सामग्री पर जाएँ

अथर्वपरिशिष्टः/परिशिष्टः ११-२०

विकिस्रोतः तः

(परिशिष्ट_११. तुलापुरुषविधिः)
(११,१.१) ओमथातस्तुलापुरुषविधिं व्याख्यास्यामस्
(११,१.२) तदुदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे श्रद्धाप्रेरितौ ग्रहणकाले वा
(११,१.३) ऋत्विग्यजमानौ कॢप्तकेशश्मश्रू रोमनखानि वापयित्वा
(११,१.४) संभारानुपकल्प्य प्राक्तन्त्रमाज्यभागान्तं कृत्वा
(११,१.५) महाव्याहृतिसावित्रीशान्तिं ब्रह्म जज्ञानमिति हुत्वा
(११,१.६) अग्ने गोभिरग्नेऽभ्यावर्तिन्नग्नेः प्रजातमिति संपातानुदपात्रानीयाभिषेककलशेषु निनयेद्
(११,१.७) अथास्येन्द्रो ग्रावभ्यामित्यभिषेचयेद्
(११,१.८) इदमापो यथेन्द्रो बाहुभ्यामित्यभिषेचयित्वा
(११,१.९) यथोक्तमञ्जनाभ्यञ्जनानुलेपनं कारयित्वा वासो गन्धस्रजश्चाबध्नीयात्
(११,१.१०) तुलां हिरण्यं च पवित्रैरभ्युक्ष्य पुरुषसंमितोऽर्थ इति सप्तभिस्तदारोहयेद्
(११,१.११) अच्युता द्यौरिति चतसृभिरवरोहयेत्
(११,१.१२) सूर्यस्यावृतमिति प्रदक्षिणमावृत्य ब्राह्मणेभ्यो निवेदयित्वात्मालंकारान् कर्त्रे दद्यात्
(११,१.१३) सहस्रदक्षिणं ग्रामवरम्
(११,१.१४) द्विजानन्नेन तर्पयेत्
(११,१.१५) अथ चेन्निःस्वपक्षेण यथा संपद्यते धनम् । धातुभिः सह तौल्यमतु वासोभिश्च रसैस्तथा । व्रीह्यादिसप्तधान्यैर्वा यथासंपद्यते गृहे ॥
(११,२.१) सखड्गः सशिरस्त्राणः सर्वाभरणभूषितः । तपनीयमगरे कृत्वा पश्चात्तोल्यो नराधिपः ॥
(११,२.२) इन्द्रेणेदं पुरा दत्तमधिराज्याप्तये वरम् । सर्वपापप्रणाशाय सर्वपुण्यविवृद्धये ॥
(११,२.३) महादानातिदानानामिदं दानमनुत्तमम् । अक्षय्यफलदं श्रेष्ठं दातॄणां श्रेयवर्धनम् ॥
(११,२.४) यत्पापं स्वे कुले जातैस्त्रिः सप्त पुरुषैः कृतम् । तत्सर्वं नश्यते क्षिप्रमग्नौ तूलं यथा तथा ॥
(११,२.५) अनामयं स्थानमवाप्य दैवैरलङ्घनीयं सुकृतैर्हिरण्मयैः । सुवर्णतेजाः प्रविमुक्तपापो दिवीन्द्रवद्राजति सूर्यलोके ॥ दिवीन्द्रवद्राजति सूर्यलेकेति ॥ इति तुलापुरुषविधिः समाप्तः ॥

(परिशिष्ट_१२. आदित्यमण्डकः)
(१२,१.१) ओमथ यः कामयेत सर्वेषां नृणामुत्तमः स्यामिति स भास्करायापूपं दद्यात्
(१२,१.२) तस्य कल्पो
(१२,१.३) यवगोधूमानामन्यतमचूर्णेन मण्डलाकृतिं संश्रप्य
(१२,१.४) पात्रे कृत्वापिहितम्
(१२,१.५) सगुडाज्यसुवर्णशकलं च्वोपरिष्टान्निधायार्चयेद्रक्तकुसुमैर्
(१२,१.६) विषासहिमित्यभिमन्त्र्य ब्राह्मणाय निवेदयेत्
(१२,१.७) तत्र श्लोकाः
(१२,१.८) अनेन विधिना यस्तु पूपं दद्याद्द्विजातये । प्रयच्छेत्सततं प्राज्ञस्तस्य पुण्यफलं शृणु ॥
(१२,१.९) आरोग्यवान् वर्चस्वी च प्रजावान् पशुमांस्तथा । धनवानन्नवान् श्रीमांस्तथा सर्वजनप्रियः ॥
(१२,१.१०) अपमृत्युशतं साग्रं नाशयत्यविचारतः । प्रदत्तं सूर्यलोकं च प्रापयेत्परमं पदम् ॥ प्रापयेत्परमं पदमिति ॥ इत्यादित्यमण्डकः समाप्तः ॥

