अजीर्णामृतमञ्जरी

विकिस्रोतः तः
टिप्पणी - इदम् अपूर्णं तथा त्रुटिसहितं अस्ति। पूर्णं कर्तुं त्रुटिनिवारणाय च सहयोगं निवेदितम्।

यो रावणं रणमुखे भुवनैकभारं
हत्वा चकार जगतः परमोपकारम्।
यं ब्रह्म चाभिदधिरे परतोऽपि पारं
तं नौमि मैथिलसुताहृदयैकहारम्॥१॥
नालीकेरफलेऽथ तण्डुलजलं क्षीरं रसाले हितं
जम्बीरोत्थरसो घृते समुचितस्सर्पिस्तु मोचाफले।
गोधूमेषु च कर्कटी हिततमा मांसात्यये काञ्जिकं
नारङ्गे गुडभक्षणं च विहितं पिण्डालुके कोद्रव:॥२॥
पिष्टान्ने सलिलं प्रियालफलजे पथ्या हिता माषजे
खण्डं क्षीरभवे च तक्रमुचितं कोष्णाम्बु कोलाम्रजे।
मात्स्ये चूतफलं त्वजीर्णशमनं मध्वम्बु पानात्यये
तैलं पुष्करजे कटु प्रशमनं शेषं तु बुद्ध्या जयेत्॥३॥
पनसे कदलं कदले च घृतं
घृतपाकविधावपि जम्भरस:।
तदुपद्रवशान्तिकरं लवणं
लवणेऽपि च तण्डुलवारि परम्॥४॥
नारिकेलफलतालबीजयो:
पाचनं य इह तण्डुलं विदु:।
ते वदन्ति मुनयोऽथ तण्डुलान्
क्षीरवारि परिपाचयेदिति॥५॥
दाडिमामलकतालतिन्दुकीबीजपूर-लवलीफलानि च।
बाकुलेन च फलेन पाचयेत्
पाकमेात्ि ा बकुलं स्वमूलत:॥६॥
मधूक-मालूर-नृपादनानां
परूष-खजूर-कि
र् पत्थकानाम्।
पाकाय पेयं पिचुमन्दबीजं
सिद्धार्थको हन्ति च बीजपूरम्॥७॥
मृणाल-खजूरक-हारहू
र्
राकसेरु-शृङ्गाटक-शर्कराणाम्।
यथा विपाकाय च भद्रमुस्तं
तथा रसोने च पय: प्रशस्तम्॥८॥
आम्रतकोदुम्बरपिप्पलानां
फलानि च प्लक्षवटादिकानाम्।
स्यु: शर्मणे पर्युि षतोदकेन
सौवर्चलेनाम्रफलस्य पाक:॥९॥
सौवीरं फलमुष्णवारि हन्यात्
प्राचीनामलकं च राजिकैका।
खजूर्रं सपरूषकं प्रियालं
क्षीरी तालफलं पचेन्मरीचम् ॥१०॥
नागरं हरति बिल्वजाम्बवं
शर्करा पचति तिन्दुकीफलम्।
जीरकं जरयतीह बाकुलं
पाचयेन्मधुरिका कपित्थजम्॥११॥
पनसकामलकीफलपक्तये
भजत सर्जतरोरपि बीजकम्।
सकलमप्युदितानुदितं फलं
प्रपचति प्रसृतं कटुतिन्दुकम्॥१२॥
आर्द्राम्रबीजं पनसस्य पक्त्यै
रसालपक्त्यै घनरावमूलम्।
अपूपपक्त्यै सजला यवानी
सा कैश्चिदुक्ता पृथुकस्य पक्त्यै॥१३॥
पालङ्किकाकेमुककारवल्लीवार्ताकवंशाङ्कुरमूलकानाम्।
उपोदिकालाबु-पटोलकानां
सिद्धार्थको मेघरवस्य पक्ता॥१४॥
पटोलवंशाङ्कुरकारवल्लीफलान्यलाबूनि बहूनि जग्ध्वा।
क्षारोदकं ब्रह्मतरोर्निपीय
भोक्तुं पुनर्वाञ्छति तावदेव॥१५॥
वास्तूकसिद्धार्थकचुञ्चुशाकं
प्रयाति सद्य: खदिरेण पाकम्।
यथा गुड: सूरणनागरङ्गौ
तथालुकं तण्डुलवारि हन्ति॥१६॥
पत्राणि पुष्पाणि फलानि यानि
मूलानि पूर्वं न मयोादताि
ि न।
शाकानि सर्वाण्युपयान्ति पाकं
क्षारेण तान्येव तिलोद्भवेन॥१७॥
.................
.................
.................
तप्तं तप्तं हेम वा तारमग्नौ
