अथर्वपरिशिष्टः/परिशिष्टः ०१-१०
(परिशिष्ट_१. नक्षत्रकल्पः)
(०,०.०) श्रीगणेशाय नमः ॥ ओं नमोऽथर्वात्मने वामदेवाय शिवाय ॥ श्रीसरस्वत्यै नमः ॥
(१,१.१) अथ नक्षत्रकल्पं व्याख्यास्यामः ॥
(१,१.२) कृत्तिका रोहिणी मृगशिर आर्द्रा पुनर्वसू पुष्याश्लेषा मघा(ः) फाल्गुनी फल्गुन्यौ हस्त(श्) चित्रा स्वाति(र्) विशाखे अनुराधा ज्येष्ठा मूल(म्) पूर्वाषाढा उत्तराषाडाभिजिच्छ्रवणः श्रविष्ठा शतभिषः पूर्वप्रोष्ठपदोत्तरप्रोष्ठपदौ रेवत्यश्वयुजौ भरण्यः ॥
(१,२.१) षट्कृत्तिका एका रोहिणी तिस्रो मृगशिर एकार्द्रा द्वे पुनर्वसू एकः पुष्यः षडाश्लेषाः षण्मघाः चतस्रः फल्गुन्यः पञ्च हस्त एका चित्रा एका स्वातिर्द्वे विशाखे चतस्रोऽनुराधा एका ज्येष्ठा सप्त मूलमष्टावषाढा एकोऽभिजित्तिस्रः श्रवणः पञ्च श्रविष्ठा एका शतभिषा चतस्रः प्रोष्ठपदौ एका रेवती द्वे अश्वयुजौ तिस्रो भरण्यः ॥
(१,२.२) इति संख्यापरिमितं ब्रह्म ॥
(१,३.१) आग्निवेश्यः कृत्तिका रोहिण्यानुरोहिणी श्वेतायिनं मृगशिर आर्द्रा बार्हद्गवी वात्स्यायनौ पुनर्वसू भारद्वाजः पुष्यो जातूकर्ण्योऽश्लेषा वैयाघ्रपद्यो मघा(ः) पाराशर्यौ पूर्वे फाल्गुण्यावौपशिव्या उत्तरे माण्डव्यायनो हस्तश्चित्रा गौतमी कौण्डिन्यायनः स्वातिः कापिले विशाखे मैत्रेय्यनुराधा कौशिकी ज्येष्ठा कौत्सं मूलं हारितयज्ञी पूर्वाषाढा काश्यप्युत्तरा शौनकोऽभिजिदात्रेयः श्रवणो गार्ग्यः श्रविष्ठा दाक्षायणी शतभिषग्वात्स्यायन्यौ पूर्वे प्रोष्ठपदे आगस्त्यावुत्तरे शाङ्खायनी रेवती कात्यायन्(य्)आवश्वयुजौ मातृभ्यो भरण्यः वसिष्ठः कश्यप आदित्यश्चन्द्रमा ब्रह्माणो नक्षत्रेषु ॥
(१,४.१) कृत्तिका अग्निदेवत्या रोहिण्यां तु प्रजापतिः । सौम्यं मृगशिरं विद्यान्मरुतश्चात्र दैवतम् ॥
(१,४.२) रुद्रस्यार्द्रादितेः पुनर्वसू पुष्ये विद्याद्बृहस्पतिम् । अश्लेषाः सर्पदैवत्या मघासु पितरः स्मृताः ॥
(१,४.३) भगस्[तु] पूर्वयोः फल्गुन्योरर्यमोत्तरयोरपि । हस्ते च सविता दैवं चित्रा तु त्वष्टृदैवता ॥
(१,४.४) स्वातौ तु दैवतं वायुरिन्द्राग्नी तु विशाखयोः । अनुराधासु मित्रो वै ज्येष्ठायामिन्द्रमहादेवौ ॥
(१,४.५) अहिर्बुध्न्यश्च मूलस्य निरृतिश्चात्र दैवतम् । आपः पूर्वास्वषाढासु विश्वे देवास्तथोत्तरे ॥
(१,४.६) अभिजिद्ब्रह्मदेवत्यः श्रवणे विष्णुरुच्यते । श्रविष्ठा वसुदेवत्या शतभिषग्वरुणेन्द्रयोः ॥
(१,४.७) अज एकपाद्दिशश्च आदित्यश्च तथोत्तरे । रेवती पूषदैवत्या अश्विन्यामश्विनौ स्मृतौ ॥
(१,४.८) भरण्यो यमदेवत्या देवताः संप्रकीर्तिताः ॥
(१,५.१) कृत्तिका मघा मूलं च तथा पूर्वाणि द्वन्द्विनाम् । एतानि पुरस्ताद्भागान्यहःपूर्वाणि जानीयात् ॥
(१,५.२) आर्द्रां शतभिषजं स्वातिमाश्लेषा भरणीरपि । नक्तंभागानि ब्रुवते ज्येष्ठया सह ब्रह्माणम् ॥
(१,५.३) पुनर्वसू विशाखे च उत्तराणि च द्वन्द्विनाम् । रात्रीमुभयतः पक्षौ भजन्ते या च रोहिणी ॥
(१,५.४) मृगशिरः पुष्यो हस्तश्चित्रा तु सहानुराधैः । श्रवणश्च श्रविष्ठाश्च रेवत्यश्वयुजौ नव ॥
(१,५.५) एतान्युपरिष्टाद्भागानि रात्रीपूर्वाणि जानीयात् । मुहूर्तोऽभिजिदुच्यते ॥
(१,५.६) पुरस्ताद्भागान्यनागतेनोपरिष्टाद्भागान्यतिक्रान्तेन उभयतोभागानि वर्तमानेन नक्तंभागानि समं चन्द्रेण वा ॥
(१,५.७) षडनागतयोगीनि स्थितयोगीनि द्वादश । नवातिक्रान्तयोगीनि तथा योगः प्रदृश्यते ॥
(१,६.१) बहूनि जातानि ग्रहो हिनस्ति कृत्तिकासु तिष्ठन्नुत दीर्घमायुः । अजावयो मूषिकाश्च व्यथन्ते विशो ब्रह्मणः सह म्लेच्छवांश्च ॥
(१,६.२) कलिङ्गानां व्यथते ननु राजा हिरण्यकारांश्च निहन्ति कृत्स्नम् । अयस्कारा लोहकारा आहिताग्निश्च कृत्स्नं नियन्ति सहाग्नितप्तैः ॥
(१,६.३) अयो लोहं रजतं जातरूपं हिरण्यमिश्रं [यच्] च पतन्ति सारम् । काशाः कुशा यच्च सुवर्णवर्णं यच्चाग्निवर्णं फलमूलपुष्पम् ॥
(१,६.४) [ये तत्र जाताः] सरांसि शुष्यन्त्यपयन्ति नद्यः प्रजा व्यथन्ते पशवो मृगाश्च ॥ प्रजापतेर्हृदये पीड्यमाने सर्वं जगद्व्यथते सप्रदेशम् ॥
(१,६.५) महाभौमो राजा मरिष्यतीति विद्यादेकारिणां छवकामिन्वकासु । नक्षत्रभागे नियन्ति योजधानाः तथा हि नूनं त्रिणवेन सृष्टम् ॥
(१,६.६) तथा स निन्ये निधानदर्शनाय तत्र तेषां सहाक्षेमं तस्य विद्यात् । परित्य ये पूर्वपदान् बलेन उत्तिष्ठन्ति वीर्यवन्तो मृगानाम् ॥
(१,६.७) भगेन देव्युपयन्ति दिव्यमार्द्राभागे सहिनो भवन्ति । तत्र दैवान्मानुष्यांश्च पुनर्वस्वोर्नक्षत्र भागे निनियोज धानाः ॥
(१,६.८) तथा हि नूनं पुष्यो भाग एकधा ब्राह्मणानां तथा विदुर्नक्षत्रवेदितारः तथा हि नूनम् ॥
(१,६.९) शतद्रयः कैशिका दक्षिणार्धा आन्ध्राश्च योगहासया प्रवृद्धाः ॥ अश्लेषाभागे सहिनो भवन्ति तत्र ॥
(१,६.१०) वेणून् पितॄंस्त्रिरुजाहुर्देवताम् । मघाभागे अष्टमे देवसृष्टम् । संयुज्यन्ते देवप्रसादनेन तत्र ॥
(१,७.१) राज्ञां राकायामथ मद्रकैकया मनोमापायनसहपरिसुन्नियोजसहान्तौ । तुन्यमथ सप्तमात्रं पूर्वभागे नवके फल्गुनीषु ॥
(१,७.२) मत्स्या मागधाश्चेदयश्च शाल्वा मत्स्या उभे फल्गुनीषु । संयुज्यन्ते देवप्रसादनेन तत्र ॥
(१,७.३) पूर्वाचार्या इच्छमानाश्च सर्वे यकृत्क्लोम सह भागेन हस्ते । संयुज्यन्ते देवप्रसादनेन तत्र ॥
(१,७.४) ये पूर्वार्धे निजीहते चरन्तः शान्ता मृगा [जन्तु]पशवो अपगामिनस्ते । पशवो भवताश्च सर्वे चित्राया भागे सहिनो भवन्ति ॥ तत्रा
(१,७.५) च्युतकेशं वाहनं जयार्थं कुमार्यो अनड्वान् सहते अत्र ये । विज्ञायते देवसृष्टं पुराणं स्वातिं भजन्ते तृणवश्च सर्वे ॥
(१,७.६) वृक्षा वृक्षमूलमिक्ष्वाकवश्च विशाखायां योजिताः सांपदेन । तस्मिन् गृहीते भयमेव तेषां दैवोपसृष्टे तु बलेन कार्यम् ॥ ये तत्र जाताः ॥
(१,७.७) ये पश्चार्धे निजीहते चरन्त आसवो मृगा उत्तरार्धाश्चान्ध्राः । अनूराधासु मगधवङ्गमत्स्याः सर्वे समग्राः सहिनो भवन्ति तत्र ॥
(१,७.८) पञ्चैकधा जनपदा भवन्ति सयुजःकासौबलदादौष्यधाः । बाह्लीका ज्येष्ठा उपयन्ति भक्त्या तत्र ॥
(१,७.९) इक्ष्वाकूणां निर्मथ्या मूलमाहुः । तथा विदुर्नक्षत्रवेदितारस्तथा हि नूनम्
(१,७.१०) काम्बोजाः कालमृषाश्च क्रन्दा उच्छुष्माणः श्वानश्चावधूममर्कटाश्च पूर्वाषाढा उपयन्ति भक्त्या तत्र ॥
(१,८.१) विश्वे देवाः सह पञ्चालज्येष्ठा आपश्च याः पान्तु भूतं भविष्यत् । उत्तराषाढा उपयन्ति भक्त्या तत्र ॥
(१,८.२) नार्कविन्दा नार्व्विदाला नसृङ्गावौ नैषधा जन्तवो मतङ्गाः । अभिजितं हार्थविज्ञाय भेजिरे तत्र ॥
(१,८.३) पाञ्चालाः श्रवणमुपैति भक्त्या सुन्वन्तश्चोभे विद्वान् भूता निनियोज देवः ॥ पूर्वकर्ता भूतभविष्यकालस्तथा नि नूनम्
(१,८.४) कुरून् श्रविष्ठास्तथा शिवास्तथाहुर्नक्षत्रभागे निनियोज धानाः ॥ तथा हि नूनम्
(१,८.५) अङ्गादयो जनपदा गुहाशया अप्सु च ये क्षिपन्ति शतभिषजि भेषजस्य भेजिरे तत्र ॥
(१,८.६) खड्गा हस्तिनो गवया वराहा अहीनरा कुन्तयश्चापि सर्वे । पूर्वौ प्रोष्ठपदा उपयन्ति भक्त्या तत्र ॥
(१,८.७) उशीनरा उत्तरयोः प्रोष्ठपदयोर्नक्षत्रभागे निनियोज धानाः । तथा हि नूनम्
(१,८.८) आवृताः शूद्राः सह कारवश्च दक्षिणपूर्वे यूकभिः सह रेवतीं हार्थविज्ञाय भेजिरे तत्र ॥
(१,८.९) अच्युतकेशं वाहनं च पदार्थमुचावचजनपदा महान्तः । अश्वयुजौ हार्थविज्ञाय भेजिरे तत्र ॥
(१,८.१०) उभये कीकटाः कौशलाश्च रहश्च[वो] ये च प्रसुप्ताश्चरन्ति भरणीः सहार्थविज्ञाय भेजिरे तत्र तेषां सहाक्षयमस्य विद्यात् ॥
(१,९.१) करिष्यमाणः संग्रामं प्रतिराजेन क्षत्रियः । ब्राह्मणं पूर्वमन्विच्छेद्विद्वांसं शास्त्रवित्तमम् ॥
(१,९.२) उत्पातान् यस्तु यान् विद्याद्दिव्यान्तरिक्षपार्थिवान् । तं वै लिप्सितुमर्हति राजा राष्ट्रे जिजीविषुः ॥
(१,९.३) ग्रहाणां यः स्थितिं विद्यान्नक्षत्राणां च सांपदम् । अनभ्यक्तमुपासीत नक्षत्रसमतां च यत् ॥
(१,९.४) आयुधीयान् बिभ्रद्राजा कृत्तिकासु न रिष्यति । तद्धि तेजस्वि नक्षत्रं बहुलं दिवि रोचते ॥
(१,९.५) अथो हि कृत्तिका इति नक्षत्रं भानुमत्तमम् । आग्नेयमग्निनक्षत्रं राजा ह्यस्मिन् प्रवर्धते ॥
(१,९.६) रोहिण्या[ं] सार्धमासीत रज्जुपल्यानि कारयेत् । मृगशिरस्यश्वान् बिभृयात्सास्य सेना न रिष्यति ॥
(१,९.७) सौम्यं सोमस्य नक्षत्रं राजा ह्यस्मिन् प्रवर्धते । आर्द्रायां मृगयां यायादमित्रेभ्यश्च हावयेत् ॥
(१,९.८) पुनर्वस्वाभियुञ्जीत पुष्येनैतां प्रयोजयेत् । इषीकां छेदयन् राजा अश्लेषासु न रिष्यति ॥
(१,९.९) मघाभिः सार्धमासीत न यायादुच्छ्रयं चन । फल्गु द्वाराणि कारयेत्परिचारांश्च वाहयेत् ॥
(१,९.१०) तोरणानि च संहन्युः फलकानि च तक्षयेत् । ..... उत्तराभ्यां च हावयेत् ॥
(१,१०.१) हस्तेन चित्रामाकाङ्क्षेन्नक्षत्रस्य परिग्रहम् । अनेकदर्शी स्याच्चित्रायां पुरा स्वातेरभिप्लवात् ॥
(१,१०.२) स्वातौ शिशून्नियोजयेज्जवार्थान् रथवाहिनः । अथास्मिन् [कन्याम्] उपवासयेत्क्षिप्रं सा लभते पतिम् ॥
(१,१०.३) प्रदतीन् कारयन् राजा विशाखायां न रिष्यति । लेपयेत्प्रदती राजा अनूराधासु क्षत्रियः ॥
(१,१०.४) ज्येष्ठायां हस्तिनं पश्येदभिषेकांश्च कारयेत् । ..... राजपुत्रांश्च योधयेत् ॥
(१,१०.५) मूलेन परिखां खानयेत्पुरं चितेन योजयेत् । नैरृतं राजनक्षत्रं वध्याननेन घातयेत् ॥
(१,१०.६) त्रिरात्रं सार्धं दीक्षयित्वा आषाढासु व्रतं चरेत् । अभिजित्यभियुञ्जीत श्रवणेन चिकीर्षतु ॥
(१,१०.७) श्रविष्थाभिः सृजेद्रसान् ॥
(१,१०.८) शतभिषजि भिषक्कर्म भैषज्यं चात्र कारयेत् । प्राचीनप्रोष्ठपदयोर्यायाद्...
