस्य तु । षड्गुणितःषड्गुणितो [भवति] नरस्याङ्गुलमाने ॥
(२१,२.५) गोपुच्छसदृशो दण्डः समः श्लक्ष्णो मनोहरः । स्रुवश्च शान्तुके ज्ञेयः स्रुगुक्ता यज्ञलक्षणा ॥
(२१,३.१) सौवर्णः शान्तिके प्रोक्तः पालशो वाथ खादिरः । अभिचारे विशेषेण कुर्यात्स्रुवमयोमयम् ॥
(२१,३.२) कांस्यं य्च्चाटने कुर्यादाश्वत्थं वश्यकर्मणि । विशेषेण तु विद्वेषे स्रुवो निम्बमयः स्मृतः ॥
(२१,३.३) पौष्टिके राजतं विद्यात्ताम्रं च विजयावहम् । अमृतादौ तु विज्ञेयश्चान्दनः सिद्धिदः स्रुवः ॥
(२१,३.४) स्रुवाणां विषयं ज्ञात्वा कीलकानां विधिं तथा । गृहस्याश्मविधिं दिक्षु कर्मसिद्धिमवाप्नुयात् ॥
(२१,३.५) श्लेष्मातकार्ककण्टकिकटुतिक्तादिवर्जिते । अरिष्टगृध्रकौशिकविहंगैश्च विवर्जिते ॥
(२१,४.१) गुल्मवल्लीलतायुक्ते हृद्यैश्च मधुरैर्द्रुमैः । तरुणैः फलवद्भिश्च श्मशानास्थिविवर्जिते ॥
(२१,४.२) मयूरचक्रवाकादिहंसकारण्डवादिभिः । सुस्वरैर्नादिते देशे हृद्याङ्कुरसमन्विते ॥
(२१,४.३) नदीतटे समुद्रस्य संगमे वा विशेषतः । अनिन्द्ये दिग्विभागे च उत्तरे वापराजिते ॥
(२१,४.४) भूमिं संशोधयेत्कर्ता प्रागुदक्प्प्रवणे शुभे । प्राचीं संशोध्य यत्नेन मण्डपं तत्र कारयेत् ॥
(२१,४.५) नवकोष्ठं समं वापि हस्तैः षोषशभिर्मितम् । चतुरश्रं चतुर्द्वारमेकोर्ध्वद्वारमेव वा ॥
(२१,५.१) तत ईशानकोणे तु स्नानवेदिं समाचरेत् । दशद्वादशहस्तं वा यथावितानमेव वा ॥
(२१,५.२) चतुर्गुणोच्छ्रयाश्चैव मूलस्तम्भास्तु ये ततः । उपस्तम्भास्तु ये पार्श्वे तदर्धेन प्रकीर्तिताः ॥
(२१,५.३) कुम्भाः स्तम्भैस्तथा देयाः कामैर्द्वारं दिशां स्मृतम् । यजमानोच्छ्रयं वापि तदर्धेन प्रकीर्तिताः ॥
(२१,५.४) कुण्डाकृति गृहं कुर्याद्द्विगुणं परिवेष्तितम् । सर्वदिक्षु प्लवं चैव कुण्डस्योर्ध्वं न छादयेत् ॥
(२१,६.१) परितो द्वादशस्थूनं चतु[ः]स्तम्भं तु मध्यतः । अर्चितं पूजितं नित्यं शान्तौ शान्तिगृहं स्मृतम् ॥
(२१,६.२) नेत्राद्युल्लोचशोभिष्ठं नानावर्णध्वजाकुलम् । रक्ता पीता च धूम्रा च कृष्णा नीलाथ पाण्डुरा ॥
(२१,६.३) विचित्रा हीन्द्रनीलाभा पताकाः षोडश स्मृताः । [ऐन्द्रायुधधूम्रकृष्णनीलपाण्डुरवर्णकाः] ॥
(२१,६.४) [पीतरक्तसिताः श्यामा पताकाः षोडश स्मृताः ।] कलशान् षोडशान् तत्र उपरिष्टान्महाध्वजः ॥
(२१,६.५) वस्त्रेणाछादितान् कुर्यात्सहिरण्यान् पृथक्पृथक् । मणिमुक्ताफलैः पुष्पैर्हृद्यैश्च मधुरैः फलैः ॥
(२१,६.६) समन्ताद्दिक्षु विन्यस्तैः प्रदीपैश्चाप्यलंकृतम् । धूपैर्बल्युपहारैश्च जयघोषैश्च बन्दिनाम् ॥
(२१,६.७) शङ्खतूर्यनिनादैस्तु वीणादुन्दुभिसस्मितैः । पूज्यमानो हि नृपतिः प्रविशेत्सपुरोहितः ॥
(२१,६.८) ततः शान्त्युदकं कृत्वा चातनेनानुयोजितम् । संप्रोक्ष्य विधिवन्मन्त्रैरानयेदरणी ततः ॥
(२१,७.१) मथितेऽग्नौ विधानेन शान्त्युदकेन समन्त्रकम् । होमं कृत्वा यथोक्तं तु निमित्तान्युपलक्षयेत् ॥
(२१,७.२) मेघदुन्दुभिनिर्घोषैः प्रज्वलन् सर्वतस्तथा । अव्यवछिन्नदीर्घार्चिः सुस्निग्धः सिद्धिकारकः ॥
(२१,७.३) किंशुकाशोकपद्माभो नीलोत्पलनिभस्तथा । वह्निः सिद्धिकरो ज्ञेयः सप्तरात्रान्न संशयः ॥
(२१,७.४) हुतमात्रे प्रज्वलति विहसन्निव दृश्यते । तं विद्यात्सिद्धिदं वह्निं पद्मवर्णनिभं तथा ॥
(२१,७.५) अस्निग्धार्चिः सधूमो यः कृष्णवर्णोऽप्रदक्षिणः । यथोक्तविपरीतस्तु न वह्निः स्यात्प्रयंकरः ॥
(२१,७.६) यस्मिन् प्रसन्नतामेति हूयमाने हुताशने । तत्र नित्यं महासिद्धिरसमाप्ते विनिर्दिशेत् ॥ असमाप्ते विनिर्दिशेत् ॥ इति संभारलक्षणं समाप्तम् ॥


(परिशिष्ट_२२. अरणिलक्षणम्)
(२२,१.१) ओमथातः संप्रवक्ष्यामि अरण्योश्चैव लक्षणम् । रूपमथा प्रमाणं च गुणदोषान् तथैव च ॥
(२२,१.२) चोदितान् शब्दशास्त्रेण आचार्येण तु धीमता । पुरा कल्पे च यद्दृष्टमृषिभिश्चैव लक्षणम् ॥
(२२,१.३) गृह्याग्निं परिसंगृह्य धर्मपत्न्या सहैव तु । वैतानिकास्ततः कुर्यादाधानाद्या यथोदिताः ॥
(२२,१.४) तिथौ शुभायां नक्षत्रे दिशं गत्वा त्वनिन्दिताम् । अश्वत्थात्तु शमीगर्भादुक्तमाहरणं श्रुतेः ॥
(२२,१.५) शमीवृक्षे तु योऽश्वत्थो नान्यवृक्षेण संयुतः । मध्ये मूलं न बाह्ये तु स गर्भः परिकीर्तितः ॥
(२२,२.१) अभावे तु शमीगर्भे अश्वत्थादेव वाहरेत् । प्राप्ते चैव शमीगर्भे समारोप्य विसर्जयेत् ॥
(२२,२.२) चतुर्विंशाङ्गुला दीर्घा विस्तरेण षडङ्गुला । चतुरङ्गुलोच्छ्रया च अरणिश्चोत्तरारणिः ॥
(२२,२.३) आ स्कन्धादुरसो वापि इति स्तौदायनैः स्मृता । बाहुमात्रा देवदर्शैर्जाजलैरूरुमात्रिका ॥
(२२,२.४) चारणवैद्यैर्जङ्घे च मौदेनाष्टाङ्गुलानि च । जलदायनैर्वितस्तिर्वा षोडशेति तु भार्गवः ॥
(२२,२.५) शिरःप्रमाणे नाभौ तु चतुर्विंशतिकैव हि । शौनकादिभिराचार्यैरेतन्मानं प्रकीर्तितम् ॥
(२२,३.१) तस्यास्तु पिण्डः षड्भागे चतुर्भागे तु विस्तरे । चतुरश्रा च श्लक्ष्णा च छिद्रग्रन्थिविवर्जिता ॥
