अगस्टमासस्य प्रवचनानि
ऑगस्ट 1 – आनन्दः केन लभ्यते? सृष्टिः शून्यात् उत्पन्ना। अस्माकमपि मूलस्थितिः सा एव। अतः अस्माभिः शून्यं प्रति गन्तुं प्रयत्नाः करणीयाः। इत्युक्ते स्वानन्देन स्वस्थेन भवितव्यम्। परं तत् अस्माकं न भवति। ‘कर्म कुर्वन् एव भवामि’इति मन्यामहे। प्रपञ्चे कष्टानि भवन्ति तदा वयं दूरं गत्वा उपविशामः। परं तेन मनसः सिषाधयिषा यदि शान्ता न जाता तर्हि कः लाभः? एतदर्थं मनसः स्वस्थता कथम् भवेत् इति द्रष्टव्यम्। आनन्दं कः नेच्छति? वयम् आनन्दम् इच्छामः खलु, परं तदर्थं यत् करणीयं तत् न कुर्मः। वृत्तिं न करोमि, परम्उपभोगः आवश्यकः चेत् कथं शक्यते? वस्तुतः प्रपञ्चस्य अगणितेभ्यः उपाधिभ्यः मुक्तिं लब्ध्वा यः स्वस्थतां प्राप्नोति सः धन्यः। मनसः विरुद्धं यत्किमपि यदा भवति तदा अस्माकम् आनन्दः भग्नः भवति। एतदर्थं मनसः विरुद्धं यदि भवति तर्हि मम आनन्दः न भञ्ज्यात् इति द्रष्टव्यम्। एतदर्थम् एकः एव उपायः यद् मम इच्छा एव नश्येत् इति। किमपि वस्तु लभ्येत अथ वा कः अपि प्रसङ्गः भवेत् इति बुद्धिः एव न कल्पनीया। यावत् लोभः वर्तते तावत् स्वास्थ्यात् वयं दूरमेव स्मः इति निश्चयेन मन्तव्यम्। महत्त्वाकाङ्क्षा अवश्यं भवेत् परं तेन मनः कष्टं न लभेत। भगवतः इच्छा एव मम इच्छा इति वक्तव्यम्, अभिमानं त्यक्त्वा कर्म करणीयं च। प्रयत्नानन्तरं यत् किमपि प्रवर्तते तत् रामस्य इच्छया जातमिति मन्तव्यम्।कर्तृत्वाभिमानस्य त्यागेन एव स्वास्थ्यं लभ्यते। अतीतसुखदुःखप्रसङ्गानां स्मरणेन आनन्दः भज्यते। तथैव श्वस्तनचिन्तया मनस्स्वास्थ्ये अन्तरायः वर्तते। यद् वर्तते अवर्तत वा तत् सर्वं भगवदिच्छया इति मनसा निश्चितं कृतं चेद् वृथा चिन्ता किमर्थं करणीया? दुःखकरणं वा अकरणं मनसः धर्मः। अतः येन जनेन मनः सम्यक् संस्कारितं सः साक्षात् दुःखभोगसमये अपि आनन्देन भवितुमर्हति। वार्ध्दक्ये तु आनन्दः शक्तिवर्धकम् औषधम्। येन नामप्रेम लब्धं सः शरीरस्य कस्यामपि अवस्थायाम् आनन्दं लभते। यः एतादृशं आनन्दं प्राप्नोति तस्मिन् रामेण अनुग्रहः कृतः इति निश्चयेन अवगन्तव्यम्। भगवतः कृते एकमेव दानं सत्यं, तद् आत्मदानम्। सततं भगवन्नामस्मरणे स्थित्वा देहः विस्मरणीयः इति एषः आत्मदानस्य एव प्रकारः।
- वाणी भगवतः नाम जपेत्, मनः तं स्मरेत्, एतयोः समञ्जनं भवेत् च। ***
ऑगस्ट 2 -अस्माकम्अहंकारस्य स्वरूपम् आनन्दमयं वर्तते। इष्टवस्तुप्राप्त्या समाधानं लभ्यते एव इति न। एतस्याः इच्छायाः नाशने एव समाधानं वर्तते। यदा लोभः नश्यति तदा एव समाधानं लभ्येत। एतदर्थं वासनाक्षयः कथं भवेत् इति द्रष्टव्यम्। क्व सुखं वर्तते?कस्य अनुसन्धानं करणीयम्? इत्यत्र अवधातव्यम्। वास्तवः आनन्दः समाधानं च भागवतत्वेन अवस्थाने वर्तते। ‘हे भगवन्, भवन्तं विहाय न कोपि मम अस्ति’ इति यदा मनसि निश्चयः भवेत् तदा एव समाधानं लभ्येत। यावती विषयाणां रुचिः तावती दुःखप्राप्तिरेव। विषयसुखं याच्ञांविना अपि प्राप्नुमः। परन्तु यत् परमार्थे विघ्नकरंतत् किमर्थं याचनीयम्?‘मम पार्श्वे रामः सदा विद्यते’ इति भावः वर्तते चेत् प्रपञ्चविषयेषु अवस्थाने अपि भयं नभवति। भगवतः आधारः नित्यं वर्तते चेत् विषयभयं न विद्यते। सदा अनुसन्धाने भवामः तर्हि नित्यं सावधानं भवामः एव। दीपावलीदिवसः आनन्ददिवसः, परम् एषः दिवसः अपि अन्यदिवसैः सदृशमेव विद्यते। तावदेव न, परं पूर्वतनदिनस्य परिस्थितिः, आपदः, समस्याः च अस्मिन् दिने अपि तथैव प्रवर्तन्ते, इति एतस्य एषः एव अर्थः यत् परिस्थितिः न परिवर्तिता, दिवसः समानः एव परं पूर्वतनदिवसे यत् कृतं तत् वयं दिपावलीदिने न कुर्मः, एषः एव मुख्यः भेदः।वयमेव दीपावलीदिवसम् आनन्ददिवसं कुर्मः इति यदि सत्यं तर्हि प्रतिदिनं तथा किमर्थं न कुर्मः? सदा अस्माकं दीपावली एव भवेत्, सततं वयम् आनन्दे एव भवामः, तदर्थम् आनन्दमयस्य भगवतः आश्रयं स्वीकुर्मः। दीपावलीपर्वस्य आधारेण वयम् आनन्दोत्सवं मन्यामहे तर्हि आनन्दनिर्मातुः भगवतः आश्रये नित्यं किमर्थं न गच्छामः? भगवतः आनन्दः बहु बलशाली। तस्य प्राप्तिमात्रेण प्रपञ्चे लाभहानेः महत्त्वं न विद्यते। भगवतः स्वरूपमेव आनन्दमयम्। एतादृशः आनन्दमयः भगवान् अस्माकम् अन्तरङ्गे विद्यमानः तथापि वयं दुःखिनः यतो हि भगवन्तं प्रकटयितुं वयमेव अन्तरङ्गे अन्तरायाः भवामः। अस्माकं अन्तरङ्गे भगवान् वर्तते तथा ‘अहम्’ अपि वर्तते। एषः ‘अहं कः’ इति ज्ञातुं इन्द्रियाणां कोलाहलः शान्तं कृत्वा अन्ते आनन्दस्य संशोधनं कुर्याम। तेन एतस्य ‘अहं’स्य स्वरूपम् आनन्दमयमेव वर्तते इति प्रचीतिः भविष्यति। एतस्य परमात्मनः अभिज्ञानं जीवनस्य वास्तवः आरम्भःतथा च परमात्मनि विलीनत्वं जीवनस्य सर्वस्वमेव।
- यस्य आनन्दः स्थिरः तस्य नित्यदीपावलीः।***
ऑगस्ट 3 – भगवता सह एकरूपत्वेन सर्वः आनन्दः एव। मनुष्यः यदा भक्तः भवति तदा सः यादृशम् आनन्दम् अनुभवति, तस्य आनन्दस्य शब्दैः विवरणम् अवगन्तुं न शक्नुमः। यत्र दुःखं न वर्तते तत्र ‘आनन्दः’ इति शब्दं कथयितुं तु कः भवेत्? अनन्यभक्त्या सः आनन्दः द्रष्टव्यः। भक्तः सर्वत्र ‘अहमेव अस्मि’ इति पश्यति इत्युक्ते सर्वाणि चराचरवस्तूनि सः भगवद्रूपाणि एव पश्यति। कस्मिञ्चित् प्रकोष्ठे सर्वत्र दर्पणाः स्थापिताः चेत् यत्र कुत्रापि किं दृश्येत? स्वं विना अन्यत् किमपि न दृश्येत। सर्वत्र एकभावः जातः चेत् दुःखस्य कारणमेव नास्ति। तत्र सर्वः आनन्दः एव। तद्वत् भक्तः भगवता सह एकरूपः भवति चेत् तत्र आनन्दं विना किं भवितुम् अर्हति? ये एतेन प्रकारेण जगति व्यवहरन्ति ते स्वानन्दे स्थित्वापि इतरजनैः सदृशं व्यवहरन्ति। तुकाराममहाराजेन एतादृश्यां स्थित्याम् अनुष्ठाय जनेभ्यःसन्मार्गः दर्शितः। समर्थरामदासेन अपि एतादृशीं स्थितिं संरक्ष्य जनाः स्वसदृशं कृताः। अस्माभिः तम् आनन्दं प्रति नेता मार्गः न दृष्टः। अतः यैः सः आनन्दः दृष्टः,ये सदा तस्मिन् आनन्दे एव वसन्ति तेषामुपदेशानुसारं वर्तनमेव श्रेयस्करम्। इत्युक्ते गुर्वाज्ञानुसारं वर्तनीयम्। मार्गदर्शकः लभ्यते चेत् तस्मिन् विश्वस्य वयं चलामः। तद्वत् गुरुवचनानुसारं वर्तामहे येन अस्माकं हितं भवेत्। कश्चन अन्धः जनः शर्करां मत्वा लवणं खादति चेत् तस्य रुचिः लवणमेव भवेत्। तद्वत् आनन्दं लभ्येत इति मत्वा वयं विषयाणां सङ्गं कुर्मः चेत् तस्मात् दुःखमेव प्राप्नुमः। बहूनि वस्तूनि प्राप्तानि। तेन बहु सुखं लभ्येत इति चिन्तनम् भ्रमः एव। सत्यम् अथ वा अत्यन्तं सुखमित्युक्ते शाश्वतं सनातनं च सुखम्। तत् सनातनवस्तुसमीपे इत्युक्ते भगवत्समीपे एव वर्तेत। भागवताः भूत्वा वयं आनन्देन भवामः। मुखं मधुरं कर्तुं यथा शर्करा खादनीया तथा आनन्दं प्राप्तुं नामस्मरणं करणीयम्। वयम् अन्येषामेव प्रपञ्चं कुर्मः, आत्मनः न कुर्मः एव। क्षेत्रस्य अपेक्षया कृत्तेः व्ययः अधिकः भवेत्, तद्वत् अस्माकं मूलस्वरूपस्यापेक्षया उपाधिनामेव अधिकं सज्जीकरणं वर्तते। यत् सर्वम् अर्जयामः तत् अत्रैव संस्थाप्य गन्तव्यं भवति। अस्माकं लाभाय कृतं चेत् अस्माकं प्रपञ्चः। भगवत्स्मरणमेव अस्माकं प्रपञ्चः। वयं मातापित्रोः,पतिपत्न्योः, पुत्रेषु आप्तजनेषु प्रतिवेशिषु वा सुखार्थम् अवलम्बिताः तर्हि सुखिनः न भवामः। अस्माकं दुःखं यातनाः वा यदि कोऽपि न नाशयति तर्हि अन्यः कश्चन अस्मभ्यं सुखं दद्यात् इति कल्पना कथं सत्यं भवेत्?