(परिशिष्ट_१३. हिरण्यगर्भविधिः)
(१३,१.१) ओमथ हिरण्यगर्भविधिमनुक्रमिष्यामः सर्वपापापनोदनम्
(१३,१.२) उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे श्रद्धाप्रेरितौ ग्रहणकाले वा
(१३,१.३) ऋत्विग्यजमानौ कॢप्तकेशश्मश्रुरोमनखौ स्याताम्
(१३,१.४) अथ ऋत्विक्प्रगस्तंगमनादश्वत्थादरणी आधायाग्ने जायस्वेति द्वाभ्यां मथ्यमानमनुमन्त्रयते
(१३,१.५) तृतीयया जातं चतुर्थ्योपसमादधाति
(१३,१.६) शुचौ देशे परिधाप्य यथोक्तमञ्जनाभ्यञ्जनानुलेपनं कारयित्वा
(१३,१.७) अग्नेः प्रजातं परि यद्धिरण्यं यदाबध्नन्निति हिरण्यस्रजमाग्रथ्य रक्षन्तु त्वेति रक्षां कृत्वा
(१३,१.८) दर्भानास्तीर्याधह्शायिनौ स्याताम्
(१३,१.९) श्वो भूतेऽभिजिन्मुहूर्ते हिरण्मयं मण्डलाकृति नाभिमात्रं पात्रमाधाय सापिधानम्
(१३,१.१०) स्रुक्स्रुवाज्यस्थाल्युदपात्रालंकारांश्च
(१३,१.११) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ चाथ जुहोति
(१३,२.१) हिरण्यगर्भाय स्वाहा ॥ अग्नये स्वाहा ॥ ब्रह्मणे स्वाहा ॥ प्रजापतये स्वाहेति हुत्वा
(१३,२.२) तैरेव नमस्कारं कारयित्वा
(१३,२.३) तैरेवोपस्थाय स्रुक्स्रुवाज्यस्थाल्युदपात्रालंकारांश्चेति
(१३,२.४) हिरण्मये राजानं हिरण्यवतीभिः स्नापयित्वा
(१३,२.५) हिरण्यकलशैस्तस्मिन् पञ्चगव्यमप आसिच्य
(१३,२.६) हिरण्यगर्भसूक्तेनांहोमुचेन शन्तातीयेन पञ्चभिश्च नामभिः संपातानानीय
(१३,२.७) तथैव सदस्यानसदस्यानृत्विजोऽनुज्ञापयेद्
(१३,२.८) राजा हिरण्यगर्भत्वमभीप्सत्यस्मिन् भवन्तोऽनुमन्यन्तामिति
(१३,२.९) तैरनुष्ठितः
(१३,३.१) उदेहि वाजिन्निति द्वाभ्यां प्रवेशयेत्
(१३,३.२) त्रयस्त्रिंशद्देवता इत्यभिसंधाय तमनुशास्ति
(१३,३.३) वाचं नियम्य प्रतिसंहृत्य चेन्द्रियाणि विषयेभ्यो मनसा भगवन्तं हिरण्मयं हिरण्यगर्भं परमेष्ठिनं पौरुषं ध्यायस्वेति
(१३,३.४) तथेति तत्प्रतिपद्यते
(१३,३.५) स सप्तदशमात्रान्तरमस्ति
(१३,३.६) सप्तदशो वै प्रजापतिः
(१३,३.७) प्रजापतेरावृत इति विज्ञापयेत्
(१३,३.८) तथैव सदस्यानसदस्याननुज्ञाप्योत्थापयेद्
(१३,३.९) उत्थितं हिरण्मयेन चक्रेणाभिन्युब्जयेत्
(१३,३.१०) मा ते प्राण इत्युद्धरेद्
(१३,३.११) उद्धृतं हिरण्यनाम्नो प्रविमुच्य यस्त्वा मृत्युरित्यपास्येत्
(१३,३.१२) संपश्यमाना इत्यवेक्षितो ब्राह्मणान् प्रणिपत्य नमस्कार्य नमो हिरण्यगर्भायेत्य्
(१३,३.१३) अथ ह वै हिरण्यगर्भस्येति प्रियतमाय तत उक्तम्
(१३,३.१४) ब्राह्मणा ब्रूयुरुत्तिष्ठ हिरण्यगर्भानुगृहीतो (सीत्य्
(१३,३.१५) अप्रतिरथेन हुत्वा संस्थापयेद्
(१३,३.१६) अप्सु ते राजन् वरुणेति वरुणमभिष्टूय स्नात्वा पवित्रैः प्रत्येत्यादित्यमुपतिष्ठन्ते
(१३,४.१) हिरण्यं तव यद्गर्भो हिरण्यस्यापि गर्भजः । हिरण्यगर्भस्तस्मात्त्वं पाहि मां महतो महानिति
(१३,४.२) सूर्यस्यावृतमिति प्रदक्षिणमावृत्य
(१३,४.३) गृहानैमीति गृहान् प्रतिपद्य
(१३,४.४) त्वमग्ने प्रमतिरित्यग्निमुपस्थाप्याथोत्सृजेद्
(१३,४.५) अथ द्विजेभ्यो दक्षिणां दश सहस्राण्दद्यात्
(१३,४.६) ग्रामवरं च
(१३,४.७) स्रुक्स्रुवाज्यस्थाल्युदपात्रालंकारांश्चेत्यन्यत्सर्वं सदस्येभ्यो
(१३,४.८) यावद्वा तुष्येरंश्तावद्वा देयम् ॥ राजा दद्याद्
(१३,४.९) यथाकामं ब्राह्मणानन्नेन परिचरेत्
(१३,४.१०) तत्र श्लोकाः
(१३,५.१) वेदानां पारगा यस्य चतुर्णां ब्रह्मवित्तमाः । तुष्टा यस्याशिषो ब्रूयुस्तस्य यज्ञफलं भवेत् ॥
(१३,५.२) ब्राह्मणानां प्रसादेन सूर्यो दिवि विराजति । इन्द्रोऽप्येषां प्रसादेन देवानतिविराजति ॥
(१३,५.३) हिरण्यदानस्य फलममृतत्वमिति श्रुतिः । श्रूयते ह्यस्य दाता यः सोऽमृतत्वं समश्नुते ॥
(१३,५.४) राजेक्षुवाकुप्रभ्र्तयः पुरा राजर्षयोऽमलाः । दत्त्वा हिरण्यं विप्रेभ्यो ज्योतिर्भूत्वा दिवि स्थिताः ॥
(१३,५.५) य एवं संस्कृतो राजा विधिना ब्रह्मवादिना । प्रजानामिह साम्राज्यं ज्यैष्ठ्यं श्रैष्ठ्यं च गच्छति ॥
(१३,५.६) अमुष्मिन् ब्रह्मणा सार्धमानन्दमनुभूय वै । ज्योतिर्मयं सत्यलोकं नचैवावर्तते पुनः ॥

(परिशिष्ट_१४. हस्तिरथदानविधिः)
(१४,१.१) ओमथ हस्तिरथदानानामनुक्रमं वक्ष्ये
(१४,१.२) जातरूपमयं क्र्त्वा एकचक्रं सुशोभनम् । हस्तिभिः सप्तभिर्युक्तमर्चयित्वा यथाविधि ॥
(१४,१.३) अथ वा चतुर्भिर्युक्तं हैमं राजतमेव वा । अस्पृष्टं दारुजं वापि सर्वसंभारपूरितम् ॥
(१४,१.४) हस्तियुग्मेन संयुक्तं सौरभेययुतेन वा । भुङ्क्ते सप्तैव जन्मानि सप्तद्वीपां वसुंधराम् ॥
(१४,१.५) हस्तेन युक्ते चन्द्रमसि पौर्णमास्याममावास्यायां वा पुण्ये वा ऋक्षे शुचिः शुचौ देशे तन्त्रमित्युक्तम् ॥
(१४,१.६) प्राञ्चमिध्ममुपसमाधायान्वारभ्याथ जुहुयात् ॥
(१४,१.७) सवित्रे स्वाहा ॥ पतंगाय स्वाहा ॥ पावकाय स्वाहा ॥ सहस्ररश्मये स्वाहा ॥ मार्तण्डाय स्वाहा ॥ विष्णवे स्वाहा ॥ प्रजापतये स्वाहा ॥ परमेष्ठिने स्वाहा इति हुत्वा.
(१४,१.८) कनकाश्च तिला गावो दासी गृहमहीरथाः । कन्या हस्ती च विद्या च महादानि वै दश ॥
(१४,१.९) तस्मात्सर्वेषु दानेषु अनुक्तविधिकेषु च । अग्निं ब्रूम इति सूक्तमाज्यतन्त्रेण होमयेत् ॥
(१४,१.१०) अश्वदाता व्रजेत्स्वर्गमश्वारूढश्च मानवः । पूज्यते देवगन्धर्वैरप्सरोकिंनरैस्तथा ॥
(१४,१.११) हस्तिवर्चसं प्रथतामिति कलशे संपातानानीय युगं योक्त्रं रथमिति सर्वं संप्रोक्ष्य ॥
(१४,१.१२) अश्रान्तस्य त्वा मनसा युनज्मीति योजयेत् ॥
(१४,१.१३) अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य च । उत्कूलमुद्वहो भवो उदुह्य प्रति धावतात् ॥
(१४,१.१४) युक्तायार्थं दद्यात् ॥
(१४,१.१५) श्यावैर्युक्तः शितिपद्भिर्हिरण्ययो यस्य रथः पथिभिर्वर्तते सुखैः । स नो हस्तेन सविता हिरण्यभुग्घिरण्यपाणिः सविता नोऽभिरक्षतु ॥
(१४,१.१६) बृहद्धस्तिरथं युक्तं हस्तेन तु ददन्नरः । सवितुः स्थानमाप्नोति दिव्यां कामजवां सभाम् ॥