(२२,३.२) क्लिन्ना भिन्नाग्निसंस्पृष्टा स्फुटिता विद्युता हता । अन्यैश्च दोषैः संयुक्ता वर्जनीया प्रयत्नतः ॥
(२२,३.३) शिरोग्रन्थिर्हरेच्चक्षुश्छिद्रा पत्नीविनाशिनी । क्लिन्ना विनाशयेत्पुत्रान् स्फुटिता शोकमावहेत् ॥
(२२,३.४) ऊर्ध्वशुष्के न कर्तव्या कृष्णे रूक्षे तथैव च । उभे अप्येकवृक्षे च अरणिश्चोत्तरारणिः ॥
(२२,३.५) तत्प्रमाणा तदर्धा वा भूयसी वा यथेच्छया । अनेनैव तु मन्थव्यो न कुर्याद्योनिसंकरम् ॥
(२२,४.१) योनिसंकरसंकीर्णे महान् दोषः प्रपद्यते । स यज्ञस्तामसो नाम फलं तत्र न विद्यते ॥
(२२,४.२) पिण्डे त्वयनविषुवौ पृथुत्वे ऋतवः स्थिताः । अर्धमासाश्च दीर्घत्वे कालश्चात्र प्रतिष्ठितः ॥
(२२,४.३) यजमानोऽरणिरिति वदन्त्येके विपश्चितः । तत्प्रधानाः क्रियाः सर्वा यज्ञश्चापि तथैव हि ॥
(२२,४.४) प्रथमे मूलषड्भागे पादौ जङ्घेति कीर्त्यते । द्वितीये जानुनी ऊरू तृतीये श्रोणिरुच्यते ॥
(२२,४.५) चतुर्थे जठरं साङ्गं ग्रीवा चैव तु पञ्चमे । षष्थे शिरः समाख्यातमङ्गान्येतानि निर्दिशेत् ॥
(२२,५.१) मथिते पादजङ्घे च पिशाचः संप्रजायते । जानुनोश्च तथा चोर्वो राक्षस्त्वं प्रयाति हि ॥
(२२,५.२) श्रोण्यां च सर्वकामा[ः] स्युर्जठरे क्षुत्तथा स्मृता । उरस्यमित्रा ग्रीवायां मृत्युः शिरसि वेदना ॥
(२२,५.३) श्रोण्यामेवात ऐच्छन्ति निर्दोषा कीर्तिता यतः । तथा वित्तपशून् पुत्रान् स्वर्गमायुः प्रियं सुखम् ॥
(२२,५.४) प्रथमं मन्थनं श्रोण्यामाधाने च विशेषतः । इतराणि यथेष्तं हि ग्रीवां सर्वत्र वर्जयेत् ॥
(२२,५.५) त्रीण्यङ्गुलानि त्यक्त्वादौ तथा चत्वारि चान्ततः । मध्ये देवाः स्थितास्तस्माद्वह्निं तत्रैव मन्थयेत् ॥
(२२,६.१) अनुलोमा भवेद्योनिः पार्श्वभेदो न विद्यते । आनुलोम्येन मथितः सर्वान् कामान् प्रयच्छति ॥
(२२,६.२) मूलादङ्गुलमुत्सृज्य त्रीणित्रीणि च पार्श्वयोः । देवयोनिस्तु विज्ञेया तत्र मथ्यो हुताशनः ॥
(२२,६.३) [मूलात्त्यक्त्वाङ्गुलान्यष्टौ अग्रात्तु द्वादशैव हि । अन्तरे देवयोनिः स्यात्तत्र मथ्यो हुताशनः] ॥
(२२,६.४) वेदा यज्ञाय संभूता यज्ञा अग्नौ प्रतिष्ठिताः । अरण्योर्जायते चाग्निस्तयोस्तस्मात्प्रधानता ॥
(२२,६.५) अरण्यर्धेन चैव स्युः खादिरौ चात्रपीडकौ । नेत्रं तु षड्गुणं चात्रादुत्तरोऽष्टाङ्गुलः स्मृतः ॥
(२२,७.१) अष्टाङ्गुलः प्रमन्थः स्याच्चात्रं स्याद्द्वादशाङ्गुलम् । ओवीली द्वादशाङ्गुला एष यज्ञविधिः स्मृतः ॥
(२२,७.२) व्याममन्त्रं वदन्त्येके अन्ये हस्तत्रयं विदुः । त्रिवृतं मुष्टिसंयुक्तं यज्ञवृक्षजवल्कलैः ॥
(२२,७.३) चात्रे च भास्कराः प्रोक्ता उत्तरे वसवस्तथा । नेत्रे देवगणाः सर्वे विष्णुश्चैव तु पीडके ॥
(२२,७.४) अरणिर्या द्वितीया तु उत्तरा सा प्रकीर्तिता । तत्रैकदेशं संगृह्य उत्तरः स च कीर्तितः ॥
(२२,७.५) प्राङ्मुखोदङ्मुखो वापि भ्रामकः पश्चिमामुखः । पाणिभ्यां पीडनं शुभ्रमुत्तराग्रं प्रगृह्य तु ॥
(२२,८.१) मूले मूलं तु संयोज्य चात्रस्यैवोत्तरस्य च । अरण्युपरि संस्थाप्य पीडकेन तु पीडयेद् ॥
(२२,८.२) नेत्रेण भ्रामयेच्चात्रं यावद्वह्निः प्रजायते । सर्वैर्हि देवैः संपन्नस्तेन सर्वसुखः स्मृतः ॥
(२२,८.३) ब्रह्माद्यैर्दैवतैश्चैव विद्वद्भिश्च तपोधनैः । एष यन्त्रप्रयोगस्तु दृष्टो यज्ञार्थहेतुभिः ॥
(२२,८.४) यजमानेन मन्थव्यः स्वशाखाश्रोत्रियेण वा । तन्मन्त्रेन द्विजाग्र्यैर्वा स्मृतमेतद्धि मन्थनम् ॥
(२२.९.१) (अथ) यद्यरणी जीर्णे स्यातां जन्तुभिर्मन्थनेन वा ॥ समानीते नवे अरणी आहृत्य श्वे भूते दर्शेनाष्ट्वा तस्मिन् पूर्वे शकलीकृत्य गार्हपत्ये प्रक्षिप्योपर्यग्नौ धारयन् जपति ॥
(२२,९.२) उद्बुध्यस्वाग्ने प्र विशस्य योन्यां देवयज्यायै वोढवे जातवेदः । अरण्योररणी सं चरस्व जीर्णां त्वचमजीर्णया निर्णुदस्वेत्य्
(२२,९.३) आज्यं संस्कृत्याहवनीये मनस्वतीं जुहोति ॥ [पुत्रार्थी श्रावयेत्] ॥
(२२,९.४) मनो ज्योतिर्जुषतामाज्यस्य विछिन्नं यज्ञं समिमं दधातु । या इष्टा उषसो या अनिष्टास्ताः सं चिनोमि हविषा घृतेन स्वाहेति अग्नयेऽग्निमतेऽष्टाकपालं पुरोडाशं निर्वपति ॥ शरावोदनं सदक्षिणं ददाति ॥ सा प्रकृतेष्तिः संगृह्यते ॥
(२२,१०.१) प्रसङ्गेनैव कथितमग्निमन्थनमत्र वै । अरण्योश्चाङ्गसंभूतं नेत्रं चात्रं च पीडकः ॥
(२२,१०.२) य इदं धारयिष्यति अरण्योरिह लक्षणम् । न तस्य दुर्लभं किं चिद्लोके परत्र च ॥
(२२,१०.३) पुत्रार्थी श्रावयेन्नित्यमचिराल्लभते सुतम् । श्रुतशीलं वृत्तवन्तं दीर्घायुर्विपुलां प्रजाम् ॥
(२२,१०.४) एतदेवं समाख्यातं पिप्पलादेन धीमता । द्विजानां बालवृद्धानां पुरश्चरणमुत्तमम् ॥
(२२,१०.५) अधीत्यैतच्च देहान्ते परं ब्रह्माधिगच्छति । न तस्य मृत्युर्न जरा निद्रा व्याधिर्न चैव हि । क्षुत्पिपासाभयं नास्ति ब्रह्मभूतः स तिष्ठति ॥

(परिशिष्ट_२३. यज्ञपात्रलक्षणम्)