- परमात्मनः आनन्दः अखण्डं लभ्येत, ‘अहं तस्य भवेयम्’ इति एतया धिया नामस्मरणं करणीयम्। ****
ऑगस्ट 4 – वासना कथं जेतव्या ? किदृशः अपि विद्वान् भवेत् यावत् सः स्वयं न अनुभवति तावत् ज्ञानम् अर्थपूर्णं न भवति। धर्मग्रन्थं श्रुत्वा येन वैराग्यं प्राप्तं तेन एव ग्रन्थः सम्यक् अवगतः इति भवति। धर्मग्रन्थे उक्तं येन आचरितं सः एव सत्यः श्रोता। वेदान्तः प्रतिदिनम् आचरणीयः तर्हि एव तस्य वास्तवः उपयोगः। अतः सर्वासु प्रचीतीषु आत्मप्रचीतिः उत्तमा। यः भगवन्तं शरणं गच्छति तस्य शब्दज्ञानं न भवति चेदपि तस्य प्राप्तिविषयः एव नास्ति। यः शब्दज्ञानम् अनुधावति तस्य अभिमानः वर्धते। यः शब्दज्ञानविहीनः सः अभिमानी न भवेत् इति कदाचित् न। अज्ञानी जनस्य अभिमानः भवितुमर्हति, परं तस्य निर्मूलनं सरलम्। ‘सद्गुरुं शरणं गच्छतु’ इति कथयामश्चेत् सः निःशङ्कया गच्छेत्। काशीं गन्तुं विविधाः मार्गाः सन्ति, परं केनापि मार्गेण गन्तव्यं चेदपि गृहत्यागं विना तत् न शक्यते। तद्वत् कस्मिन्नपि साधने वासनायाः धारणेन, तां देवात् भिन्नां स्थापनेन वाउन्नतिः न शक्यते। तां देवस्य कर्तुं, हन्तुं वा देवस्य स्मरणम् अपेक्ष्यते। भागवतत्वम् अस्मिन् जन्मनि मम मुख्यं कार्यम् इति मन्तव्यम्। ‘अहं भागवतः कथं भवेयम्’ इति अहोरात्रं चिन्तनीयम्। ‘अहम् अन्यस्य कस्यापि नास्मि’ इति दृढः विश्वासः वर्तते चेत् भागवतः भवितुं शक्नोमि। अस्माकं मनः वासनाधीनं भूत्वा तात्कालिकसुखमनुधावति,चपेटिकां लब्ध्वा प्रत्यागच्छति च। यथा जनाः मन्यन्ते तथा वासनाजयः कठिनः नास्ति। वासना क्व व्यावर्तते तत् द्रष्टव्यम्। शरीरे विद्यमानं रक्तं निष्कास्य, परीक्ष्य च वैद्यः रोगनिदानं करोति। स्वचित्तं क्व लग्नमिति दृष्ट्वा रोगः ज्ञातव्यः। यत् अस्माकं हस्ते नास्ति तद्विषयिणी वासना इत्युक्ते मूर्खता एव इति अवधातव्यम्। अतः विचारः नामस्मरणं चेति एताभ्यां वासनाजयः निश्चयेन शक्यः। तदनु अस्माकं कर्तृत्वं निश्चयेन म्रियेत। हिमालये यदा आकाशात् हिमं पतति तदा तत् अति तरलं वर्तते। परं गच्छता कालेन तत् पाषाणात् अपि कठिनं भवति। तद्वत् वासना अपि सूक्ष्मा, तरला च वर्तते, परं देहबुद्ध्या सा अतिकठिना भवति। अनन्तरं तस्याः निष्कासनं बहु दुष्करम्। भगवद्वासना न वासना। यथा गोधूमपिष्टं नैकवारं संचाल्य गोधूमसत्त्वं निष्कासन्ति तद्वत् सर्वविषयवासनायाःनाशानन्तरं या अवशिष्टा भवति सा भगवद्वासना।
- वासनां नाशयितुं भगवदधिष्ठानमेव एकमात्रम् उपायः।***
ऑगस्ट 5 –‘देहःएव अहम्’ इति भ्रमः। ‘कोऽहं, किं मम कर्तव्यम्’ इति एतयोः ज्ञानं व्यवहारे यथा आवश्यकम् तद्वत् परमार्थे अपि ‘कोऽहम्’ इति एतस्य ज्ञानम् अपेक्ष्यते। यम् ‘अहं मम’ इति वदामि ‘सः अहं’ निश्चयेननास्मि। ‘मम देहः’ इति वदामः चेत् ‘अहं देहात् भिन्नः’ एव ननु? देहः तपति चेत्‘अहं ज्वरायितः’ देहः कृशः जातः चेत्‘अहं कृष्टः’ इति वदामः, सः प्रमादः, भ्रमः एव। वस्तुतः देहात् भिन्नः तथापि देहः अहमिति भावनया सुखदुःखमनुभवामि। ‘सुखं भवतु दुःखं मास्तु’ इति मन्ये इत्युक्ते मम मूलस्वरूपं नित्यसुखरूपमेव भवति। नद्यां विद्यमानं जलं, पात्रे ततः आनीतं जलंच द्वयमपि एकमेव। परं पात्रजलस्य स्वादः गन्धः च यदि भिन्नौ तर्हि पात्रे कश्चित् अवकरः स्यात् इति जानीमः। तद्वत् सुखरूपस्य आत्मनः अंशः एव जीवः दुःखरूपः जातः इति एतस्य कारणं देहसङ्गः। कस्यचित् गृहस्थस्य मित्रस्य पत्नी प्रसूतवती। तेन वैद्यस्य साहाय्यार्थं तथा च अन्येषु विषयेषु अपि धावनं कृतं परं शौचं न पालितम्। तन्मित्रसदृशम् अस्माभिः देहेन सह वर्तनीयम्। कश्चन वृक्षः पुनः न वर्धेत इति विचिन्त्य उत्पाटनीयः तर्हि तस्य पर्णानां त्रोटनेनकार्यं न भवति। तस्य मूले जलसिञ्चनं स्थगनीयम्। तद्वदेव संसारवृक्षाय अस्माभिः पुनः पुनः अभिमानजलं प्रचुरं दत्तम् अस्ति। तेन सः एतावान् वृद्धः अस्ति।सः अभिमानः नाशनीयः। ‘अहं कर्म अकरवम्’ इति भ्रमः त्यक्तव्यः। वास्तवः कर्ता ईश्वरः तथापि जीवः एव ‘अहं कर्ता’ इति मन्यते। आत्मना कर्तृत्वस्वीकरणेन जीवः सुखदुःखम् अनुभवति। अतः ‘नाहं कर्ता, रामः कर्ता’ इति भावः वर्धनीयः इति एषा एव वास्तवा उपासना। स्वायुषि याः घटनाः भवन्ति ताः सर्वाः भगवदिच्छया एव इति पूर्णः विश्वासः जातः चेत् सुखदुःखं च नावशिष्यते। यस्य एतादृशी सत्या निष्ठा वर्तते तस्य तेजः भिन्नमेव भवति खलु। एषः जनः अचलं समाधानं लभते। किं बहुना इदमेव सत्पुरुषस्य मुख्यलक्षणम्। इदं अस्माभिः प्राप्तव्यम् इत्यर्थम् सर्वे साधनप्रयत्नाः। वस्तुतः भवतः सर्वान् पुनः एकमेव कथयामि यत् सदा नामस्मरणे भवन्तु, नीत्या आचरन्तु च। तेन एव भवन्तः भगवन्तं प्राप्तुं शक्नुवन्ति। परमार्थे नीतिः, शुद्धाचरणं च बहु महत्त्वपूर्णे। यः शुद्धमनसा परमेश्वरचिन्तनं नामस्मरणं च करोति तस्य साहाय्यं कर्तुं परमेश्वरः सदैव सिद्धः। वयं तं परमेश्वरं शरणं गच्छामः तस्य नामप्रेम याचामहे। दीनदयालुः भक्तवत्सलः परमेश्वरः कृपावर्षं करिष्यति इति विश्वसन्तु।
- नामस्मरणं ‘ज्ञानेन’ करणीयं, ‘ज्ञानेन’ इत्युक्ते ‘रामः कर्ता’ इति भावनया।***
ऑगस्ट 6 – भगवतः आनन्दः निरुपाधिकः वर्तते। प्रत्येकं मनुष्यस्य प्रवृत्तिः भगवन्तं प्रति गन्तुं वर्तते, यतो हि सः आनन्दम् इच्छति। मनुष्यः आनन्दं विना जीवितुं न शक्नोति। परं साम्प्रतम् अस्माकम् आनन्दः केवलम् आशायाः आनन्दः, सः न सत्यः। श्वः सुखं लप्स्येत इति आशया वयं जीवामः, परं तत् सुखं क्वचिदेव लभ्यते। यस्मात् आनन्दात् दुःखं न उद्भवति सः एव आनन्दः सत्यः। जीवने कश्चित् आनन्दः भवेत्। जीवनं यदि आनन्ददायकं तर्हि किमर्थं दुःखं प्राप्नुमः? वस्तुतः वयं किमर्थं, किं कुर्वन्तः स्मः इत्येव विस्मरामः। इत्युक्ते मनुष्यः आनन्दार्थं जीवति, परं करोति दुःखम्। मद्यानन्दः यावत् मद्यस्य प्रभावः वर्तते तावत् लभ्यते। तद्वत् विषयानन्दः अपि यावद् विषयोपभोगः प्रवर्तते, तावदेव लभ्यते।दृश्यवस्तुनः असत्यत्वेन तत् अशाश्वतं वर्तते।अतः ततः लभ्यमानः आनन्दः अपि अशाश्वतः। वयं जगति व्यापं वर्धयामहे तत् तु आनन्दार्थम्। परं भगवन्तं विहाय यः आनन्दः वर्तते सः कारणे अवलम्बितः, अतः कारणसमाप्त्यनन्तरम् आनन्दः अपि नश्यति। अतः सः आनन्दः अशाश्वतः। अतः वास्तवः आनन्दः क्व लभ्यते इति द्रष्टव्यम्। वास्तवः आनन्दः दृश्यवस्तुषु नास्ति, परं ततः परं वर्तते। चिरन्तनः आनन्दः वस्तुविरहितः। अतः आनन्दार्थं वस्तुनः अनुधावनं मास्तु। विषयानन्दः परावलम्बी। भगवदानन्दः निरुपाधिकः। स्वानन्दस्मरणं विहाय यत् स्फुरणं सः विषयः एव मन्तव्यः। सत्या आनन्दवृत्तिः एव दीपावलीदशहरापर्वस्य चिह्नम्। हास्यम् तु आनन्दस्य व्यक्तस्वरूपम्। कस्यापि वस्तुनः अभावेनलब्धः आनन्दः एव परमात्मनः व्यक्तस्वरूपम्। तस्य आनन्दस्य प्राप्तौ यत् विघातकं तस्य अकरणमेव वैराग्यम्। तस्य आनन्दस्य बलवर्धनार्थं यत् करणीयं सः विवेकः। एषः आनन्दः इत्युक्ते आत्मचिन्तनेन प्राप्यमाणं मानसिकं समाधानम्। यः निस्वार्थबुद्ध्या प्रेम करोति सः निश्चयेन आनन्दं लभते। स्वीकुर्वाणः अहं-सः यदा दाता भवति तदा सः वास्तवम् आनन्दं लभते। ब्रह्मानन्दः प्रत्येकं जनस्यहृदये स्वयंभूः वर्तते। वृत्तिं परिवर्त्य सः प्राप्तव्यः। एकान्ते स्वस्थम् उपवेष्टव्यम्। रामः स्मर्तव्यः। तस्य पादयोः मस्तकं संस्थाप्य सः प्रार्थनीयः, ‘हे राम, मम मनः शुद्धं करोतु। देहबुद्धिं मा ददातु। तव चरणौ, तव हास्यं च सदा मया द्रष्टव्यम्। मम मस्तके वरदहस्तं स्थापयतु’। प्रेम्णा रामं प्रार्थ्य ‘रामः परमानन्दरूपः’ इति ज्ञात्वा तेन सह अनन्येन भवितव्यम्। ‘नाहं कोऽपि’‘सर्वः रामः एव’‘अहं रामस्य एव’ इति अतिमधुरभावनया आनन्देन भवितव्यम्।
- मनसि उत्पद्यमाने प्रत्येकं संकल्पे रामनाम्नः चिह्नं भवेत्।****