(परिशिष्ट_१५. अश्वरथदानविधिः)
(१५,१.१) ओमथाश्वरथदानविधिः.
(१५,१.२) गोष्ठ उदकान्ते शुचौ वा देशे प्राञ्चमिध्ममुपसमाधायान्वारभ्याथ जुहुयात् ॥
(१५,१.३) वतरंहा भव वाजिन् युज्यमान इत्येतेनाश्वेषु संपातानानीयाश्रान्तस्य त्वेति समानम्
(१५,१.४) त्वमिन्द्रस्त्वं महेन्द्र इति सवित्रे अर्घं दत्त्वा
(१५,१.५) पुनन्तु मेत्यात्मानमालभ्य जपेद्
(१५,१.६) रक्षन्तु त्वाग्नय इति यजमानमभिमन्त्र्य समृद्धिहोमान्ते
(१५,१.७) वरां धेनुं कर्त्रे दद्यादश्वरथं ग्रामवरं चेति
(१५,१.८) य एवं विधिना दद्याद्विदुषे अश्वरथं सुधीः । ज्यैष्ठ्यं श्रैष्ठ्यं च साम्राज्यं प्रजानामिह गच्छति ॥
(१५,१.९) सप्तानां लोकानामन्ते ज्योतिर्लोकमनामयम् । गत्वा स परमानन्दं भुङ्क्ते यावद्विभावसुः ॥

(परिशिष्ट_१६. गोसहस्रविधिः)
(१६,१.१) ओमथातो गोसहस्रविधिः ॥
(१६,१.२) गोष्ठ उदकान्ते शुचौ वा देशे प्राञ्चमिध्ममुपसमाधायान्वालभ्याथ जुहुयात् ॥
(१६,१.३) आ गाव इति सूक्तेनाज्यं जुहुयात् ॥
(१६,१.४) महाव्रीहीणामैन्द्रं चरुं सौम्यं च सहस्रतम्याः पयसि श्रपयित्वा गाव एव सुरभव इत्येतेन जुहुयात् ॥
(१६,१.५) पञ्चानां नदीनां तीर्थोदकम् ॥
(१६,१.६) पश्चादग्नेस्तीर्थोदकेन पूर्णं कलशमवस्थाप्य हिरण्यवर्णा इत्यभिमन्त्र्य सं वो गोष्ठेनेति दश गाः स्नापयेत् ॥
(१६,१.७) त्वरमाननयाः समभ्युक्ष्य सहस्रतम्याः सानोदनेकेममिन्द्र वर्धय क्षत्रियं म इति राजानमभिषिच्य ॥
(१६,१.८) इमा आप इति षड्भिर्योथोक्तमञ्जनाभ्यञ्जनानुलेपनं कृत्वा ॥
(१६,१.९) सहस्रतमीं प्रथमामलंकृत्य ॥
(१६,१.१०) आ गावो मामुपतिष्ठन्तामित्युपतिष्ठेत् ॥
(१६,१.११) प्रजावतीः सूयवसादिति च सर्वाः पाययेत् ॥
(१६,१.१२) प्रियमशनं दत्त्वाद्धि तृणमघ्न्य इति सहस्रतमीमालभ्य जपेत् ॥
(१६,१.१३) मया गावो गोपतिना सचध्वमिति मन्त्रानेत्नार्घं दत्त्वा ॥
(१६,१.१४) सहस्रतम्याः पुछमौपसंगृह्य भूमिष्ट्वा प्रतिगृह्णात्विति जपन् ॥
(१६,१.१५) सहस्रतम्याः पृष्ठतो व्रजन् ॥
(१६,१.१६) सर्वाः प्रदक्षिणीकृत्य नमस्कृत्य स्वस्तिवाच्य ब्राह्मणेभ्यो निवेद्य दश गा दक्षिणां कर्त्रे दद्यात्सहस्रतमीं वस्त्रयुग्ममच ॥
(१६,१.१७) तदपि श्लोकाः ॥
(१६,२.१) सप्ताजन्मानुगं पापं पुरुषैः सप्तभिः क्र्तम् । तत्क्षणाद्विधिनानेन नाशयेद्गोप्रदो नरः ॥
(१६,२.२) सर्वेषामेव दानानां फलं यत्परिकीर्तितम् । तदवाप्नोति विरेभ्यो गोसहस्रप्रदो नरः ॥
(१६,२.३) अश्वमेधं वृषोत्सर्गं गोसहस्रं च यः सुतः । दद्यान्मदीय इत्याहुः पितरस्तर्पयन्ति हि ॥
(१६,२.४) तस्मादनेन विधिना गोसहस्रं ददेन्नरः । सर्वपापविशुद्धात्मा याति तत्परमं पदमिति ॥

(परिशिष्ट_१७. राजकर्मसांवत्सरीयम्)
(१७,१.१) ओमथ प्रतिसंवत्सरं राजकर्माणि क्रमेण वक्ष्यामः ॥
(१७,१.२) अथाश्वयुजे मासे शुक्लपक्षस्य तृतीयेऽहनि ॥
(१७,१.३) हरिद्रायवानाम् ॥
(१७,१.४) रक्षन्तु त्वाग्नय इति चतसृभी रक्षामश्वानां बद्ध्वा हस्त्यश्वानां नीराजनं कुर्यात् ॥
(१७,१.५) अश्वोऽसि क्षिप्रजन्मासि ....प्रदद्यात्स विशुद्धात्मा सप्तद्वीपां वसुंधराम् ॥
(१७,१.६) हस्तेन युक्ते चन्द्रमसि पौर्णमास्याममावास्यायां वा पुण्ये नक्षत्रे शुचौ देशे ॥ तन्त्रमित्युक्तम् ॥
(१७,१.७) प्राञ्चमिध्ममुपसमाधायान्वारभाथजुहुयात् ॥
(१७,१.८) सवित्रे स्वाहा ॥ पतंगाय स्वाहा ॥ पावकाय स्वाहा ॥ सहस्ररश्मये स्वाहा ॥ मार्तण्डाय स्वाहा ॥ विष्णवे स्वाहा ॥ प्रजापतये स्वाहा ॥ परमेष्ठिने स्वाहेति हुत्वा कनकानां बद्ध्वा हस्त्यश्वानां पूर्ववन्नीराजनं कुर्यात् ॥
(१७,२.१) अथ नवम्यामपराह्णे वाहनानि स्नापयित्वा अहतवासा ब्रह्मा द्वादशमितां वेदिं कृत्वा ॥ तन्त्रमित्युक्तम् ॥
(१७,२.२) शान्तिकृत्यादूषणेन वाहनं त्रिः प्रोक्ष्य परीयान् ॥
(१७,२.३) निःसालामिति सूक्तं जपन् प्रत्येत्याभिषिञ्चयेदेनम् ॥
(१७,२.४) अश्वमलंकृतं शबलकण्ठं कृत्वोपस्थाप्य दध्याद् ॥
(१७,२.५) एवमेव मैश्रधान्यान्युदपात्राण्यन्तरासु दिक्षु ॥
(१७,२.६) तत्रैव देवता यजेत् ॥ अग्निं वायुं वरुणमश्विनाविति ॥
(१७,२.७) पयसि स्थालीपाकं श्रपयित्वा ॥
(१७,२.८) समास्त्वाग्ने त्वं नो अग्ने मा नो विदन्नभयैरपराजितैरायुष्यैः स्वस्त्ययनैरप्रतिरथेनेति च हुत्वा संस्थाप्य ॥
(१७,२.९) अग्नेरदोऽसीत्यहतवासोभिः प्रछाद्य रसैः कुम्भानौदुम्बरान् पूरयित्वा प्रतिदिशमवस्थाप्य ममाग्ने वर्चो अभयं द्यावापृथिवी उदुत्तमं वरुणाश्विना ब्रह्मणा यातमिति जुहुयात् ॥
(१७,२.१०) पौर्णमासी प्रथमेति च जुहुयाद्दुन्दुभिमाहन्यादित्युक्तम् ॥
(१७,२.११) उप श्वासय पृथिवीमिति तत्रैवानुमन्त्रणं च ॥
(१७,२.१२) सर्वाणि च वादित्राणि वाहनानि च ॥
(१७,२.१३) जनस्यान् प्रहर्षय पञ्चमीं प्रतिष्ठापयेत् ॥
(१७,२.१४) न तं यक्ष्मा ऐतु देव इति गुग्गुलक्ष्ठदूपं दद्यात् ॥
(१७,२.१५) यस्ते गन्धस्त्र्यायुषमिति भूतिं प्रयच्छेत् ॥
(१७,२.१६) दूष्या दूषिरसीति प्रतिसरमाबध्य ये पुरस्तादिति प्रतिदिशं क्षिपेत् ॥
(१७,२.१७) बहिर्निःसृत्योत्तरेण गत्वा बाह्येनोपनिष्क्रम्य सुहृदे कुर्याच्छ्रद्दधते कुर्याद्वाहनानामभयं कर्म ॥