वारं वारं क्षिप्तमम्भस्यथैतत्ात्।
पीत्वा तोयं दीर्घकालोपन्न्
पपन्न-ामम्भोऽजीर्णं शीघ्र्रमेवं जहाति॥३२॥
स्नेहाजीर्णे रोगिणां र्मुचूर्णं
हन्यान्मुस्तो हन्ति वैरेचकानाम्।
माषेण्डर्या निम्बमूलेन पाकश्चिञ्चा मुञ्चत्यम्लतांचूर्णयोगात्॥३६॥
कोष्णाम्बु पिष्टान्नभवे हि देयं
प्रियालमज्जास्विदमेव पेयम्।
मात्स्यं तु माकन्दफलं निहन्ति
गोधूमकं कर्कटिका निहन्ति॥३७॥
सद्य: प्रियालं विनिहन्ति पथ्या
मध्वम्ब्वजीर्णं विनिहन्ति पथ्या।
पिण्डालुक: कोद्रवपाककारी
खण्डस्तु माषान्नविकारहारी॥३८॥
मुखं दह्यते चूर्णकेन प्रमादाद्यदा नागवल्लीदलस्थेन पुंस: ।
सितातैलसौवीरकैस्तन्निवृत्ति:
पृथक् तस्य गण्डूष एवोपदिष्ट:॥३९॥
उष्णेन शीतं शिशिरेण चोष्णमम्लेन च क्षारगुणो गुणाढ्य:।
स्नेहेन तीक्ष्णं वमनातियोगे
सिता हिता स्यादिति काशिराज:॥४०॥
वमनवस्तिविरेचनभेषजं
यदिह कर्म निजं कुरुतेऽखिलम्।
तदिह विश्वयवासकसाधितं
पिबत पाचनकं रजनीमुखे॥४१॥
शीतोदकं नस्यजरोगहारि
नारीपयश्चाञ्जनरुग्विदारि।
रालोदकं धूमगदेषु शस्तं
धात्रीफलं चातिविरेचनार्ते॥४२॥
श्रवणपूरणजे तिलतैलजं
श्रवणपूरणमेव सुखं विदु:।
कवलजेषु गदेष्वथ कारयेत्
कवलमार्द्रयुतं द्रवजं पुन:॥४३॥
मदयति न हि मद्यं जातु चेत् पीतमद्य:
पिबति घृतसमेतां शर्करामेव सद्य:।
अथ घनमधुकैलाकुष्ठदार्वेलवालुप्रकटितकबलास्ये मद्यगन्धोऽपि न स्यात्॥४४॥
एलामृताम्भोधरकट्फलानां
चूर्णं यथापूर्वविवर्द्धितानाम्।
विमर्द्य वक्त्रे धृतमाशु हन्ति
सुरारसोनादिजमुग्रगन्धम् ॥४५॥
कूष्माण्डकस्य स्वरसो गुडेन
पीतो मदं कोद्रवजं निहन्ति।
पयो निपीतं सितया समेतमुन्मत्त-मत्तत्वमपाकरोति ॥४६॥
घ्रत्वा स्वकक्षां विपिनोपलं वा
सम्प्राश्य किञ्चिल्लवणं नरो वा।
शीताम्बु पीत्वा चुलुकेन वापि
प्रसह्य पूगीमदमुज्जहाति॥४७॥
सैन्धव-त्रिकटु-धान्यजीरकैर्दाडिमीरजनिरामठान्वितै: ।
पाचनोऽथ जठराग्निदीपनो
वेसवार उदितो मनीषिभि:॥४८॥
गुडमधुकाञ्जिकतक्रविभागा:
स्युर्द्विगुणास्तु यथोत्तरमेते ।
त्रीणि दिनानि च धान्यसमूहे
स्थापितमेतदुशन्ति हि शुक्तम्॥४९॥
शुक्तमुक्तमपि तद् बहुभेदं
हन्ति सर्वमिदमामजखेदम्।
यन्मया समुदितं मधुशुक्तं
तद्भिषग्भिरपि पाचनमुक्तम्॥५०॥
तत्तन्महाजीर्णविषापनेत्री
जीयाच्चिरायामृतमञ्जरीयम्।
सत्षट्पदानन्दमयीमसन्तो
घुणा इवैनामवधीरयन्तु॥५१॥
पद्यैमुर्नी नामनवद्यपद्या
श्रीकाशिनाथेन शिशोः सुखाय।
स्फुटीकृताजीर्णविषापहन्त्री
जीयाच्चिरायामृतमञ्जरीयम्॥५२॥
॥ इति श्रीकाशिनाथकृता अजीर्णामृतमञ्जरी समाप्ता ॥

स्रोतम्[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=अजीर्णामृतमञ्जरी&oldid=335621" इत्यस्माद् प्रतिप्राप्तम्