ऑगस्ट7 – रूपस्य परिचयः नाम्ना एव भवति। केवलं शास्त्रपठनेन प्राप्तस्य ज्ञानस्य अपेक्षया भक्तिः निश्चयेन श्रेष्ठा। भक्तिः इत्युक्ते परमात्मस्वरूपस्य परमप्रेम। कर्म ज्ञानं योगं च साधनानि तथा च भक्तिः साध्यम्।कर्ममार्गे कर्मणः सम्यक् करणे एव मनः संलग्नं भवति। तेन केवलं कर्ममार्गी कर्मठः जडः च भवति। भगवन्तं विस्मरति। योगे वृत्तिनिरोधार्थं प्रयत्नाः करणीयाः भवन्ति। वृत्तयः शान्ताः भवन्ति चेत् मनः शून्याकारं भवति। वृत्तिनिरोधकर्तुः मनसि भगवतः प्रेम भवेत् एव इति वक्तुं न शक्नुमः। ज्ञानमार्गे आत्मानात्मविचारस्य प्राधान्यकारणेन बुद्धिसामर्थ्ये अधिकं बलं भवति। परं मायायाः वेगः बहु अधिकः भवति। सा कदा साधकं वञ्चयेत् इति वक्तुं न शक्नुमः। ज्ञानमार्गः बहु कठिनः। ज्ञानमार्गिणं शीघ्रम् अभिमानः बाधते। मम एव मतं सत्यम् इति सः चिन्तयति। सः जगत् मायाकार्यम् इत्युक्ते मिथ्या इति मन्यते। परमात्मा यदि सर्वव्यापी तर्हि जगदपि तस्मिन् भवेत् एव। अतः भक्तः तं मिथ्या इति अमत्वा भगवतः लीला इति मन्यते। सः अस्यां सृष्ट्यां भगवतः महिमानं तस्य विभूतिमत्वं तस्य आनन्दं च पश्यति। सृष्ट्यां विद्यमानं सौन्दर्यं माधुर्यं, मनोहरं भावं, पावित्र्यं, प्रेम, च पश्यति चेत्मनः मुह्यति। परं सृष्ट्यां विहितानां विभूतिरूपाणां संपूजनेन जीवस्य तृप्तिः न भवति। यतो हि विभूतिः साक्षात् भावः नास्ति। भगवतः साक्षात् गुणानां भावानां च आवश्यकता वर्तते। तेषां प्राप्त्या जीवः सन्तुष्यति। परं सौन्दर्येण, माधुर्येण च पूर्णम् इदं भगवतः रूपम् इति ज्ञातुं तस्मै भगवतः नाम दातव्यं भवति। यतो हि तस्मै रूपाय यदि भगवतः नाम न दद्मः तर्हि तत् रूपं मायाविराक्षसस्यापि भवितुम् अर्हति। कुम्भकारः एकया मृत्तिकया नैकानां प्रकाराणां पात्राणि करोति। प्रत्येकं पात्रे मृत्तिकां विना किमपि नास्ति तथापि प्रत्येकं पात्रस्य नाम भिन्नम् अस्ति। तुकारामः एतावान् श्रेष्ठः भक्तः। भगवान् सर्वव्यापी इति मत्वा सः विठोबां राम इति न उक्तवान् वा दत्तं महादेव इति न भणितवान्। जगत् भगवतः भिन्नं नास्ति। जगति दृश्यमानानि सर्वाणि रूपाणि भगवतः एव। परं रूपस्य परिचयः नाम्ना एव भवति। साक्षात्आकारितानि नैकानि रूपाणि नश्यन्ति चेत् अपि तेषां नामानि भवन्ति एव। अतः नाम देशकालतः परं विद्यते। अतः तत् रूपस्य अपेक्षया अधिकं सत्यम्। यत् सत्यं तत् श्रेष्ठं भवति एव। सत्यस्य परिचयः एव परमार्थः।
- भगवतः रूपाणि यतः आगच्छन्ति तत्रैव नाम्नः अस्तित्वम्।****
ऑगस्ट8, - समाधानम् अतरङ्गपरिष्कारस्य चिन्हम् प्रपञ्चे भवतु वा परमार्थे, पथ्यपालनम् आवश्यकम् एव। सदा ‘रामः एव कर्ता’ इति भावः मनसि जागृतः भवेत्। शोकः, चिन्ता, भयम् आशा, तृष्णा च इति सर्वाः वृत्तयः ‘रामः कर्ता’ इति भावेन नष्टाः भवन्ति। यदि ताः न नश्यन्ति तर्हि रोगः अद्यापि वर्तते इति तस्य अर्थः। अतः अद्य आरभ्य, एतस्मात् क्षणात् आरभ्य नाम्नि भवितुं संकल्पं करोतु तथा च ‘रामः कर्ता’ इति भावं दृढं धरतु। कश्चन आत्मानं ‘शोभनम्’ इति वदति तदा मनः क्षणकालपर्यन्तं प्रसीदति। तत् समाधानम् इति वक्तुं शक्नुमः वा? यस्य प्राप्त्या अन्यत् किमपि आवश्यकम् एव न भवति तत् समाधानम्। समाधानम् अन्तरङ्गपरिष्कारस्य चिन्हम् अस्ति। तत् प्राप्तुं प्रपञ्चत्यागस्य आवश्यकता न वर्तते। प्रपञ्चं त्यक्त्वा कियत् अपि दूरं गच्छेत् तस्य स्मरणं भवति एव। अतः तं सहजं त्यक्तुं नशक्नुमः। तस्य त्यागार्थं रामजपनम् एव आवश्यकम्। किमपि कर्म भगवन्नाम्नि एव करोतु। तेन समाधानं प्राप्य मनुष्यः सुखदुःखद्वन्द्वे बद्धः न भवेत्। यः स्वोद्धारं करोति सः ज्ञानी, अक्रियः वस्तुतः अज्ञानी एव। वासनायाः परिणतं स्वरूपम् इत्युक्ते बुद्धिः। या बुद्धिः बन्धने कार्यं करोति सा वास्तविकी स्वतन्त्रा बुद्धिः। बन्धनं परित्यज्य मनःपूतम् आचरति सा स्वैराचारिणी बुद्धिः। वासनानाशः इत्युक्ते देहबुद्धेः नाशः। प्रापञ्चिकः मनुष्यः विषयान् त्यक्तुं न शक्नोति। तस्य विषयप्रेम रक्ते एतावत् तद्रूपम् वर्तते यत् तत् निष्कासयितुं सूक्ष्मास्त्रम् आवश्यकम्। नाम अतिसूक्ष्मास्त्रं वर्तते। तस्य स्वीकरणेन विषयप्रेम नश्येत्। वस्तुतः मनसा अल्पं निश्चयं करोतु। सः परमात्मा बहु दयालुः वर्तते। सः निश्चयेन आत्मनः संकल्पस्य पृष्ठतः भवेत्। दोषान् अदृष्ट्वा यः अन्यान् स्वीकरोति सः दयालुः। भगवान् अत्यन्तं दयालुः। तस्य नाम्ना सह भवामः चेत् देहप्रेम नश्येत्। देहे प्रेम नश्यति चेत् संसारे अपि प्रेम न्यूनं भवति। तेन सर्वत्र रामः एव द्रष्टव्यः। प्रत्येकं जीवस्य आकर्षणं चिरन्तनसमाधानं प्रति भवति। तद् ईश्वरप्राप्त्या एव पूर्णं भवेत्। एतस्य प्राप्त्यर्थं अत्यन्तं सुलभं साधनं, सततम् ईश्वरसहवासस्य साधनं च एकं नाम एव। येन स्वहृदये नाम स्वीकृतं सः सर्वत्र परमेश्वरं पश्येत्। इतरसाधनेषु उपाधिकारणेन अल्पं वा चाञ्चल्यं वर्तते। नाम स्थिरं विद्यते। इदं भगवन्नाम प्रेम्णा स्वीकरोतु, श्रद्धया स्वीकरोतु, मनसा स्वीकरोतु।
- अखण्डं नामस्मरणे भवतु। अहो समाधानम्!*****
ऑगस्य9, - यः समाधानं प्राप्तवान् सः भाग्यवान्। यः अधिकं कामयते सः दरिद्रः। यस्य कामना न्यूना सः श्रीमान्। परमार्थी इत्युक्ते भिक्षुकः इति यः मन्यते सः वास्तविकं श्रीमत्वं न कल्पयते। सदा समाधानी सः वास्तविकः श्रीमान्। अस्माकम् आधारः धनम्। तत् अद्य विद्यते, श्वः न। अधिष्ठानं यदि दुर्बलं तर्हि भवनं दृढं कथं भवितुमर्हति? श्रीमद्भिः चिन्ता करणीया यत् श्रीमान् इत्युक्ते भगवन्तं विना न। वस्तुतः समाधानम् एव धनं, श्रीमत्वं च। तदेव भाग्यम्। तदेव ऐश्वर्यम्। यस्य अधिकं समाधानं सः आधिकः भाग्यवान् इति चिन्तनीयम्। समाधानम् आत्मना एव प्राप्तव्यम्। अन्यः दातुं न शक्नोति। वास्तविकं समाधानेन सदृशं औषधं नास्ति। तत् न प्राप्यते अतः अन्यत् स्वीकरणीयं भवति। चिन्ता नश्यति चेत् अखण्डं समाधानं शान्तिः आनन्दः च लभ्यन्ते। मल्लसमं दृश्यमानं जनम् अहं पृष्टवान् तदा सः उक्तवान्, “ मधुमेहेण पीडितः अहम्। अन्तः निखनितः। ममापेक्षया भवान् उत्तमः।” तद्वत् धनेन प्राप्तस्य ऐश्वर्यस्य सा एव स्थितिः। भगवन्निष्ठायाम् एव समाधानं वर्तते। राजभवने तत् तु नास्ति एव, परं कुट्याम् अपि भवेत् एव इति न निश्चितम्। असमाधानम् इति रोगः सर्वेषां वर्तते, अतः रोगाणां सूचीतः तस्य नाम एव निष्कासितम्। साम्प्रतं जगति बहुविधा उन्नतिः दृश्यते। परं तया मनुष्याय समाधानं न प्रदत्तम्। जीवनं सुखमयं न भवतिपरं यया मनसि सततं चिन्तातोदनंभवति सा उन्नतिः कथम्? व्यक्तिः भवतु वा समाजः, एतयोः प्रगतिः कर्तुं चित्तं स्थिरम् आवश्यकम्। चित्तस्थैर्यं धर्मेण विना न प्राप्यते। साम्प्रतं तत्त्वज्ञानं केवलम् अध्ययनार्थम्। न अनुभवार्थम् । तेन वास्तविकं समाधानं न लभ्यते। वस्तुतः प्रत्येकं जीवः भगवन्तम् आर्ततया इच्छेत्। भगवन्तं विना यः विद्यते सः सुखदुखं प्राप्नोति। दुःखस्य न्यूनता एव सुखम्। राज्ञः रङ्कपर्यन्तं सर्वे किमपि इच्छन्ति याचन्ते च। तस्य अर्थः प्रत्येकं जनस्य जीवने किमपि न्यूनं विद्यते। परं कोऽपि न चिन्तयति यत्‘यदा तत् मम समीपे आसीत् तदा सुखी आसम् वा?’ एतस्य उत्तरं ‘नासम् एव’ इतिप्राप्यते। कल्पनया इदमिदानीं निर्मितायाः कुण्डलिकायाः खादनापेक्षया ह्यस्तनकुण्डलिकायाः प्रत्यक्षं खादने समाधानं वर्तते। बुद्धेः आनन्दः उपाधेः कल्पनायाः च आनन्दः वर्तते। भगवतः आनन्दः उपाधिं विना भवति। एनम् आनन्दं प्राप्तुं भगवछ्शरणं गत्वा नाम्नि एव भवितव्यम्।
- नामस्मरणयोगेन आनन्दः समाधानं च लभ्येते इत्यत्र न कापि शङ्का।****
ऑगस्ट11 – भगवन्तं विना समाधानं कुत्रापि न वर्तते। वस्तुतः यत् अस्माकं बुद्धिः स्वीकरोति, यत् वयम् अनुभवामः च तत् सत्यम् इति मननेन न कापि बाधा। तन्मध्ये कोऽपि आगच्छेत् तस्य चिन्ता न करणीया। तत् सत्यम् इति अनुभवितुम् अस्माकं बुद्धिः स्थिरा आवश्यकी। साम्प्रतं जगति सर्वत्र बुद्धिभेदः दृश्यते। अतः मनुष्यस्य बुद्धेः स्थिरं भवनं दुष्करम्। अतिसदाचारिजनस्य अपि बुद्धिः कदा भ्रमेत् इति वक्तुं न शक्नुमः। केवलं शास्त्रे कथितम् अतः सत्यम् इति अहं न वदामि। अहं कथयामि तत् सत्यम् इति वदन्तु इति अपि अहं न भणामि। भवन्तः स्वविचारेण एव निश्चिन्वन्तु यत् जीवने भवन्तः समाधानम् इच्छन्ति वा न? तत् समाधानं भगवन्तं विना क्वापि वयं प्राप्तुं न शक्नुमः इति दृढमनसा निश्चयं कुर्वन्तु। एकदा भवतां निश्चयः भवति चेत् कोऽपि अवरोद्धुं न शक्नोति। निश्चयः आवश्यकः। निश्चयस्य बलं कियत् विलक्षणम्! कस्मिञ्चित् ग्रामे कश्चित् कुत्सितः जनः निवसति स्म। विचित्रान् प्रश्नान् पृष्ट्वा उपहासं करोति स्म। इत्यत्र तस्य प्रावीण्यम्। कदाचित् कस्यचित् साधोः रसपूर्णं प्रवचनं प्रचलत् आसीत्। एषः सहसा मध्ये एव उत्थाय पृष्टवान्, “ हे साधो, भवतः भक्तिं दूरे स्थापयतु, देशस्य स्वातन्त्र्यं कदा मिलेत् तत् कथयतु”।साधुः शान्ततया अवदत्, “ तत् अहं कथयामि। परं साम्प्रतं भवतः वयः अधिकम्। भवान् जीवनस्य अन्तिमचरणे वर्तते। कालः कदापि आक्रान्तुं शक्नोति। अधुना मां कथयतु यत् प्रपञ्चस्य उपाधिः, देहस्य व्याधिः, मृत्योः आलिङ्गनं च इति एतेभ्यः स्वातन्त्र्यं प्राप्तुं भवता किमपि चिन्तनं प्रयत्नः वा कृतः अस्ति किम्?” एनं मार्मिकं प्रतिप्रश्नं श्रुत्वा उपहासकर्ता तूष्णीं जातः। परं तस्य विचारचक्रम् आरब्धम्। अपरेद्युः सः साधुना मिलितवान् पृष्टवान् च, “अद्यपर्यन्तम् अहं स्वचिन्तनं न कृतवान्। परम् अधुना अहं किं करोमि इति कृपया कथयतु।” साधुः उदतरत्, “ वर्षद्वयं, मौनं भूत्वा नामस्मरणं करोतु।” तदारभ्य तेन दृढनिश्चयेन मौनं स्वीकृतम् बलेन नामस्मरणम् आरब्धं च। मौनावधिः समाप्तः। यदा साधुः मिलितः तदा अश्रुपूर्णनेत्रयुतः सः उक्तवान्, “ मया सर्वं प्राप्तम्। नाम्ना अहं यत् प्राप्तवान् तदपेक्षया अन्यत् सर्वं व्यर्थम्।” निश्चयपूर्वकं नामस्मरणस्य एतादृशं विलक्षणं सामर्थ्यं विद्यते।