(१,१०.९) उत्तराभ्यामभियुञ्जीत गृहेषु रेवत्यां वसेत् । वि सेनां कारयेद्राजा अश्विन्यां भरणीषु च ॥
(१,११.१) चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि । तुर्मिशं सुमतिमिच्छमानो अहानि गीर्भिः सपर्यामि नाकम् ॥
(१,११.२) सुहवमग्ने कृत्तिका रोहिणी चस्तु भद्रं मृगशिरः शमार्द्रा । पुनर्वसू सूनृता चारु पुष्यो भानुराश्लेषा अयनं मघा मे ॥
(१,११.३) पुण्यं पूर्वा फल्गुन्यौ चात्र हस्तश्चित्रा शिवा स्वाति सुखो मे अस्तु । राधे विशाखे सुहवा अनुराधा ज्येष्ठा सुनक्षत्रमरिष्टमूलम् ॥
(१,११.४) अन्नं पूर्वा रासतां मे अषाढा ऊर्जं देह्युत्तरा आ वहन्तु । अभिजिन्मे रासतां पुण्यमेव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम् ॥
(१,११.५) आ मे महच्छतभिसग्वरीय आमे द्वया प्रोष्ठपदा सुशर्म । आ रेवती चाश्वयुजौ भगं म आ मे रयिं भरण्य आ वहन्तु ॥
(१,१२.१) कृत्तिका रोहिणी मृगशिर आर्द्रा पुनर्वसू पुष्याश्लेषा मघाः पूर्वे फल्गुन्यौ तन्नवममग्निर्दशममहोरात्रे एदादशद्वादशे ॥
(१,१२.२) एतान्येवास्मै नक्षत्राणि श्रियं भूतिं पुष्टिं प्रजां पशूनन्नमन्नाद्यं समिन्धत इति वेद
(१,१२.३) अथ यं कामयत्येतान्येवास्मै नक्षत्राणि श्रियं भूतिं पुष्टिं प्रजां पशूनन्नमन्नाद्यं समिन्धीरन्निति तस्मादेतस्मिन्नक्षत्र एवंविद्वान् कुर्यात्
(१,१२.४) प्राञ्चमिध्ममुपसमाधाय परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्ही रसान् बर्हिष्याधायान्वालभ्याथ जुहुयाच्चित्राणि साकं दिवि रोचनानि स्वाहेत्यग्नौ हुत्वा रसेषु संपातानानीय संस्थाप्य होमांस्तत एनं प्राशयति रसान् ॥
(१,१२.५) एवं चेदस्मै करोत्येतान्येवास्मै नक्षत्राणि श्रियं भूतिं पुष्टिं प्रजां पशूनन्नमन्नाद्यं समिन्धते ॥
(१,१३.१) उत्तरे फल्गुन्यौ हस्तश् चित्रा स्वातिर् विशाखे अनूराधा ज्येष्ठा मूलं पूर्वाषाढा तन्नवममादित्यो दशमं [नामरूप] पूर्वपक्षापरपक्षावेकादशद्वादशे
(१,१३.२) एतान्येवास्मै = १,१२.२.
(१,१३.३) अथ यम् = १,१२.३.
(१,१३.४) प्राञ्चमिध्मम् = १,१२.४.
(१,१३.५) एवम् = १,१२.५.
(१,१४.१) उत्तराषाढाभिजिच्छ्रवणः श्रविष्ठा शतभिषक्प्रोष्ठपदौ रेवत्यश्वयुजौ भरण्यस्तद्दशमम् ... पौर्णमास्यमावास्ये द्वादशत्रयोदशे
(१,१४.२) एतान्येवास्मै = १,१२.२.
(१,१४.३) अथ यम् = १,१२.३.
(१,१४.४) प्राञ्चमिध्मम् = १,१२.४.
(१,१४.५) एवम् = १,१२.५.
(१,१५.१) ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमितिहासपुराणं वाकोवाक्यम् इदावत्सरः परिवत्सरः संवत्सरो दशमं शीतोष्णे एकादशद्वादशे
(१,१५.२) एतान्येवास्मै = १,१२.२.
(१,१५.३) अथ यम् = १,१२.३.
(१,१५.४) प्राञ्चमिध्मम् = १,१२.४.
(१,१५.५) एवम् = १,१२.५.
(१,१६.१) प्राणो अपानो व्यानः समान उदानश्चक्षुः श्रोत्रं वाङ्मनस्तन्नवमम् ... दशमं नामरूपे एकादशद्वादशे
(१,१६.२) एतान्येवास्मै = १,१२.२.
(१,१६.३) अथ यम् = १,१२.३.
(१,१६.४) प्राञ्चमिध्मम् = १,१२.४.
(१,१६.५) एवम् = १,१२.५.
(१,१७.१) अजन्यजनिर्यशो अजनिर्वर्चो अजनिस्तेजो अजनिः सहो अजनिर्महो अजनिर्ब्रह्मा अजनिर्ब्राह्मणवर्चसमजनिः सर्वेषां लोकानां सर्वेषां देवानां सर्वेषां वेदानां सर्वेषां भूतानां सर्वासां स्रवन्तीनां जनिताधिपतिरजनिर्भवतीति वेद
(१,१७.२) अथ यं कामयेत सर्वेषां लोकानां सर्वेषां देवानां सर्वेषां वेदानां सर्वेषां भूतानां सर्वासां स्रवन्तीनां जनिताधिपतिरजनिः स्यादिति तस्मादेतस्मिन्नक्षत्र एवंविद्वान् कुर्यात् ॥
(१,१७.३) प्राञ्चमिध्मम् = १,१२.४.
(१,१७.४) एवं चेदस्मै करोति सर्वेषां लोकानां सर्वेषां देवानां सर्वेषां वेदानां सर्वेषां भूतानां सर्वासां स्रवन्तीनां जनिताधिपतिरजनिर्भवति ॥
(१,१८.१) विष्ठितश्रवा वै नामैतन्नक्षत्रं यत्पूर्वाह्ने अधितिष्ठति वितिष्ठत्यस्य पुण्या कीर्तिरैनं पुण्या कीर्तिर्गच्छत्युपैनं पुण्या कीर्तिस्तिष्ठति नास्मात्पुण्या कीर्तिरपक्रामति कीर्तिमान् प्रजया पशुभिः श्रिया गृहैर्धनेन भवतीति वेद
(१,१८.२) अथ यं कामयेत वितिष्ठेदस्य पुण्या कीर्तिर्ऐनं पुण्या कीर्तिर् गच्छेदुपैनं पुण्या कीर्तिस्तिष्ठेन्नास्मात्पुण्या कीर्तिरपक्रामेत्कीर्तिमान् प्रजया पशुभिः श्रिया गृहैर्धनेन स्यादिति तस्मादेतस्मिन्नक्षत्र एवंविद्वान् कुर्यात् ॥
(१,१८.३) प्राञ्चमिध्ममुपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्याधायान्वालभ्याथ जुहुयाद्विषासहिं सहमानं स्वाहेत्यग्नौ हुत्वा रसेषु संपातानानीय संस्थाप्य होमांस्तत एनं प्राशयति रसान् ॥
(१,१८.४) एवं चेदस्मै करोति वितिष्ठत्यस्य पुण्या कीर्तिर्ऐनं पुण्या कीर्तिर् गच्छत्युपैनं पुण्या कीर्तिस्तिष्ठति नास्मात्पुण्या कीर्तिरपक्रामति कीर्तिमान् प्रजया पशुभिः श्रिया गृहैर्भवति ॥
(१,१९.१) वर्चो वै नामैतन्नक्षत्रं यन्मध्याह्नैनं वर्चो गच्छत्युपैनं वर्चस्तिष्ठति नास्माद्वर्चो अपक्रामति वर्चस्वी प्रजया पशुभिः श्रिया गृहैर्धनेन भवतीति वेद
(१,१९.२) अथ यं कामयेतैनं वर्चो गच्छेदुपैनं वर्चो तिष्ठेन्नास्माद्वर्चो अपक्रामेद्वर्चस्वी प्रजया पशुभिः श्रिया गृहैर्धनेन स्यादिति तस्मादेतस्मिन्नक्षत्र एवंविद्वान् कुर्यात् ॥
(१,१९.३) प्राञ्चमिध्ममुपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्याधायान्वालभ्याथ जुहुयाद्वर्चो असि वर्चो मयि धेहि स्वाहेत्यग्नौ हुत्वा रसेषु संपातानानीय संस्थाप्य होमांस्तत एनं प्राशयति रसान् ॥
(१,१९.४) एवं चेदस्मै करोत्यैनं वर्चो गच्छत्युपैनं वर्चस्तिष्ठति नास्माद्वर्चो अपक्रामति वर्चस्वी प्रजया पशुभिः श्रिया गृहैर्धनेन भवति ॥
(१,२०.१) तेजो वै नामैतन्नक्षत्रं यदपराह्णैनं तेजो गच्छत्युपैनं तेजस्तिष्ठति नास्मात्तेजो अपक्रामति तेजस्वी प्रजया पशुभिः श्रिया गृहैर्धनेन भवतीति वेद
(१,२०.२) अथ यं कामयेतैनं तेजो गच्छेदुपैनं तेजस्तिष्ठेन्नास्मात्तेजो अपक्रामेत्तेजस्वी प्रजया पशुभिः श्रिया गृहैर्धनेन स्यादिति तस्मादेतस्मिन्नक्षत्र एवंविद्वान् कुर्यात् ॥
(१,२०.३) प्राञ्चमिध्ममुपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्याधायान्वालभ्याथ जुहुयाद्तेजो असि तेजो मयि धेहि स्वाहेत्यग्नौ हुत्वा रसेषु संपातानानीय संस्थाप्य होमांस्तत एनं प्राशयति रसान् ॥
(१,२०.४) एवं चेदस्मै करोत्यैनं तेजो गच्छत्युपैनं तेजस्तिष्ठति नास्मात्तेजो अपक्रामति तेजस्वी प्रजया पशुभिः श्रिया गृहैर्धनेन भवति ॥
(१,२१.१) विष्ठितश्रवा वै नामैतन्नक्षत्रं यत्पूर्वाह्ने ॥
(१,२१.२) वर्चो वै नामैतन्नक्षत्रं यन्मध्याह्ने ॥
(१,२१.३) तेजो वै नामैतन्नक्षत्रं यदपराह्णे ॥
(१,२१.४) अकाले त्वेवाप्रयुक्तानि भवन्ति ॥
(१,२२.१) विष्ठितश्रवा वै नामैतन्नक्षत्रं यत्पूर्वरात्रे ॥
(१,२२.२) वर्चो वै नामैतन्नक्षत्रं यद्मध्यरात्रे ॥
(१,२२.३) तेजो वै नामैतन्नक्षत्रं यदपररात्रे ॥
(१,२२.४) स्वेस्वे काले प्रयुक्तानि भवन्ति ॥
(१,२२.५) यो वै रात्रियान्वेवाप्रयुक्तानि भवन्ति ॥
(१,२३.१) यो वै अह्नः पुण्याहं वेद पुण्याही भवति पुण्याहमस्मै भवति पुण्याह एव कुरुते ॥
(१,२३.२) सूर्यो वाह्नः पुण्याहं तस्मादेतस्मिन्नक्षत्र एवंविद्वान् कुर्यात् ॥
(१,२३.३) प्राञ्चमिध्ममुपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्याधायान्वालभ्याथ जुहुयाद्विषासहिं सहमानं स्वाहेत्यग्नौ हुत्वा रसेषु संपातानानीय संस्थाप्य होमांस्तत एनं प्राशयति रसान् ॥
(१,२३.४) एवं चेदस्मै करोति पुण्याही भवति पुण्याहमस्मै भवति पुण्याह एव कुरुते ॥
(१,२४.१) यो वै रात्र्याः पुण्याहं वेद पुण्याही भवति पुण्याहमस्मै भवति पुण्याह एव कुरुते ॥
(१,२४.२) चन्द्रो वै रात्र्याः पुण्याहं तस्मादेतस्मिन्नक्षत्र एवंविद्वान् कुर्यात् ॥
(१,२४.३) प्राञ्चमिध्ममुपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्याधायान्वालभ्याथ जुहुयाद्यद्राजानं स्वाहेत्यग्नौ हुत्वा रसेषु संपातानानीय संस्थाप्य होमांस्तत एनं प्राशयति रसान् ॥
(१,२४.४) एवं चेदस्मै करोति पुण्याही भवति पुण्याहमस्मै भवति पुण्याह एव कुरुते ॥
(१,२५.१) यो वा अहोरत्रयोः पुण्याहं वेद पुण्याही भवति पुण्याहमस्मै भवति पुण्याह एव कुरुते ॥
(१,२५.२) ब्राह्मणो वा अहोरात्रयोः पुण्याहम्
(१,२५.३) तं पृच्छेत्केनाजितेति
(१,२५.४) स चेद्ब्रूयात्कर्तव्यमिति तथा कुर्यात्
(१,२५.५) पुण्याही भवति पुण्याहमस्मै भवति पुण्याह एव कुरुते ॥
(१,२६.१) यानि नक्षत्राणि दिव्यन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु । प्रकल्पयंश्चन्द्रमा यान्येति सर्वाणि ममैतानि शिवानि सन्तु ॥