(परिशिष्ट_१८. राजकर्मसांवत्सरीयम्)
(१८,१.१) अथाश्वयुजे मासे पौर्णमास्यामपराह्णे हस्तिनीराजनं कुर्यात् ॥
(१८,१.२) प्रागुदक्प्रवणे देशे यत्र वा मनो रमते ॥
(१८,१.३) गिरयस्ते पर्वता इत्येतया हस्तशतमर्धं वा मण्डलं परिगृह्य याभिर्यज्ञमिति संप्रोक्षेत् ॥
(१८,१.४) तत्र श्लोकाः ॥
(१८,१.५) दशहस्तसमुत्सेधं पञ्चहस्तं तु विस्तृतम् । शान्तव्र्क्षमयं कुर्यात्तोरणं पुष्टिवर्धनम ॥
(१८,१.६) शुक्लैः शुक्लाम्बरध्वजैर्माल्यैश्च परिभूषितम् । कारयेत बिले शुभ्रे रसैश्च परिपूरिते ॥
(१८,१.७) रसैस्त्वामभिषिञ्चामि भूमे मह्यं शिवा भव । असपत्ना सपत्नघ्नी मम यज्ञविवर्धनी ॥
(१८,१.८) इमौ स्तम्भौ घृतान्वक्तावुभौ मा यशसावतात् । यो मा कश्चभिदासति तमिमौ स्तम्भौ निर्दहतामिति ॥
(१८,१.९) उच्छ्रयस्व इमा या ब्रह्मणस्पत इत्येताभ्यां सुवर्णमाला पताकैः स्तम्भौ संयोज्य ॥
(१८,१.१०) तस्याधस्ताच्चतुर्हस्तां वेदिं कृत्वा दर्भपवित्रपाणिर्बलिं पुष्पाणि च दत्त्वा ॥
(१८,१.११) मधुलाजामश्रैः स्वस्तिकसंयावकदधिकृसरापूपकापायसघृतविविधपानभक्षफलैरग्निं परिस्तीर्य ॥
(१८,१.१२) आपो अस्मान्मातरः सूदयन्त्विति चतुरौदुम्बरान् कुम्भान् ह्रदोदकेन पूरयित्वा ॥
(१८,१.१३) प्रतिदिशमवस्थाप्य दध्याद्रौद्राग्नेयं वायव्यं वारुणा मन्त्राः ॥
(१८,१.१४) रक्षोघ्नं क्र्त्यादूशणं यशस्यवर्चस्यानि च हुत्वौषधीः समादाय द्विहस्तं मण्डलमित्युक्तम् ॥
(१८,१.१५) तत्र श्लोकाः ॥
(१८,१.१६) बृहत्कण्टारीकण्टका लाघुकण्टारिका स्मृताः । सुवर्णपुष्पी श्वेतगिरि कर्णिका ह्युदिसत्रा ॥
(१८,१.१७) सिंही व्याघ्री च हरिणी ह्यमृता चापराजिता । पृश्निपर्णी च दूर्वा च पद्ममुत्पलमालिनी ॥
(१८,२.१) तामनुमन्त्रयते ॥
(१८,२.२) वैणवं कटकमवस्थाप्यादध्यात् ॥
(१८,२.३) द्वैपवैयाघ्रानडुच्चर्म परिस्तीर्य ॥
(१८,२.४) ततो या स्यादधिदेवता तस्यै बलिं दत्त्वा पिण्डानि च दद्यात् ॥
(१८,२.५) हस्तिनमाचामयेत् ॥
(१८,३.१) यस्यां दिशि स रिपुर्भवति तां दिशं गत्वा हस्तिनमानयेद्धिरण्येन रजतेन वज्रमणिमुक्तादिभिः शङ्खेन चन्दनेन भद्रदारुणया कुष्ठेन नलदेन रोचनेनाञ्जनेन मनह्शिलया पद्मकुमुदोत्पलैर् ॥
(१८,३.२) ममाग्ने वर्च इति सूक्तं दक्षिनोत्तरमखं प्रतिजपेत् ॥
(१८,३.३) शेषेण गात्राण्यभ्यञ्जयेत् ॥
(१८,३.४) तत्र स्लोकाः ॥
(१८,३.५) हस्तिनां रक्षणे दण्डः कर्तव्यो वैणवो नवः । षोडशारत्निमात्रस्तु चारुपर्वमनओरमः ॥
(१८,३.६) तेन वारणान् वारयेत् ॥
(१८,३.७) दन्ताग्रेषु तृणानि कृत्वा यथा हव्यं वहसि ग्रसति ॥
(१८,३.८) सुजातं जातवेदसमित्यग्निं प्रज्वालयेत् ॥
(१८,३.९) सुजातं जातवेदसमिति वाचयेद्यथा हव्यमिति नीराजयित्वा ॥
(१८,३.१०) निधिं बिभ्रतीति शालां प्रवेशयेद् ॥
(१८,३.११) अनपेक्षमानाः स्वानि स्थानानि व्रजन्ति दीर्घायुषो बलवन्तश्च भवन्ति ॥
(१८,३.१२) गोसहस्रं कर्त्रे दक्षिणा ग्रामवरं च ॥

