अक्टोबरमासस्य प्रवचनानि

विकिस्रोतः तः

ऑक्टोबर 1, उत्सवेषुभगवत्प्रेमएवमुख्यम्। उत्सवेभवन्तःसर्वेभृशंपरिश्रमान्कृतवन्तः।विवाहेमुख्यविधेःकृतेइत्युक्तेअन्तर्पटधरणंमङ्गलाक्षततःसप्तपदीपर्यन्तंस्वल्पःसमयःअपेक्षितः,परंसंस्काराणांमहत्त्वंगभीरत्वंचमनसिसंस्थापयितुंदीर्घंसमारम्भंकुर्वन्ति।तथैवउत्सवेभगवत्प्रेममहत्त्वपूर्णं, विनोदःउत्साहःचतस्यपोषणार्थमेव।अस्माकंप्रत्येकम्उत्सवःभगवत्स्मरणार्थमेववर्तते।देवतानाम्उत्सवाःअपिभगवत्प्रेमवर्धयितुंसन्ति।दीपावल्यांस्फोटकानि. मधुरभोजनंचगतदुःखविस्मरणार्थंवर्तेते।उत्सवः. पर्वः. धर्मकृत्यं, तीर्थयात्रा, पूजापठणं, चेतिएतेषांसर्वेषांकार्यंभगवत्प्रेमप्राप्तिःएव।मत्तःकृतंप्रत्येकंकार्यंभगवत्कृपयाएवसञ्जातमितिभावनायदिउत्पद्यतेतर्हिइच्छानिच्छायाःविलयेनभगवत्प्रेमउत्पद्येत।देवप्रेमजागरयितुंतस्यभयंनिर्गच्छेत्।पिशाचेममविश्वासःनास्तीतिवयंवदामः, परंपिशाचग्रस्तंजनंदृष्ट्वावयंबिभीमः।यथापिशाचात्वयंबिभीमःतथैवदेवादपिबिभीमःचेत्तस्मिन्देवेकथंप्रीयामहे?अतःदेवविषयेभयंमनसःनिष्कासयन्तु।देवःकदापिकस्यापिअहितंनकरोतीतिविश्वसन्तु।परमेश्वरस्तुदयासागरः।स्वपुत्रायदुःखंदातुंकामाताइच्छेत्?अन्तर्मनसावयंतांनाह्वयामः।मनसाभगवन्नामनवदामः।अत्रैवअस्माकंदोषः।भवन्तःगोन्दवलेग्रामम्आगताःअतःरामंगत्वाएकमेवयाचतां,“हेराम, मयिप्रीयताम्।”भवन्तःयत्याचन्तेतत्सःनिश्चयेनदद्यादितिविश्वसन्तु।सःतदर्थम्अत्रस्थितः।रामभक्त्याअस्माकंप्रपञ्चःअस्माकंकल्पनापेक्षयासुखकरःभविष्यति।कदापिरामनामनत्यजन्तु।भगवन्नाम्निएवतस्यसङ्गतिःलभ्येत।तस्यप्रेमउत्पद्येत।नामभगवतःअत्यन्तंसमीपेवर्तते।एतस्यसङ्गंकुर्वन्तु।एतेनसहसततंवासंकुर्वन्तु।प्राणादपितंरक्षन्तु।तेनइदमेवनामभवन्तंभगवन्तंप्रतिप्रापयेत्।यत्ररामःतत्रनामतथायत्रनामतत्ररामः।सत्यंभवन्तःरामनामस्मरणेस्वात्मानंविस्मरन्तु।रामःस्वयंभवतःपुरतःएवभवेत्।