(१,२६.२) अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे । योगं प्रपद्ये क्षेमं च क्षेमं प्रपद्ये योगं च नमोऽहोरात्राभ्यामस्तु ॥
(१,२६.३) स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु । सुहवमग्ने स्वस्त्यमर्त्यं गत्वा पुनरायाभिनन्दन् ॥
(१,२६.४) अनुहवं परिहवं परिवादं परिक्षवम् । सर्वैर्मे रिक्तकुम्भान् परा तान्त्सवितः सुव ॥
(१,२६.५) अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम् । शिवा ते पात नासिकां पुण्यगश्चाभिमेहताम् ॥
(१,२६.६) इमा या ब्रह्मणस्पते विषूचीर्वात ईरते । सध्रीचीरिन्द्र ताः कृत्वा मह्यं शिवतमास्कृधि ॥
(१,२६.७) स्वस्ति नो अस्त्वभयं नो अस्तु नमोऽहोरात्राभ्यामस्तु ॥
(१,२७.१) दध्योदनं भुक्त्वा कृत्तिकाभिरभ्युदियात्सिद्धार्थो हैव पुनरागच्छति ॥
(१,२७.२) आर्षभेन मांसेन रोहिण्यां मृगमांसैर्मृगशिरसि रुधिरमार्द्रायां गृहपतिभक्तं पुनर्वस्वोः घृतपायसं पुष्ये सर्पिर्मांसैरश्लेषासु
(१,२७.३) एतानि खलु प्राग्द्वाराणि नक्षत्राणि भवन्ति ॥
(१,२७.४) स यत्रैव प्राचीं दिशमभ्युत्थितः शस्त्रहस्तेन वा कण्ठहस्तेन वा वध्यघातेन वा समेयान्निवर्तेतार्वाक्खल्वेतत्क्रोशादूर्ध्वं क्रोशादव्याघातुकमर्थस्य भवति ॥
(१,२८.१) तैलेन कृशरं भुक्त्वा मघाभिरभ्युदियात्सिद्धार्थो हैव पुनरागच्छत्य्
(१,२८.२) आविकैर्मांसैर्भुक्त्वा पूर्वयोः फल्गुन्योरभ्युदियाद्रसैरुत्तरयोः प्रैयङ्गवं हस्ते चित्रं भक्तं भुक्त्वा चित्रयाभ्युदियात्यानि ज्येष्ठानि तेषां भुक्त्वा स्वातावभ्युदियादपूपान् विशाखयोर्
(१,२८.३) एतानि खलु दक्षिणद्वाराणि नक्षत्राणि भवन्ति
(१,२८.४) स यत्रैव दक्षिणां दिशमभ्युत्थितः शयनहस्तेन वास्तरणहस्तेन वासन्दीहस्तेन वा नीवीहस्तेन वा जानुहस्तेन वा समेयान्निवर्तेतार्वाक्खल्वेतत्क्रोशादूर्ध्वं क्रोशादव्याघातुकमर्थस्य भवति
(१,२९.१) खलकुलैर्भुक्त्वानुराधाभिरभ्युदियात्सिद्धार्थो हैव पुनरागच्छति
(१,२९.२) ज्येष्ठं भक्तं भुक्त्वा ज्येष्ठयाभ्युदियान्मूलैर्भुक्त्वा मूलेनाभ्युदियाद्.... भुक्त्वा पूर्वाभिरषाढाभिरभ्युदियाद् रसैरुत्तराभिर्नवनीतेन पायसं भुक्त्वाभिजित्यभ्युदियाद्.... भुक्त्वा श्रवणेनाभ्युदियाद्
(१,२९.३) एतानि खलु पश्चिमद्वाराणि नक्षत्राणि भवन्ति
(१,२९.४) स यत्रैव प्रतीचीं दिशमभ्युत्थितः पाशहस्तेन वा जालहस्तेन वा मत्स्यबन्धेन वा समेयान्निवर्तेतार्वाक्खल्वेतत्क्रोशादूर्ध्वं क्रोशादव्याघातुकमर्थस्य भवति
(१,३०.१) विदलसूपेन भुक्त्वा श्रविष्ठाभिरभ्युदियात्सिद्धार्थो हैव पुनरागच्छति
(१,३०.२) शाकं शतभिषजि गोधा गव्यैर्मांसैर्भुक्त्वा पूर्वयोः प्रोष्ठपदयोरभ्युदियाद्रसैरुत्तरयोर्गृहिणीभक्तं भुक्त्वा रेवत्याभ्युदियादक्षतमाषैर्भुक्त्वाश्विन्योरभ्युदियात्तिलतण्डुलान् भक्षयित्वा भरणीभिरभ्युदियाद्
(१,३०.३) एतानि खलूदग्द्वाराणि नक्षत्राणि भवन्ति
(१,३०.४) स यत्रैवोदीचीं दिशमभ्युत्थितः पानहस्तेन वा किण्वहस्तेन वाक्षीवेण वा समेयान्निवर्तेतार्वाक्खल्वेतत्क्रोशादूर्ध्वं क्रोशादव्याघातुकमर्थस्य भवति
(१,३१.१) अथ राज्ञोऽभिप्रयाणस्यानयन्ति प्रदक्षिणमुखं श्वेतमजं ब्राह्मणं शुक्लवाससम् ॥
(१,३१.२) सुप्रतिष्ठितमविभ्रान्तं वृषभं शृङ्गिनं हरिम् । स चेन्नदति संसृष्टस्तामाहुः सिद्धिमुत्तमाम् ॥
(१,३१.३) गजं ध्वजं रथं छत्त्रं वर्म योधानलंकृतान् । भूषणानि च सर्वाणि प्रशस्तान्यायुधानि च ॥
(१,३१.४) वादित्राणि च सर्वाणि पताका विविधास्तथा । शुक्लाः सुमनसो लाजा अक्षता गौरसर्षपाः ॥
(१,३१.५) फलानि पूर्णपात्राणि धूपगन्धान् जलं तिलाः । अर्चयित्वा देवताः सर्वा ब्राह्मणान् प्रतिपूज्य च ॥
(१,३१.६) पुरोहितं पुरस्कृत्य सुहृदो मन्त्रिणस्तथा । एवं प्रयातो लभते विजयं नात्र संशयः ॥
(१,३१.७) कल्याणनामधेयं च गजमव्यङ्गदर्शनम् । कुमारीं दधिपात्रेण गृहीतेन स्वलंकृताम् ॥
(१,३१.८) यदि चेदधिगो जाल्मि सूर्याचन्द्रमसोर्गृहे । अश्विना रासभेन्द्रेण यानं कुर्यात्प्रदक्षिणम् ॥
(१,३२.१) प्रादक्षिण्यमग्नेर्गवां ब्राह्मणानां राज्ञो रथस्य [नरवाहनस्य शकटस्य] चतुर्युक्तस्य षड्युक्ताष्टयुक्तस्य च
(१,३२.२) ह्रदस्य दक्षिणावर्तस्य कुमारस्याभ्युत्थितस्य च । मनुष्यपूर्णपिटकस्य पृथिव्या उत्थितस्य च ॥ प्रबद्धस्यैकपशोः
(१,३२.३) उलूची कालशकुनिः क्षिप्रश्येनोऽथ वर्तिका । एते द्विजाः प्रादक्षिण्याश्चाषश्चात्र प्रदृश्यते ॥
(१,३२.४) क्रौञ्चनकुलप्रियवृक्षचैत्यानां नित्यं वयसाम् ॥
(१,३२.५) तिर्यग्न्यग्वाधिपतितं विपरीतं हीनाङ्गाङ्गातिरिक्तं विकृतनग्नमुण्डबण्डश्चित्रश्यामश्यावदन्तकुनखिजटिलः काषायाविकयोश्[चर्मा]ब्राह्मणयोर्
(१,३२.६) एतेषां किं चिद्दृष्ट्वा न गच्छेद्
(१,३२.७) यदि गच्छेदर्थिनो यन्ति चेदर्थं गच्छानिद्ददुषो रातिम् । ववृज्युस्तृष्यतः काममित्येतां जपेत् ॥
(१,३२.८) नि षज्यतो दस्यूंश्छादयन्निन्द्रेति वा
(१,३२.९) स्तुहि श्रुतमिति वा
(१,३२.१०) देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु इति गर्दभमुखेन प्रतिनदति प्रतिलोमप्रतिकृत्यास्य
(१,३२.११) सर्वाश्च पापिका वाचो नेष्टा<ः> । कुचेलदर्शनं च । अनर्था हिंसार्थम् । तद्दर्शनाय । पापं वा जिहीर्षतां सिद्धिः ॥
(१,३३.१) अथ रोगपरिमाणान्य्
(१,३३.२) उत्तरास्वषाढासूत्तरयोः प्रोष्ठपदयोर्मासम् ।
(१,३३.३) रोहिण्यां विंशतिरात्रम् ।
(१,३३.४) पुनर्वसोरूनविंशतिरात्रं पूर्वाणि द्वन्द्विनाम् ।
(१,३३.५) मृगशिरसि षोडशरात्रमभिजिति श्रवणे च
(१,३३.६) आर्द्रायां पञ्चदशरात्रमनूराधाश्रविष्ठाभरणीषु च ।
(१,३३.७) पुष्ये द्वादशरात्रं हस्ते स्वातौ च ।
(१,३३.८) शतभिषजि नवरात्रं मासे वाकालं कुरुते ।
(१,३३.९) ज्येष्ठायां मूले चाष्टरात्रम् ।
(१,३३.१०) रेवत्यां सप्तरात्रम् ।
(१,३३.११) कृत्तिकाश्लेषा मघा उत्तरे फाल्गुन्यौ चित्रा विशाखे अश्वयुजौ च सप्तस्वेतेषु दशरात्रम् ॥
(१,३४.१) अथ बलयः
(१,३४.२) शुक्ल उपशुरसृपेशुक्लोसप्तमून्मोदनः । अष्टमः पललोदनो धानाः सक्तवोऽथ शष्कुली ॥
(१,३४.३) चित्रश्च कृकवाकुश्च शुक्लः कम्बूकपिण्डकः । सर्वबीजानि मूलानि उदपात्रं च पायसौ ॥
(१,३४.४) पशु घृतं कशीका च आर्द्रमांसानि पायसौ । पथ्यायां माषसक्तवः पायसोऽथ तिलोदनः ॥
(१,३४.५) सर्वत्र गन्धपुष्पाणि लाजानुलेपिकास्तथा । अनुद्वारं च नक्षत्रं दैवतं चात्र योजयेत् ॥
(१,३४.६) दीपाश्च मण्डले दीप्ताः शुचिश्चापि बलिं हरेत् । योऽस्मिन् यस्त्वा मातुरिति विपरिहरेत् ॥
(१,३५.१) सश्वेतसक्तु कंसश्च प्राचीनार्थस्य मङ्गलम् । स्रवं च मांसपेशी च दक्षिणार्थस्य मङ्गलम् ॥
(१,३५.२) कुमारी दधिकंसश्च प्रत्यगर्थस्य मङ्गलम् । अनड्वान् ब्रह्मचारी च उदगर्थस्य मङ्गलम् ॥
(१,३५.३) कुमारीं दधिपात्रेण गृहीतेन स्वलंकृताम् । प्रदक्षिणां तु तां कुर्याद्ध्रुवं स्यात्सिद्धिरिष्यते ॥
(१,३६.१) सेनां चेदभ्युत्थितां मन्द्रः प्रतिगर्जेद्राजा वामात्यो वा मरिष्यतीति विद्यात्तत्र वारुणीं जपेत् । उदुत्तमं वरुण पाशमिति ॥
(१,३६.२) सेनां चेदद्भ्युत्थितां धूमोऽनुगच्छेद्विजेष्यतीति विद्यात् । त्वेषस्ते धूम इत्यनुमन्त्रयेत् ॥
(१,३६.३) सेनां चेदभ्युत्थितां वातोऽनुवायाद्विजेष्यतीति विद्याद्वात आ वत्वित्यनुमन्त्रयेत् ॥
(१,३६.४) सेनां चेदभ्युत्थितां मृगो व्यभिमृशेदर्थं तस्या विनश्यतीति विद्यात् । मृगो न भीमः कुचरो गिरिष्ठा इत्यनुमन्त्रयेत् ॥
(१,३६.५) सेनां चेदभ्युत्थितां पक्षिणो व्यतिपतेयुर्मांसोदनं च तत्र दद्यात् । अलिक्लवा जाष्कमदा गृध्रा इत्यनुमन्त्रयेत् ॥
(१,३६.६) सेनां चेदभ्युत्थितां कपिञ्जलः प्रतिवदेद्भद्रं वदेति तिस्रः कापिञ्जलानि स्तवनानि वदन्ति ॥
(१,३६.७) यो अभ्यु बभ्रुणायसि स्वपन्तमत्सि पुरुषं शयानमगस्वलम् । अयस्मयेन ब्रह्मणाश्ममयेन वर्मणा पर्यस्मान् वरुणो दधद् ॥ इत्यभ्यवकाशे संविशति । अभ्यवकाशे संविशति ॥
(१,३७.१) अग्निर्देवो यज्वनः कृष्णवर्त्मा वैश्वानरो जातवेदा रसाग्रभुक् । स नक्षत्राणां प्रथमेन पावकः कृत्तिकाभिर्ज्वलनो नोऽनुशाम्यताम् ॥
(१,३७.२) प्रजापतिर्यः ससृजे प्रजा इमा देवान्त्स सृष्ट्वा विनियोज्य्अ कर्मसु । स सर्वभुक्सर्वयोगेषु रोहिणी शिवाः क्रियाः कृणुतां कर्मसिद्धये ॥
(१,३७.३) विद्याविदो ये अभिशोचमानवा अर्चन्ति शक्रं सह देवतागणैः । स नो योगे मृगशिरः शिवाः क्रियाः श्रेष्ठराजः कृणुतां कर्मसिद्धये ॥
(१,३७.४) देवं भवं पशुपतिं हरं कृशं महादेवं शर्वमुग्रं शिखण्डिनम् । सहस्राक्षमशनिं यं गृणन्ति स नो रुद्रः परिपातु न आर्द्रया ॥
(१,३७.५) ....या विप्रैः कविभिर्नमस्यते दाक्षायणी देवपुरादिभिर्नृभिर् । सा नः स्तुता प्रथमजा पुनर्वसुः शिवाः क्रियाः कृणुतां कर्मसिद्धये ॥
