अच्युताष्टकम् (श्रीधरवेङ्कटेशकृतम्)

विकिस्रोतः तः
Jump to navigation Jump to search

अभिलपननिसर्गादच्युताख्ये भजे त्वां
हरसि मदघबृन्दं त्वद्भुबुक्षावशात् त्वम् ।
अघहृदिति तवाम्ब प्रत्युत ख्यातिदोऽहं
त्वयि मम वद का वा सङ्गतिर्दैन्यवाचाम् ॥ १॥

चिरातीता सान्दीपनितनुभुवः कालभवन-
प्रपत्तिस्तं पित्रोः पुनरगमयत् सन्निधिमिति ।
यशः कृष्णस्येदं कथमहह न त्वां रसनया
यदि श्रीकृष्णाख्ये भजति स तादनीं मुनिसुतः ॥ २॥

हरेर्यच्चोरत्वं यदपि च तथा जारचरितं
तदेतत् सर्वांहस्ततिकृते सङ्कथनतः ।
इतीदं माहात्म्यं मधुमथन ते दीपितमिदं
वदन्त्याः कृष्णाख्ये तवहि विचरन्त्या विलसितम् ॥ ३॥

सभायां द्रौपत्याऽंशुकसृतिभिया तद्रसनया
धृता तस्याश्चेलं प्रतनु तदवस्थं विदधती ।
व्यतानीश्शैलाभं वसनविसरं चाम्ब हरता-
मियान् गोविन्दाख्ये वद वसनराशिस्तव कुतः ॥ ४॥

अधिरसनमयि त्वामच्युताख्ये दधानं
वनजभवमुखानां वन्द्यमाहुर्महान्तः ।
सतु विनमति मातश्चाश्वगोश्वादनादीन्
भवति ननु विचित्रा पद्धतिस्तावकानाम् ॥ ५॥

जननि मुरभिदाख्ये जाह्नवीनिम्नगैका
समजनि पदपद्माच्चक्रिणस्त्वाश्रितानाम् ।
परिणमति समस्ताः पादवार्घिन्दुरेको
जगति ननु तटिन्यो जाह्नवीसह्यजाद्याः ॥ ६॥

समवहितमपश्यन् सन्निधौ वैनतेयं
प्रसभविधुतपद्मापाणिरीशोऽच्युताख्ये ।
समवितुमुपनीतः सागजेन्द्रं त्वया द्राक्
वद जननि विना त्वां केन वा किं तदाभूत् ॥ ७॥

यदेष स्तौमि त्वां त्रियुगचरणत्रायिणि ततो
महिम्नः का हानिस्तवतु मम सम्पन्निरवधिः ।
शुना लीलाकामं भवति सुरसिन्धुर्भगवती
तदेषा किम्भूता सतु सपदि सन्तापभरितः ॥ ८॥

इति श्रीश्रीधरवेङ्कटेशार्यकृतौ अच्युताष्टकं सम्पूर्णम् ॥