                  • दृश्येभगवतःचिह्नम्इत्युक्तेनाम।रामनाम्निविश्वासःमहद्भाग्यलक्षणम्। ****

ऑक्टोबर 2, सगुणभक्तिः सर्वेषुभूतेषुभगवान्वर्ततेइतिस्वीकर्तुंसःमयिवर्ततेइतिपूर्वंज्ञातव्यम्।सुवर्णाभूषणंसुवर्णेनमेलितुंनेच्छति।तथैवभगवान्मयाबाह्यतःमेलिष्यतिइतिनचिन्तनीयम्।सःआत्मन्येववर्तते।मनुष्यःयथावदतितथाआचरतिचेत्सःप्रचीतिम्अवश्यंप्राप्नुयात्।‘अहंकस्य’इतियदिज्ञातंतर्हि‘कोऽहं’इतिज्ञातुंनाधिकःसमयः।सत्समागमेनकोऽहम्इतिज्ञायते।साक्षीरूपेणनटितःयः‘अहं’, तंद्रष्टुम्अरण्यसेवनंनावश्यकम्।ममत्वंत्यजामःचेत्‘अहं’बोधःभवति।भगवान्सर्वत्रव्याप्तःइतिवयंवदामःपरंतथानवर्तामहेइत्यत्रअस्माकंप्रमादः।भगवान्मयिवर्ततेतथाअन्येषुअपिवर्ततेइतिचातुर्येणविस्मरामः।यथादीपःप्रकोष्ठंप्रकाशेनपूरयतितथासर्वंजगत्ईश्वरेणपूर्णंवर्तते।‘कर्तारामः,नाहम्’इतिवदामःचेत्सर्वमागतम्।वेषाःभिन्नाःपरंमनुष्यःएकः।संन्यासःमनसः, नतुवेषस्य।मनसिकस्यापिपरिणामःनभवेत्इत्येवसंन्यासः। सगुणभक्तिःकरणीया।भक्त्यानामजपःकरणीयः।नाम्निभगवान्वर्ततेइतिज्ञातव्यम्।भगवतःभूत्वावर्तनीयम्।एषःएवपरमार्थस्यसुलभःमार्गः।साधुसत्पुरुषैःभृशंपरिश्रमंकृत्वास्वयम्अनुभूयएषःमार्गःअस्मान्दर्शितः।समधर्मिणैःसहअस्माकंमित्रतावर्तते।वयंदेहिनःअतःअस्माकंदेवःअपितथैवपरंततःपरमपिभवेत्।एतादृशःदेवःइत्युक्तेसगुणविग्रहः।बालकःकस्यचित्वस्तुनःकृतेयदिहठंकरोतितर्हिवयंतत्सदृशंपरम्अबाधकंवस्तुतस्मैदद्मः।तद्वत्सगुणोपासनायाःपरिणामःभवति।दृश्यवस्तुनिवयंप्रीयामहे।यत्दृश्यतेतदेवसुखकरम्इतिमन्यामहेअतःभगवन्तंवयंकल्पनयासगुणंकृतवन्तः।तम्उपास्महेअपि।उपासनायाःअन्तेअस्माकंबुद्धिःनिश्चयात्मिकाभविष्यति।आग्रहःप्रेमचकेवलंभगवतःकृतेभवेत्।अन्यानिध्येयानिभवेयुःपरंतेषामाग्रहःमास्तु।प्रपञ्चेव्यवहारसमयेभगवद्वृत्तिःयदिनकम्पतेतर्हिसःसहजसमाधिः।सहजंजीवनम्, सहजत्वात्भिन्नेननभवितव्यम्इत्येवसहजसमाधिः।‘रामःसर्वंकरोतिसःएवममदाता’इतिभावनायस्यस्थिरा,तस्मिन्भगवतःकृपाजातेतिज्ञातव्यम्।तस्यजन्मसार्थक्यंजातमितिवचनस्यनावश्यकता।

      • नामजपेस्वविस्मरणंसर्वोत्कृष्टःसमाधिः।नामस्मरणेआत्मानंविस्मरणीयम्।****

ऑक्टोबर3, - अहंभावम्अनुवर्त्यदेवप्राप्तिःनभवति। ‘देवंजानामि’इतिवचनेनसःकथंज्ञायते?‘अहंब्रह्मजानामि’इतिवदतिचेत्ब्रह्मज्ञातमितिनभवति।यः‘ब्रह्ममयाज्ञातम्’इतिवदति, तेनवस्तुतःनकिमपिज्ञातम्।जानामिइत्यस्यउच्चारणेनतत्नज्ञायते।अज्ञात्वाएवतत्ज्ञायते।मयाज्ञातमितिभावःअपितत्रनअवशिष्यते।‘अहंब्रह्मपरिचिनोमि’इतिउक्त्वायःदेवंगच्छतिसःकिमपिनप्राप्नोति।‘अहंकारः’तम्अवरुणद्धि।अहंकारंस्वीकृत्यवयंदेवम्अन्विष्यामःचेत्सःकथंप्राप्नुयात्।अस्मद्देवयोर्मध्येअहंकारस्यसूक्ष्माजवनिकावर्तते।तेनवयंदेवंद्रष्टुंनशक्नुमः।साजवनिकादूरीकृताचेत्देवःदृश्यते। वाणिज्यंसम्यक्नप्रवर्ततेचेत्भवन्तःपृच्छन्तियत्वाणिज्यंकर्तुंकथितंपरंसम्यक्नप्रवर्तते।परंतेनसहमयाकथितःनामजपःनक्रियतेइतिभवन्तःनकथयन्ति।नामस्मरणेनवाणिज्येप्रमादाःभविष्यन्तिवा?परमहंप्रमत्तुं(प्रमादान्कर्तुं) नकथयामि।ममकथनेनभवद्भिःनामजपःकृतःचेत्वाणिज्यंसम्यक्भवेत्।चिन्तांविनासंसारंकुर्वन्तु।भवद्भिःकिमपिनकृतंचेदपिरामःयत्करणीयंतत्करोतिएव।चिन्तयाकःलाभः?यत्भोक्तव्यंतत्कष्टेननभुक्त्वाआनन्देनभोक्तव्यम्।आघाताःतस्यैवइतिमत्वातंप्रतिप्रेषणीयाः।ममतस्यकिमपिकर्तव्यंनवर्ततेइतिचिन्तनीयम्।यदिवयंकिमपियाचितुम्इच्छामःतर्हिसःतथायाचनीयःयत्यस्यांस्थित्यांसःअस्मान्स्थापयतितस्याम्आनन्दंदद्यात्।तेनअहंसमाधानंप्राप्नोमि।अन्यत्किमपियाचितुंबुद्धिःनभवेत्।तेनतस्यैवभूत्वावयंस्थातुंशक्नुमः।मनुष्यस्यशान्तिंविक्षेप्तुंकारणद्वयंवर्तते।एकम्इच्छानुसारंवयंनप्राप्नुमः।द्वितीयंचयत्नेच्छामःतत्प्राप्नुमः।द्वावपिअस्माकंहस्तेनवर्तेते।अतःदुःखंकिमर्थंकरणीयम्?भगवन्नाम्नःरुचिःएकदाभवतिचेत्सर्वंलभ्यते।नामअभिमानंनाशयति।नाम्नाइच्छानिच्छेनभवतः।सत्पुरुषैःआग्रहेणकथितंनामसततंस्मृत्वासमाधानस्यशाश्वतंधनंप्राप्नुवन्तु।