(१,३८.१) यस्य देवा ब्रह्मचर्येण कर्मणा महासुरं तिग्मतयाभिचक्रिरे । तं सुबुधं देवगुरुं बृहस्पतिमर्चामि पुस्येण सहाभिपातु मा ॥
(१,३८.२) या नः स्तुतः परिहिणोमि मेधया तप्यमानमृषिभिः कामशोचिभिः । जरत्कारसूनोरृषिभिर्मनीषिभिस्ता अश्लेषा अभिरक्षन्तु नोरगैः ॥
(१,३८.३) ये देवत्वं पुण्यकृतोऽभिचक्रिरे ये चापरे ये च परे महर्षयः । अर्चामि सूनुर्यमराजगान् पितॄंश्छिवाः क्रियाः कृणुतां च नो मघा ॥
(१,३८.४) यो योजयन् कर्मणा चर्षणीधृतो भूमिं चेति भगः प्रजाः प्रसादयन् । तद्देवत्ये शिवतमामलंकृते फल्गुन्योरीडे भजनं च पूर्वयोः ॥
(१,३८.५) स्तुतं पूर्वैरर्यमणं मनीषिभिः स्तौमि देवं जगति वाचमेरयन् । तद्देवत्ये शिवतमामलंकृते फल्गुन्यौ न उत्तरे देवतातये ॥
(१,३९.१) श्[य्]आवैर्युक्तः शितिपाद्धिरण्ययो यस्य रथः पथिभिर्वर्तते सुखैः । स नो हस्तेन सविता हिरण्यभुग्घिरण्यपाणिः सविता [नो]ऽभिरक्षतु ॥
(१,३९.२) त्वष्ट्रे नमः क्षितिसृजे मनीषिणे भूतगोप्त्रे परमकर्मकारिणे । सा नः स्तुता कृणुतां कर्मसिद्धये चित्रां देवी सह योगेन रूपभृत् ॥
(१,३९.३) यः प्राणिनां जीवयन् खानि सेवते शिवो भूत्वा मातरिश्वा रसाग्रभुक् । ध्वजोऽन्तरिक्षस्य स सर्वभूतभृद्वायुर्देवः स्वातिना नोऽभिरक्षतु ॥
(१,३९.४) यावीडितावात्मविद्भिर्मणीषिभिः सहितौ [यौ] त्रीणि सवनानि सामगौ । इन्द्राग्नी वरदौ नमस्कृतौ विशाखयोः कुर्वतामायुषे श्रीः ॥
(१,३९.५) विश्वे देवा यमृषिमाहुर्मित्रं भरद्वाजमृषितः प्रसामवित् । तं जगत्या गाथया स्तौम्युग्रैः स मामनूराधाभिर्[भृतकण्वो]ऽभिरक्षतु ॥
(१,४०.१) शतक्रतुर्यो निजघान शम्बरं वृत्रं च हत्वा सरितः प्रसर्जत[ः] । स नः स्तुतः प्रीतमनाः पुरंदरो मरुत्सखा ज्येष्ठया नोऽभिरक्षतु ॥
(१,४०.२) या धारयत्योजसातिदेवपदं माता पृथिवी च सा सर्वभूतभृत् । सा नः स्तुता कृणुतां कर्मसिद्धये मूलं देवी निरृतिः सर्वकर्मसु ॥
(१,४०.३) पर्जन्यसृष्टास्तिसृणीभिरावृतं यास्तर्पयन्त्यभितः प्रवृद्धये । ताः स्तौम्यापो वारुणीः ... पूर्वा आषाढा स्वधयास्तु योजने ॥
(१,४०.४) यास्त्रिंशतं त्रींश्च मदन्ति देवा देवनाम्नो निर्मितांश्च भूयसः । ता नोऽषाढा उत्तरा वसो विश्वे शिवाः क्रियाः कृणुतां सुरमताः ॥
(१,४०.५) यः सर्वज्ञः सर्वकृत्सर्वभूतभृद्यस्मादन्यन्न परं किं चनास्ति । अनिर्मितः सत्यजितः पुरुष्टुतः स नो ब्रह्माभिजिता नोऽभिरक्षतु ॥
(१,४१.१) स्थानाच्युते स्थानमिन्द्राय पातवे देवेभ्यश्च य ईरयंस्[त्रिर्] विचक्रमे । तं स्विद्धि स्वर्गं नाकपृष्ठं विश्वं विष्णुर्देवः श्रवणेनाभिरक्षतु ॥
(१,४१.२) अष्टौ शतानि श्वेतकेतूनां यानि त्वं च स त्वं निजघान भूयसः । अनादेशेनोभय[त]श्च वीडिताः श्रविष्ठाभिर्नोऽभिरक्षन्तु वाजिनः ॥
(१,४१.३) वाजा देवी देवमृणानिकाकुभावुभावाजस्य नतकर्मणा शिवा । तव व्राजं स्तौमसि देवभोजनौ प्रत्यग्भिषक्शतभिषक्शिवौ नः ॥
(१,४१.४) शुनासीरौ नः प्रमुमूतु जिह्मसौ तौतौ पितृभ्यो ददतुः स्तनौ शुभौ । तौ पूर्वजौ कृणुतामेकपादजः प्रतिष्ठानौ सर्वकामाभयाय च ॥
(१,४०.५) सर्वार्थाय कृणोमि कर्मसिद्धये गविष्टुतायानेककारिणे नमः । सोऽहिर्बुध्न्यः कृणुतामुत्तरौ शिवौ प्रतिष्ठानौ सर्वकामाभयाय च ॥
(१,४१.६) यं महाहेममृषितः प्रसामविद्भरद्वाजश्चन्द्रमसौ दिवाकरम् । सजुष्टानामश्वयुजौ भयाय च स नः पूषा कृणुतां रेवतीं शिवाम् ॥
(१,४१.७) जीर्णं सन्तं यौ युवानं हि चक्रतुरृषिं धिया च्यवनं सोमपौ कृतौ । तौ नश्चित्तिभिर्भिषजामस्य सत्करौ .... प्रजामश्विन्यामश्विनौ शिवौ ॥
(१,४१.८) यस्य श्यामशबलौ रक्षतः स्वधा दुष्कृत्सुकृद्विविधा चर्षणीधृतौ । तौ सवित्र्या च सवितुर्धर्मचारिभिर्यमो राजा भरणीभिर्नोऽभिरक्षतु ॥
(१,४२.१) अथ नक्षत्रस्नानानां विधिं वक्ष्यामि सांपदम् । ग्रहदैवतपूजां च येषु यत्र यथाविधि ॥
(१,४२.२) नक्षत्रयोगकालज्ञः कृत्वा तन्त्रं यथाविधि । यजेद्ग्रहान् हविष्येण यथोक्तेन च देवताः ॥
(१,४२.३) प्रशस्तलक्षणं कुम्भं ससंभारजलं बुधः । संपाताभिहितं कृत्वा मन्त्रैर्विधिमनुस्मरन् ॥
(१,४२.४) सावित्र्या शान्तिसूक्तैश्च महाव्याहृतिभिस्तथा । अपां स्तोत्रैः पवित्रैश्च नक्षत्रस्तुतिभिस्तथा ॥
(१,४२.५) नक्षत्रदैवतान्मन्त्रान् प्रतिनक्षत्रमावपेत् । काम्यांश्चैवावपेन्मन्त्रान् कर्मलिङ्गविधानवित् ॥
(१,४२.६) संपात्याथाभिमन्त्र्य वा नक्षत्रस्नानकोविदः । स्नापयेदर्थिनं वाग्भिः पुण्याभिरभिमन्त्रितम् ॥
(१,४२.७) एष एव विधिर्दृष्टः सदस्येभ्यश्च दक्षिणा । पूर्वमाप्याययेद्देहं पश्चाद्दद्यात्तु दक्षिणाम् ॥
(१,४२.८) अनेन विधिना स्नात्वा दद्याच्चैवात्र दक्षिणाम् । प्राप्नोत्यनुनयं पुंसः स वेदफलमश्नुते ॥ [प्राप्नोत्य्प्राप्णोत्येद्. (मिस्प्रिन्त्)]
(१,४२.९) आत्मानं निर्मलीकृत्य देवानिष्ट्वा ग्रहांस्तथा । विद्वद्भ्यो दक्षिणा देया द्विजानन्नेन तर्पयेत् ॥
(१,४३.१) कृत्तिकाभिः शिरीषस्य अश्वत्थस्य वटस्य च । स्नापयेत्पत्त्रभङ्गेन य इच्छेद्राजपूजितम् ॥
(१,४३.२) रोहिण्यां स्नापयेद्वैश्यं सर्वबीजैरलंकृतम् । अक्षतानन्तरं कृत्वा तथा सौभाग्यमर्हति ॥
(१,४३.३) यदा मृगशिरो युज्येत्तदा स्नानं विधीयते । मुक्तामणिसुवर्णेन धनार्थी तेन स्नापयेत् ॥
(१,४३.४) श्रीवेष्टकसर्जरसतगरोशीरपत्त्रकैः । आर्द्रायां वणिजः स्नाताः सुलाभांस्तु लभन्ति ते ॥
(१,४३.५) पुनर्वसुभ्यां गोमार्गादाहरेदग्रमृत्तिकाम् । गोपीठे स्नापयेद्गोऽर्थी क्षिप्रं गोमान् भविष्यति ॥
(१,४३.६) रक्तशालिसहस्रेण तावद्भिर्गौरसर्षपैः । सहस्रवीर्यानन्त्या च मदयन्तीप्रियङ्गुभिः । त्रीन् पुष्यान् ब्राह्मणः स्नातः पार्थिवं लभते यशः ॥
(१,४३.७) अश्लेषास्वाहारयेदुभयतः कूलमृत्तिकाः । [अश्व्]आरोहं स्नापयेत्तेन क्षिप्रवाही भविष्यति ॥
(१,४३.८) मघाभिस्तु तिलैः स्नायादुत्पलैः कमलैस्तथा । तस्मिंस्तु मासे सा कन्या क्षिप्रं च लभते पतिम् ॥
(१,४३.९) अथ पूर्वयोः फल्गुन्योः शतपुष्पा प्रियङ्गवः । मध्वेव च तृतीयं स्यात्सौभाग्यं भोगवर्धनम् ॥
(१,४३.१०) अथोत्तरयोः फल्गुन्योरक्षता गौरसर्षपाः । एतत्स्नानं प्रयुञ्जीत प्रजास्थापनमुत्तमम् ॥
(१,४४.१) हस्तेन सर्वकारूणां चौराणां चापि नित्यशः । नदीगिरितटाकेषु मृत्तिकास्नानमुत्तमम् ॥
(१,४४.२) चित्रायां चित्रमाल्यैस्तु सर्वगन्धैरलंकृतम् । योषार्थी स्नापयेत्तेन क्षिप्रं स लभते प्रियाम् ॥
(१,४४.३) स्वातिना तु गन्धैः स्नायादुत्पलैः कुमुदैस्तथा । तस्मिंस्तु मासे सा कन्या क्षिप्रं निर्व्यूह्यते ततः ॥
(१,४४.४) खड्गस्य च विषाणेन गजस्य ऋषभस्य वा । विशाखाभ्यामभिषिक्तो [राजा] पृथिवीमभिशासयेत् ॥
(१,४४.५) अनूराधास्वाहारयेद्वल्मीकशतमृत्तिकाः । कर्षणं स्नापयेत्तेन धनधान्येन वर्धते ॥
(१,४४.६) ज्येष्ठायां ज्यैष्ठ्यकामं तु अभिषिञ्चेत्पुरोहितम् । रसैश्च मिश्रधान्यैश्चाभिषिक्तः प्राशयेद्रसान् ॥
(१,४४.७) मूलेन सर्वतोभद्रमुपविष्टा वरवर्णिनी । शमीपत्त्रसहस्रेण स्नानात्पुत्रं प्रसूयते ॥
(१,४४.८) अथ पूर्वास्वषाढासु या स्नायादहते पटे । जातरूपेण कल्याणी भोगं भुङ्क्ते पतिप्रिया ॥
(१,४४.९) अथोत्तरास्वषाढासु यः स्नायाच्चेदुपोषितः । महाह्रद उशीरेण दासीदासेन वर्धते ॥
(१,४४.१०) वचयोत्पलकुष्ठैश्च ब्राह्मी सिद्धार्थकैस्तथा । अभिजिद्ब्राह्मणः स्नातः पार्थिवं लभते यशः ॥
(१,४५.१) श्रवणेन स्रवन्तीनां यः स्नायात्संगमेषु च । स संगच्छति स्वर्णेन हिरण्येन धनेन वा ॥
(१,४५.२) श्रविष्ठाभिर्धनकामं [तु] स्नापयेद्यत्र चन्दनैः । एतत्स्नानं प्रयुञ्जानो धनधान्येन वर्धते ॥
(१,४५.३) शतभिषग्भिषक्कामोऽभिषिञ्चेच्छान्तिकर्मसु । सोऽभिषिक्तो हतपाप्मा सर्वरोगैः प्रमुच्यते ॥
(१,४५.४) [अथ] पूर्वयोः प्रोष्ठपदयो रोचनयाञ्जनेन च । स्नाता गजविषाणेन राजानं जनयेत्सुतम् ॥
(१,४५.५) अथोत्तर[योः] प्रोष्ठपदयोः प्रसन्नापद्मकं मधु । गन्धर्वं स्नापयेत्तेन राजवाही भविष्यति ॥
(१,४५.६) खड्गस्य च विषाणेन जलेन मधुसर्पिषा । रेवत्यां क्षत्रियः स्नातो [राजा] पृथिवीमभिशासते ॥
(१,४५.७) अश्विन्यां स्वस्तिकं माल्यं मदयन्तीप्रियङ्गुभिः । रूपाजीवायास्तत्स्नानं सौभाग्यं भोगवर्धनम् ॥
(१,४५.८) भरणीभिर्भद्रमुस्तैस्त्वेलासिद्धर्थकैस्तथा । स्नाता पतिकुलं गच्छेदसपत्नमकण्टकम् ॥
(१,४६.१) सर्वज्ञः सर्वग शंस नारद प्रज्ञानमन्यस्मादनूनप्रज्ञात्स्वर्गस्य लोकस्य देहाद्यैर्यात्पथिभिरुपपन्नो मनुष्यः ॥
(१,४६.२) उपोषितः शुचिशीलः पुण्यगन्धो यदा भवेत् । प्रागस्तंगमनभोजनाद्यदेनं नित्यमतन्द्रितः ॥
(१,४६.३) समयाचारपूर्वाभिः कर्मसिद्धिः प्रशस्यते । [तं] कामदुघं स्वर्गकामः परेत्य प्रतिपद्यते ॥
(१,४७.१) कृत्तिकाभिः पायसं सर्पिषा सह भोजयेत् । [तं] कामदुघं स्वर्गकामः परेत्य प्रतिपद्यते ॥