(परिशिष्ट_१८ . राजकर्मसांवत्सरीयम्)
(१८ ,१.१) अथ वर्षशतं प्रवर्धमानो राजानमभिवर्धयिष्यन् संवत्सरे जन्मदिने कुर्यात् ॥ तन्त्रमित्युक्तम् ॥
(१८ ,१.२) पुनन्तु मा वायोः पूतो वैश्वानरो रश्मिभिरिति पवित्रैः पुण्याहादीनि च मङ्गलैर्यजमानं च संप्रोक्ष्य यदाबध्नन्निति पुष्पाद्यलंकारं वर्जयित्वा माहेन्द्रं चरुं श्रपयेत् ॥
(१८ ,१.३) लोकपालेभ्यश्च द्वितीयं चरुं श्रपयेत् ॥
(१८ ,१.४) महामिन्द्रो य ओजसेति सूक्तेन तृतीयायां ह्यग्नौ हुत्वा इन्द्राय स्वाहेत्यादि लोकपालांश्चेष्ट्वा राजानमन्वालभ्य आदिवज्जुहुयादर्वाञ्चमिन्द्रमिन्द्रः सुत्रामा इममिन्द्र वर्धय क्षत्रियं मे शतं जीवतः सरद इति ॥
(१८ ,१.५) रक्षन्तु त्वाग्नय इति चतसृभी रक्षां कृत्वा रोचनयालंकुर्यात् । त्रिगुणेन सूत्रेण बद्ध्वा ॥
(१८ ,१.६) मनायै तन्तुमिति सूक्तेन रक्षासूत्रे संपातं च कृत्वा ॥
(१८ ,१.७) धाता ते ग्रन्थिमिति बध्नाति ॥
(१८ ,१.८) उत्तरतन्त्रं हिरण्यं दक्षिणा ॥
(१८ ,२.१) महानवम्यां हस्त्यश्वदीक्षा प्रतिपत्प्रभृति नवरात्रम् ॥
(१८ ,२.२) शस्त्रसस्वसंपातः ॥
(१८ ,२.३) त्र्तीयायां हस्त्यश्ववाहग्राम्याश्वानां कर्म सप्तम्यां हस्त्यश्वानां दर्शनम् ॥
(१८ ,२.४) अष्टम्यामथ पिष्टमयीमित्यादि नवम्यां दुर्गापूजनम् ॥
(१८ ,२.५) अथ वा वनम्यामित्यादि नवम्याम् ॥
(१८ ,२.६) अथापराजितदशम्याम् ॥
(१८ ,२.७) पूर्वाह्णे विजयमहूर्ते उक्तं प्रास्थानिकम् ॥
(१८ ,२.८) एतानि खलु प्राग्द्वाराणीत्यादि ॥
(१८ ,३.१) अथ श्रवणे नक्षत्रे राज्ञामिन्द्रमहस्येति व्याख्यातः ॥
(१८ ,४.१) अथ पौर्णमास्यामपराह्णे पौर्णमासिकं कर्म ॥
(१८ ,५.१) अथापामार्गत्रयोदश्यां श्वेते मुहूर्ते स्नानं कृत्वापामार्गं त्रिः परिभ्रामयेद्राज्ञ उपरि मन्त्रेण ॥
(१८ ,५.२) इशानां त्वा भेषजानामिति त्रिभिः सूक्तैः प्रतीचीनफल इति सूक्तेन वा पुनः स्नानम् ॥
(१८ ,५.३) तत आरात्रिकं परिधत्तेति द्वाभ्यामिति समानम् ॥
(१८ ,६.१) अथ दीपोत्सवं प्रतिपदि हस्त्यश्वादिक्दीक्षासमानम् ॥
(१८ ,६.२) अभ्यातानान्तं कृत्वा येऽस्यां प्राची दिगिति ॥
(१८ ,६.३) मा नो देवा यस्ते सर्प इत्येतैः सूक्तैस्तृणानि युगतर्द्मना संपातवन्ति गणं च प्रातितमितधानाशने हस्त्यश्वादियुगपत्तन्त्रं समानम् ॥ धेनुर्दक्षिणा ॥
(१८ ,७.१) अथाक्षय्यनवम्यां रात्रौ हस्त्यश्वादीनामनीकानां रथस्य परहोमश्च ॥
(१८ ,८.१) अथ विष्णुद्वादश्यां पुरोहितः पश्चिमां संध्यामुपास्य गृहीतदर्भो यत्र राजानमभिगम्य पौष्टिकहोमश्च रात्रौ नीराजनं कृत्वा हस्त्यश्वेभ्यश्च ॥
(१८ ,९.१) अथ कार्त्तिक्यां पौर्णमास्यां रैवत्यामश्वयुज्यां वृषोत्सर्गः ॥
(१८ ,१०.१) अथाग्रयणीपौर्णमास्यां तन्त्रं कृत्वापादग्रेति द्वाभ्यां रसं संपात्याभिमन्त्र्य राजानं प्राशयेत् ॥ धेनुर्दक्षिणा ॥
(१८ ,११.१) अथ पौष्यां पौर्णमास्यामुक्तः पुष्याभिषेकः ॥
(१८ ,१२.१) अथ फाल्गुन्यां पौर्णमास्यां रात्रौ होलाका ॥
(१८ ,१२.२) महानवम्यामुक्तप्रज्वलनं नीराजं वा ॥
(१८ ,१३.१) अथ ग्रीष्मप्रतिपद्यायुष्यमिति स्नानं कृत्वापां सूक्तैराप्लुत्य प्रक्षिणमाव्र्त्याप उपस्पृश्येत्युक्तम् ॥
(१८ ,१४.१) अथ चैत्र्यां पौर्णमास्यां तेजोव्रतं त्रिरात्रमश्नातीत्युक्तम् ॥
(१८ ,१५.१) अथ मदनत्रयोदश्यां वैशाख्यां पौर्णमास्यां च मध्याह्ने गर्ते वा वाप्यां पुष्करिण्यां घते वा सर्वगन्धान् प्रक्षिप्य प्राक्तन्त्रमभ्यातानान्तं कृत्वा सिंहे व्याघ्रे यशो हविः प्रातरग्निं गिरावरगराटेषु दिवस्पृथिव्या इत्येतैः सूक्तैरुदकं संपात्याभिमन्त्र्य राजानं स्नापयेत् ॥ प्रविश्य संप्रोक्ष्येति च तन्त्रं संस्थापयेत् ॥ धेनुर्दक्षिणा ॥
(१८ ,१६.१) अथ श्रावण्यां पौर्णमास्यां विजये मुहूर्ते रक्षन्तु त्वाग्नय इति चतसृभी रक्षाबन्धनं कृत्वा नीराजनं च बाह्येनोपनिष्क्रम्येति पैठीनसिः ॥
(१८ ,१७.१) अथादित्यदिन आदित्यमण्डलको व्याख्यातः ॥
(१८ ,१८.१) अथ जन्मनक्षत्रे जन्मनक्षत्रयागहोमो व्याख्यातः ॥
(१८ ,१९.१) अथ राजकर्माणि प्रतिनक्षत्रं कर्तव्यानीत्यायुधानि खड्गप्रभृतीनि बिभृयादिति कृत्तिकारोहिण्यादीनि व्याख्यातानि ॥
(१८ ,१९.२) इन्द्रोत्सव इन्द्रमहोत्सवो व्याख्यातः ॥
(१८ ,१९.३) प्रतिदिनं ग्रहयागः ॥ प्रतिदिनं नक्षत्रयागः ॥ प्रतिदिनं दशगणी महाशान्तिः ॥
(१८ ,१९.४) प्रतिस्थानं कृत्तिकारोहिणीव्याख्याता नक्षत्रस्नानानि नक्षत्रक्षिणाश्च ॥
(१८ ,२०.१) राजकर्म सांवत्सरीयं हस्त्यश्वादिदीक्षा समाप्ता ॥