(२३,१.१) ओमथातो यज्ञपात्राणां लक्षणं योनिरेव च । रूपं तथा प्रमाणं च क्रमेनैव प्रकथ्यते ॥
(२३,१.२) चमसग्रहपात्राणि होमपात्राणि यानि च । यज्ञवृक्षास्तथा शाखा ब्रह्मवेदे प्रदर्शिताः ॥
(२३,१.३) पितृपिण्डेषु दर्व्याद्यमग्निष्वात्तं च याज्ञिकम् । सायंहोमेषु नित्यानि तथा नैमित्तिकानि च ॥
(२३,१.४) बिल्वाकृतिश्चरुः प्रोक्तस्ताम्रो वा मृन्मयोऽपि वा । ग्रीवायां मुखविस्तीर्णश्चरुस्थालीति कीर्त्तितः ॥
(२३,१.५) कुशस्याम्रस्य वा पर्णैर्वेणोर्वा बल्बजस्य वा । चतुष्कोणार्धवीतं च लोके शूर्पं तदुच्यते ॥
(२३,२.१) असिः खड्गं च निस्त्रिंशः पर्यायाः परिकीर्त्तिताः । तदाकृट्येव यद्रूपं यज्ञे स्फ्यं च वदन्ति तम् ॥
(२३,२.२) इध्मोच्छ्रयमर्धखातं खातेनैव तु विस्तरः । मध्ये हीनं तथोर्ध्वाग्रं वारणं तदुलूखलम् ॥
(२३,२.३) स्थूलत्वान्मुष्टिमात्रं च स्कन्धमात्रं प्रमाणतः । वारणं मुसलं चैव अधस्ताल्लोहवेष्टितम् ॥
(२३,२.४) स्रुवस्तु मूलदण्डश्च बिलं चाङ्गुष्ठपर्वणः । समवेते पृथग्भूते बिलार्धे दण्डवृत्तता ॥
(२३,२.५) वैकङ्कती ध्रुवा प्रोक्ता सर्वयज्ञेषु या स्मृता । तथाग्निहोत्रहवणी स्रुवश्चापि तथा स्मृतः ॥
(२३,३.१) मूलदण्डा त्वग्बिला च पुष्करं चतुरङ्गुलम् । पुष्कराद्द्विगुणं चाग्रं गजोष्ठं परिपठ्यते ॥
(२३,३.२) [नेत्रादिकरणैर्हीनं नासिकाभ्यां द्विजैस्तथा । द्व्यङ्गुलः खाता च बिलादङ्गुलं चैव पिण्डिका । वृत्ता वा चतुरश्रा वा साधस्ताच्छोभना स्मृता] ॥
(२३,३.३) अर्धाङ्गुलं पृथुत्वेन बिलबाह्यं समन्ततः । बिलं वृत्तं स्रुचो मध्ये दण्डस्थौल्यं बिलार्धतः ॥
(२३,३.४) चतुर्विंशत्यङ्गुलं दण्डं वदन्त्येके मनीषिणः । सप्तत्रिंशदङ्गुलानि सा स्रुक्चैव प्रकीर्तिता ॥
(२३,३.५) भिन्ना विशीर्णा वक्रा च क्लिन्ना च स्फुटिता तथा । सुषिरा ग्रन्थिभिर्युक्ता चक्षुरादिविनाशिनी ॥
(२३,४.१) दग्धशेषेऽर्धशुष्के च विद्युता चैव पातिते । उन्मूल्ये पतिते भग्ने मनसापि न चिन्तयेत् ॥
(२३,४.२) शुभनक्षत्रातिथिषु शुभां गत्वा दिशं बुधः । स्रुवार्थं पातयेद्वृक्षं प्रातः प्राग्रं च सौम्यवाक् ॥
(२३,४.३) मृगो हरिणरुरुश्च कृष्णपृष्ठशिरस्तथा । यत्तस्य चर्म त्वक्चैव तत्कृष्णाजिनमुच्यते ॥
(२३,४.४) वाममुष्टिगृहीतास्तु प्रछिद्यन्ते सकृत्कुशाः । परशुनासिना वा तत्सकृदाछिन्नमुच्यते ॥
(२३,४.५) अङ्गुष्ठपर्वाग्रमुखं दर्व्याकृति तु मेक्षणम्. वैकङ्कते पालाशे वा प्रादेशस्तु प्रमाणतः ॥
(२३,५.१) अलाबु वैणवं वापि दार्व्यं वैणवमेव वा । अक्षावमण्डलौ प्रोक्तौ यथा दृष्टं पुर र्षिभिः ॥
(२३,५.२) चक्राभ्यां काष्ठसंघातैः शिल्पिभिश्चैव यत्कृतम् । लोके प्रसिद्धं शकटमग्निष्ठं याज्ञिके विधौ ॥
(२३,५.३) आज्यं घृतं विजानीयान्नवनीतं सुसंस्कृतम् । सौवीराद्यञ्जनं चैव अथ वा दैविकं तथा ॥
(२३,५.४) अभ्यञ्जनं च तत्प्रक्तं तिलतैलं च यद्विदुः । आसनं कशिपु प्रोक्तं कायस्थं चोपबर्हणम् ॥
(२३,५.५) यवोदरैरष्टभिस्तु अङ्गुलं परिपठ्यते । चरुत्विंशत्यङ्गुलं तु याज्ञिकैर्हस्त आकृतः ॥
(२३,६.१) हस्तमात्रं स्रुवः खड्गं सकृदाछिन्नमेव च । बाहुमात्रा जुहूः प्रोक्ता ध्रुवा बर्हिस्तथैव च ॥
(२३,६.२) ताम्रश्चैव स्रुवः प्रोक्तः खड्गं खादिरमेव च । पालाशी च जुहूः कार्या इध्माश्चैव विशेषतः ॥
(२३,६.३) ग्रहाः पात्राणि चमसा दण्डयूपासनानि च । वृक्षेषु याज्ञिकेषु स्युर्यथालाभेषु नान्यतः ॥
(२३,६.४) समिधः प्रादेशमात्र्यो नित्यहोमे प्रकीर्तिताः । समिल्लक्षणदृष्टानि प्रमाणानि यथाक्रमम् ॥
(२३,६.५) शम्यश्वत्थ[ः] पलाशश्च खादिरोऽथ विकङ्कतः । काश्मर्योदुम्बरो बिल्वो यज्ञवृक्षाः प्रकीर्तिताः ॥
(२३,७.१) एषामलाभे वृक्षाणामन्ये ग्राह्यास्तु याज्ञिकैः । यज्ञाङ्गकार्ये द्रष्टव्याः समिदर्थं विशेषतः ॥
(२३,७.२) यवव्रीहिमहाव्रीहिप्रयङ्गूणां हि तण्डुलाः । श्यामाकतण्डुलतिला आसाद्याः श्रुतिचोदिताः ॥
(२३,७.३) सायंहोमेषु यद्द्रव्यं प्रातर्होमेषु तद्भवेत् । भिन्नद्रव्यहुतं यत्तु न हुतं तस्य तद्भवेत् ॥
(२३,७.४) उदितेऽनुदिते चैव समयाध्युषिते तथा । क्षुधाकाले तथाप्य्केके पक्षहोमं तु कारयेत् ॥
(२३,७.५) यायावराणां मुनिभिः पक्षहोमस्तु तैः स्मृतः । यथा कथं चिद्वचनं श्रुत्युक्तं द्विज आचारेत् ॥
(२३,८.१) आतुरः पथिकश्चैव राजोपद्रवपीडितः । पक्षहोमं तदा कुर्यान्निस्तीर्य सततं चरेत् ॥
(२३,८.२) चतुर्दशगृहीतं तु सकृदुन्नयते हविः । एका समित्सकृद्धोमः सोऽर्धमासाय कल्पते ॥
(२३,८.३) चतुर्दशगुणं कृत्वा स्रुचा पात्रेण पूर्ववत् । एवं गार्हपत्ये च दक्षिणाग्नौ च जुह्वति ॥
(२३,८.४) पूर्वा हुत्वाहुतीः सायं व्युष्टायामपरेऽह्नि । एतेनैव विधानेन जुह्वति प्रातराहुतीः ॥
(२३,८.५) ऋषिभिश्च पुरा दृष्टमापत्कालेषु सर्वतः । अरण्योश्च समारोप्य श्रुतिदृष्टेन कर्मणा ॥