(१,४८.१) रोहिण्यामक्षतैर्माषैः सर्पिर्मिश्रं सहौदनम् । दुग्धान्नपानं मंहेत सोऽक्षतो यमसादने ॥
(१,४८.२) मृगशिरसि मंहेत अजां धेनुं पयस्विनीम् । सास्मै सर्वान् कामान् दुग्ध्[व्]आ एति पूर्वा पयस्विनी ॥
(१,४८.३) आर्द्रायां कृसरं दद्यात्तैलमिश्रमुपोषितः । पुनर्वसुभ्यां मंहेत मध्वपूपांस्त्वनुत्तमान् ॥
(१,४८.४) रुक्मं पुष्येण मंहेत सोऽक्षतो यमसादने । अश्लेषा रजतं दद्यात्सौरभेयेण प्रेषितः ॥
(१,४८.५) सर्पान्निर्हन्ति प्रेतस्य परिपन्थि सुखाद्भयात् । मघाभिस्तु तिलान् दद्यान्मधुमिश्रान् स्मरन् पितॄन् ॥
(१,४८.६) कामैस्तत्रोपतिष्ठन्ति अमी ये सोमयाजिनः । [फाणितेनेष्टका मिश्रा दद्यात्पूर्वयोः फल्गुन्योर्मधुनोत्तरयोः ॥]
(१,४८.७) पूर्वोत्तरयोः फल्गुन्योर्दुहते मधुफाणिते ॥
(१,४९.१) बृहद्धस्तिरथं युक्तं हस्तेन तु ददन्नरः । सवितुः स्थानमाप्नोति दिव्यां कामजवां सभाम् ॥
(१,४९.२) चित्रायां वृषलीं दद्यात्सर्वपुष्पैरलंकृताम् । गन्धैः शुश्रूषमाणस्तु ध्रुवे स्थाने [सुगन्धिः] प्रपद्यते ॥
(१,४९.३) स्वातावेकधनं दद्याद्यद्यदस्य प्रियं गृहे । असज्जमानो गच्छेत अशरीरो यथा मनः ॥
(१,४९.४) धेनुं तु रूपसंपन्नामनड्वाहौ तु वा वहौ । विशाखाभ्यां मधुमन्थं प्रापयेत्स्थानमुत्तमम् ॥
(१,४९.५) अनूराधासु प्रावरणमन्नं तु शुचि ज्येष्ठायां च । दद्याच्चान्नं ब्राह्मणेभ्यो भक्षैरुच्चावचैः सह ॥
(१,४९.६) सुरां मूलेन मंहेताब्राह्मणीभ्य उपोषितः । मातुस्तेनानृणो भवति संकराच्च विमुच्यते ॥
(१,४९.७) उदमन्थमषाढासु पूर्वासु मधुनोत्तरम् ॥
(१,४९.८) अभिजिद्दुहितरं दद्यान्मधुपर्कपुरोगमाम् । उत्तमे ब्रह्मणः स्थाने सर्वकामैः प्रमोदते ॥
(१,५०.१) कम्बलं श्रवणे दद्याद्वस्त्रान्तरमुपोषितः । श्रविष्ठाभिर्वस्त्रयुगं गन्धान् शतभिषग्भवेत् ॥
(१,५०.२) अजं संपच्योदनं दद्यात्पूर्वयोः प्रोष्ठपदयोरौरभ्रेण सहोत्तरयोः ॥
(१,५०.३) धेनुं च रूपसंपन्नां गौर्गृष्टिः पूर्णदोहनीम् । रेवत्यां त्रिवत्सां दद्याच्छुभकांस्योपदोहिनीम् ॥
(१,५०.४) वस्त्रेणानड्वाहौ [सं]बद्ध्वा दद्यादश्वयुजो<र्> नरः । दश वर्षसहस्राणि लोम्निलोम्नि महीयते ॥
(१,५०.५) अष्टौ वर्षसहस्राणि अजधेन्वा पयोऽश्नुते । दश वर्षसहस्राणि गोधेन्वा पयोऽश्नुते ॥
(१,५०.६) अनड्वाहं तु यो दद्यात्सुहृदं साधुवाहिनम् । वीरं प्रजानां भर्तारं प्राप्नोति दशधेनुदम् ॥
(१,५०.७) [यदा वत्सस्य पादौ द्वौ शिरस्चापि प्रदृश्यते । तदा गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥]
(१,५०.८) भरणीभिः कृष्णतिलां दद्यात्[तिल]धेनुं पयस्विनीम् । तया दुर्गाणि तरति क्षुरधारांश्च पर्वतान् ॥
(१,५०.९) नक्षत्राणां यथा सोमो ज्योतिषामिव भास्करः । भाति दिव्यं दिवं ज्योतिः पावकः शुचिरुत्तमः ॥
(१,५०.१०) एवमुक्तां नक्षत्रदक्षिणां यो ददातीह जीवलोके । अपहत्य तमः सर्वं ब्रह्मलोके महीयते । यथा यष्टुस्तथाध्येतुरेषा ब्राह्मी प्रतिश्रुतिरेषा ब्राह्मी प्रतिश्रुतिरिति ॥
(परिशिष्ट_१ . [कृत्तिकारोहिणीमध्ये पैप्पलादा मन्त्राः])
(१ ,१.१) ओं यद्राजानं शकधूमं नक्षत्राण्यकृण्वत । भद्राहमस्मै प्रायच्छन् ततो राष्ट्रमजायत ॥
(१ ,१.२) भद्राहमस्तु नः सायं भद्राहं प्रातरस्तु नः । भद्राहमस्मभ्यं त्वं शकधूम सदा कृणु ॥
(१ ,१.३) यो नो भद्राहमकरः सायं प्रातरथो दिवा । तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥
(१ ,१.४) यदाहुः शकधूमं महानक्षत्राणां प्रथमजं ज्योतिरग्रे । तन्नः शतीमभिकृणोतु रयिं च नः सर्ववीरं नियच्छात् ॥
(१ ,१.५) योऽस्मिन् यक्ष्मः पुरुषे प्रविष्ट इषितं दैव्यं सहः । अग्निष्टं घृतबोधनोऽपस्कन्द नो विदूरमस्मत्सोऽन्येन समृच्छात् ॥ तस्मै प्रसुवामसि ॥
(१ ,१.६) यस्त्वा मातुरुत वा पितुः परिजायमानमभिसंबभूव । न त्वद्यमधिनासयाम सोऽन्यस्मै सयातैः प्रविष्टः ॥
(१ ,१.७) अलिक्लवा गृध्राः कङ्काः सुपर्णाः श्वापदाः पतत्रिणो वयांसि शकुनयोऽमुष्यामुस्यायणस्यामुष्याः पुत्रस्यादहने चरन्तु ॥
कृत्तिकारोहिणीमध्ये पैप्पलादा मन्त्राः ॥
(परिशिष्ट_२. राष्ट्रसंवर्गः)
(२,१.१) ओम् । ब्रह्मणे ब्रह्मवेदाय रुद्राय परमेष्ठिने । नमस्कृत्य प्रवक्ष्यामि शेषमाथर्वणं विधिम् ॥
(२,१.२) दैवं प्रभवते श्रेष्ठं हेतुमात्रं तु पौरुषम् । दैवेन तु सुगुप्तेन शक्तो जेतुं वसुंधराम् ॥
(२,१.३) दैवात्पुरुषकाराच्च दैवमेव विशिष्यते । तस्माद्दैवं विशेषेण पूजयेत्तु महीपतिः ॥
(२,१.४) दैवकर्मविदौ तस्मात्सांवत्सरपुरोहितौ । गृह्णीयात्सततं राजा दानसंमानरञ्जनैः ॥
(२,१.५) अपिता तु यथा बालस्तथासांवत्सरो नृपः । अमातृको यथा बालस्तथाथर्वविवर्जितः ॥ अरिमध्ये यथैकाकी तथा वैद्यविवर्जितः ॥
(२,१.६) धर्मेण पृथिवीं कृत्स्नां विजयिष्यन्महीपतिः । विद्यालक्षणसंपन्नं भार्गवं वरयेद्गुरुम् ॥
(२,१.७) चतुर्विधस्य कर्मणो वेदतत्त्वेन निश्चयम् । प्रजापतिरथैको हि न वेदत्रयमीक्षते ॥
(२,२.१) अथर्वभिन्नं यच्छान्तं तच्छान्तं नेतरैस्त्रिभिः । विज्ञानं त्रिषु लोकेषु जायते ब्रह्मवेदतः ॥
(२,२.२) अथर्वा सृजते घोरमद्भुतं शमयेत्तथा । अथर्वा रक्षते यज्ञं यज्ञस्य पतिरङ्गिराः ॥
(२,२.३) दिव्यान्तरिक्षभौमानामुत्पातानामनेकधा । शमयिता ब्रह्मवेदज्ञस्तस्माद्रक्षिता भृगुः ॥
(२,२.४) ब्रह्मा शमयेन्नाध्वर्युर्न छन्दोगो न बह्वृचः । रक्षांसि रक्षति ब्रह्मा ब्रह्मा तस्मादथर्ववित् ॥
(२,२.५) सेनाया रक्षणे तस्मात्स्वराष्ट्रपरिवृद्धये । शान्त्यर्थं च महीपालो वृणुयाद्भार्गवं गुरुम् ॥
(२,३.१) गुरवे पार्थिवो दद्यात्कोतिं वरणदक्षिणाम् । अर्धमर्धं महीभागं तृतीयं तु त्रिभागतः ॥
(२,३.२) एवं भूमिप्रमाणेन कोटिभागं विनिर्दिशेत् । येन वा परितुष्येत गुरुस्तत्पार्थिवश्चरेत् ॥
(२,३.३) घ्नन्ति दैवोपसर्गाश्च न च देवोऽभिवर्षति । वीरास्तत्र न सूयन्ते यद्राष्ट्रमपुरोहितम् ॥
(२,३.४) न हविः प्रतिगृह्णन्ति देवताः पितरो द्विजाः । तस्य भूमिपतेर्यस्य गृहे नाथर्वविद्गुरुः ॥
(२,३.५) समाहिताङ्गप्रत्यङ्गं विद्याचारगुणान्वितम् । पैप्पलादं गुरुं कुर्याच्छ्रीराष्ट्रारोग्यवर्धनम् ॥
(२,४.१) तथा शौनकिनं वापि वेदमन्त्रविपश्चितम् । राष्ट्रस्य वृद्धिकर्तारं धनधान्यादिभिः सदा ॥
(२,४.२) आथर्वणादृते नान्यो नियोज्योऽथर्वविद्गुरुः । नृपेण जयकामेन निर्मितोऽग्निरिवाध्वरे ॥
(२,४.३) बह्वृचो हन्ति वै राष्ट्रमध्वर्युर्नाशयेत्सुतान् । छन्दोगो धननाशाय तस्मादाथर्वणो गुरुः ॥
(२,४.४) अज्ञानाद्वा प्रमादाद्वा यस्य स्याद्बह्वृचो गुरुः । देशराष्ट्रपुरामात्यनाशस्तस्य न संशयः ॥
(२,४.५) यदि वाध्वर्यवं राजा नियुनक्ति पुरोहितम् । शस्त्रेण वध्यते क्षिप्रं परिक्षीणार्थवाहनः ॥
(२,५.१) यथैव पङ्गुरध्वानमपक्षी चाण्डजो नभः । एवं छन्दोगगुरुणा राजा वृद्धिं न गच्छति ॥
(२,५.२) पुरोधा जलदो यस्य मौदो वा स्यात्कदा चन । अब्दाद्दशभ्यो मासेभ्यो राष्ट्रभ्रंशं स गच्छति ॥
(२,५.३) पलालकमिदं सर्वमृग्यजुःसामसंस्थितम् । सारं सारपरं धान्यमथर्वाङ्गिरसो विदुः ॥
(२,५.४) त्रयो लोकास्त्रयो देवास्त्रयो वेदास्त्रयोऽग्नयः । अर्धमात्रे लयं यान्ति वेदश्चाथर्वणः स्मृतः ॥
(२,५.५) न तिथिर्न च नक्षत्रं न ग्रहो न च चन्द्रमाः । अथर्वमन्त्रसंप्राप्त्या सर्वसिद्धिर्भविष्यति ॥
(२,६.१) गुरुणा पैप्पलादेन वेदमन्त्रविपश्चिता । वर्धते धनधान्येन राष्ट्रमेवं न संशयः ॥
(२,६.२) स्तब्धं नृशंसं प्रमत्तं श्रद्धाहीनमशास्त्रगम् । भूमिकामो न याचेत दातारमपि पार्थिवम् ॥
(२,६.३) सहस्राणां शतं जप्त्वा गायत्र्यायाज्ययाजकः । पूयते भ्रूणहाप्येवं चाण्डालान्नाद एव च ॥
(२,६.४) सर्वद्रव्यपरित्यागाच्छुद्धिरन्यैरुदाहृता । अन्यैश्चतुर्णां वेदानामधीत्याद्योत्तमा ऋचः ॥
(२,६.५) यजनादभिचाराद्वा क्व चिद्वा मन्त्रकर्मणि । पूतानेव द्विजान् प्राहुरग्निकाञ्चनवर्चस इति ॥
इति राष्ट्रसंवर्गः समाप्तः ॥
(परिशिष्ट_३. राजप्रथमाभिषेकः)
(३,१.१) ओमथ राजप्रथमाभिषेके प्रकृतिद्रव्याणि परीक्षेत ॥
(३,१.२) तद्यथा ॥
(३,१.३) रथसिंहासनासिछत्त्रचामरध्वजगजवाजिवस्त्रालंकारसांवत्सरचिकित्सकपुरोहितादीन्य्
(३,१.४) उपयुक्तानि नोपयोजयेत् ॥
(३,१.५) श्मशानानलदेवतानि निहितानि द्रव्याणीत्य्
(३,१.६) आचार्यपुरोहितवज्रमुखत इत्याह दुर्मतिः स भारद्वाजो
(३,१.७) न ह्यग्नेरिवोपयुक्तस्योपयोगो विद्यत इति पराशरो
(३,१.८) ब्रह्मा ब्रह्माण्डाग्निरिवाप्रमेयो
(३,१.९) नान्यकुलोपयुक्तो
(३,१.१०) यस्यान्यकुलोपयुक्तः पुरोधाः शान्तिकपौष्टिकप्रायश्चित्तीयाभिचारिकनैमित्तिकोर्ध्वदेहिकान्यथर्वविहितानि कर्माणि कुर्यात्स तस्य प्रत्यङ्गिरो भूत्वा हस्त्यश्वरथपदातिकं प्रकृतिमुखेभ्यो ...