- नाम्नि भवतु चित्तम्। तदेव मन्यतां सत्यम्।। मनसि भवतु इदं निश्चयम्। तेन भवेत् मनः निर्भ्रान्तम्।।***
ऑगस्ट13 – देहभोगाः तथा च आनन्दः स्वहितार्थम् अन्येषां साहाय्यं करणीयम् इति भवतः आवश्यकम्। भवद्भिः न वक्तव्यं यत् भगवता एषः एतादृश्याम् अवस्थायां स्थापितः अस्ति। तस्य विरुद्धं कथं गन्तव्यम्? परमात्मनः विरुद्धं भवान् गन्तुं न शक्नोति एव। परं स्वहितार्थं स्वदेहबुद्धिं निर्वापयितुम् अन्येषां साहाय्यकरणम् आवश्यकम्। यथा बालेभ्यः उपायनं दत्तं चेत् तेषां गृहजनानां पर्यन्तं तत् गच्छति तथैव आर्तजनसाहाय्यं परमात्मानं प्रति प्राप्नोति। परमात्मना प्रेषितेषु व्याधिषु आपत्सु च आनन्दं मन्यताम्। कस्यचित् रुग्णस्य सेवां कुर्वन्तु इति अहं कथयामि चेत् भवद्भिः आनन्देन क्रियते। सद्गुरुणा कथितं कार्यम् इति मत्वा आनन्दः एव अनुभूयते। परमात्मनः इच्छया आगन्तृभिः व्याधिभिः आपदाभिः च किमर्थम् आनन्दः न भवेत्? परं परमात्मा आत्मनः सर्वथा हितकर्ता एव इति भवतः दृढविश्वासः क्व अस्ति? परमात्मना प्रेषिताः आपदः। ताः तम् एव ‘दूरीकरोतु’ इति कथं कथनीयम्? अन्यच्च भोगः तु भोक्तव्यः एव। अधुना न भुञ्ज्महे तर्हि अनन्तरं भुञ्जनीयं भविष्यति एव। देहः सुस्थित्यां भवति चेत् तं विस्मरामः इति भवन्तः कथयन्ति। परं भवन्तः कदापि देहं न विस्मरन्ति। सामान्यतः तस्य स्मरणं भवति एव। परं यदा पीडा भवति तदा तत् विशेषत्वेन भवति। व्याधिः तथा च तस्य पीडा भिन्नं वर्तते। अतः व्याधिः आगच्छति चेत् अपि मनुष्यः आनन्दे भवितुम् अर्हति। यस्य समीपे भगवान् वर्तते सः आनन्देन जीवितुं शक्नोति। अतः यः आनन्देन जीवितुम् इच्छति तेन नामजपः करणीयः भगवदनुसन्धाने भवितव्यम् च। अनुसन्धानं किम् इति उच्यते? उत्थाने, उपवेशने, जपने, पठने, जल्पने, विनोदे च इति एतासु सर्वासु क्रियासु भगवता सह सम्बन्धः तस्य सन्दर्भः च भवेत् इति एव अनुसन्धानम्। भगवतः अनुसन्धानम् आत्मानं भगवन्तं प्रति नयति। ‘अहम् अनुसन्धानं रक्षयामि,’ इति मनसः निश्चयः करणीयः। जगतः प्रवाहे विपरीतं तरणम् इत्युक्ते अनुसन्धानम्अनुवर्तनीयम्। भगवतः भूत्वा प्रपञ्चः करणीयः इति कला एव। भक्तः एनां कलां सम्यग् अवगच्छति अतः भगवन्मयः भूत्वा सर्वजगति आनन्दम् एव अनुभवति।
- देहस्य सुखदुःखानि प्रारब्धे स्थापयामः तथा च नामस्मरणं प्रयत्नेन प्रेम्णा कुर्मः।****
ऑगस्ट14, शाश्वदानन्दः केवलं भगवत्समीपे जगति प्रत्येकं जनः स्वयम् आनन्दं प्राप्तुं प्रयतते। किं बहुना आनन्दं नेच्छामि इति एतादृशः वक्ता दुर्लभः। इत्युक्ते प्रत्येकं जनः आनन्दम् इच्छति एव। तर्हि एतावता परिश्रमेण अपि सः आनन्दं समाधानं च किमर्थं न प्राप्नोति? अस्य कारणं वर्तते यत् आनन्दः एकं परमेश्वरं विहाय कुत्रापि न उपलभ्यते। तेन तस्य सर्वे प्रयत्नाः व्यर्थाः। तदानन्दार्थं ‘भगवन्तम् अहमिच्छामि’ इति मनसा मन्तव्यम्। तदर्थम् अस्माभिः सर्वैः नाम जपनीयम्। अस्माकं मनः भगवत्चरणाभ्यां दृढं योजनीयम् तथा च देहः प्रारब्धप्रवाहे त्यक्तव्यः। क्वचित् सः सुखे भवेत् वा क्वचित् दुःखे। क्वचित् सः बहूनि दिनानि सम्यक् यापयेत् क्वचित् निमज्जमानः भवेत्। परं कस्याम् अपि अवस्थायां तस्य आनन्दः स्थिरः भवेत्। भवन्तः सर्वे उत्तमाः जनाः सन्ति, भगवन्नाम जपन्ति च इति अहं जानामि। परं नाम्नः प्रेम भवत्सु न वर्तते इति दृष्ट्वा महत् दुःखं भवति। भवन्तः चिन्तयन्तु यत् नामजपने किम् अवरोधं करोति? परिवेशस्य अवरोधः वा? परम् अत्र मन्दिरे निवसन्तॄणां कृते परिवेशस्य अवरोधः न भवितुम् अर्हति। भवन्तः अत्र आनन्देन निवसन्तु। भुञ्जन्ताम्। ‘राम राम’ इति वदन्तु, इति एव मया कथ्यते। परम् एते जनाः अपि यदि नामजपने परिवेशस्य अवरोधः वर्तते इति वदन्ति चेत् बहिस्थजनान् अहं किं वक्तुं शक्नोमि? वस्तुतः मनुष्यः न आनन्दार्थम्, अपि तु वस्तुप्राप्त्यर्थं जीवति। वस्तु नश्वरम् अतः तस्य रूपम् अशाश्वतम्। अर्थात् तस्मात् प्राप्तः आनन्दः अपि अशाश्वतः एव। वास्तविकः आनन्दः न वस्तुनि अपितु तस्मात् परं विद्यते। अस्माभिः भगवान् आनन्दः याचनीयः। सः वस्तु आनन्दं च ददाति चेत् उत्तमम्। परं शाश्वतः आनन्दः वस्तु विहाय एव भवति। कस्मिञ्श्चित् स्थानके बीजफलानि उत्तमानि लभ्यन्ते इति मत्वा तान् क्रेतुं कश्चन कियन्तं समयं यापयेत्? यावत्पर्यन्तं यानं तत्र तिष्ठति तावत्पर्यन्तमेव। तद्वत् आनन्दमार्गे अवरोधनं कुर्वातां वस्तूनाम्अनुधावनं न समीचीनम्। आनन्देन सह योजयितॄणां विषये वयं चिन्तयामः। नामस्मरणे भवामः। अद्य यत् अभवत् तद्विषये न दुःखं करणीयम्। श्वः किं भविष्यति तद्विषये चिन्ता न करणीया। अद्य अस्माकं कर्तव्यम् आनन्देन करणीयम्।
- समयः प्राप्यते चेत् व्यर्थं जल्पने न योजनीयः नामस्मरणे योजनीयः।****
ऑगस्ट 15 – वृत्तेः समाधानं हि भगवत्कृपायाः चिह्नम्। अस्माकं देहः पञ्चभूतानां भवति। अस्मिन् ‘कोऽहम्’ इति द्रष्टव्यम्। यत् नश्यति तत् कदापि अहं भवितुं न अर्हति। तेन पञ्चभूतानि‘अहं’ न इति निश्चितम्। यः शाश्वतः सः सच्चिदानन्दः। मया भगवत्स्वरूपेण भवितव्यम् इति प्रत्येकं जनस्य सुप्ता वा व्यक्ता मनीषा वर्तते। स्वल्पः वा ‘अहं’ इति भवति अतः एतादृशं भाव्यते।भगवत्स्वरूपम् आनन्दमयं वर्तते। वयं सर्वे आनन्दे भवितुम् इच्छामः। अहम् आनन्दात् विभक्तः भवामि चेत् कुत्रचित् प्रमादः जातः इति मन्यन्ताम्। अपूर्णां सृष्टिं पूर्णां कर्तुं भगवता स्वांशरूपेण मनुष्यस्य उत्पत्तिः कृता। आत्मनः आनन्दे विघ्नकर्तॄन् विषयान् वयं जानीमः चेत् आनन्दे अवरोधः न भवेत्। अस्मिन् मार्गे चोराः विद्यन्ते इति यदि वयं जानीमः तर्हि सिद्धतां कृत्त्वा एव वयं गच्छामः। यः भक्तः जातः सः विघ्नैः न पीड्यते। भगवतः कार्यम् इति मत्त्वा यदि कुर्मः तर्हि पीडा न बाधते। आनन्दस्य उत्तमः सङ्ग्रहः भगवतः समीपे वर्तते। नाटके राज्ञः अभिनयं कर्तुकामः नटः यथा वास्तवे ‘अहं भिक्षुकः’ इति अवगम्य कार्यं करोति तथा आत्मनः सत्स्वरूपं ज्ञात्वा प्रपञ्चः करणीयः। नश्यत्सु वस्तुषु वयं स्निह्यामः। लघुलघुषु विषयेषु अभिमानं धरामः। अत्रैव वयं प्रमादान् कुर्मः। यत् अहं नास्मि तदेव भवितुम् इच्छामि। तत्रैव सुखं पश्यामः। कामधेनोः समीपे वयं विषयान् कामयामहे । अनन्तरं शोचामः। तेन कः लाभः? यः परमार्थस्य ज्ञाता सः एव ज्ञाता। परमार्थः इत्युक्ते अजागलत्वं न। नैकान् बुद्धिमतः विद्वज्जनान्आकर्ष्टुम् इच्छामः चेत् बालिशत्वं भवितुं न अर्हति। विद्वज्जनाः वेदान्तं कठिनं कृत्त्वा जगत् वञ्चयन्ति। तेन सामान्यजनाः वेदान्तम् अस्माकं कृते नास्ति इति चिन्तयन्ति। परम् इदम् अयोग्यम्। वेदान्तः सर्वेषां कृते, मनुष्यमात्राणां कृते वर्तते। वेदान्तं विना मनुष्यः जीवितुं न शक्नोति। गृहस्य छदेः अधः यथा सर्वे लघवः प्रकोष्ठाः विद्यन्ते तथा वेदान्ते सर्वाणि शास्त्राणि निहितानि भवन्ति। शास्त्राणां मार्गाः चित्तवृत्तेः विभ्रमणं वारयितुं सन्ति।ते वृत्तिं स्थिरीकुर्वन्ति। तत्र नाम अपि संयोज्यते चेत् भगवत्पर्यन्तं शृङ्खला निर्मीयते। वयं व्यवहारार्थं न अपि तु भगवतः कृते जन्म प्राप्तवन्तः। अतः किञ्चित्वस्तु नास्ति इति विचिन्त्य दुःखम्अकृत्त्वा अन्यत् वस्तु वर्तते इति विचिन्त्य समाधाने भवामः। समाधानं केवलं भगवत्समीपे प्राप्यते। तत् प्राप्तुं कस्यापि अवरोधः भवितुम् न अर्हति।
- वृत्तेः समाधानं भगवत्कृपायाः चिह्नम्। तदर्थं भगवतः सततम् अनुसन्धानम् आवश्यकम्।****
