अट्टालसुन्दराष्टकम्

विकिस्रोतः तः


विक्रमपाण्ड्य उवाच-

कल्याणाचलकोदण्डकान्तदोर्दण्डमण्डितम् ।
कबलीकृतसंसारं कलयेऽट्टालसुन्दरम् ॥ १॥

कालकूटप्रभाजालकळङ्कीकृतकन्धरम् ।
कलाधरं कलामौळिं कलयेऽट्टालसुन्दरम् ॥ २॥

कालकालं कलातीतं कलावन्तं च निष्कळम् ।
कमलापतिसंस्तुत्यं कलयेऽट्टालसुन्दरम् ॥ ३॥

कान्तार्धं कमनीयाङ्गं करुणामृतसागरम् ।
कलिकल्मषदोषघ्नं कलयेऽट्टालसुन्दरम् ॥ ४॥

कदम्बकाननाधीशं कांक्षितार्थसुरद्रुमम् ।
कामशासनमीशानं कलयेऽट्टालसुन्दरम् ॥ ५॥

सृष्टानि मायया येन ब्रह्माण्डानि बहूनि च ।
रक्षितानि हतान्यन्ते कलयेऽट्टालसुन्दरम् ॥ ६॥

स्वभक्तजनसन्ताप पापापद्मङ्गतत्परम् ।
कारणं सर्वजगतां कलयेऽट्टालसुन्दरम् ॥ ७॥

कुलशेखरवंशोत्थभूपानां कुलदैवतम् ।
परिपूर्णं चिदानन्दं कलयेऽट्टालसुन्दरम् ॥ ८॥

अट्टालवीरश्रीशम्भोरष्टकं वरमिष्टदम् ।
पठतां शृण्वतां सद्यस्तनोतु परमां श्रियम् ॥ ९॥

॥ इति श्रीहालास्यमाहात्म्ये विक्रमपाण्ड्यकृतं अट्टालसुन्दराष्टकम् ॥

"https://sa.wikisource.org/w/index.php?title=अट्टालसुन्दराष्टकम्&oldid=56873" इत्यस्माद् प्रतिप्राप्तम्