(३,१.११) वरिष्यन्न पुनः कुर्यादन्यं राजा पुरोहितम् । निर्माल्यमिव तं राजा नान्यो भूयः समाचरेत् ॥
(३,१.१२) स्वजस्रं ह्यग्नौ हेतुर्भगवतो व्याधितपतितोन्मत्ताभिशस्तप्रहीणप्रध्वस्तसंप्रसारणमृत्विक् ॥
(३,१.१३) तस्मात्कुलीनं श्रोत्रियं भृग्वङ्गिरोविदं विनयाकृतिशौचाचारयुक्तमलोलुपं व्रतनियमचारित्रवृत्तलक्षनगुणसंपन्नं संधिविग्रहचिन्तकं माहेन्द्रजालप्रभृतिकर्मादिष्वभिविदकं जितस्थानासनं हिमातपवर्षसहं ह्रीधृतिकमार्जवं शमदमदयादानशक्तिसंपन्नं बृहस्पत्युशनसोः स्थानाकृतिप्रमाणं वर्णाश्रुतवपुषा चानुमेयं तेजस्विनं गम्भीरं सत्त्वयुक्तं गुरुं वृणीयाद्भूपतिरिति ॥
(३,१.१४) मधुपर्काद्येन विधिना यथार्थं संपाद्य दक्षिणां दद्यात्
(३,१.१५) कोटिमध्यात्तृतीयं भागम्
(३,१.१६) यथाभूमिप्रमाणेन वा
(३,१.१७) हस्त्यश्वं नरयानं दिव्यमाभरणमातपत्रं हिरण्यं क्षितिगोधनधान्यरत्नादिकं च गुरवे दद्याद्
(३,१.१८) येन वा परितुष्येत ॥
(३,१.१९) अभिषेकः संहिताविधौ व्याख्यातः ॥
(३,२.१) हस्त्यश्वं गुरवे दद्यान्नरयानं तथैव च । दिव्यमाभरणं चैव आतपत्रादिमेव च ॥
(३,२.२) उच्छिष्टार्थं न गृह्णीयान्मङ्गलार्थं महीपतिः । मन्त्रौषध्यो न सिध्यन्ति राजा तत्र विनश्यति ॥
(३,२.३) नातिदीर्घं नातिह्रस्वं नातिस्थूलं कृशं तथा । न च हीनातिरिक्ताङ्गं क्व चित्कुर्यात्पुरोहितम् ॥
(३,२.४) हीनाधिकाङ्गं पतितं विवर्णं स्तेनं जडं क्लीबमशक्तियुक्तम् । भिन्नस्वरं काणं विरूपनेत्रं द्वेष्यं च राजा गुरुं नैव कुर्यात् ॥
(३,२.५) हीनाधिकाङ्गे पुरराष्ट्रहानिः काणे जडे वाहनकोशनाशः । स्तेने त्वशक्ते च समस्तदोषाः क्लीबे विवर्णे नृपतिर्विनश्येत् ॥
(३,३.१) भिन्नस्वरे जायते गात्रभेदो द्वेष्ये गुरौ विप्रतिपत्तिमाहुः । विवर्णनेत्रे पतिते तु पुत्रानध्वर्युणा च निहन्ति पौत्रान् ॥
(३,३.२) कृष्णे कोशक्षयं विद्याद्रक्ते वाहनसंक्षयः । पिङ्गलः पार्थिवं हन्याद्राष्ट्रं हन्यात्तु केकरः ॥
(३,३.३) बह्वृचं हि नियुञ्ज्याद्यः पौरोहित्ये तु पार्थिवः । स तारपङ्के हस्तीव सह तेनैव मज्जति ॥
(३,३.४) अध्वर्युं हि नियुञ्ज्याद्यः पौरोहित्ये तु पार्थिवः । उत्तितीर्षुरिवाश्मानमादत्ते स्ववधाय सः ॥
(३,३.५) वधबन्धपरिक्लेशं कोशवाहनसंक्षयः । करोत्येतान्वयेऽवस्थास्तपोयुक्तोऽपि सामगः ॥
(३,३.६) अन्वयाकृतिसंपन्नं तस्माद्भृग्वङ्गिरोविदम् । गोत्राङ्गिरसवासिष्ठं राजा कुर्यात्पुरोहितम् ॥
(३,३.७) मखेषु राष्ट्रेषु पुरेषु चैव सेनासु राज्ञां स्वनिवेशनेषु । य उत्पातास्त्रिविधा घोररूपास्तान् सर्वान् शमयेद्ब्रह्मवेदवित् ॥
(३,३.८) तस्माद्गुरुं वेदरहस्ययुक्तं चतुर्विधे कर्मणि चाप्रमत्तम् । शान्तं च दान्तं च जितेन्द्रियं च कुर्यान्नरेन्द्रः प्रियदर्शनं च ॥ प्रियदर्शनं चेति ॥
इति राजप्रथमाभिषेकः समाप्तः ॥
(परिशिष्ट_४. पुरोहितकर्माणि)
(४,१.१) ओमथ पुरोहितकर्माणि ॥ राज्ञः प्रातरुत्थितस्य कृतस्वस्त्ययनस्य
(४,१.२) अथ पुरोहितः स्नातानुलिप्तः शुचिः शुक्लवासाः सोष्णीषः सविता प्रसवानामिति व्याख्यातम् ॥
(४,१.३) इममिन्द्र वर्धयेत्युक्तम् ॥
(४,१.४) परि धत्तेति द्वाभ्यां राज्ञो वस्त्रमभिमन्त्र्य प्रयच्छेत् ॥
(४,१.५) यदाबध्नन्नित्यलंकारान् ॥
(४,१.६) सिंहे व्याघ्र इति सिंहासनम् ॥
(४,१.७) यस्ते गन्ध इति गन्धान् ॥
(४,१.८) एहि जीवं त्रायमाणमित्यक्षिणी अङ्क्ते ॥
(४,१.९) वातरंहा इत्यश्वम् ॥
(४,१.१०) हस्तिवर्चसमिति हस्तिनम् ॥
(४,१.११) यत्ते माता यत्ते पितेति नरयानम् ॥
(४,१.१२) खड्गं चाभिमन्त्रयामीति खड्गम् ॥
(४,१.१३) खड्गं चाभिमन्त्रयामि यः शत्रून्मर्दयिष्यति । मर्दिताः शत्रवोऽनेन वशमायान्तु ते सदेति ॥
(४,१.१४) पर्यङ्कमासनं खड्गं ध्वजं छत्त्रं सचामरम् । रथमश्वगजं श्रेष्ठं धनुर्वर्म शरेषुधिम् ॥
(४,१.१५) आञ्जनं गन्धमाल्यानि वस्त्राण्याभरणानि च । सर्वान् शान्त्युदकेनैतानभ्युक्ष्येच्चाभिमन्त्रयेत् ॥
(४,१.१६) दूर्वादीन्मूर्ध्नि निक्षिप्य स्वस्त्ययनैरभिमन्त्रयेत् । अभयं द्यावापृथिवीत्यभिमन्त्रितो ब्राह्मणान् प्रणिपत्य प्राक् ॥
(४,१.१७) युष्मत्प्रसादाच्छान्तिमधिगच्छामीति ॥
(४,१.१८) तथास्त्वित्युक्तो निर्गच्छेदिति ॥
(४,१.१९) एवंकृत्यस्वस्त्ययनो यदेवावलोकयति त सिध्यति ॥
(४,१.२०) तदपि श्लोकाः ॥
(४,१.२१) असुरैः पीड्यमानस्तु पुरा शक्रो जगत्प्रभुः । कारयामास विधिवत्पुरोधस्त्वे बृहस्पतिम् ॥
(४,१.२२) स वृतो भयभीतेन शमनार्थं बुभूषता । मङ्गलानि ससर्जाष्टावभयार्थं शतक्रतोः ॥
(४,१.२३) प्रोक्तानि मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः । भूमिः सिद्धार्थकाः सर्पिः शमी व्रीहियवौ तथा ॥
(४,१.२४) एतानि सततं पुण्यानि संपश्यन्नर्चयन्नपि । न प्राप्नोत्यापदं राजा श्रियं प्राप्नोत्यनुत्तमाम् ॥
(४,२.१) अथ राजकर्माणि
(४,२.२) विश्वावसौ मुहूर्ते स्नातो अभिषेकमन्त्रैरभिमन्त्रितः ॥
(४,२.३) अनुलेपनैरनुलिप्तः ॥
(४,२.४) पूर्वोक्तेन विधिना वस्त्रालंकारादिभिः
(४,२.५) सुवर्णनिष्कं कृष्णलं वा वामहस्तेन संगृह्य ॥
(४,२.६) यद्दुःकृतं यच्छबलं सर्वं पाप्मानं दहत्वित्य्
(४,२.७) अनेन मन्त्रेण सुवर्णं शरीरे निघृष्य दक्षिणेन हस्तेन विप्राय दद्याद्
(४,२.८) धेनुं चारोगाम्
(४,२.९) अपरिमितगुणान् तिलान् सौवर्णमये ताम्रमये वा पात्रे स्थापयित्वा यदज्ञानादित्यभिमन्त्र्य विप्राय दद्यात् ॥
(४,२.१०) यदज्ञानात्तथा ज्ञानाद्यन्मया शबलं कृतम् । तत्सर्वं तिलदानेन दह्यतामिति हि प्रभो ॥
(४,२.११) भूमिश्च सस्यसंपन्ना ब्राह्मणे वेदपारगे । यथाशक्ति प्रदेया हि बृहस्पतिवचो यथा ॥
(४,२.१२) स भुक्त्वा विविधान् भोगान् सप्तसागरमेखलाम् । पृथिवीं प्राप्य मोदेत चन्द्रवत्पृथिवीपतिः ॥
(४,२.१३) अन्नं तु विविधं नित्यं प्रदद्यात्द्विजातये । तूर्यघोषेण संयुक्तः कृतस्वस्त्ययनस्तथा ॥
(४,२.१४) गृहदेवांस्तु संपूज्य कार्यश्चाप्युत्सवो गृहे । छत्त्रादीनि च यानानि पूजयेद्विधिवत्स्वयम् ॥
(४,२.१५) [पुष्पैश्च विविधैः शुभ्रैः फलैश्चाप्यर्चयेद्बुधः] तस्मात्सर्वाणि सततं दानानि तु महीपतिः । दत्त्वा श्रद्धान्वितो विप्रैर्वृतो भुञ्जीत वाग्यतः ॥
(४,३.१) अथ पिष्टमयीं रात्रिं चतुर्भिर्दीपकैः सह । अर्चितां गन्धमाल्येन स्थापयेत्तस्य चाग्रतः ॥
(४,३.२) नमस्कृत्वा ततो रात्रिमर्चयित्वा यथाविधि । धूपेन चान्नपानेन स्तोत्रेण च समर्चयेत् ॥
(४,३.३) पाहि मां सततं देवि सराष्ट्रं ससुहृज्जनम् । उषसे नः प्रयच्छस्व शान्तिं च कृणु मे सदा । ये त्वां प्रपद्यन्ते देवि न तेषां विद्यते भयम् ॥
(४.३.४) रात्रिं प्रपद्ये जननीं सर्वभूतनिवेशनीम् । भद्रां भगवतीं कृष्णां विश्वस्य जगतो निशाम् ॥
(४,३.५) संवेशनीं संयमनीं ग्रहनक्षत्रमालिनीम् । प्रपन्नोऽहं शिवां रात्रिं भद्रे पारमशीमहि ॥
(४,३.६) यां सदा सर्वभूतानि स्थावराणि चराणि च । सायं प्रातर्नमस्यन्ति सा मां रात्र्यभिरक्षत्विति ॥
(४,४.१) आ रात्रि पार्थिवमिषिरा योषा त्रायमान इत्य्रात्र्याणि ॥
(४,४.२) ममोभा मह्यमाप इति सूक्ताभ्यामन्वालभ्य जपेत् ॥
(४,४.३) यो नः स्व इति पञ्चभिः सर्षपाञ्जुहुयात् ॥
(४,४.४) योऽस्मिन् यस्त्वा मातुरिति दीपेन नृपस्योपरि त्रिष्परिहृत्य प्रैषकृते प्रयच्छेत् ॥
(४,४.५) अभयमित्यृचा चतस्रः शर्कराः प्रदक्षिणं प्रतिदिशं क्षिपेत् ॥
(४,४.६) एह्यश्मानमा तिष्ठेति पञ्चमीमधिष्ठापयेत् ॥
(४,४.७) न तं यक्ष्मा ऐतु देव इति गुग्गुलुकुष्ठदूपं दद्यात् ॥
(४,४.८) यस्ते गन्धस्त्र्यायुषमिति भूतिं प्रयच्छेत् ॥
(४,४.९) दूष्या दूषिरसीति प्रतिसरमाबध्य
(४,४.१०) अग्निर्मा पातु वसुभिः पुरस्तादिति शर्करान् प्रदक्षिणं प्रतिदिशं क्षिपेत् ॥