ऑगस्ट16, - नाम्ना विना केनापि वास्तविकं समाधानं न लभ्यते। मनुष्यः प्रमादं करोति, ‘देव, क्षमां कुरु’ इति वदति च। परं पुनः पुनः प्रमादान् अनुवर्तयति एव। न इदं योग्यम्। एतेन देवेन सः न क्षाम्यते। ‘देव, क्षमां कुरु’ इति वचनम् एतादृशं सामान्यं जातम् अस्ति, यत् तस्य अर्थम् एव वयं न जानीमः। यदि मनुष्यः तस्य अर्थम् अज्ञास्यत् तर्हि पुनः पुनः प्रमादान् न अकरिष्यत्। अनया पद्धत्या वयं बुद्धिबलेन परमेश्वरं वञ्चयितुं न शक्नुमः। बुद्धिबलेन वयं मनुष्यम् अपि वञ्चयितुं न शक्नुमः तर्हि परमेश्वरं कथं वञ्चयितुं शक्नुमः? बुद्धेः साहाय्येन परमेश्वरं प्राप्स्यामि इति कथनं कदापि न योग्यम्। अतः शरणगमनात् विना मार्गः न विद्यते। तदेव भवन्तः कुर्वन्तु। समाधानं परिस्थितिं न अवलम्बते। कियन्त्यपि पुराणानि पठितानि, ग्रन्थाः मुखोद्गताः, प्रवचनानि श्रुतानि च तथापि मनः समाधानं प्राप्तुं न शक्नोति। तदनुसारम् अल्पं वा आचरणम् आवश्यकम्। नाम्नि एव भवितव्यम्। नाम्ना विना अन्येन केनापि पूर्णता भवितुम् न अर्हति। नाम्ना विना वास्तविकं समाधानं न लभ्यते। अतः भवन्तः भगवन्तम् अनन्यभावेन शरणं गत्वा तस्य नाम सरसं जपन्तु। सततं जपन्तु। कश्चित् दरिद्रः ‘वारकरि’संज्ञकः पण्ढरपुरं गच्छन् आसीत्। महता कष्टेन सः पद्भ्याम् एव गच्छन् आसीत्। मार्गे एकं रेलमार्गप्रवेशद्वारं प्राप्तम्। तत् पिहितम् आसीत्। अतः सः तत्र संस्थितः। सहसा तत्र एकं यानम् आगतम्। अन्तः कश्चन स्थूलः श्रीमान् च जनः उपविष्टः आसीत्। सः अपि पण्ढरपुरं गच्छन् आसीत्। वारकरिसंज्ञकस्य मनसि आगतम्, “हे देव, अहं भवतः एतादृशः निस्सीमः भक्तः। परं मम एषा अवस्था। एषः लुण्ठकः वणिक्। तस्मै सर्वम् ऐश्वर्यं दत्त्वा तस्य यात्रां सुखेन कारयति। अहो भवतः न्यायः!” एतस्मिन् अन्तरे एव यानम् उद्घाट्य द्वौ सेवकौ तं श्रीमन्तं जनं तस्य हस्तौ स्वस्कन्धयोः संस्थाप्य अवतारितवन्तौ। सः पङ्गुः आसीत्। वारकरिसंज्ञकः चिन्तितवान् यत् पङ्गुतया यानसुखेन पण्ढरपुरगमनापेक्षया दरिद्रावस्थायां पद्भ्यां गमनं श्रेयस्करम्। आत्मनः समीपे यत् नास्ति तत् यस्य समीपे वर्तते सः सुखी इति वयं चिन्तयामः। परं तथा न भवति। तस्य दुःखं वयं न जानीमः। सः यदि आत्मानं सुखी मन्यते तर्हि सः सुरामत्तवत् मत्तः एव इति मन्यन्ताम्। विद्यमानायां परिस्थित्यां समाधानम् एव विषयाणां निग्रहणं शिथिलीकर्तुम् उपायः। स्वपरिवेशः परमात्मनः इच्छया आगतः वर्तते इति वयं चिन्तयामः। तेन सुखदुःखयोः आवेगः मन्दः भवेत्।
- यस्य समाधानं भगवति अवलम्ब्यते तस्य समाधानं कस्याञ्श्चित् अपि परिस्थित्यां स्थिरं भवति।******
ऑगस्ट 17 - निष्ठायाः महान् परिणामः विद्यते। भगवति पूर्णां निष्ठां संस्थाप्य प्रपञ्चे स्वकर्तव्यानि सम्यक् कुर्मः चेत् दुःखस्य प्रसङ्गः न उद्भवति। अस्माकं प्रदेशे प्रतिसप्ताहं विपणिः वर्तते। कौचित् दम्पती एतादृशं विपणिं गतवन्तौ। सायङ्कालः जातः। तौ द्वौ परस्परं वार्तां कृतवन्तौ, “बहु विलम्बः जातः। रात्रौ न गच्छावः।अद्य अत्रैव उशित्वा श्वः प्रभाते गमिष्यावः।” तयोः संभाषणं द्वौ धूर्तौ लुण्ठकौ श्रुतवन्तौ। तौ उक्तवन्तौ, “भवन्तौ किमर्थं बिभ्यतः?आवां भवद्भ्यां सह स्वः किल। भवद्योः ग्रामतः अग्रिमं ग्रामं गन्तुकामौ। श्रीरामसाक्ष्या आवां सत्यं कथयावः। वयं संभूय गमिष्यामः।” दम्पती तौ दुर्जनौ इति न चिन्तितवन्तौ। अग्रिमे मार्गे यदा ते कञ्चित् खातं गतवन्तः तदा तौ लुण्ठकौ तं पुरुषं वृक्षे बद्धवन्तौ। महिलायाः आभूषणानि अपहृतवन्तौ। यदा तस्याः शाटिकां स्पृष्टवन्तौ तदा सा श्रीरामम् आर्ततया आहूतवती, “हे राम, एतयोः विश्वस्य अहम् आगतवती। भवतः साक्षम् एताभ्याम् उक्तम्। भवतः नाम्ना तौ शपथवचनम् उक्तवन्तौ। तेन वचनेन अहम् आगता। अधुना भवान् एव त्राता।” एतस्मिन् अन्तरे भुशुण्डिध्वनिः आगतः। द्वौ सैनिकौ धावन्तौ आगतवन्तौ। लुण्ठकौ पलायितौ। सैनिकौ दम्पद्भ्यां तयोः वस्तूनि आभूषणानि च दत्तवन्तौ। तयोः गृहं प्रापितवन्तौ च। गृहं प्राप्य सा महिला उक्तवती, “ तथैव मा गच्छताम्। गुडं जलं च गृह्णीताम्।” तौ उक्तवन्तौ, “ मास्तु। बहु कार्याणि सन्ति।” सा उक्तवती, “ किञ्चित् तिष्ठताम्। अचिरात् एव आनयामि।” सा अन्तः गतवती। तस्मिन् अन्तरे एव तौ गुप्तौ जातौ। एतादृशी निष्ठा आवश्यकी। अद्यपर्यन्तं कियत्सु जनेषु एतादृशाः समरप्रसङ्गाः आगताः स्युः! परं तेषां निष्ठया तेभ्यः ते पारं गतवन्तः। सगुणभक्तेः महान् लाभः यत् यदा वयं श्रीरामचरणयोः मस्तकं स्थापयामः तदा अस्माकं भावनाः तरङ्गायन्ते। एतस्मिन् अन्तरे रामः अस्माभिः कथनीयः, “राम, भवद्विना मम कोऽपि नास्ति। त्वदीयः इति मत्वा मां स्वीकरोतु। अहं दुर्गुणी स्याम्। परं मां न त्यजतु। शरणागतः अस्मि।” भगवच्छ्रद्धया उत्पन्नः धीरः अस्माकं स्वभावे आवश्यकः। यः भगवति निष्ठां संस्थापयति तस्मिन् सर्वस्य जगतः निष्ठा दृढीभवेत्। जनाः देवम् अपि अपसार्य एनं पुरुषं भजन्ति। निष्ठायाः महान् परिणामः विद्यते।
- भगवति पूर्णां निष्ठां संस्थाप्य प्रपञ्चं कुर्वन्तु। निश्चयेन सुखिनः भविष्यन्ति।*****
ऑगस्ट19 – वयं देवस्य आवश्यकतां तीव्रतया अनुभवामः किम्? कश्चित्जनः प्रवासार्थं प्रस्थितः। सर्वाणि वस्तूनि तेन स्वीकृतानि। तमाखुयुक्तं ताम्बूलं सः खादति स्म। तानि वस्तूनि अपि तेन स्वीकृतानि। यानम् आरब्धम्। किञ्चित् कालानन्तरं ताम्बूलं खादितुं सः वस्तूनि निष्कासितवान्। तदा तेन अवगतं यत् सुधाकरञ्डकः विस्मृतः। पुनः पुनः सः स्यूतम् अन्विष्टवान्। तस्य मनः निरन्तरं (क्रन्दते)चुटपुटायते स्म। कश्चित् वस्तुपतनस्य ध्वनिः आगतः चेत् सुधाकरण्डकस्य पतनम् इति सः अचिन्तयत्। कश्चन तेन सह अभाषत चेत् सः ‘सुधाम् इच्छति किम्?’ इति पृच्छति इति सः अमन्यत। यस्मिन् विषय़े वयं स्निह्यामः तं विषय़ं वयं तीव्रतया इच्छामः। यदि तत् वस्तु न विद्यते तर्हि मनः सततं दुःखायते। तद्वत् ईश्वरस्य विषये भवति किम्? गृहे विद्यमानानि सर्वाणि वस्तूनि वयम् अस्माकम् इति वदामः। पत्नी, पुत्राः अन्यानि सर्वाणि वस्तूनि च इत्येतेषां विषये वयं सर्वं विवरणं जानीमः। परं देवगृहे स्थितस्य देवस्य विषये वयम् आत्मीयत्वम् अनुभवामः किम्? एतादृशी यदि अस्माकं स्थितिः तर्हिः देवस्य प्रेम मनसि कथं भवेत्? यदि देवे प्रेम इच्छामः तर्हि जगतः आशा त्यक्तव्या। व्यवहारः न त्यक्तव्यः। परम्अस्माकं विषयासक्ता वृत्तिः भगवन्मार्गम् अवरुणद्धि। अतः सा भगवतासह योजनीया। भगवति सत्या रुचिः उत्पादनीया। देवं विना सर्वम् अवरुध्यते इति भाव्यम्। येन सह वयं वासं कुर्मः तस्यैव प्रेम भवति। यस्य प्रेम भवति तमेव वयं तीव्रतया इच्छामः। वयम् अनुभवामः यत् सहवासे कियत् प्रेम वर्तते। प्रवासे कश्चन सुजनः मिलति। तेन सह वयं वार्तां कुर्मः, उपविशामः च। तस्मिन् प्रेम भवति। स्वस्थाने सः अवतरति चेत् वयं वदामः,” भवता सह वासे समयः आनन्देन गतः। भवता सहवासः अधिकः अभविष्यत् तर्हि सम्यक् अभविष्यत्। अल्पसहवासेन एतादृशं प्रेम वर्तते चेत् भगवतः निरन्तरसहवासेन तस्मिन् कियत् प्रेम वयं प्राप्स्यामः। अतः तस्य नाम्ना सहसततं वासः भवेत्। भगवता सहवासे स्थातव्यम् इत्युक्ते ‘अहंभावं’ विस्मृत्य कर्ता कारयिता च सः एव इति भावः दृढः करणीयः। यत् यत् कर्म भवति तत् तस्य कृपया एव इति मन्तव्यम्। भवतः आर्तंम् आह्वानं श्रुत्वा सः आनन्देन आगच्छेत्। नामजपेन किं भवति इति मनसि न आनयन्तु। नामजपे कियती शक्तिः वर्तते तत् नामजपेन एव पश्यन्तु। यः नामजपे आसक्तः सः भगवन्तम् आत्मीयं करोति इत्यत्र न शङ्का वर्तते।
- नामस्मरणं कुर्वन् मनुष्यः क्रमेण प्रथमं मुमुक्षुः अनन्तरं साधकः अग्रे सिद्धः भवति।*****
ऑगस्ट21 – सुखम् आत्मनि एव निर्भरः। सुखम् आत्मनः एव उत्पद्यते। तत् न जगतः प्राप्नोति। मनुष्यः जगतः सुखं प्राप्तुं प्रयतते,परं सः निष्फलः भवति। अस्य कारणं वर्तते यत् सुखं बाह्यतः न प्राप्तव्यं अपि तु स्वतः एव प्राप्तव्यम्। यावत्पर्यन्तं वयं स्मः तावत्पर्यन्तं जगत् विद्यते, इत्यर्थस्य काचित् लोकोक्तिः वर्तते। जगतः अस्तित्वम् आत्मनः अस्तित्वे एव अवलम्बितम्। चिन्तयन्तु, अस्माकं गृहे विद्युद्दीपाः वर्तन्ते। पिञ्जनोदनात् एव ते प्रकाशन्ते। परं विद्युद्गृहे एव दोषः भवति चेत् पिञ्जनोदनादपि दीपाः न प्रकाशेरन्। उगमस्थाने विद्युद्गृहे यावत्पर्यन्तं दोषनिराकरणं न भवति, तावत्पर्यन्तं गृहदीपानां समीकरणेन न लाभः। तद्वत्यावत् आत्मनि स्वदोषपरिहरणं न भवति तावत्पर्यन्तं बाह्यतः सुखं न शक्यम्। समुद्रः पृथिव्यां सर्वदूरपर्यन्तं प्रसृतः परं क्वचित् रुचिः अल्पलवणा इति भवति किम्? तद्वत् विश्वे कुत्रापि सुखसम्बन्धिनः अनुभवाः समानाः। इत्युक्ते सुखं न जगति परं स्वात्मनि एव अवलम्बितम्। स्वपरिष्करणं एव तस्य उपायः। इदं कथं करणीयम्? ईश्वरेण मनुष्याय सम्यगसम्यगवगमनस्य बुद्धिः तु दत्ता वर्तते। सा अन्येभ्यः प्राणिभ्यः नास्ति। इमां बुद्धिम् उपयुज्य अस्माभिः दुष्कृतयः अकर्तव्याः। तथा च सुकृतयः करणीयाः। दुष्कृत्यकरणं सर्वैः शक्यम्। यतो हि तत्र कृतेःअकरणम् एव । इदं कृतिकरणस्यापेक्षया सरलम्। उत्तमकृतिकरणं सर्वैः न शक्यम्। सारांशः यत् सुखी भवितुं मार्गः इत्युक्ते विमृश्य दुष्कृतयः न करणीयाः सुकृतयः शक्त्यनुसारं करणीयाः च। तथा अनयोः करणसमये भगवान् स्मरणीयः। एतेन एव सुखं प्राप्तुं शक्नुमः। जगतः सुखं प्राप्यते इति तु मिथ्या कल्पना। तुज आहे तुजपाशी। परि तू जागा चुकलाशी।।( भवतः भवत्समीपे एव वर्तते। परं भवान् अन्यत् स्थानम् आगतः।) वयं जगतः इच्छानुसारं न व्यवहरामः, न तु भगवतः इच्छानुसारम्। अतः जगता अस्माकम् इच्छानुसारं व्यवहर्तव्यम् इति कथं वदामः? गीतायां भगवान् वदति ‘अहमेव मनः’। भगवन्तं विहाय मनसः सिद्धता न भवितुमर्हति। अतः भगवान् दृढः निग्रहणीयः। अस्माभिः समाधानेन भवितव्यम्। भगवतः सदा सर्वकालं च स्मरणं करणीयम्। वृत्तिः स्थिरा कर्तव्या। स्थिरां वृत्तिं समाधानम् अनुधावति।