(परिशिष्ट_१८ . वृषोत्सर्गः)
(१८ ,१.१) अथ वृषोत्सर्गः ॥
(१८ ,१.२) कार्त्तिकेयां पौर्णमास्यां रैवत्यामाश्वयुज्यां वा गवां गोष्ठे पौर्णमासतन्त्रमाज्यभागान्तं कृत्वा रुद्ररौद्राभ्यामाज्यं जुहुयात् ॥
(१८ ,१.३) पूषा गा अनु एतु न इति चतसृभिः पौष्णस्य जुहुयात् ॥
(१८ ,१.४) पूषा गा अनु एतु नः पूषा रक्षातु सर्वतः । पूषा वाजं सनोतु नः ॥
(१८ ,१.५) पूषन्ननु प्र गा इहि(इति) यजमानस्य सुन्वतः । अस्माकं स्तुवतामुत ॥
(१८ ,१.६) पूषन् तव व्रते वयं परि पूषा पुरस्तादिति ॥
(१८ ,१.७) इन्द्रस्य कुक्षिः साहस्रस्त्वेष इति ऋषभं संपातवन्तं कृत्वा य इन्द्र इव देवेषु इति ऋषभस्य दक्षिणे कर्णे जपेत् ॥
(१८ ,१.८) लोहितेन स्वधितिन इति वत्सतरीमनुमन्त्रयते ॥
(१८ ,१.९) अयं प्रजानां जनिता प्रजापतिर्गवां गोष्ठ इह मध्यतो वसः । वत्सतरीषु अपसदने गवामधि तिष्ठ पशून् भवनस्य गोपाः ॥
(१८ ,१.१०) इति मण्डलानि भ्रामयति
(१८ ,१.११) रेतोधायै त्वातिसृजामि वयोधायै त्वातिसृजामि यूथत्वायै त्वातिसृजामि गणत्वायै त्वातिसृजामि सहस्रपोषायै त्व७ तिसृजामि अपरिमितपोषायै त्वातिसृजामीति पर्युक्ष्यैकरूपं द्विरूपं बहुरूपं वा यो वा यूथं छादयति यूथेन तेजस्विनालंकृतेनालंकृतमपराजितां दिशं निष्क्रामयेयुः सह वत्सतरीभिस्तन्त्रं संस्थापयेयुर्
(१८ ,१.१२) अथ ब्रह्मणे गां पयस्विनीं दद्यात्पायसेन ब्राह्मणान् भोजयित्वोत्सृज्य सर्वान् कामानाप्नोति अक्षयाण्च लोकानाप्नोतीति

(परिशिष्ट_१९. इन्द्रमहोत्सवः)
(१९,१.१) अथ राज्ञमिन्द्रमहोत्सवस्य उपचारकल्पं व्याख्यास्यामः ॥
(१९,१.२) प्रौष्ठपदे शुक्लपक्षे ॥
(१९,१.३) संभृतेषु संभारेषु ब्रह्मा राजा च उभौ स्नातौ अहतवसनौ सुरभिसुजातानुलेपनौ कर्मण्यौ व्रतवन्तौ उपवसतः
(१९,१.४) [व्रतवन्तौ] श्वो भूते शम्नोदेव्याः पादैरर्धर्चाभ्यामृचा षकृत्वोदकं परि वाचमाचान्तो
(१९,१.५) बर्हिरुपकल्पयित्वा राजानमन्वालभ्य जुहुयात् ॥
(१९,१.६) अर्वाञ्चमिन्द्रं त्रातारमिन्द्रमिन्द्रः सुत्रामा इममिन्द्र वर्धय क्षत्रियं मे हन्ताय वृष इन्द्रस्य इन्द्रो जयाति इति च हुत्वा राष्ट्रसंवर्गैश्चा
(१९,१.७) अथ इन्द्रमुत्थापयन्ति आ त्वा अहार्षमन्तर्ध्रुवाद्यौर्विशस्त्वा सर्वा वाञ्छन्तु इति सर्वतोऽप्रमत्ता धारयेरन्न्
(१९,१.८) अद्भुतं हि सवनानयेत्समुत्थितं भवति ॥ यदि प्राच्यामग्निभयम् ॥ यदि दक्षिणस्यां यमभयम् ॥ यदि प्रतीच्यां वरुणभयम् ॥ यदि उदीच्यां क्षुद्भयम् ॥ यदि अन्तर्देशेभ्योभयतो विद्याद्
(१९,१.९) अग्निर्मा पातु अग्निं ते वसुमन्तमृच्छन्त्विति ॥ यथास्वलिङ्गं द्वाभ्यांद्वाभ्यां प्रदक्षिणं प्रतिदिशमुपस्थापयेत् ॥
(१९,१.१०) गृध्रश्चेदस्मिन्निपतति मृत्योर्भयं भवति ॥ यद्वा कृष्णशकुनिरन्तरिक्ष्र्ण पतति इति जपेद्यस्त्वा गृध्रः कपोत इति अन्ततो जपेत्
(१९,१.११) सर्वत्र अनाज्ञातेषु त्रिरात्रं घृतकम्बलम् ॥
(१९,१.१२) शिरोभङ्गे तु राजानं मध्यभङ्गे तु मन्त्रिणम् । आदिभङ्गे जनपदं मूलभङ्गे तु नागरान् ॥
(१९,१.१३) इन्द्राटको यदा भिद्याद्राजकोशो विलुप्यते । रज्जुछेदे परिजाते नृपतिस्तु विनश्यति ॥
(१९,२.१) सावित्र्या अभिमन्त्रितं कृत्वा प्रदक्षिणमावर्तयेद्राजानमभिभूर्यज्ञ इति एतैस्त्रिभिः सूक्तैरन्वारब्धे राजनि पूर्णहोमं जुहुयात् ॥
(१९,३.१) अथ पशूनामुपाचारम् ॥
(१९,३.२) इन्द्रदेवताः स्युर्ये राज्ञो भृत्याः स्युः सर्वे दीक्षिता ब्रह्मचारिणः स्युर्
(१९,३.३) इन्द्रं चोपसद्य यजेरन् ॥ त्रिरात्रं सप्तरात्रं वा
(१९,३.४) त्रिरयनमह्नामुपतिष्ठन्ते हविसा च यजन्ते ॥
(१९,३.५) आवृत इन्द्रमहमिति इन्द्र क्षत्रमिति हविषो हुत्वा
(१९,३.६) ब्राह्मणान् स्वस्तिवाच्य इन्द्रमवभृथाय व्रजन्ति
(१९,३.७) अपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्य अप उपस्पृश्य अनपेक्षमाणाः प्रत्येत्य ब्राह्मणान् भक्त्या यदीप्सितं वरप्रदानैः परितोषयेत् ॥
(१९,३.८) अथ हैषमितिकमिति ॥
(१९,३.९) श्वःश्वोऽस्य राष्ट्रं ज्यायो भवति एकोऽस्यां पृथिव्यां राजा भवति न पुरा जरसः प्रमीयते य एवं वेद यश्चैवंविद्वानिन्द्रमहेण चरति इति ब्राह्मणम् ॥