(४,४.११) बहिर्निःसृत्योत्तरेण गत्वा बाह्येनोपनिष्क्रम्य सुहृदे कुर्याच्छ्रद्दधते कुर्यात् ॥
(४,४.१२) नैशमभयं कर्म मौसलीपुत्रः पैठीनसिः ॥
(४,५.१) अथातो रात्रिसूक्तानां विधिमनुक्रमिष्यामः ॥
(४,५.२) शुचिः शुक्लवासाः पुरोहितः ॥
(४,५.३) पार्थिवस्य पश्चिमां संध्यामुपास्य दर्भैः पवित्रपाणी राजानमभिगम्य
(४,५.४) पिष्टमयीं रात्रिं कृत्वा ॥
(४,५.५) अन्नपानधूपदीपैरर्चयित्वा माल्यैश्च ॥
(४,५.६) प्रज्वलितैश्चतुर्भिर्दीपकैरर्चयित्वा ॥
(४,५.७) आ रात्रि पार्थिवमिषिरा योषेति सूक्तद्वयेन रात्रिमुपस्थाय ॥
(४,५.८) त्रायमाणे विश्वजिते अह्ने च त्वेति राजानं प्रदक्षिणं त्रिः कृत्वा
(४,५.९) राजवेश्मनि द्वारे विसर्जयित्वा ॥
(४,५.१०) न तं यक्ष्मा ऐतु देव इति गुग्गुलुकुष्ठधूपं दद्याद्
(४,५.११) यस्ते गन्ध इति भूतिमभिमन्त्र्य
(४,५.१२) त्र्यायुषमिति राज्ञे रक्षां कृत्वा ॥
(४,५.१३) असपत्नमिति शर्करामभिमन्त्र्याङ्गुष्ठात्प्रदक्षिणं प्रतिदिशं क्षिपेत् ॥
(४,५.१४) शान्ता द्यौरिति जपित्वा राजानं वासगृहं नयेत् ॥
(४,५.१५) भूतिना रक्षां कृत्वा निष्क्रम्य
(४,५.१६) एवमेवमहरहः कुर्यात् ॥
(४,६.१) यस्य राज्ञो जनपदे अथर्वा शान्तिपारगः । निवसत्यपि तद्राष्ट्रं वर्धते निरुपद्रवम् ॥
(४,६.२) यस्य राज्ञो जनपदे स नास्ति विविधैर्भयैः । पीड्यते तस्य तद्राष्ट्रं पङ्के गौरिव मज्जति ॥
(४,६.३) तस्माद्राजा विशेषेण अथर्वाणं जितेन्द्रियम् । दानसंमानसत्कारैर्नित्यं समभिपूजयेत् ॥
(४,६.४) नित्यं च कारयेच्छान्तिं ग्रहऋक्षाणि पूजयेत् । भूमिदोहान् प्रकुर्वीत देवतायतनेषु च ॥
(४,६.५) चतुस्पथेषु गोष्ठेषु तीर्थेष्वप्सु च कारयेत् । गोतर्पणं च विधिवत्सर्वदोषविनाशनम् ॥
(४,६.६) य एवं कारयेद्राजा सर्वकालं जितेन्द्रियः । अनन्तं सुखमापनोति कृत्स्नां भुङ्क्ते वसुंधराम् ॥
इति पुरोहितकर्माणि समाप्तानि ॥
(परिशिष्ट_५. पुष्याभिषेकः)
(५,१.१) ओमथ पुष्याभिषेकस्य विधिं वक्ष्यामि सांपदम् । धर्मार्थकामसंयुक्तं राजा कुर्यात्पुरोहितम् ॥
(५,१.२) सौवर्णराजतैस्ताम्रैः कलशैः पार्थिवैरपि । सहस्रेण शतेनाथ तोयग्रहणमिष्यते ॥
(५,१.३) चतुर्णां सागराणां तु नदीनां च शतस्य तु । अभिषेकाय राज्ञस्तु तोयमाहृत्य यत्नतः ॥
(५,१.४) एकद्वित्रिचतुर्णां वा सागरस्य तु पञ्चमम् । ओषधीस्तेषु सर्वेषु कलशेषूपकल्पयेत् ॥
(५,१.५) सहा च दहदेवी च बला चातिबला तथा । मदयन्ती वचा श्वेता व्याघ्रदन्ती सुमङ्गला ॥
(५,२.१) शतावरी जयन्ती च शतपुष्पा सचन्दना । प्रियङ्गू रोचनो अशीरममृता च ससारिका ॥
(५,२.२) अश्वत्थप्लक्षबिल्वानां न्यग्रोधपनसस्य च । शिरीषाम्रकपित्थानां पल्लवैः समलंकृतान् ॥
(५,२.३) हेमरत्नौषधीबिल्वपुष्पगन्धाधिवासितान् । आच्छादितान् सितैर्वस्त्रैरभिमन्त्र्य पुरोहितः ॥
(५,२.४) सावित्र्युभयतः कुर्याच्छं नो देवी तथैव च । हिरण्यवर्णाः सूक्तं च अनुवाकाद्यमेव च ॥
(५,२.५) धरणी पादपीठं स्याद्दूर्वामूलाङ्कुरान् शुभान् । तस्योपरि न्यसेत्पीठं हैमं रौप्यमथापि वा ॥
(५,३.१) अनडुद्व्याघ्रसिंहानां मृगस्य च यथाक्रमम् । चत्वारि चर्माण्येतानि पूर्वादारभ्य विन्यसेत् ॥
(५,३.२) चातुर्होत्रविधानेन जुहुयाच्च पुरोहितः । चतुर्दिक्षु स्थितैर्विप्रैर्वेदवेदाङ्गपारगैः ॥
(५,३.३) बिल्वाहारः फलाहारः पयसा वापि वर्तयेत् । सप्तरात्रं घृताशी व ततो होमं प्रयोजयेत् ॥
(५,३.४) गव्येन पयसा कुर्यात्सौवर्णेन स्रुवेण तु । वेदानामादिभिर्मन्त्रैर्महाव्याहृतिपूर्वकैः ॥
(५,३.५) शर्मवर्मा गणश्चैव तथा स्यादपराजितः । आयुष्यश्चाभयश्चैव तथा स्वस्त्ययनो गणः ॥
(५,४.१) एतान् पञ्च गणान् हुत्वा वाचयेत द्विजोत्तमान् । हिरण्येनाक्षतार्घेण फलैश्च मधुसर्पिषा ॥
(५,४.२) पुण्याहं वाचयित्वास्य आरम्भं कारयेद्बुधः । तिष्यनक्षत्रसंयुक्ते महूर्ते करणे शुभे ॥
(५,४.३) उच्चैर्घोष इति तूर्याण्यभिमन्त्र्य पुरोहितः । सर्वतूर्यनिनादेन अभिषिक्तो ह्यलंकृतः ॥
(५,४.४) सिंहासनं समारुह्य पीठिकां वा यथाक्रमम् । चामरछत्त्रसंयुक्तं प्रतिहारविभूषितम् ॥
(५,४.५) मत्तद्विपचतुष्कं च चतुर्दिक्षु प्रकल्पयेत् । उपविष्टस्ततो राजा प्रजानां कारयेद्धितम् । अकरा ब्राह्मणा गावः स्त्रीबालजडरोगिणः ॥
(५,५.१) ततस्तु दर्शनं देयं ब्राह्मणानां नृपेण तु । श्रेणीप्रकृतिमुख्यानां स्त्रीजनं च नमस्करेत् ॥
(५,५.२) आशिषस्ते हि दास्यन्ति तुष्टा जनपदा भुवि । एवं प्रजानुरज्येत पृथिवी च वशा भवेत् ॥
(५,५.३) पुरोहितं मन्त्रिणं च सेनाध्यक्षं तथैव च । अश्वाध्यक्षं गजाध्यक्षं कोष्ठागारपतिं तथा ॥
(५,५.४) भाण्डागारपतिं वैद्यं दैवज्ञं च यथाक्रमम् । यथार्हेण च योगेन सर्वान् संपूजयेन्नृपः ॥
(५,५.५) राज्यं पुरोहिते न्यस्य शेषाणां च यथाक्रमम् । स्थानान्तराणि चान्यानि दत्त्वा सुखमवाप्नुयात् ॥
(५,५.६) दूर्वासिद्धार्थकान् सर्पिः शमीर्व्रीहियवौ तथा शुक्लानि चैव पुष्पाणि मूर्ध्नि दद्यात्पुरोहितः ॥
(५,५.७) अथर्वविहितो ह्येष विधिः पुष्याभिषेचने । राजा स्नातो महीं भुङ्क्ते शक्रलोकं स गच्छति ॥
इति पुष्याभिषेकः ॥
(परिशिष्ट_६. पिष्टरात्र्याः कल्पः)
(६,१.१) ओमथातः पिष्टरात्र्याः कल्पं व्याख्यास्यामः ॥
(६,१.२) अहतवासाः पुरस्तात्तल्पस्य गोमयेन स्थण्डिलमुपलिप्य
(६,१.३) अहतवस्त्रेण सिंहासनमवछाद्य ॥
(६,१.४) यां देवाः प्रति नन्दन्तीति रात्रिमावाहयेत् ॥
(६,१.५) संवत्सरस्य प्रतिमामिति पिष्टमयीं प्रतिकृतिं कृत्वोदन्मुखीमुपवेशयेत् ॥
(६,१.६) छत्त्रं हिरण्मयं दद्यादासनं च हिरण्मयम् । दद्याच्छुभ्राणि वासांसि शुभ्रं चैवानुलेपनम् ॥
(६,१.७) शुभ्रमन्नमतथा दद्यात्प्रभूतांश्चैव मोदकान् । धूपं च विविधं नित्यं प्रदीपांश्च प्रकल्पयेत् ॥
(६,१.८) आ मा पुष्टे च पोषे चेत्येताभिरुपस्थाय ॥
(६,१.९) रक्षोघ्नैर्मन्त्रैः सर्षपानभिमन्त्र्य
(६,१.१०) आवतस्त इति जपन् समन्तात्तल्पस्यावकीर्य
(६,१.११) अयं प्रतिसर इति प्रतिसरमाबध्य शर्करान् प्रतिदिशं क्षिपेत् ॥
(६,१.१२) धूपशेषं राज्ञे दद्याद् ॥
(६,१.१३) अभयप्रदं कर्म ॥
(६,१.१४) पश्चात्सर्वेषु कोनेषु द्विमुखीमेकमुखीं वा । सर्वतो विजयां रक्षामेकां वा तेषु चतुर्मुखीम् ॥
(६,१.१५) एकमुखीं वा सर्वत्राप्रतिरथजप इत्येके
(६,१.१६) सर्वत्र शर्कराक्षेपश्चेति ॥
(६,२.१) गृहीत्वा पिष्टरात्रिं तु वेश्मद्वारे विसर्जयेत्
(६.२.२) वनस्पतिरसो मध्य इति गुग्गुलुकुष्ठधूपं दद्याद्
(६,२.३) यस्ते गन्ध इति भूतिमभिमन्त्र्य
(६,२.४) त्र्यायुषमिति राज्ञे रक्षां कृत्वा
(६,२.५) असपत्नमिति शर्करानभिमन्त्र्याङ्गुष्ठाद्[अभि]प्रदक्षिणं प्रतिदिशं क्षिपेत् ॥
(६,२.६) शान्ता द्यौरिति जपित्वा राजानं वासगृहं नयेत् ॥
(६,२.७) भूतिना रक्षां कृत्वा निष्क्रम्य
(६,२.८) एवमेवमहरहः कुर्यादिति ॥ पिष्टरात्र्याः कल्पः समाप्तः ॥
(परिशिष्ट_७. आरात्रिकम्)
(७,१.१) ओं न सुष्वाप पुरा शक्रो दानवानां पुरोधसा । प्रयुक्तैरौषधैर्योगैर्मन्त्राणां जपहोमतः ॥
(७,१.२) प्रणिपत्य बृहस्पतिमथर्वाणं पुरंदरः । दानवैः परिभूतोऽहं त्राहि मामित्युवाच ह ॥
(७,१.३) ततोऽसावेवमुक्तस्तु प्रभूतबलवर्धनम् । आरोग्यदं भूतिकरं क्षुद्रोपद्रवनाशनम् ॥
(७,१.४) आरात्रिकं हि कर्तव्यं तस्य त्रातुमिदं तदा । कृत्वा पिष्टमयं दीपं सुवर्तिस्नेहसंयुतम् ॥
(७,१.५) अति निहः प्रान्यानिति द्वाभ्यामेनं प्रदीपयेत् । पात्रे सपुष्पे संस्थाप्य सर्षपांश्च सहाक्षतैः ॥
(७,१.६) प्रियङ्गुं शतपुष्पां च दूर्वां चैव शतावरीम् । सपापहारिणीं भूतिं तत्रैव च बलिं न्यसेत् ॥
(७,१.७) अप्सरोभिः परिवृतो गुरुर्गत्वा पुरंदरम् । प्राप्तसत्त्वं सुमनसमासने प्रान्मुखं स्थितम् ॥