- अस्मभ्यम् इच्छानुसारं वस्तूनि दातव्यानि इति न भगवतः कृपा परं विद्यमानायां परिस्थित्यां समाधानरक्षणमेव तस्य सत्या कृपा।****
ऑगस्ट22, - समाधानम् एव परमेश्वरस्य वास्तवम् उपायनम्। प्रत्येकं जनः चिन्तयति, ‘अहं कस्यापि निन्दां न करोमि। धर्मेण व्यवहरामि। तथापि अहं दुःखी। परं दुर्जनाः सुखिनः दृश्यन्ते। इदं कथम्?’ कियान् अपि सात्त्विकः जनः भवेत् तस्य मनसि एतत् चिन्तनम् उन्मिषति एव। यः नाम अस्पृश्यम् इव चिन्तयति सः सुखी, तथा च नाम येन निरन्तरं कण्ठे धृतं सः दुःखी इति दृष्ट्वा भगवान् न्यायी इति कथं वक्तव्यम् इति बहूनां मनसि शङ्का वर्तते। परम् अस्य रहस्यं यदि वयं पश्यामः तर्हि द्रष्टुं शक्नुमः यत् ये सुखिनः दृश्यन्ते ते अन्तरङ्गे दुःखे निमग्नाः सन्ति। विषयाः तैः बहवः प्राप्ताः। परं तेन मनसः शान्तिः प्राप्ता चेत् लाभाय। शृङ्गाटकौ द्वौ मार्गौ भवतः। एकः उत्तमः परम् अस्माकं ग्रामं न नयति। अन्यः कण्टकाकीर्णः अस्माकं ग्रामं नयति। तर्हि केन मार्गेण वयं गच्छामः? गीतायां भगवता गन्तॄणां जनानां द्वौ वर्गौ कथितौ। केचन साङ्ख्यमार्गिणः। अन्ये कर्मयोगिनः। येषां स्वभावतः वासना न्यूना ये इन्द्रियाणि नियन्ते, जन्मतः ये सिद्धाः च ते साङ्ख्यमार्गिणः। येषां वासनाः बह्व्यः, ये इन्द्रियाधीनाः परं भगवान् वर्तते इति मन्यन्ते च ते अस्मत्सदृशाः सामान्यजनाः, कर्मयोगिनः। साङ्ख्यानां साधनामार्गः सूक्ष्मः उच्चस्तरीयः च। अस्माकं साधनामार्गः स्थूलः, सरलः, सुखकारकः च। साङ्ख्यः भगवन्तं शीघ्रं प्राप्नोति। वयं क्रमेण गच्छामः। अतः सामान्यजनानां मार्गः कः? सः मार्गः एतादृशः – यावत्पर्यन्तं वासना विद्यते तावत्पर्यन्तं योग्यमार्गेण तां तृप्तां कर्तुं प्रयत्नाः करणीयाः। परं सृष्ट्यां सर्वाः घटनाः ईश्वरेच्छया प्रवर्तन्ते अतः अस्माकं प्रयत्नानां फलम् अपि ईश्वरे अवलम्बितं विद्यते इति मनसि निधाय समाधानेन भवितव्यम्। दशजनान् यदि वयं तेषाम् असमाधानस्य कारणं पृच्छामः तर्हि ते भिन्नभिन्नकारणानि कथयन्ति। अनेन वयम् अवगच्छामः यत् जगति किमपि वस्तु समाधानं न ददाति। समाधानस्य शास्त्रं भिन्नम् एव वर्तते। तत् प्रपञ्चात् शिक्षितुं न शक्नुमः। अत्यल्पवस्तुयुताद् जनात् अत्यधिकवस्तुयुतजनपर्यन्तं प्रत्येकं जनस्य समीपे किमपि न्यूनं विद्यते एव। परं विचित्रं यत् प्रत्येकं जनः चिन्तयति यत् मम समीपे यत् न विद्यते तस्मिन् एव समाधानं विद्यते। अतः तस्य दुःखं निरन्तरं भवति। भगवन्तं विना वैभवम् ऐश्वर्यं वा कदापि सुखं समाधानं च दातुं न शक्नोति।समाधानम् एव परमेश्वरस्य वास्तवम् उपायनम्। तत् प्राप्तुम् उपायः विद्यते भगवतः स्मरणम् इति।
- प्रत्येकं जनाय तस्य आवश्यकतानुरूपम् एव भगवान् यच्छति। अतः यत् वर्तते तेन एव समाधानं प्राप्तव्यम्।*****
ऑगस्ट23,- पठनस्य आवश्यकता मर्यादा च। धर्मग्रन्थान् सत्पुरुषाणां ग्रन्थान् च वयं बहु प्रेम्णा पठामः कथयामः च। परं तथा कृतिं न कुर्मः अतः देवस्य अप्रियाः भवामः। सत्पुरुषाणां ग्रन्थाः प्रियजनपत्रसमं मनसा पठनीयाः। एषः ग्रन्थः मम कृते एव कथितः अस्ति, सः व्यवहारे आनेतुं कथितः अस्ति च इति मत्वा पठनीयः। ग्रन्थलेखकस्य तीव्रा इच्छा वर्तते यत् तदनुसारं जनाः आचरेयुः। तट्टीकापठनसमये मूलग्रन्थे विद्यमानः मतितार्थः अवधातव्यः। अनुवादकर्ता स्वस्य किमपि तत्र योजयति, अतः मूलग्रन्थपठनं सर्वदा उत्तमम्। सत्पुरुषाणां ग्रन्थाः मातृदुग्धवत् तथा च अनुवादाः तु धात्रीदुग्धवत् सन्ति। इदं भिन्नत्वम् अवधातव्यम्। नैकेषां कृते पठनं व्यसनम् एव भवति। वृथा पठने न कोऽपि अर्थः। केवलं पठनेन न लाभः। अधिकं पठामः चेत् संभ्रमः एव वर्धते। कः पठेत्? यस्य पाचनसामर्थ्यं विद्यते सः पठेत्। अन्यैः अधिकं न पठनीयम्। तत्र अपि वृत्तपत्रपठने समययापनम् इत्युक्ते स्वयमेव जगतः गृहे आह्वानम्। पठितस्य मननम् आवश्यकम्। मननेन तत् रक्तगतं भवति। पठनं साधना च युगपत् प्रचलेताम्। तेन साधकः पठनस्य वास्तवम् अर्थं जानाति, आनन्दम् अनुभवति च। साधना पठनं च यदि युगपत् भवतः तर्हि साधकः न कदापि पृष्ठतः भवेत्। उपनिषदः, गीता, योगवासिष्ठम् इत्यादीनां वेदान्तपूर्णानां ग्रन्थानां पठनम् अवगमनं च आत्मनः उपासनायै लाभाय। गीता तु सर्वग्रन्थानां माता। प्रवृत्तिनिवृत्त्योः मध्ये कर्मयोगकर्मसंन्यासयोः मध्ये च समन्वयार्थं गीता कथिता इति मनसि निधाय सा पठनीया। वेदान्तस्य आचरणेन विना न लाभः। हितकारकविषयः आचरणीयः एव। चिन्तयन्तु, वयं ग्रामान्तरं गच्छामः। मार्गः सुदीर्घः। मार्गे कश्चन ज्ञाता मिलति। सः अजमार्गं दर्शयति। तेन वयं शीघ्रं प्राप्स्यामः। तथैव उपासनायां स्वदोषाः स्वेन न ज्ञायन्ते। आत्मनः मनः संयतं न विद्यते। तदा वयं गीतापठनेन स्वदोषान् अवगन्तुं शक्नुमः। यदि स्वदोषान् जानीमः तर्हि शीघ्रं परिष्करणम् अपि शक्यम्।
- धर्मग्रन्थं किमर्थं पठामः? साध्यं साधनं च ज्ञात्वा तदनुसारं कृतिं कर्तुम्। *****
ऑगस्ट24 – यत्र सत्पुरुषाः तत्र समाधानं भवति एव। केचन सत्पुरुषाः बाह्यतः अज्ञानिनः परम् अन्तरङ्गतः ज्ञानिनः सन्ति। वास्तवं यत् सत्पुरुषान् बहुधा बाह्यतः अवगन्तुं न शक्नुमः। सत्पुरुषाणाम् आत्मीयाः भूत्वा, तैः कथितां साधनां कृत्वा वा तान् सम्यग् अवगन्तुं शक्नुमः। मनसः विषयान् त्यजामः चेत् तान् परिचिनोतुं शक्नुमः। आत्मनः दोषाः यावत्पर्यन्तं न नश्यन्ति; अन्येषां दोषदर्शनं न समाप्नोति; तावत्पर्यन्तं सत्पुरुषाणां पूर्णं ज्ञानं न भवितुम् अर्हति। सत्पुरुषाणां दोषदर्शनम् इत्युक्ते स्वदोषोद्घाटनमिव। सत्पुरुषः हरितचम्पकपुष्पवत् वर्तते। सुन्दरं गन्धं तु आयाति परं हरितपर्णेषु पुष्पं न दृश्यते। तद्वत् यत्र सत्पुरुषाः सन्ति तत्र आनन्दः समाधानं च विद्येते परं ते सामान्यजनैः सदृशं व्यवहरन्ति दृश्यन्ते च अतः, तान् अवगन्तुं न शक्नुमः। वेदान्तं वयं केवलं जनान् कथयामः परं सत्पुरुषाः तम् आचरन्ति। दुर्धरेषु प्रसङ्गेषु ते न विचलन्ति। सत्पुरुषाः विगतसंशयाः सन्ति परं वयं सदा संशये भवामः। तेन ते समाधानं प्राप्नुवन्ति। वयं तु असमाधाने पतामः। संशयं नाशयितुं वृत्तिः परिवर्तनीया। सत्पुरुषेभ्यः यत् रोचते तत् अस्मभ्यम् अपि यदि रोचते तर्हि तदेव तेषां समागमः। ‘अहं करोमि’ इति भावः बन्धनस्य कारणम्। तस्य नाशः इत्युक्ते गुरोः भवितव्यम्। कदाचित् प्रमदति कदाचित् समीचीनं करोति सः साधकः। यः सदा समीचीनमेव करोति सः सिद्धः। केवलम् इन्द्रियदमनं न सर्वस्वम्। यस्य कृते तत् वर्तते सः अवधातव्यः। यस्य निरन्तरं किमपि करणस्य एव अभ्यासः तेन किञ्चित् कालं किमपि न करणीयम्। अनन्तरं भगवतः अनुसन्धानं पठनीयम्। यदि वयं परीक्षायाम् अनुत्तीर्णाः भवामः तर्हि पुनः लिखामः। परं भगवतः अनुसन्धानप्रयत्ने यशः न लभते चेत् तत् त्यजामः इति न वरम्। ईश्वरस्य वचनं पितृवचनसदृशम्। तत्र न किमपि देयादेयम्। परं सत्पुरुषाः मातृसदृशाः। मातृसमीपे देयादेयम् भवति। यः भगवद्विषये वदति सः एव वास्तवः सत्पुरुषः। सत्पुरुषाः यत् बोधयन्ति तत् वयं स्वल्पं वा आचरामः। भगवतः अधिष्ठानम्अवधार्य प्रत्येकं कर्म करणीयम्। यत्र भगवतः स्मरणं भवति तत्र माया न विद्यते। यत्र माया अभिमानं च विद्येते तत्र भगवान् न विद्यते। दानस्य अपि महत्त्वं वर्तते। धनम् आनीय कण्ठे धरामः चेत् तत् निमज्जयेत्। तस्य योग्यं दानं कुर्मः चेत् तत् त्रायेत। भगवान् एव श्रीमान् दाता। सः श्रीमताम् अपि श्रीमान्। तदीयाः यदि भवामः तर्हि सः अस्मान् दीनान् कथम्अनुवर्तयेत्?