(परिशिष्ट_१९ . ब्रह्मयागः)
(१९ ,१.१) ओं भार्गवं प्रणिपत्याथ भगवाञ्शौनकोऽवदत् । ब्रह्मयागविधिं कृत्स्नं विस्तरेण वदस्व मे ॥
(१९ ,१.२) परिपृष्टः स तेन अथ अथर्वा यजतां वरः । विधिं कृत्स्नं प्रतिष्ठाय आख्यातुमुपचक्रमे ॥
(१९ ,१.३) सर्वेषामेव यागानां परमोऽयमुदाहृतः । ब्रह्मयागं प्रयत्नेन शृणु एतं तद्यथाक्रमम् ॥
(१९ ,१.४) हृद्ये मनोहरे शुभ्रे सर्वाबाधाविवर्जिते । श्लेष्मान्तकाक्षगृध्रादिपरित्यक्ते समे शुभे ॥
(१९ ,१.५) मण्डपं कारयेत्तत्र यथोक्तविधिना गुरुः । पताकातोरणिर्युक्तं द्वारैश्च अपि पृथग्विधैः ॥
(१९ ,२.१) अभ्युक्ष्य शान्तितोयेन पञ्चगव्येन वा सकृत् । गोमयेन प्रलिप्य आदौ पूजयेद्वर्णकिः पृथक् ॥
(१९ ,२.२) पुष्पैश्च विविधैः शुभ्रैः फलैश्च अपि अर्चयेद्बुधः । ततो बलिं हरेद्रात्रौ चतुर्दिक्षु विधानवित् ॥
(१९ ,२.३) प्रदीपान् घृतपूर्णांश्च प्रदद्याद्विविधान् तथा । त्ततो मण्डपमध्ये तु वर्तयेद्दिव्यमण्डलम् ॥ [चतुरश्रं चतुर्द्वारं वृत्ताकारमथ अपि वा] ॥
(१९ ,२.४) सितचूर्णेन तन्मध्ये लिखेत्पद्मं सुशोभनम् । बहिश्च वर्णैः शुभ्रैर्नाना शोभां प्रकल्पयेत् ॥
(१९ ,२.५) मध्ये पद्मं तु संस्थाप्य ब्रह्माणं परमेश्वरम् । ब्रह्मजज्ञानसूक्तेन यथोक्तमुपकल्पयेत् ॥
(१९ ,३.१) तथ इमा आप इत्या द्यैर्यथावदधिवासयेत् । रोचनाचन्दनाद्यैश्च पुष्पैर्धूपैश्च पूजयेत् ॥
(१९ ,३.२) घृतप्रदीपमाल्यैश्च वस्त्रैर्भक्षैश्च शोभनैः । सितचन्दनकर्पूरं दद्याद्वा अपि हि गुग्गुलम् ॥
(१९ ,३.३) प्रदक्षिणं ततः कृत्वा नमेत्सर्वाङ्गकैर्नरः । दक्षिणे पश्चिमे वा अपि भागे वेदिः प्रशस्यते ॥
(१९ ,३.४) कृत्वाज्यभागपर्यन्तं ततः शान्त्युदकं पुनः । ब्रह्मजज्ञानसूक्तेन कुर्याच्चैवात्र पूजनम् । तथैव रौद्रमन्त्रैश्च अभिषेकाय कल्पयेत् ॥
(१९ ,३.५) हुत्वाभ्यातानमन्त्रांश्च ततो रुद्रगणेन च । नीलरुद्रैश्चरुं विद्वान् विधिना श्रपयेद्बुधः ॥
(१९ ,४.१) होमयेत्कुत्ससूक्तेन उच्छुष्मैश्च यथाविधि । जपेन्मन्त्रान् तथायुष्यान्मङ्गल्यांश्चापि यत्नतः ॥
(१९ ,४.२) हुत्वा च चातनं तत्र मातृनामगणेन च । स्नापयेत्पञ्चगव्येन तथा शान्त्युदकेन च ॥
(१९ ,४.३) फलस्नानं च कुर्वीत युक्तो मङ्गलवादिभिः । बन्दिभिर्वेदविद्भिश्च स्त्रीसण्गीतैर्मनोरमैः ॥
(१९ ,४.४) चारुचामरहस्ताभिश्चित्रदण्डैः सदर्पणैः । स्नापयेद्ब्रह्मसूक्तेन रौद्रेणापि तथार्चयेत् ॥
(१९ ,४.५) ततः प्रदक्षिणं कृत्वा जानुभ्यां धरणीं गतः । आशास्येष्टफलं तत्र युक्तो मङ्गलपाठकैः ॥
(१९ ,५.१) तूर्यघोषेण संयुक्तः कृतस्वस्त्ययनस्तथा । कुर्याद्दुन्दुभिनादं तु शङ्खभेरिप्रपूरितम् ॥
(१९ ,५.२) कुर्यादुत्तरतन्त्रं च सदस्यान् वाचयेत्ततः । भोजयेच्छक्तितस्तत्र ब्राह्मणान् वेदपारगान् ॥
(१९ ,५.३) दीनानाथान्धकृपणान् भक्षभोज्यैरनेकधा । अन्नपानविहीनांश्च विशेषेण प्रपूजयेत् ॥
(१९ ,५.४) दत्त्वा च दक्षिणां शक्त्या दद्याद्गणबलिं निशि । गृहदेवास्तु संपूज्याः कार्यश्चाप्युत्सवो गृहे ॥
(१९ ,५.५) योगिनो भोजयेत्पश्चाद्गृहेसु गृहमेधिनः । अछेद्यास्तरवः कार्याः प्राणिहिंसां च वर्जयेत् ॥
(१९ ,५.६) बन्धनस्थाश्च मोक्तव्या बद्धाः क्रोधाच्च शत्रवः । अभयं घोषयेद्देशे गुरुं च परिपूजयेत् ॥
(१९ ,५.७) अभयं सर्वतो दत्त्वा इष्टे च परमेश्वरे । दीर्घमायुरवाप्नोति कृत्स्नां भुङ्क्ते वसुंधराम् ॥
(१९ ,५.८) ब्रह्मयागविधिः कृत्स्नो भक्तानां तु मयोदितः । अथर्वणा सुरेन्द्राय प्रणताय शुभेच्छया ॥
(१९ ,५.९) कृताभिषेकः कृतयाग एष कृताह्ह्निकः कृतरक्षः सुरेशः । अथर्वणोऽनुग्रहमाशु लब्ध्वा त्रिविष्टपं विरराजासपत्नम् ॥ इति ॥

