अच्युताष्टकम् (मूलसहितम्)

विकिस्रोतः तः
अच्युताष्टकम् (मूलसहितम्)
शङ्कराचार्यः
१९१०

॥ श्री ॥

॥ अच्युताष्टकम् ॥


अच्युतं केशवं रामनारायणं
 कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं
 जानकीनायकं रामचन्द्रं भजे ॥ १ ॥

अच्युतं केशवं सत्यभामाधवं
 माधवं श्रीधरं राधिकाराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं
 देवकीनन्दनं नन्दजं सन्दधे ॥ २ ॥

विष्णवे जिष्णवे शङ्खिने चक्रिणे
 रुक्मणीरागिणे जानकीजानये ।
वल्लवीवल्लभायार्चितायात्मने
 कंसविध्वंसिने वंशिने ते नमः ॥ ३ ॥

कृष्ण गोविन्द हे राम नारायण
 श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानन्त हे माधवाधोक्षज
 द्वारकानायक द्रौपदीरक्षक ॥ ४ ॥

राक्षसक्षोभितः सीतया शोभितो
 दण्डकारण्यभूपुण्यताकारणम् ।
लक्ष्मणेनान्वितो वानरैः सेवितो-
 ऽगस्त्यसंपूजितो राघवः पातु माम् ॥ ५ ॥

धेनुकारिष्टहानिष्टकृद्द्वेषिणां
 केशिहा कंसहृद्वंशिकावादकः ।
पूतनाकोपकः सूरजाखेलनो
 बालगोपालकः पातु मां सर्वदा ॥ ६ ॥

विद्युदुद्योतवत्प्रस्फुरद्वाससं
 प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोरःस्थलं
 लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥ ७ ॥

कुञ्चितैः कुन्तलैर्भ्राजमानाननं
 रत्नमौलिं लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं कङ्कणप्रोज्ज्वलं
 किंकिणीमञ्जुलं श्यामलं तं भजे ॥ ८ ॥

अच्युतस्याष्टकं यः पठेदिष्टदं
 प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुन्दरं वेद्यविश्वंभरं
 तस्य वश्यो हरिर्जायते सत्वरम् ॥ ९ ॥


इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

अच्युताष्टकं सम्पूर्णम् ॥