(२३,९.१) होमार्थेष्वेतद्द्रष्टव्यमाहिताग्निगृहेष्वपि । तत्प्रयोजनमात्रं तु न दोषः सूतकेषु च ॥
(२३,९.२) सद्यःशौचादिकं प्रोक्तं सूतकं च द्विजातिभिः । स्वयंहोमीति वचनान्न दोषः श्रुतिचोदनात् ॥
(२३,९.३) व्रतिनां सत्त्रिणां चैव महाराजाहिताग्नयः । एषां दोषो न विद्येत सायम्प्रातः क्रिये स्थिते ॥
(२३,९.४) पालाश्यः समिधोऽदोषा नित्यं होमे प्रकीर्तिताः । अथ वा कौशिकोक्तानां यज्ञियानां महीरुहाम् ॥
(२३,९.५) अङ्गुलत्रयमावर्त्य उच्छ्रयेऽप्यङ्गुलत्रयम् । पुरोडाशप्रमाणं तु सर्वत्र कथितं नृणाम् ॥
(२३,१०.१) षोडशाङ्गुलमावर्त्य त्रिभागं चोत्तरमृजु । दक्षिणस्यां दिशि स्थानं दक्षिणाग्नेः प्रकीर्तितम् ॥
(२३,१०.२) अष्टाविंशत्यङ्गुलानि गार्हपत्यं प्रकीर्तितम् । आहवनीयम् [चतुर्]विंशतिश्चतुरश्रं तु कारयेत् ॥
(२३,१०.३) अङ्गुलानि तु षट्त्रिंशद्ध्न्वाकृत्या तु कारयेत् । दक्षिणाग्नेस्तु वै कुण्डं विद्वद्भिज्परिकथ्यते ॥
(२३,१०.४) ईशान्यां दिशि सभ्यस्य गार्हपत्यविधानतः । सभ्यं नेच्छन्ति शालाग्नौ माहकिः कौशिकस्तथा ॥
(२३,१०.५) मौदायनास्तथेच्छन्ति शौनकेयास्तथैव च । मन्तादेव तथा प्रोक्तं द्रव्यं यत्र न दृश्यते ॥
(२३,१०.६) आज्यं तत्र विजानीइयाद्धोमस्तत्र स्रुवेण च । अभ्युक्षणं हविःकर्म कर्तव्यं वज्रपाणिना ॥
(२३,१०.७) कुशहस्तेन कर्तव्या जपहोमपितृक्रियाः । यज्ञे चैव अङ्गभूताश्च पात्रमन्त्रहविर्द्विजाः । चरुत्भिश्च क्रियाः सर्वाश्चातुर्होत्रं तदुच्यते ॥
(२३,११.१) याज्ञिकास्तु वदन्त्यन्ये चतुर्भिर्यच्च हूयते । ब्रह्मणाध्वर्युहोतृभ्यां त्रिभिरग्निचतुर्थकैः ॥
(२३,११.२) दुर्भिक्षे चाकुले भङ्गे ऋत्विजां चाप्यसंभवे । एकश्चातुर्होत्रं कुर्यादापस्तम्बे प्रपठ्यते ॥
(२३,११.३) ऋत्विजां च७ प्यसाम्निध्ये अध्वर्युस्तत्पठेत्स्वयम् । अस्थानपठिते कुर्युरृत्विगित्यादि चोदितम् ॥
(२३,११.४) खाते लूने तु यच्चोक्तं संस्कारश्रुतिहेतुभिः । द्रव्याणां यज्ञकॢप्त्यर्थं कुर्यात्पूर्वेण संग्रहम् ॥
(२३,११.५) पात्रासादं द्वितीयं च प्रोक्षणेन विवर्जितम् । उभयोश्चैव कुर्वीत पाकयज्ञेष्टिकर्मवत् ॥
(२३,१२.१) कृष्णाजिनं तिला दर्भा मन्त्रा आज्यं द्विजोत्तमाः । दोषो न विद्यते ह्येषां यथार्थं संनियोजयेत् ॥
(२३,१२.२) आज्यं धूमहविर्ज्वाला परिपाकः स्फुलिङ्गकैः । दावाग्निकाष्ठसंस्पर्शे अग्नेर्दोषो न विद्यते ॥
(२३,१२.३) जपाध्यायतपोदानैः सोपवासैः सहोमकैः । श्राद्धादिपितृकार्यैस्च न दोषः परिवेदने ॥
(२३,१२.४) पितृभ्रातृसपत्नैश्च पतितोन्मत्तषण्ढकैः । जात्यन्धमूकबधिरैर्न दोषः परिवेदने ॥
(२३,१२.५) अत्यन्तकामिना चैव पत्नीहीनेन चैव हि । एषामनुज्ञामादाय कुर्याद्वैतानिकी[ः] क्रियाः ॥
(२३,१३.१) रौद्रराक्षसपैशाचानासुरांश्चाभिचारिकान् । मन्तांश्च पितृकर्मैवं कृत्वालभ्योदकं स्पृशेत् ॥
(२३,१३.२) स्रुक्स्रुवश्च ध्रुवा खड्गं मुसलोलूखलं चरुः । उदकेनैव सोष्णेन संप्रक्षाल्य विशुध्यति ॥
(२३,१३.३) पात्रं ग्रहाश्च चमसा हविः शूर्पं कुशासनम् । सोमस्पृष्टं च यद्भाण्डं वारिशौचेन शुध्यति ॥
(२३,१३.४) वेदोक्तं सर्वमन्तोक्तं शौनकेन महात्मना । अवश्यं तद्द्विजैः कार्यं श्रेयस्कामैस्तु नित्यशः ॥
(२३,१३.५) पात्रानां तु प्रसाङ्गेन यदन्यत्परिकीर्तितम् । सायं प्रातस्तु होमाङ्गं पुरा दृष्टं महर्षिभिः ॥
(२३,१४.१) गुरुणा भाषितेनैव याज्ञिकानुमतेन च । सदापदिष्टद्रव्याणां लक्षणं परिकीर्तितम् ॥
(२३,१४.२) नित्यं येऽनुस्मरिष्यन्ति यज्ञपात्रेषु लक्षणम् । राजसूयाश्वमेधाभ्यां फलं प्राप्स्यन्ति ते ध्रुवम् ॥
(२३,१४.३) पिप्पलादेन महता समाख्यातमिदं शुभम् । ब्राह्मणानां हितार्थाय पुत्रशिष्यहिताय च ॥
(२३,१४.४) निष्कामो वा सकामो वा वेदोक्तं यः समाचरेत् । निष्कामस्य तु मुक्तिः स्यात्सकामः फलमश्नुते ॥
(२३,१४.५) निष्कामेण तु यत्किं चित्कर्तव्यमिति वैदिकम् । तत्सर्वं मुक्तिदं ज्ञेयं परापरपरं सुखम् ॥
(२३,१४.६) न शोकस्तस्य नो व्याधिर्न मृत्युर्न जरा तथा । न क्षुधा न पिपासा च अमृतात्मा स तिष्ठति ॥

(परिशिष्ट_२४. वेदिलक्षणम् [+ अग्निवर्णलक्षणम्])
(२४,१.१) ओमथ र्षिपुत्रिकायां तु स्फुतं सर्वेषु कर्मसु । लक्षणं ह्यग्निवर्णानां प्रवक्ष्यामि यथाक्रमम् ॥
(२४,१.२) वास्तुकर्मण्यथोत्पाते पतेर्नीराजने विधौ । सर्वनक्षत्रहोमेषु ग्रहातिथ्यविधौ तथा ॥
(२४,१.३) यात्रोद्याने विवाहेषु चूडोपनयनेषु च । सर्वेषु चाग्निहोमेषु वह्निवर्णान्निबोधत ॥
(२४,१.४) मानेनाध्यर्धशीर्सण्या त्रिमध्या षण्मुखा स्मृता । चतुरश्रा चकर्तव्या वेदिः शान्तीष्टिकर्मसु ॥
(२४,१.५) एषा वै विपरीता च कार्या घोरेषु कर्मसु । कर्मणामनुरूपां तु वेदिं वक्ष्याम्यतः परम् ॥
(२४,१.६) यथावर्तनगोचर्मचक्रतल्पेषु संमिता । संमृज्य प्रोक्ष्य संस्तीर्य विधिवच्चोपशोभयेत् ॥
(२४,१.७) श्लक्ष्णाः समाहिताः सर्वाः प्रागुदक्प्रवणाः शुभाः । संमृज्य प्रोक्ष्य संस्तीर्य विधिवच्चोपशोभयेत् ॥