- सत्पुरुषाः भगवन्तं विना अन्यत्र न वर्तन्ते एव, अतः ते सत्पुरुषाः जाताः, देवस्वरूपाः जाताः च।*****
ऑगस्ट25 – वयं भगवत्कार्याय एव आगताः। यावत्पर्यन्तं वयं स्वप्ने विद्यामहे, तावत्पर्यन्तं स्वप्नः एव सत्यः इति वयं मन्यामहे। तद्वत् यावत्पर्यन्तं भगवतः सत्यत्वं वयं न सम्यग् जानीमः तावत्पर्यन्तम् इदं मिथ्या जगत् वयं भ्रमेण सत्यं एव मन्यामहे। यत् शाश्वतं भवति तदेव सत्यं वर्तते। वयं प्रमादेन अन्यमार्गेण गच्छन्तः स्मः इति यदि जानीमः तर्हि सत्यं प्रति गन्तुं शक्यते। मनः विषये योजितं चेत् समाधानं न प्राप्नुमः। समाधानं यदि भग्नं तर्हि मार्गः निश्चयेन अयोग्यः। पिपीलिका( कीटः) गुडखण्डे लग्ना चेत् ग्रीवा कर्त्यते चेदपि न त्यजति, तद्वत् वयं विषयसुखं न त्यजामः। तदर्थं किं करवाम? अनुभवेन ये जानन्ति ते एतत् विषयसुखं त्यजन्ति। येषां विषयसुखस्य आसक्तिः नष्टा ते जगत् मिथ्या इति अनुभवन्ति। अस्माकं समाधानं किमर्थं नश्यति विद्यमानाद् भिन्नम् इच्छामः अतः। वस्तु यत्र वर्तते तत्स्थानं विहाय भुवनत्रये यदि शोधयामः तर्हि न प्राप्यते, तद्वत् यस्मिन् वस्तुनि समाधानं न विद्यते तस्मिन् कियत् अपि अन्विषामः तर्हि न प्राप्नुमः। समाधानं केवलं भगवत्समीपे वर्तते। वस्तुतः अस्माकं वृत्तिः परिस्थित्या सह लग्ना अतः न स्थिरा वर्तते। तेन समाधानं न लभ्यते। मनुष्यः विद्यमानया स्थित्या जामितया सुखार्थं यत् करोति तेन दुःखमेव प्राप्नोति। अतः विद्यमानायां परिस्थित्यां समाधानम् अध्येतव्यम्। यस्मै कार्यार्थं वयम् आगताः तत् यदि पूर्णं भवति तर्हि समाधानं भवति। तेन यावत्पर्यन्तं स्वकृत्या समाधानं न प्राप्नुमः तावत्पर्यन्तं तत्कार्यार्थं वयं न आगताः इति चिन्तने का हानिः? वयं भगवतः कृते आगताः तथा च तस्य प्राप्त्या एव आनन्दः। जगति किमपि दृश्यमानं वस्तु अस्मभ्यं मनःस्वास्थ्यं न दातुं शक्नोति, न नेतुं शक्नोति। मनः यदा भगवति लग्नं तदा एव स्वास्थ्यं लभ्यते। तदर्थं भगवतः नामस्मरणं कर्तव्यं तस्य गुणवर्णनं कर्तव्यम् च। तद्विना अन्यत् विषयं न वक्तव्यम्। प्रपञ्चं मिथ्या मत्वा प्रपञ्चः करणीयः। भागवतेन एव भवितव्यम्। नाम्नः विपरीतं यत् वचनं तत्न विश्वसनीयम्। शुष्कः वेदान्तः न श्रवणीयः। प्रत्येकं नाम्ना भगवतः स्मरणं भवति अतः नाम एव सर्वस्वम् इति मन्तव्यम्। नाम्नि किं वर्तते तत् नामजपेन एव अवगम्यते। तीर्थक्षेत्रं सत्पुरुषं वा गत्वा वस्तु न प्राप्तव्यं, समाधानं प्राप्तव्यम्। इदं नामस्मरणेन एव भवति।
- प्रपञ्चस्य अनुभवः कष्टमयः परं भगवतः अनुभवः आनन्दमयः।***
ऑगस्ट26 – कारणं विना यः आनन्दः सः वास्तवः आनन्दः। जीवने कश्चन आनन्दः आवश्यकः। जीवनं तु आनन्ददायकमेव। परं वयं दुःखं किमर्थम् अनुभवामः? इत्युक्ते मनुष्यः आनन्दार्थं जीवति परं दुःखं प्राप्नोति। एतस्य कारणं वयं किं किमर्थं कुर्मः इत्येव विस्मरामः। मनुष्यः आनन्दार्थं न जीवति अपि तु वस्तुनः कृते जीवति। वस्तु सत्यं नास्ति। अशाश्वतं वर्तते। अतः तस्मात् प्राप्यमाणः आनन्दः अपि नश्वरः। ‘अहम् आनन्दे उषितुम् इच्छामि’ इति प्रत्येकं जनः वदति इत्युक्ते प्रत्येकं जनः ईश्वरं प्रति गन्तुम् इच्छति। यतो हि भगवान् आनन्दस्वरूपः विद्यते। अस्माकम् अभ्यासः जातः अस्ति यत् वयं कारणं विना आनन्दम् उपभोक्तुं न शक्नुमः। यदि कारणं न प्राप्नुमः तर्हि वयं कल्पनाराज्यं निर्मामः। तस्मात् आनन्दं भुञ्ज्महे। आनन्दं प्राप्तुमेव प्रत्येकं जनः प्रयतते। परं कारणावलम्बितस्य आनन्दस्य पन्था दुःखं गच्छति। तदर्थं मनुष्यः प्रपञ्चस्य आधारं स्वीकरोति। अतः कारणं विना आनन्दोपभोगस्य अभ्यासः करणीयः। कारणावलम्बी आनन्दः स्वभावतः अशाश्वतः। अतः सः वास्तवः आनन्दः न। कारणं विना आनन्दं प्राप्तुं पूर्णतः स्वस्थम् उपवेष्टुम् अभ्यासः करणीयः। इदं किमपि न करणम् इति अत्युच्चावस्था वर्तते। कस्यापि करणस्य अपेक्षया सा अतिकठिना अवस्था। भगवता सह अनन्यत्वं, स्वकर्तृत्वस्य पूर्णतः हननं च इति सा अवस्था। आनन्दः इष्यते चेत् आनन्देन एव भवन्तु। कस्यामपि परिस्थित्यां मनः आनन्देन भवेत्। मनोनुकूलं भवति चेत् मनसि समाधानं वर्तते। कोऽपि जनः आत्मनः कृते एव सर्वं करोति। चिन्तयतु, कश्चन पीडयति। अस्माकं पीडनेन सः सुखम् अवाप्नोति। अस्मभ्यं दुःखदानेन सः प्रमुदति। सः केवलं स्वसुखार्थं तथा व्यवहरति। परं तेन दत्तं दुःखं मया किमर्थं स्वीकरणीयम्? तस्य व्यवहारेण मम आनन्दः किमर्थं भञ्जनीयः? अस्माभिः एतादृशं व्यवहरणीयम् यत् अतीतस्य दुःखं न करणीयम्। अनागतस्य चिन्ता न करणीया। वर्तमानक्षणमात्रं स्वकर्तव्यं आनन्देन करणीयम्। भगवान् अनुसन्धातव्यः। इदमेव सर्वम्।
- भगवतः प्राप्तेः इच्छा इत्युक्ते जननस्य सार्थकता।****
ऑगस्ट27, - समाधानं वृत्तेः गुणविशेषः न तु देहस्य। सर्वत्र श्रीरामः परिपूर्णः इति यः पश्यति सः समाधानं प्राप्नोति। यस्मिन् गृहे समाधानं वर्तते तस्मिन् परमेश्वरः निवसति। यत् भवति तत् ईश्वरेच्छया इति सत्यत्वेन यः एकवर्षपर्यन्तं चिन्तयेत् सः समाधानस्य वास्तवं स्वरूपं निश्चयेन जानीयात्। समाधानं वृत्तेः गुणविशेषः न तु देहस्य। प्रपञ्चविषये मौनी अत्यन्तं समाधानी च जनः मिलेत् इति मन्ये। तस्य पृष्ठतः सर्वं जगत् धाविष्यति। जगति न कोऽपि समाधानं ददाति। समाधानार्थं निष्ठा आवश्यकी। पाण्डवानां वने यत् समाधानम् आसीत् तत् कौरवाणां सिंहासने नासीत्। परमात्मा यथा स्थापयति तथा सुखेन भवितव्यम्। ठेविले अनन्ते तैसेचि रहावे । चित्ति असो द्यावे समाधान।। इति सन्तश्रेष्ठतुकारामः अपि कथयति। भगवतः उपायनं सर्वतः मधुरं भवति। धनं तु भगवतः उपायनं न। तेन क्रन्दनम् अतृप्तिः च प्राप्येते। वस्तुतः समाधानम् एव भगवतः उपायनम्। मनुष्यस्य कृते कियत् पर्याप्तम् इति तु न निश्चितम्। विद्यमानायां परिस्थित्यां समाधानं मन्यते चेत् यत् विद्यते तदेव प्रर्याप्तं भवति। यस्य मनः समाहितं तस्य शरीरं कथमपि भवेत्। समाधानस्य एव महत्त्वम्। स्वीकरणस्य अपेक्षया दाने एव अतीव समाधानम् विद्यते। अपि च स्वीकरणस्य न कोऽपि अन्तः। कियत् अपि लभ्येत अस्माकं याचनाबुद्धिः विद्यते एव। परं यदि सर्वं दद्मः तर्हि दानस्य अन्तः भवति। अतः तत्र समाधानं विद्यते। वयं उपाधिना आच्छादिताः। एकाम् एकाम् उपाधिं त्यजामः चेत् अस्माकं स्वरूपं प्रकटीभवेत्। तत्र वास्तवं समाधानं प्राप्यते। ‘श्रीरामः कर्ता वर्तते’ इति भावना यदा भवति तदा वासना म्रियते। मनुष्यः कमपि हेतुं मनसि निधाय कर्म करोति। परं प्रत्येकं विषये ‘भगवदिच्छया यत् भवति तदेव भवतु।’ इति अनुसन्धानं यदि भवति तर्हि फलविषये सुखदुःखभावः न भवति। सर्वं वयं जानीमः परं प्रसङ्गे विस्मरामः। आगतः आवेगः सोढव्यः। दीपः भवति चेत् अन्धकारः नश्यति। तद्वत् अनुसन्धानस्य दीपं अस्माभिः सह नयामः, चेत् वयं आवेगान् नियन्तुं शक्नुमः। प्रत्येकं जनस्य रोगः भिन्नः परम् औषधिः समानः। सः वर्तते भगवतः अनुसन्धानम्। इदम् औषधं यदि तज्ञवैद्यात् स्वीकृतं तर्हि रुग्णेन पथ्यं पालनीयम् एव। शास्त्रेण, सद्धर्मेण,अभ्यासेन च व्यवहृत्य अनुसन्धाने भवितव्यम् इति आवश्यकम्। अनुसन्धानेन यत् सिद्ध्यति तद् न शतकोटिसाधनैः सिध्येत्। ईदृशम् अखण्डनामानुसन्धानम् इत्युक्ते सत्या भक्तिः।
- इतरसाधनैः यत् साधनीयं तत् केवलम् अनुसन्धानेन सिध्यति इति अस्य युगस्य महिमा।***