(परिशिष्ट_२०. स्कन्दयागः ओर्धूर्तकल्पः)
(२०,१.१) अथातो धूर्तकल्पं व्याख्यास्यामः ॥
(२०,१.२) चतुर्षुचतुर्षु मासेषु फाल्गुणाषाढकार्त्तिकपूर्वपक्षेषु नित्यं कुर्वीत ॥
(२०,१.३) श्वो भूते षष्ठ्यामुपवासं कृत्वा प्रागुदीचीं दिशं निष्क्रम्य शुचौ देशे मनोहरे नोषरे मण्डलं त्रयोदशरत्निं कृत्वा मध्ये मण्डपस्य सर्ववानस्पत्यां मालां कृत्वा घण्टापताकास्रजः प्रतिसरं च मालापृष्ठे कृत्वा मध्ये दर्पणांश्चोपकल्पयित्वा तत्र यं वहन्ति हयाः श्वेता इत्यावाहयेत् ॥
(२०,२.१) यं वहन्ति हयाः श्वेता नित्ययुक्ता मनोजवाः । तमहं श्वेतसंनाहं धूर्तमावाहयाम्यहम् ॥
(२०,२.२) यं वहन्ति गजाः सिंहा व्याघ्राश्चापि विषाणिनः । तमहं सिंहसंनाहं धूर्तमावाहयाम्यहम् ॥
(२०,२.३) यं वहन्ति मयूराश्च चित्रपक्षा विहंगमाः । तमहं चित्रसंनाहं धूर्तमावाहयाम्यहम् ॥
(२०,२.४) यं वहन्ति सर्ववार्णाः सदायुक्ता मनोजवाः । तमहं सर्वसंनाहं धूर्तमावाहयाम्यहम् ॥
(२०,२.५) यस्यामोघा सदा शक्तिर्नित्यं घण्तापताकिनी । तमहं शक्तिसंनाहं धूर्तमावाहयाम्यहम् ॥
(२०,२.६) यश्च मातृगणैर्नित्यं सदा परिवृतो युवा । तमहं मातृभिः सार्धं धूर्तमावाहयाम्यहम् ॥
(२०,२.७) यश्च कन्यासहस्रेण सदा परिवृतो महान् । तमहं सिंहसंनाहं धूर्तमावाहयाम्यहम् ॥
(२०,२.८) आयातु देवः सगणः ससैन्यः सवाहनः सानुचरः प्रतीतः । षडाननोऽष्टादशलोचनश्च सुवर्णवर्णो लघुपूर्णभासः ॥
(२०,२.९) आयातु देवो मम कार्त्तिकेयो ब्रह्मण्यपित्रैः सह मातृभिश्च । भ्रात्रा विशाखेन च विश्वरूप इमं बलिं सानुचर जुषस्व ॥
(२०,२.१०) संविशस्वेति संवेशयेत् ॥
(२०,३.१) संविशस्व वरघण्टाप्सरःस्तवे यत्र सुभुजो हि निर्मिताः । संविष्टो मे धेहि दीर्घमायुः प्रजां पशूंश्चैव विनायकसेन ॥
(२०,३.२) इमा आप इति गन्धोदकं पाद्यं दद्यात् ॥ प्रतिगृह्णातु भगवान् देवो धूर्त इति ॥ षत्चैव हिरण्यवर्णा इतीमे दिव्यो गन्धर्व इति गन्धान् यस्ते गन्ध इति चेमाः सुमनस इति सुमनसः ॥ प्रियं धातुरिति... ॥
(२०,३.३) वनस्पतिरसो मेध्य इति धूपम् ॥ यक्ष्येण ते दिवा अग्निः शुक्रश्चेति दीपम् ॥ यो विश्वतः सुप्रतीक इति पर्णानि ॥
(२०,३.४) प्रक्षाल्य हविष्युपसादयेद्दध्योदनं क्षीरोदनं गुडोदनं मुद्गपयसमिश्रधान्यमोदकानि सर्वगन्धान् सर्वर्सानुदकपूर्णं मूलपुर्णं पुष्पपूर्णं फलपूर्णं रसपूर्णं चोपकल्पयित्वा
(२०,३.५) इन्द्रः सीतमित्युल्लिख्य अग्ने प्रेत्यग्निं प्रणीय प्रज्वल्य प्राञ्चमिध्ममुपसमाधाय भग एतमिध्ममिति तिसृभिरेतमिध्मं सुगार्हस्पत्य इत्युपसमाधाय समिद्धो अग्निरिति समिद्धमनुमन्त्रयते ॥
(२०,४.१) भद्रमिच्छन्तो हिरण्यगर्भो ममाग्ने वर्चस्त्वया मन्यो यस्ते मन्यो यद्देवा देवहेडनमिति षत्कामसूक्तादयो दश महीपतये स्वाहा ॥
(२०,४.२) धूर्ताय स्कन्दाय विशाखाय पिनाकसेनाय भ्रातृस्त्रीकामाय स्वच्छन्दाय वरघण्ताय निर्मिलाय लोहितगात्राय शलकटङ्कटाय स्वाहेति हुत्वा अग्नये प्रजापतये ये देवा दिव्येकादश स्थेति अनुमतये अग्नये स्विष्टकृत इति च ॥
(२०,५.१) शिवाग्निकृत्तिकानां तु स्तोष्यामि वरदं शुभम् । स मे स्तुतो विश्वरूपज्सर्वानर्थान् प्रयच्छतु ॥
(२०,५.२) धनधान्यकुलान् भोगान् स मे वचनवेदनम् । दासीदासं तथा स्थानं मणिरत्नं सुराञ्जनम् ॥
(२०,५.३) ये भक्त्या भजन्ते धूर्तं ब्रह्मण्यं च यशस्विनम् । सर्वे ते धनवन्तः स्युः प्रजावन्तो यशस्विनः ॥
(२०,५.४) यथेन्द्रस्तु वरान् लब्ध्वा प्रीतस्तु भगवान् पुरा । देहि मे विपुलान् भोगान् भक्तानां च विशेषत इति ॥
(२०,५.५) कामसूक्तेनोपहारमुपहरेत् ॥
(२०,५.६) उपहारमिमं देव मया भक्त्या निवेदितम् । प्रतिगृह्य यथान्यायमक्रुद्धः सुमना भव ॥
(२०,६.१) सद्योजातं प्रपद्यामि सद्योजाताय वै नमः । भवेभवे नादिभवे भजस्व मां भवोद्भवेति भवाय नमः ॥
(२०,६.२) देवं प्रपद्ये वरदं प्रपद्ये स्कन्दं प्रपद्ये च कुमारमुग्रम् । षण्णां सुतं कृत्तिकानां षडास्यमग्नेः पुत्रं साधनं गोपथोक्तैः ॥
(२०,६.३) रक्तानि यस्य पुष्पाणि रक्तं यस्य विलेपनम् । कुक्कुटा यस्य रक्ताक्षाः स मे स्कन्दः प्रसीदतु ॥
(२०,६.४) आग्नेयं कृत्तिकापुत्रमैन्द्रं के चिदधीयते । के चित्पाशुपतं रौद्रं योऽसि सोऽसि नमोऽस्तु त इति ॥
(२०,६.५) स्वामिने नमः शङ्करायाग्निपुत्राय कृत्तिकापुत्राय नमः ॥
(२०,६.६) भगवान् क्व चिदप्रतिरूपः स्वाहा भगवान् क्व चिदप्रतिरूपः ॥
(२०,६.७) मणिरत्नवरप्रतिरूपः ॥ काञ्चनरत्नवरप्रतिरूप इति ॥
(२०,६.८) एते [ते] देव गन्धा एतानि पुष्पाण्येष धूप एतां मालां त्रिः प्रदक्षिणां कृत्वा आदित्यकर्तितं सूत्रमिति प्रतिसरमाबध्नीयात् ॥
(२०,७.१) आदित्यकर्तितं सूत्रमिन्द्रेण त्रिवृतीकृतम् । अश्विभ्यां ग्रथितो ग्रन्थिर्ब्रह्मणा प्रतिसरः कृतः ॥
(२०,७.२) धन्यं यशस्यमायुष्यमशुभस्य च घातनम् । बध्नामि प्रतिसरमिमं सर्वशत्रुनिबर्हनम् ॥
(२०,७.३) रक्षोभ्यश्च पिशाचेभ्यो गन्धर्वेभ्यस्तथैव च । मनुष्येभ्यो भयं नास्ति यच्च स्याद्दुष्कृतं कृतम् ॥
(२०,७.४) स्वकृतात्परकृताच्च दुष्कृतात्प्रतिमुच्यते । सर्वस्मात्पातकान्मुक्तो भवेद्वीरस्तथैव च ॥
(२०,७.५) अभिचाराच्च कृत्यातः स्त्रीकृतादशुभं च यत् । तावत्तस्य भतं नास्ति यावत्सूत्रं स धारयेत् ॥
(२०,७.६) यावदापश्च गावश्च यावत्स्थास्यन्ति पर्वताः । तावत्तस्य भयं नास्ति यः सूत्रं धारयिष्यतीति ॥
(२०,७.७) अन्वायं भुक्त्वा देवं विसर्जयेत् ॥
(२०,७.८) प्रमोदो नाम गन्धर्वः प्रदोषो परिधावति । मुञ्च शैलमयात्पापन्मुञ्चमुञ्च प्रमुञ्च च ॥
(२०,७.९) [यावत्] इमा आपः पवनेन पूता हिरण्यवर्णा अनवद्यरूपाः । तावदिमं धूर्तं प्रवाहयामि प्रवाहितो मे देहि वरान् यथोक्तान् ॥
(२०,७.१०) उदितेषु नक्षत्रेषु गृहान् प्रविष्टो गृहिणीं पश्येत्धनवति धनं मे देहीति ॥
(२०,७.११) यद्भोक्तुं कामजातं जगत्यां मनसा संहीहते तत्तद्द्विजन्मा पिनाकसेनयजमानात्काममुपभुक्तो भुक्त्वामृतत्वं तद्वदेवाभ्युपैति ॥