(२४,१.८) दक्षिणेन तु या वक्रा याज्ञिकं सा विनाशयेत् । या च वक्रोत्तरेण स्याद्यजमानं विनाशयेत् ॥
(२४,१.९) पुरस्तात्पृष्ठतो वापि मध्यतो विषमा च या । पुरमन्तःपुरं चापि नायकं च हिनस्ति सा ॥
(२४,१.१०) एषा संक्षेपतः प्रोक्ता वेदिः सामान्यलक्षणा । विशेषतस्तु तेष्वेव कर्मस्वेवाभिधास्यते ॥
(२४,२.१) प्राचीं संशोधयेद्भूमिं यज्ञवास्तु यथोदितम् । समित्कुशाग्निवर्णानां लक्षणज्ञो भवेद्गुरुः ॥
(२४,२.२) ततस्तु यत्नवान् सम्यगग्नावुपसमाहिते । अग्निवर्णान् परीक्षेत यथोवाचोशनाः कविः ॥
(२४,२.३) शब्दं वर्णं च गन्धं च रूपं स्नेहं प्रभां गतिम् । स्पर्शं चापि परीक्षेत अग्नाविति विनिश्चयः ॥
(२४,२.४) स्वाहाकारावसाने तु स्वयमुत्थाय पावकः । हविर्यात्राभिलषति तद्विद्यादर्थसिद्धये ॥
(२४,२.५) वृषवारणमेघौघनेमिदुन्दुभिनिःस्वनः । मृणालपद्मदूर्वाभकुमुदोत्पलगन्धमुक् ॥
(२४,३.१) तथा महात्मा स्तनयन् वाहकुम्भनिभद्युतिः । संहितज्वालनिकरः पावकः पापनाशनः ॥
(२४,३.२) कुरण्टाकृतिगोक्षीरहेमारुणतडित्प्रभः । प्रोत्फुल्लोत्पलकुन्देन्दुकुमुदाभोत्पलद्युतिः ॥
(२४,३.३) हुतोऽपि संज्वलत्येव स्निग्धो विप्रस्य दक्षिणः । लेलिहानः प्रमुदितः कृष्णवर्णोऽर्थसिधये ॥
(२४,३.४) विशालमूलो ह्यमलो नीलः पृथुलमध्यमः । प्रदीप्ताग्रोऽमलततो ज्वालामालाकुलोऽनलः ॥
(२४,३.५) प्रदक्षिणः प्रसन्नार्चिरर्चिष्मानर्चितद्युतिः । अर्चनीयश्च नृपतेरर्चितो हव्यवाहनः ॥
(२४,४.१) परिस्तरणयोगाच्च यज्ञकाण्डपरिच्छदम् । शान्तिवेश्मार्ध्वदीप्तार्चिरृत्विजश्चानुलिम्पति ॥
(२४,४.२) प्रहसन्निव शब्देन द्योतयन्निव तेजसा । कृतपुण्यस्य नृपतेर्हूयमानो हुताशनः ॥
(२४,४.३) कर्मणोऽवभृथे यस्य हविषोऽन्ते च पार्थिवम् । सुगन्धाभिरधूमाभिः शिखाभिः संस्पृशन्निव ॥
(२४,४.४) अर्चिभिर्ज्वालभारैश्च प्रदहन् द्विषतां दिशः । विधूमः कुण्डली यः स्यादनुलोमश्च सिद्धये ॥
(२४,५.१) कुरण्टहेमारुणशङ्खकुन्दमुक्तावलीन्दुप्रतिमे हुताशे । समस्वने सिंहवृषैर्गजेन्द्रबलाहकौघस्वनदुन्दुभीनाम् ॥
(२४,५.२) विशालमूले पृथुले च मध्ये ज्ञेयानले संप्रति पीडिताग्रे । मृणालपद्मानिलतुल्यगन्धे त्रिसागरान्ता वसुधा नृपस्य ॥
(२४,५.३) आतप्तपद्मानिलतुल्यगन्धे त्रिसागरान्ता वसुधा नृपस्य । तस्यार्थबान्धववती सकला महीयं वीर्यांशुजालविवराहतराजशब्दा ॥
(२४,५.४) विभ्राजते त्वखिलरागयुतो हुताशो हस्तावृतं कथयतीव जयं नृपस्य । सूर्यांशुभिः कृतविघट्टनहेमपद्मकिंजल्कचूर्णनिकरारुणतामलांशुः ॥
(२४,५.५) क्षीरोदशुक्तिपुटगर्भविकीर्णमुक्तासंघातपाण्डुररजो रथनेमिघोषः । दाता नृपाय वसुधां तु हिमांशुमौलिज्योत्स्नाविकाशितसमुद्रजलां हुताशः ॥
(२४,६.१) लक्ष्मीप्रदोहरमृणालकपालशुभ्रस्निग्धानुवृत्तशिखरप्रकृतिश्च यत्र । वैश्वानरो ज्वलति यस्य विशुद्धमूर्तिः स प्राप्नुयान्नृपशताधिपतां नरेन्द्रः ॥
(२४,६.२) बालार्कबोधितसरोरुहगर्भगन्धस्तोयावलम्बिजलदस्तनिताभिरामः । राज्ञो ददाति वसुधां हुतभुग्गजेन्द्रदन्ताग्रकम्पितमहार्णववीचिवृक्षाम् ॥
(२४,६.३) यस्यां वसन्तरविमण्डलतुल्यबिम्बो वेद्यां नृपस्य परिपूर्णमरीचिजालः । तस्यानलाकलितसागरतोयवस्त्रा म्रागैक्षवेनिरवनिर्वशमभ्युपैति ॥
(२४,६.४) यस्यानलो ज्वलति काञ्चनतुल्यगौरो प्रज्वाल्यमानवपुरुत्पलकोशगन्धः । आयाति तस्य भवनं ह्यलिदीप्तिमाला सव्रीडसूर्यकिरणा क्षितिपाललक्ष्मीरिति ॥

(परिशिष्ट_२५. कुण्डलक्षणम्)
(२५,१.१) ओं शौनकं तु सुखासीनं भार्गवः परिपृच्छति । कुण्डं कस्मिन् भवेत्कीदृक्कस्यां वा दिशि किं फलम् ॥
(२५,१.२) स तस्मा उपसन्नाय आचष्टे भार्गवाय तु । कुण्डं यस्मिन् भवेद्यादृग्यस्यां वा दिशि यत्फलम् ॥
(२५,१.३) चतुरश्रं शफाकृत्या अर्धचन्द्रं त्रिकोणकम् । वर्तुलं पञ्चकोणं च पद्माभं सप्तकोणकम् ॥
(२५,१.४) कुण्डान्येतानि पूर्वादिदिक्षु अष्टसु विनिर्दिशेत् । दिग्देवतानां चाष्टानां कर्मणि स्वम्स्वमादिशेत् ॥
(२५,१.५) चतुरश्रं तु पूर्वस्यामैन्द्रेष्वपि च कर्मसु । शफाकृति तदाग्नेय्यामाग्नेयेष्वपि कर्मसु ॥
(२५,१.६) अर्धचन्द्रं तु याम्यायां याम्येष्वपि च कर्मसु । नैरृत्यां च त्रिकोणं स्यादभिचारविधौ शुभम् ॥
(२५,१.७) वारुण्यां वर्तुलं ज्ञेयं वारुण्येष्वपि कर्मसु । वायव्यां पञ्चकोणं तु वायव्येष्वपि कर्मन् ॥
(२५,१.८) उत्तरस्यां तु पद्माभं सौम्येष्वपि च कर्मसु । ऐशान्यां सप्तकोणं तु रौद्रेष्वपि यथोदितम् ॥
(२५,१.९) सर्वकर्मसु विज्ञेयं कुण्डं पद्मनिभं तु यत् । चतुरश्रं तु सर्वत्र समं स्याद्विजयावहम् ॥
(२५,१.१०) सर्वशान्तिकरं कुण्डं पद्माकारं विशेषतः । शान्तिके चतुरश्रं च पौष्टिके वर्तुलं तथा ॥
(२५,१.११) अभिचारे त्रिकोणं च वश्यादौ चार्धचन्द्रकम् । षट्कोणं मारणादौ च विद्वेषे चाष्टकोणकम् ॥