ऑगस्ट28, - आनन्दात् अपनीयते सा माया वस्तु यथा वर्तते तथा न दृश्यते परं विपरीतं दृश्यते सा माया। माया इत्युक्ते या न अस्तित्वेन विना, परं न भवति चेत् न कापि हानिः। उदाहरणार्थं छाया। माया नश्यमाना। सा जीवति म्रियते च। विषयात् अहं आनन्दं प्राप्नोमि परं सः भज्यते। आनन्दात् मां या अपनयति सा माया। विषयात् वयम् अन्ते दुःखमेव प्राप्नुमः इति अस्माकम् अनुभवः। माया अस्मान् विषयेषु क्षिपति। विषयस्य मोहं प्रदर्श्य सा अचिरात् निर्गच्छति। विद्यमानायां परिस्थित्यां सदा मनःक्रन्दनम् एव मायायाः लक्षणम्। धनं मायायाः अस्त्रम्। स्वल्पेन मायायाः वर्णनं करणीयं चेत्भगवतः या माम् अपनयति सा माया। भगवतः शक्तिः भगवान् तथा च वयम् इति एतयोः मध्ये वर्तते तदा अस्माभिः सा माया इति ज्ञायते, यदा तस्याः कौतुकम् मन्यामहे तदा सा ईश्वरस्य लीला भवति। एकः भगवान् मम तथा च अहं तस्य इति यदि वदामः तर्हि मायायाः निरसनं भवति। मायायाः अनर्थं ज्ञात्वा अपि तां वयं स्वीकुर्मः तदर्थं किं वक्तव्यम्? जगतः प्रवाहः भगवतः विपरीतं वर्तते। वयं तस्मिन् निमज्जिताः न भवामः। यः प्रवाहेण सह गच्छति सः शिलाखण्डे घट्टयेत्। आवर्ते विभ्रमेत्। वहन् कुत्र गच्छेत् तत् वयं न जानीमः। अस्माभिः प्रवाहे भवितव्यं परं प्रवाहपतितैः न। अस्माभिः प्रवाहविरुद्धं तरणीयम्। एतदेव अनुसन्धानस्य रक्षणम्। पिशाचबाधा यस्य वर्तते सः सदा तत् तेन सह एव वर्तते इति मन्यते तथैव भगवतः विषये अस्माभिः भवितव्यम्। परं बाधा भीत्या भवति। तस्य विपरीतं भगवान् आधाररूपेण अस्माभिः सह वर्तते इति भाव्यम्। मनसि दुर्विचाराः उत्पद्यन्ते। परं तेषाम् अनुधावनं न करणीयम्। तेन दुस्संकल्पविकल्पाः न आयान्ति। सर्वान् अहं मम इति वदामि परं भगवन्तं न वदामि। तस्य कारणं माया। अधिवक्ता जनानां कलहाः स्वकीयाः इति मत्वा करोति परं परिणामानां सुखदुःखानि न अऩुभवति। तद्वत् प्रपञ्चः स्वीयः इति मत्वा करणीयः परं तस्य सुखदुःखानां स्वामिभिः अस्माभिः न भवितव्यम्। अभियोगस्य निर्णयः कथमपि भवेत् अधिवक्ता निश्चितं शुल्कं प्राप्नोति। तथा प्रपञ्चे प्रारब्धेन निश्चितान् भोगान् वयं प्राप्स्यामः। कर्तव्यबुद्ध्या यथा अधिवक्ता कलहं करोति तथा प्रामाणिकतया कर्तव्यबुद्ध्या च प्रपञ्चः करणीयः। तत्र भगवन्तं न विस्मरामः। अनुसन्धानं न क्षयणीयम्। कर्तव्यं कृत्वा चिन्ता न करणीया। तेन सुखदुःखानां परिणामाः अस्मासु न भविष्यन्ति। इदं येन साधितं तेन परमार्थः साधितः।
- दुःखस्य मूलकारणम्। जगत्सत्यचिन्तनम्।।***
ऑगस्ट29 – धर्मः इत्युक्ते नीत्यध्यात्मयोः संयोगः। द्वैताद्वैतम् इति किं रहस्यं विद्यते? भगवतः एव सर्वं जातम् अस्ति। एकतः द्वयं जातम्। अस्माकं मूलस्वरूपतः विभक्तत्वेन द्वैतं जातम्। मायायां यदि न निगृहीताः तर्हि अद्वैते स्थातुं शक्नुमः। माया कल्पनातः समुत्पन्ना अतः सा कल्पनया एव हन्तव्या। एकमेव करणीयम् यत् ये अद्वैते निवसन्ति तेषाम् अनुगमनं कर्तव्यम्। भगवतः भवितुं येन विभक्तः जातः तत् त्यक्तव्यम्। यतः माया निर्मिता तमेव शरणं गन्तव्यम्। माया तु भगवतः कारणेन जाता। यः भगवतः तं माया न बाधते। मायायाः बलं सङ्कल्पविकल्पे वर्तते। अखण्डभगवत्स्मरणे भवामः चेत् माया न बाधते। भगवतः नाम स्थिरं वर्तते परं रूपं सततं परिवर्तते। प्रत्यक्षं साकारं रूपमेव न, अपि तु यत् अस्माकं कल्पनायाम् आगच्छेत् तत् तत् सर्वं रूपमेव। भगवतः नाम्नि व्यवहारस्य अपेक्षा न वर्तते, अतः तत् पूर्णम्। समाधानं पूर्णत्वस्य स्वभावः। अतः यत् अपूर्णं तत् असमाधानम्। भगवतः आगच्छन्ती शान्तिः एव समाधानम्। इदमेव पूर्णत्वम्। यत्शास्त्रं समाधानं ददाति तत् सत्यम्। येन शान्तिसमाधानं च लभ्यते सः वास्तवः धर्मः। धर्मः इत्युक्ते नीत्यध्यात्मयोः संयोगः। यः अन्यस्य हितं अदृष्ट्वा केवलं स्वहितं पश्यति सः स्वार्थी। सुखं भवेत् इति इच्छया अस्वस्थता आयाति। यया अस्वस्थतया मनःक्रन्दनम् उद्भवति। क्रन्दनेन जगति नूतनाविष्काराः परिष्काराः च उत्पद्यन्ते। परं एते परिष्काराः यावन्तः अधिकाः तावत् दुःखमधिकम्। या विद्या केवलं सेवावृत्तिकरणार्थं साधनं सा अपूर्णा एव। एतादृशी विद्या केवलम् उदरपूरणार्थम्। सा समाधानं दातुं न शक्नोति। समाधानदात्री विद्या भिन्ना। अतः लौकिका विद्या न अतिमहत्त्वपूर्णा। कदाचित् संशयः भवति यत् जगति सुखं समाधानम् आनन्दः च विद्यन्ते किम्? परम् एषः संशयः न योग्यः। यतो हि ये विषयाः जगति न विद्यन्ते, तेषां नामनी एव कथं भविष्यन्ति? असमाधानम् इत्युक्ते यत् न समाधानं तत्। एतेन स्पष्टं भवति यत् प्रथमं समाधानम् आवश्यकम्। दीपावलीपर्वणि वयं यत् सुखकरं तत् अद्य कुर्मः तथा यत् दुःखकरं तत् श्वः। एतस्य अर्थः यत् अस्माकं चिन्ता न नष्टा, तथापि वयम् अद्यतनदिनं सम्यग् इत्युक्ते चिन्ताविरहितं यापयामः। श्वः पुनः चिन्ता वर्तिष्यते एव। परं यः भगवत्स्मरणं करोति सः कदापि चिन्ताविमुक्तः भवति।
- यस्य प्रत्येकं कृतिः रामस्मरणे भवति सः एव रामराज्ये निवसति।*****
ऑगस्ट31, - यस्य गृहे समाधानं तत्र मया भूयते। मनुष्यः मया मिलति चेत् सः कियान् सुखी इति अहं पश्यामि। तस्य इतरविषयान् न पश्यामि। परं भवन्तः तस्य धनं,विद्या,मानं च इति एतस्याधारेण सः कियान् सुखी इति गणयन्ति। भगवन्तं विहाय मनुष्यः कथं सुखी भवितुमर्हति। जनेभ्यः श्रीमान् रोचते, मह्यं दरिद्रः रोचते। जनेभ्यः विद्वान् रोचते, मह्यम् अज्ञः रोचते। ईदृशं मम सर्वं जगतः विपरीतं वर्तते। परं ततः एव जगतः विपरीतं समाधानं मत्समीपे वर्तते। समाधानं कस्मिन्, क्व च वर्तते इति मया अन्विष्टम्। अहं समाधानरूपः अस्मि। यस्य गृहे समाधानं तत्र अहम्। यः मदीयः परं न समाधानी तेन सह मम कष्टं भवति। अहम् अत्यन्तं समाधानी तथैव भवन्तः अपि भवन्तु। अद्यपर्यन्तं मया एका एव साधना कृता। कस्यापि मनः न पीडितम्। एकं नाम विहाय किमपि न स्मरणे रक्षितम्। मम समीपे किं वर्तते तत् कथयतु। न विद्या, न धनं, न वा कला। परं सर्वेषु अहं निष्कपटं प्रीणामि। तेन जनाः माम् इच्छन्ति, मम आधारं भावयन्ति च। जगतःस्वभावम् अहं सम्यग् जानामि। अतः ममविषये कः किं वदति इति मया न दृष्टम्। सः किं वक्तव्यः इति एव मया दृष्टम्। मम कथनश्रवणानन्तरमपि भवन्तः पुनः श्रोतुम् आगच्छन्ति इति एतस्य कारणत्रयं भवितुमर्हति। एकम् अहं सम्यग् वक्तुं न शक्नोमि। द्वितीयं भवद्भिः तत् न अवगतम् स्यात्। अथ वा तृतीयं मया कथितं भवद्भिः विस्मृतं स्यात्। भवद्भिः मया सह सम्पूर्णं सहजतया वक्तव्यम्। वयं यथा गृहजनैः सह वदामः तथा अतीव आत्मीयतया वक्तव्यम्। परं मया सह कश्चन कथमपि किमपि च वदेत् यत् कथनीयं तदेव अहं कथयामि। कथनसमये अनेन मम श्रुतं चेत् अस्य कल्याणं भविष्यतिइति सहजं मम मनसि आगच्छति। मम यः शृणोति तस्य निश्चयेन कल्याणं भविष्यति इति मम विश्वासः। परं कल्याणम् इत्युक्ते प्रपञ्चे उन्नतिः न, अपि तु विद्यमानायां परिस्थित्यां समाधानेन भवितव्यम्। मम आत्मीयस्य जनस्य प्रपञ्चे अहं साहाय्यं न करोमि इति न, परं तस्य प्रपञ्चः तस्य परमार्थस्य नाशं कुर्यात् इति एतादृशं साहाय्यं अहं न करोमि। ईदृशं साहाय्यं मया न क्रियते चेत् सः रुदेत् तस्य मयि श्रद्धा न्यूना भवेत् च परं सः जीवेत् इति निश्चितम्। जीवति सति अद्य वा श्वः सः नामजपं कुर्यात्। रुग्णः म्रियते चेत्औषधदानेन कः लाभः? बीजं तु मया उप्तं कदाचित् तस्य वृक्षः निश्चयेन भविष्यति।
- अद्यपर्यन्तं नाम विहाय मया किमपि न कथितम्। यः मया मिलति तस्य मुखात् नामजापनीयम् इति मम कार्यम्।****