(७,१.८) प्रेतो यन्त्वेकशतं च दीपं समभिमन्त्रयेत् । त्रिः परिभ्रामयेद्राज्ञो मन्त्रेणाथ सुमङ्गलम् ॥
(७,१.९) शाम्यन्त्यस्य ततो रोगा ग्रहा विघ्नविनायकाः । स्वस्त्यस्तु न्र्पराष्ट्राय स्वस्ति गोब्राह्मणाय च ॥
(७,१.१०) ततस्तु शङ्खध्वनिना दीपं गृहीत्वा सतोयधारां प्रयतोऽपि निर्हरेत् । पुरोहितो ज्योतिषिकोऽपि वा स्वयं हितैषिनी धात्र्यथर्वो (पकारिता ॥
(७,१.११) आचाम्याथ ह राजानमाचम्यादौ पुरोहितः । ब्राह्मणाय यथाशक्ति रुक्मं प्रातः प्रदापयेत् ॥
(७,१.१२) मूलकर्मादिकं तस्य पञ्चगुह्यककारितम् । भयं राज्ञो न भवति तेजो वीर्यं च वर्धते ॥
(७,१.१३) एवं विधानमखिलं विहितं यथावदेतत्समस्तशुभदं गदितं न्र्पाणाम् । नैवापदः समुपयान्ति नृपं कदा चिदारात्रिकं प्रतिनिशं क्रियते तु यस्य ॥ इत्यारात्रिकं समाप्तम् ॥
(परिशिष्ट_८. घृतावेक्षणम्)
(८,१.१) ओमथ घ्र्तावेक्षणं वक्ष्यामः ॥
(८,१.२) प्रातःप्रातः शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वा प्रबोधितो राजा शयनगृहादुत्थायापराजितां दिशमभिनिष्क्रम्योपाध्यायं प्रतीक्षेत ॥
(८,१.३) अथ पुरोहितः स्नातानुलिप्तः शुचिः शुक्लवासाः क्र्तमङ्गलविरचितोष्णीषी शान्तिगृहं प्रविश्य देवानां नमस्कारं कृत्वा स्वस्तिवाचनमनुज्ञाप्य विनीतवदुपविशेत् ॥
(८,१.४) यमस्य लोकाद्यथा कलां यो न जीवोऽसीति स्वस्त्ययनं कृत्वोल्लिख्याभ्युक्ष्य परिस्तीर्य शन्तातीयेन तिलान् घृताक्तान् जुहुयात् ॥
(८,१.५) तान् हुत्वा सौवर्णराजतमौदुम्बरं वा पात्रं घृतपूर्णं सहिरण्यं घृतस्य जूतिः सहस्रशृङ्गो यमस्य लोकादुरु विष्णो वि क्रमस्वेत्यभिमन्त्र्याज्यं तेज इति तदालभते ॥
(८,१.६) आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम् । आज्येन देवास्त्र्प्यन्ति आज्ये लोकाः प्रतिष्ठिताः ॥
(८,१.७) भौमान्तरिक्षदिव्यं वा यत्ते कल्मषमागतम् । सर्वं तदाज्यसंस्पर्शात्प्रणाशमुपगच्छत्विति ॥
(८,१.८) तस्मिन् घृतपात्रस्थं हि सर्वमात्मानं च पश्येत् ॥
(८,१.९) दध्ना शिरो हृदयमन्वालभ्य जपेत् ॥
(८,१.१०) उच्चा पतन्तमिति द्वाभ्याम्
(८,१.११) सूर्यस्यावृतमिति प्रदक्षिणमावृत्य शेषं कारयेदित्य्
(८,१.१२) अत्र श्लोकाः ॥
(८,२.१) अयं घृतावेक्षणस्य प्रोक्तो विधिरथर्वणा । उपास्यो नित्यकालं तु राज्ञा विजयकाङ्क्षिणा ॥
(८,२.२) एतत्समाहरेत्सर्वं प्रयतस्तु समाहितः । राजा विजयते राष्ट्रं नश्यन्ते तस्य शत्रवः ॥
(८,२.३) द्विजोत्तमाय कपिलां राजा दद्यात्तु गां शुभाम् । आशीर्वादं ततस्तेन श्रुत्वा तन्मुखनिःसृतम् ॥
(८,२.४) गुरुणा वाचितो यस्माद्दीर्घमायुरवाप्नुयात् । पुत्रान् पौत्रांश्च मैत्रांश्च लभते नात्रसंशयः ॥
(८,२.५) आयुष्यमथ वर्चस्यं सौभाग्यं शत्रुतापनम् । दुःस्वप्ननाशनं पुण्यं घृतास्यावेक्षणं स्मृतमिति ॥ इति घृतावेक्षणं समाप्तम् ॥ श्रीसाम्ब । यमस्य लोकादध्याबभूविथ इति ऋचः ६, यथा कलां यथा शफमिति ऋचः ६, घृतस्य जूतिरिति ऋचः ४ घृतावेक्षणमध्ये पैप्पलादा मन्त्राः ॥
(परिशिष्ट_९. तिलधेनुविधिः)
(९,१.१) ओमथ तिलधेनुं प्रवक्ष्यामि सर्वपापप्रणाशनीम् । तिलाः श्वेतास्तिलाः कृष्णास्तिला गोमूत्रवर्णकाः ॥
(९,१.२) तिलानां तु विचित्राणां धेनुं वत्सं च कारयेत् । द्रोणस्य वत्सकं कुर्याच्चतुर्द्रोणा तु गौः स्मृता ॥
(९,१.३) सुवासायां शुचौ भूमौ धूपपुष्पैरलंक्र्ता । कृष्णाजिने तु कर्तव्या बहूनां वापि कारयेत् ॥
(९,१.४) कर्णौ रत्नमयौ कुर्याच्चक्षुषी दीपकौ तथा । घ्राणे तु सर्वग्न्धांस्तु जिह्वायां शारदं घृतम् ॥
(९,१.५) दन्तेषु मौक्तिकं दद्याल्ललाटे ताम्रभाजनम् । ऊधसि तु मधूशीरमपाने च घृतं मधु ॥
(९,२.१) हृदये चन्दनं दद्याज्जङ्घयोरिक्षुकाण्डकम् । सुवर्णशृङ्गी रौप्यखुरी रौप्यलाङ्गूलदक्षिणा ॥
(९,२.२) वस्त्रछन्ना तु दातव्या कांस्यपात्रं तु दोहनी ।
(९,२.३) प्रजापतिश्चेत्यभिमन्त्र्य विप्राय दद्यात्
(९,२.४) तत्र श्लोकाः ॥
(९,२.५) धेनुं वत्सं च यो दद्याद्विनाथर्वाभिमन्त्रिताम् । विनानेन विधानेन देवत्वं नोपजायते ॥
(९,२.६) विश्वरूपाः स्थिताः सर्वा धेनवः परिकीर्तिताः । धेनुत्वं न स प्रयाति विना सूक्ताभिमन्त्रिताम् । निष्फलं नश्यते सर्वं विनाभिमन्त्रितं सताम् ॥
(९,२.७) बालत्वे यच्च कौमारे यत्पापं यौवने कृतम् । वयःपरिणतौ यच्च यच्च जन्मान्तरेषु च ॥
(९,२.८) यन्निशायां तथा प्रातर्यन्मध्याह्नापराह्णयोः । संध्ययोर्यत्कृतं पापं कर्मणा मनसा गिरा ॥
(९,३.१) प्रसूयमानां यो धेनुं दद्याद्ब्राह्मणपुंगवे । कृष्णाजिनं गुडधेनुं घृतधेनुं तथैव च ॥
(९,३.२) सुवर्णरत्नधेनुं च जलधेनुं तथा पराम् । क्षीरधेनुं मधुधेनुं शर्करालवणं तथा ॥
(९,३.३) रसादिधेनूः सर्वान्या अनेन विधिना स्मृताः । यत्तु बाल्ये कृतं पापं यौवने चैव यत्कृतम् ॥
(९,३.४) मानकूटं तुलाकूटं कन्यानृतगवानृतम् । उदके ष्ठीवितं चैव मुसलं चापि लङ्घितम् ॥
(९,३.५) वृषलीगमनं चैव गुरुदारानिषेवणम् । सुरापानस्य यत्पापं तिलधेनुः प्रशाम्यति ॥
(९,४.१) या स यमपुरे घोरे नदी वैतरणी स्मृता । यत्र लोहमुखाः काकाः श्वानश्चैव भयावहाः ॥
(९,४.२) वालुकान्ताः स्थलाश्चैव पच्यन्ते यत्र दुष्कृतः । असिपत्त्रवनं यत्र शालूकाः शाल्मली तथा ॥
(९,४.३) तान् सुखेन व्यतिक्रम्य धर्मराजाश्रमं व्रजेत् । स्वागतं ते महाभाग स्वस्ति तेऽस्तु महामते ॥
(९,४.४) विमानमेतद्योग्यं ते मणिरत्नविभूषितम् । अत्रारुह्य नरश्रेष्ठ गच्छ त्वं परमां गतिम् ॥
(९,४.५) मा च चारभटे दद्यान्मा च दद्यात्पुरोहिते । मा च काणे विरूपे च कुष्ठिव्यङ्गे तथैव च ॥
(९,४.६) वेदान्तगाय दातव्या वेदान्तगसुताय वा । एकैकस्मै च दातव्या माघमासे तु पूर्णिमाम् ॥
(९,४.७) य इमां पठते नित्यं यश्चेमां शृणुयादपि । देवलोकमतिक्रम्य सूर्यलोकं स गच्छति ॥ सूर्यलोकं स गच्छतीति ॥ इति तिलधेनुविधिः समाप्तः ॥
(परिशिष्ट_१०. भूमिदानम्)
(१०,१.१) ओमथ रोहिण्यां सकलायामुपोषितो ब्रह्मा सर्वबीजरसरत्नगन्धावकीर्णं तीर्थोदकपूर्णकलशमादायातिसृष्टो अपामित्यभिषेकमन्त्रैर्यथोक्तैर्दातारमभिषिञ्चति ॥
(१०,१.२) व्रतेन त्वं व्रतपत इति व्रतमुपैति
(१०,१.३) याचितारदातारावयाचिताशिनावधह्शायिनौ भवतो
(१०,१.४) व्रतोपचारम्
(१०,१.५) यथाशक्त्यैकरात्रं पञ्चरात्रं द्वादशरात्रं वा व्रतं चरित्वा
(१०,१.६) श्वो भूते तन्त्रमाज्यभागान्तं कृत्वान्वारभ्याथ जुहुयात् ॥
(१०,१.७) कामसूक्तं कालसूक्तं पुरुषसूक्तं महाव्याहृतिभिः संख्यापूर्विकाभिः सर्व ऋत्विजो जुह्वत्य्
(१०,१.८) अथ सुवर्णमयीं भूमिं भूमेः प्रतिकृतिं गोचर्ममात्रां कृत्वा
(१०,१.९) मण्डपवेद्यां समानीय वेद्युत्तरतो यस्यां वेदिमित्युपस्थाप्य
(१०,१.१०) गिरयस्ते पर्वता इति पर्वतानवस्थाप्य
(१०,१.११) हिरण्यरजतमणिमुक्ताप्रवालादिभिरुपशोभयेद्यददः संप्रयतीरिति
(१०,१.१२) सा मन्दसानेति नदीः कल्पयित्वा रसैश्च परिपूरयेद्
(१०,१.१३) अपामग्रमसि समुद्रं वोऽभ्यवसृजामीति समुद्रान्
(१०,१.१४) वनस्पतिः सह देवैर्न आगन्निति बृहस्पतिनेति वनस्पतीनन्यांश्च
(१०,१.१५) यज्ञे त्वा मनसा संकल्पयेन्मनसा संकल्पयतीथ भवतीह भवतीह भवति
(१०,१.१६) निधिं बिभ्रती बहुधेति नमस्कारयित्वा
(१०,१.१७) सत्यं बृहदित्यनुवाको ये देवा दिव्येकादश स्थेति पुण्याहं वाचयेत्
(१०,१.१८) संस्थापयेन्
(१०,१.१९) नव दिवो देवजनेनेत्यभिमन्त्र्य ब्राह्मणेभ्यो दद्याद्
(१०,१.२०) दातुरेसास्मै रोहिणी कामं निकामं वा दुग्ध इति
(१०,१.२१) यथा रोहन्ति बीजानि फालकृष्टे महीतले एवं कामाः प्ररोहन्ते प्रेत्येह मनसः सदा
(१०,१.२२) सर्वेषामेव दानानां यत्फलं समुदाहृतम् । तत्तत्प्राप्नोति विप्रेभ्यो दत्त्वा भूमिं यथाविधि ॥ दत्त्वा भूमिं यथाविधीति ॥ इति भूमिदानं समाप्तम् ॥