(२५,१.१२) मेखला सर्वकुण्डेषु द्वादशाङ्गुलमिष्यते । चतुरङ्गुलमानेन पूर्वापूर्वसमुच्छ्रिता ॥
(२५,२.१) न चेत्पुरस्ताद्धीनं स्यात्सुखं यज्ञः समाप्यते । यत्तु दक्षिणतोऽहीनं तद्राज्ञस्त्वभयप्रदम् ॥
(२५,२.२) यथाहीनं पश्चिमेन भवेत्तत्सिद्धिदं शुभम् । उत्तरेण समम्यत्स्यात्तद्राज्ञो राज्यवर्धनम् ॥
(२५,२.३) मध्ये समं च सुखदं दिग्विदिक्षु समं तु यत् । तद्राजजनसंपत्कृत्सर्वांश्चारीन् विनाशयेत् ॥
(२५,२.४) न चेत्पुरस्तादित्यादि य एष कथितो विधिः । मण्डपानां गृहाणां च माने शान्तिकरः स्मृतः ॥
(२५,२.५) हस्तकुण्डं सदाहोमे अयुते द्विकरं स्मृतम् । लक्षहोमे चतुष्पाणि कोट्यामष्टकरं स्मृतम् ॥

(परिशिष्ट_२६. समिल्लक्षणम्)
(२६,१.१) ओं समिधां संप्रवक्ष्यामि प्रमाणं लक्षणं शुभम् । तथाशुभं च तत्त्वेन यथाफलविभागतः ॥
(२६,१.२) यज्ञकर्मणि कर्तव्या[ः] शान्तिके पौष्टिके तथा । प्रादेशमात्रीः समिधः प्रोक्ताः सर्वेषु कर्मसु ॥
(२६,१.३) तिर्यग्यवोदराण्यष्टावूर्ध्वा वा व्रीहयस्त्रयः । अङ्गुलस्य प्रमाणेन प्रादेशो द्वादशाङ्गुलः ॥
(२६,१.४) अत ऊर्ध्वं न कर्तव्या नापि ह्रस्वा न चोर्ध्वतः । न वक्रा चैव कर्तव्या नापि ग्रन्थिसमन्विता ॥
(२६,१.५) ऊर्ध्वतस्तु यतो वक्रा चित्रदद्रुविचर्चिकाः । करोति यागे क्षिप्रं तु तस्मात्तां परिवर्जयेत् ॥
(२६,२.१) द्विफला पिण्डवर्जापि त्रिफला वापि या भवेत् । षट्फला सप्तफला या चतुरङ्गं विनश्यति ॥
(२६,२.२) सपत्त्रपुष्पसमिधः कल्पयित्वा विचक्षणः । पौष्टिकं कर्म कुर्वीत सिध्यते नात्र संशयः ॥
(२६,२.३) पत्त्रपुष्पयुता यास्तु शान्तद्रुमसमुद्भवाः । समिधो गोष्ठमध्ये तु प्रशस्ताः परिकीर्तिताः ॥
(२६,२.४) [अथापरं प्रवक्ष्यामि समिधां चैव लक्षणम्] ॥
(२६,२.५) विशीर्णा द्विदला ह्रस्वा वक्रा चैव द्विधाग्रतः । कृशा च दीर्घा स्थूला च कर्मसिद्धिविनाशिनी ॥
(२६,२.६) [यद्यत्र लक्षणं प्रोक्तं यस्मिन् काले यथाविधि । तत्र तेनैव सिद्धिः स्याद्विपरीते तथा भयम्] ॥
(२६,२.७) समाहृतानां समिधां तासां चैव फलं शृणु ॥
(२६,२.८) विशीर्णायुःक्षयं कुर्याद्द्विदला रोगदा भवेत् । अभिमुखगतमात्रा सद्यो ह्रस्वा निवर्तयेत् ॥
(२६,३.१) दुर्भगं कुरुते वक्रा स्थानभ्रंशं द्विधाग्रतः । कृशा सर्वविनाशाय दीर्घा नाशयते श्रियम् ॥
(२६,३.२) स्थूला तु कुरुते विघ्नं सर्वकार्ये द्विजस्य तु । अतः प्रमाणं विविधं फलं चापि तथा शृणु ॥
(२६,३.३) लतापल्लवसंजाता द्वादशाङ्गुलकल्पिता । क्षीराक्ता शान्तिके होमे होतव्या तु विशेषतः ॥
(२६,३.४) केवलं मुक्तिसिद्ध्यर्थं घृताक्ता[म्] होमयेद्द्विजः । दशाङ्गुलप्रमाणां हि होमयेन्मन्त्रकर्मणि ॥
(२६,३.५) नवाङ्गुला तु कर्तव्या तैलाभ्यक्ताभिचारिके । अष्टाङ्गुला विभूत्यर्थे घृतदध्ना तु होमयेत् ॥
(२६,४.१) केवलं मधुसंयुक्ता सप्ताङ्गुलदलीकृता । उच्चाटने प्रशस्ता सा द्विदला च न शान्तये ॥
(२६,४.२) विद्वेषे कटुतैलाक्ता द्विदला तु षडङ्गुला । सर्वतो ग्रन्थिहीना तु विप्राणां स्यात्समिच्छुभा ॥
(२६,४.३) अवक्राग्रन्थिसंयुक्ता क्षत्रियाणां जयावहा । मध्ये तु ग्रन्थिसंयुक्ता वैश्यानां भूतिसाधनी ॥
(२६,४.४) त्रयाणामपि वक्ष्यन्ते या ग्राह्याः समिधः स्मृतः । नात्यार्द्रा नातिशुष्का वा नैव चोषरसंभवाः ॥
(२६,४.५) न दग्धा न कृमिदष्टाः सर्वदोषविवर्जिताः । समिधामिन्धनानां च तुल्यान् वृक्षान् ब्रवीम्यतः ॥
(२६,४.६) शुषुकैर्या इन्धनैः पूर्वं यज्ञवृक्षमयैः शुभैः । आर्द्राणि होमयेच्चैव शुष्कैः कलहकर्मणि । शुष्काणि हीन्धनानि स्युः समिधस्तु यथोदिताः ॥
(२६,५.१) पुष्टिकामः पलाशस्य गृह्णीयाच्छान्तिकर्मणि उदुम्बरस्य वित्तार्थी वटाश्वत्थस्य राज्यधीः ॥
(२६,५.२) श्रीकामो बिल्ववृक्षस्य कदम्बस्य तथैव च । विद्वेषं कटुकैः कुर्यात्कण्टकैर्मरणं भवेत् ॥
(२६,५.३) ककुभं कटभं वृक्षं कौविरालं तु कौहकम् । वंशं विभीतकं शिग्रुं विद्यादुच्चाटने हितान् ॥
(२६,५.४) स्तम्भने सर्वसैन्यानां विजयार्थे जयं दिशेत् । अपामार्गेण सौभाग्यमायुष्कामो हि दूर्वया ॥
(२६,५.५) पुन्नागचम्पकौ वृक्षा ये चान्ये क्षीरिणः शुभाः । यद्यत्र लक्षणं प्रोक्तं यस्मिन् काले यथाविधि ॥
(२६,५.६) तत्र तेनैव सिद्धिः स्याद्विपरीते तथा भयम् । अर्कः पलाशो मधुको न्यग्रोधोदुम्बरस्तथा ॥
(२६,५.७) प्लक्षोऽश्वत्थो गोमयानिकुशाश्च समिधः क्रमात् । यथाक्रमेण समिध आदित्यादिग्रहेषु च ॥
(२६,५.८) शतं सहस्रं लक्षं वा गायत्र्या परमाहुतिः । हूयमानं तु यत्किं चित्कृतान्नं यदि वा तिलाः ॥
(२६,५.९) ग्रहनक्षत्रपीडायां सावित्र्यापि हुतं हुतम् । एषभेदो मयाख्यातः शुभस्य त्वशुभस्य च ॥
(२६,५.१०) यथोक्तमेतद्यः कुर्यात्स सर्वफलमाप्नुयादिति ॥

(परिशिष्ट_२७. स्रुवलक्षणम्)
(२७,१.१) ओं सौवर्णराजतैस्ताम्रैः कांस्यैर्द्रौमैस्तथायसैः । स्रुवैः सर्वगुणोपेतैः कर्म कुर्याद्यथाक्रमम् ॥
(२७,१.२) सौवर्णै राजतैर्यज्ञे ताम्रैः शान्तिकपौष्टिके । कांस्येन रुधिरं मांसं नान्यज्जुहुवीत किं चन ॥
(२७,१.३) सर्वे यज्ञे प्रयोक्तव्या वर्जयित्वायसं स्रुवम् । आयसं खादिरं चैव अभिचारे प्रयोजयेत् ॥
(२७,१.४) अधुन्वंश्चैव जुहुयात्स्रुवेणास्फुटिताहुतिम् । धुन्वन् हि हन्ति पुत्रान् तु राक्षसा स्फुटिताहुतिः ॥
(२७,१.५) नान्यत्किं चिदभिध्यायेदुद्धृत्यान्यत आहुतिम् । तद्दैवतमभिध्यायेदाहुतिर्यस्य हूयते ॥
(२७,२.१) स्रुवे पूर्णे जपेन्मन्त्रमुत्तानं शान्तिके करम् । शान्तिके पौष्टिके चैव वर्जयेत्तु कनीनिकाम् ॥
(२७,२.२) नातिदीर्घो नातिह्रस्वो नातिस्थूलः कृशस्तथा । अष्टाविंशत्यङ्गुलः स्यात्कनिष्ठाग्रप्रमाणतः ॥
(२७,२.३) दीर्घो हिनस्ति राजानं ह्रस्व र्त्विजं विनाशयेत् । स्थूलः सस्योपघाताय कृशः क्षयकरः स्मृतः ॥
(२७,२.४) गोपुच्छाग्राकृतिर्दण्डो मण्डलाग्र[म्] शिरो विदुः । अङ्गुष्ठाग्रप्रमाणेन निम्नं शिरसि खानयेत् ॥
(२७,२.५) एतल्लक्षणमुद्दिष्टं स्रुवस्य फलभेदतः । गोपथेन यथाशास्त्रमुद्धृतं श्रुतिचोदनात् । स्रुवेण कुरुते कर्म हस्तेनापि तथा शृणु ॥

(परिशिष्ट_२८. हस्तलक्षणम्)
(२८,१.१) ओं यदा जुहोति हस्तेन दक्षिणेनेतरेण वा । तदा वक्ष्ये विधिं तस्य श्रेयसी स्याद्यथाहुतिः ॥
(२८,१.२) यथा नश्यति चैवास्य कर्म गुह्यमजानतः । तथाहं संप्रवक्ष्यामि गोपथः पाठमिच्छताम् ॥
(२८,१.३) कुशबल्बजमौञ्जां वा कृत्वा वेष्टिमनामिकाम् । होमकर्म ततः कुर्यात्स्पृष्ट्वा वामेन दक्षिणम् ॥
(२८,१.४) न रिक्तपाणिर्जुहुयान्नानिपातितजानुकः । अनिपातितजानोश्च हरन्त्याहुती राक्षसाः ॥
(२८,१.५) उद्धृत्य समिधोऽन्नं वा पञ्चभिर्जुहुयाद्बुधः । शनैश्च निर्वपेदन्नं मध्येऽग्नौ सुसमाहितः ॥
(२८,२.१) गृहकर्मणि यज्ञे वा तथा पञ्चभिरेव तु । शान्तिके पौष्टिके वैव वर्जयेत्तु कनीनिकाम् ॥
(२८,२.२) तिसृभिर्जुहुयादन्नं न तिलान्नैव तण्डुलान् । यदाभिचारिकं किं चित्तस्मिन् काले प्रयोजयेत् ॥
(२८,२.३) वामेनाभिचारन्नित्यं त्रिभिरङ्गुलिभिः समैः । निर्दिष्टं तिसृभिः शूलं तेन शत्रुं निपातयेत् ॥
(२८,२.४) अपसव्येन हस्तेन सव्यं यदि जुहोति तत् । सव्येन चापसव्यं तु [सव्यं यदि जुहोति तत्] ॥
(२८,२.५) अभिचारस्तु तत्प्रोक्तः....षर्वशान्तिं गमिष्यति ॥

(परिशिष्ट_२९. ज्वालालक्षणम्)
(२९,१.१) ओं बृहस्पतिं सुखासीनमात्मविद्यापरायणम् । प्रणिपत्य महर्त्विजं नारदः परिपृच्छति ॥
(२९,१.२) कथयस्व महाप्राज्ञ सर्वशास्त्रविशारद । अशुभं यच्छुभं वापि लक्षणं पावकस्य तु ॥
(२९,१.३) स पृष्टस्तेन तत्सर्वमाचचक्षे महामतिः ॥
(२९,१.४) हूयमानोयदा वह्निरृजुज्वालः प्रदृश्यते । स्निग्धश्च किंशुकाभश्च सिद्धिस्तत्र विनिर्दिशेत् ॥
(२९,१.५) यत्र बालार्कवर्णाभः कर्मण्यग्निः प्रदृश्यते । शान्तिं लभेते तत्राशु यजमानपुरोहितौ ॥
(२९,१.६) अशोककुसुमाभोऽपि काञ्चनाभस्तथैव च । शान्तिं करोत्याकालेन हूयमानो हुताशनः ॥
(२९,२.१) अधूमो ज्वलते क्षिप्रं कृत्वावर्तं प्रदक्षिणम् । तदा शान्तिं विजानीयाद्विपरीते तथा भयम् ॥
(२९,२.२) श्वसते गर्जते चैव विस्फुलिङ्गाः समन्ततः । प्रायश्चित्तिं तदाकुर्याद्यदुक्तं कौशिकेन तु ॥
(२९,२.३) अथाप्यालिङ्गते भूमिं भ्रमते च समन्ततः । अशुभं कथयेत्तत्र होत्रेऽसौ पावकः स्वयम् ॥
(२९,२.४) कपिलः पिङ्गलस्ताम्रो रक्तः काञ्चनसप्रभः । शुभकृत्पावको ज्ञेयो विपरीतो भयावहः ॥
(२९,२.५) यदाग्नौ लक्षणं किं चिदशुभं तु प्रदृश्यते । होता क्लेशमवाप्नोति शान्तिं तत्र प्रयोजयेत् ॥

(परिशिष्ट_३०. लघुलक्षहोमः)
(३०,१.१) ओं शौनकं तु सुखासीनं गौतमः परिपृच्छति । लक्षहोमस्य यत्पुण्यमाहुतीनां च देवताः ॥
(३०,१.२) तस्मै यथावदाचष्टे शौनको ज्ञानलोचनः । शृणुष्वावहितो भूत्वा लक्षहोमं यथाविधि ॥
(३०,१.३) अग्न्यागारस्य या भूमिस्तां प्रवक्ष्याम्यशेषतः । शुद्धाक्षारा समा स्निग्धा या च पूर्वोत्तरप्लवा ॥
(३०,१.४) अभस्मास्थ्यङ्गारतूषा प्रशस्ता परिकीर्तिता । प्रमाणं बाहुमात्रं तु जङ्घामात्रं द्विरत्निकम् ॥
(३०,१.५) चतुरश्रं चतुष्कोणं तुल्यं सूत्रेण धारयेत् । ब्राह्मणा वेदसंपन्ना ब्रह्मकर्मसमाधयः ॥
(३०,१.६) उपोष्य चैकरात्रं च गायत्र्या अयुतं जपेत् । उपोष्य चैव गायत्र्या जपेयुरयुतं बुधाः ॥
(३०,२.१) ते शुक्लवाससः स्नाताः स्रग्भिर्गन्धैरलंकृताः । निराहारास्तथा दान्ताः संतुष्टाः सजितेन्द्रियाः ॥
(३०,२.२) कौशमासनमासीनाः प्रयुञ्ज्युर्होममुत्तमम् । उल्लिख्य चाद्भिरभ्युक्ष्य संस्कृत्य विधिपूर्वकम् ॥
(३०,२.३) अग्ने प्रैह्यग्निना रयिमित्युपस्थाप्य पावकम् । कुर्यादुपसमाधाय समास्त्वाग्ने समाहितः ॥
(३०,३.१) लक्षहोम॰॰कुते पूर्णे धेनुं दद्यात्पयस्विनीम् । अनड्वान् काञ्चनं वस्त्रं तुष्येयुर्येन वा द्विजाः ॥
(३०,३.२) यवैस्तु विपुलान् भोगान् धान्यैरायुष्यमेव च । तिलैर्हुत्वा तु तेजस्वी आयुः कीर्तिं च वर्धते ॥
(३०,३.३) आदित्यलोकोऽर्कमयी पालाशी सोम आप्यते । आश्वत्थी विष्णुलोकस्य ब्राह्म औदुम्बरी तथा ॥
(३०,३.४) अनेनैव विधानेन हूयतेऽत्र हुताशनः । हुत्वैतांश्चतुरो लक्षान् ब्रह्मलोकं स गच्छति ॥
(३०,३.५) यावज्जीवति कर्तासौ तावत्पुत्रान् धनं श्रियम् । पूर्णे काले विमानेन नीयते परमं पदम् ॥

(परिशिष्ट_३० . बृहल्लक्षहोमः)
(३० ,१.१) ओमथ काङ्कायनो भगवन्तमथर्वाणं पप्रच्छ ॥ भगवन् केन विधानेन कोटिहोमं लक्षहोममयुतहोमं वा प्रारम्भमाणः कथमृत्विजो वृणीते कथं च कुर्युस्तस्मै स होवाच ॥
(३० ,१.२) ब्राह्मणो वा राजा वा वैश्यो वा ग्रामो वा जनपदो वा श्रीकामः शान्तिकामः कोटिहोमं लक्षहोममयुतहोमं वाहं करिष्यामीति तस्या समाप्तेर्भवद्भिरमांसाशिभिर्ब्रह्मचारिभिर्हविष्यभुग्भिर्भवितव्यम्
(३० ,१.३) तैस्तथेति उक्तः कुण्डमेकहस्तं द्विहस्तं चतुर्हस्तमष्टहस्तं वा [समस्तहस्तं वा दीर्घं वा] दशहस्तं खानयेत्तथा च बादरिः ॥
(३० ,१.४) लक्षहोमे तु कर्तव्यमष्टहस्तं न संशयः । द्विहस्तं वा प्रकुर्वीत चतुर्हस्तमथापि वा ॥
(३० ,१.५) कुण्डं वा दशहस्तं तु द्विविस्तारं तथोत्तरम् । न चेत्पुरस्ताद्धीनं स्यात्सुखं यज्ञः समाप्यते ॥
(३० ,१.६) अथ दक्षिणतो हीनं यजमानभयंकरम् । पश्चिमेन विहीनं स्याद्यज्ञस्यासिद्धिदं ध्रुवम् ॥
(३० ,१.७) उत्तरेण विनिर्दिष्टं राज्ञो राज्यहरं भृशम् । मध्ये विहीनं यद्कुण्डं प्रजाक्षयकरं विदुः ॥
(३० ,१.८) स्रक्तिहीनं तु यत्कुण्डं तदप्यशुभदं भवेत् । द्वादशाङ्गुलमानेन मेखलाक्षेत्रमुच्यते ॥
(३० ,१.९) मेखलात्रयमुद्धिष्टमुभयं चतुरङ्गुलम् । चतुरङ्गुलमानेन पूर्वापूर्वसमुच्छ्रिता ॥
(३० ,१.१०) प्रथमा सात्त्विकी प्रोक्ता द्वितीया राजसी स्मृता । तृतीया तामसी ज्ञेया मेखला वृषभध्वजः ॥
(३० ,१.११) चतुर्दशाङ्गुलां तत्र योनिं कुर्वीत साधकः । अष्टाङ्गुलं भवेद्वृत्तं निर्वाहस्तु षडङ्गुलः ॥
(३० ,१.१२) गजोष्ठसदृशाकार प्राजापत्या च सा चिदुः । एवं कृत्वा विधानेन कुण्डं लक्षणलक्षितम् ॥
(३० ,१.१३) सर्वलक्षणसंपूर्णं सर्वतस्तु समाहितः । कुण्डं सिद्धिकरं ज्ञेयमायुःकीर्तिविवर्धनम् ॥
(३० ,१.१४) तस्माद्यत्नेन कुण्डं खात्वाद्भिरभ्युक्ष्य पुरस्तादग्नेरादित्यादीन् ग्रहान् प्रतिष्ठाप्योत्तरतः कृत्तिकादीनि नक्षत्राणि स्वासु दिक्षु लोकपालान् सर्वासु कुण्डस्रक्तिष्वग्न्यादिदेवान् रतिष्ठाप्य
(३० ,१.१५) तेषां प्रतिमन्त्रमावाहनादिकं कृत्वा विलीनपूतमाज्यं गृहीत्वा स्रुवं स्रुचं च संमृज्य प्रतप्येध्ममुपसमाधायान्वारब्धाय वास्तोष्पत्यादिभिश्चतुर्भिर्गणैः शान्त्युदकं कृत्वा ततः कर्तारमाचामयति च संप्रोक्षति च ॥
(३० ,१.१६) अथ समिधो घृताक्तास्तिलान् वा स्वाहाकारवतीः संख्यावत्यो गायत्र्या महाव्याहृतिभिर्वा सर्व ऋत्विजो जुह्वति ॥
(३० ,१.१७) श्रीपर्णमिश्राः श्रीकामस्य शमीपर्णमिश्राः शान्तिकामस्य करीरसक्तुमिश्रा वृष्टिकामय्स बदरादिफलमिश्राः पशुकामस्य ॥
(३० ,२.१) अहरहः कर्मणोऽपवर्गादथ पूर्णायां कोट्यां लक्षे वायुते वान्वारब्धे यजमाने निशि महाभिष्Eकं कृत्वा वसोर्धारं जुह्वति ॥
(३० ,२.२) औदुम्बरीं स्रुचं शुरःप्रमाणां ब्राह्मणस्य ललातप्रमाणां क्षत्रियस्य स्कन्धप्रमाणां वैष्यस्याप्रमाणां जनपदस्य
(३० ,२.३) तेषामन्ते सरणार्थं निम्नं खानयित्वोष्णोदकेन प्रक्षाल्याज्यमानीय वसोर्धारां वैश्वानरं प्राप्नोति ॥
(३० ,२.४) तद्यदाज्यधानीं च वैश्वानरं प्राप्नोति अथोच्चारयति ॥
(३० ,२.५) ओजश्च मे क्षत्रं च मे ये अग्नयो अमो देववधेभ्यो भवाशर्वौ मृडतं प्राणाय नम इति हुत्वा अर्घं प्रदाय वस्त्रं लोध्रं माल्यं फलादीनि भाजने कृत्वा नमस्ते अस्तु पश्यत इति स्वाहाकारेणाग्नौ प्रक्षिप्य यम्यं कामं कामयते सोऽस्मै कामः समृध्यते ॥
(३० ,२.६) समृद्धिहोमादि समानं स्वस्त्ययनानि जपेत्पुण्याहं वाचयेद्गोभूतिलसुवर्णं वासश्च र्त्विग्भ्यः संप्रदाय प्रणिपत्य विसर्जयेत् ॥
(३० ,२.७) तस्मिन्नहनि व्यतीते यदि स्त्री माल्यहस्ता श्वेतचन्दनानिलिप्ता श्वेतपुष्पाण्यादाय प्रयच्छेद्गौरसर्षपान् पाण्याधारे वा गृहीत्वा प्रासादमारोहयेत्कुञ्जरं वा प्रमत्तमश्वं श्वेतं वा पर्वतं गोवृषं वा यानं युक्तं वाजिभिर्यद्यारोहेत्स्वप्नकाले समस्तसिद्धिं विद्यान्मनसो यामभीष्टाम् ॥
(३० ,२.८) तस्मात्तां रात्रीं प्रयतः स्वपेत् ॥ स्वप्नं दृष्ट्वा र्त्विग्भ्यो निवेदयेत् ॥ परोऽपेहि यो न जीबोऽसि विद्म ते स्वप्न यथा कलां यथा शफमिति राजमुखमभिमन्त्र्य यथागतं गच्छेयुस्तदपि श्लोकाः ॥
(३० ,२.९) दिव्यान्तरिक्षभौमेषु अद्भुतेषु न संशयः । कोटिहोमं विदुः प्राज्ञा लक्षं वायुतमेव वा ॥
(३० ,२.१०) अविज्ञातं च यत्पापं सहसा चैव यत्कृतम् । तत्सर्वं लक्षहोमस्य करणाद्धि विनश्यति ॥
(३० ,२.११) तस्मात्सर्वेषु कार्येषु शान्तिकेषु विशेषतः । यः कुर्यात्प्रयतो नित्यं न सोऽनर्थान् समश्नुते ॥