        • भगवन्तंतथायाचतांयेनपुनःकापिइच्छाएवनभवेत्।*****

ऑक्टो.4 –भगवतःसंयोगवियोगाभ्याम्एववास्तवंसुखदुःखेवर्तेते। साम्प्रतंसर्वेजनहितायप्रयतन्ते, परम्आत्मनःस्वहितंविनापरस्यहितंकथंसिद्ध्येत्?यआत्मानंपरिष्कर्तुंनशक्नोतिसोऽन्यंकथंपरिष्कुर्यात्?अत्रापिअभिमानःमध्येआगच्छति।यतोहिसःचिन्तयति,“अहंपरहितंकरोमि।”एतेनअभिमानेनसःभारितः।अहंकारंनिरस्तुंसाधनमावश्यकम्।तत्साधनंगुरुःकथयति।अतःतस्यआज्ञानुसारंवर्तनेनस्वकल्याणंभवति।ब्रह्मकुत्रापिनान्वेषणीयम्।तत्स्वसमीपेएववर्तते।परंतत्अन्येनदर्शनीयम्।इदमेवकार्यंसद्गुरुःकरोति।श्रीकृष्णःसाक्षात्परब्रह्म।अवतीर्यवसुदेवपुत्रःजातः।परंयावत्वसुदेवःतंस्वपुत्रम्अमन्यततावत्परमात्मागृहेभूत्वापिअज्ञातः।यदानारदःतस्मैअकथयत्यत्श्रीकृष्णंस्वपुत्रंनमत्वापरमात्मानंमन्यतां।तेनभवतःकल्याणंभवेत्तदासःपर्यचिनोत्।तथैवश्रीरामःस्वयम्अवतारः, परंयदावसिष्ठःउक्तवान् ,“त्वमेवसाक्षात्परब्रह्म।”तदातेनज्ञातम्।यदिइदंसर्वम्अस्मान्बोधयितुंस्यात्तर्हितस्यएषःएवअर्थःयत्गुरोःमार्गदर्शनेनविनापरमात्मनामेलनम्अशक्यम्।गुरुःकिंकरोति?नामस्मरणंसाधनरूपेणकथयति।तत्द्रष्टुंसरलं, परम्आचरितुंदुष्करम्।दुष्करम्अतःनत्यक्तव्यम्।देवंशरणंगत्वासाधनमारभणीयम्।तत्कर्तुंपरमात्माशक्तिंयच्छति। जगतिवास्तवंसुखंनवर्तते, नतुदुःखम्।जगतिसुखदुःखेवर्तेतेइतिवयंचिन्तयामःतत्अपूर्णम्।तत्तात्कालिकम्।वास्तवंसुखदुःखम्इत्युक्तेभगवतःसंयोगवियोगःएववर्तते।वास्तविकम्अस्माकंबुद्धिःसूक्ष्मा।अस्माकंवृत्तिःकेनापिकारणेनपरिणमते।अतःअस्माकंपृष्ठतःभगवतःआधारःआवश्यकः।वयंतस्यैवस्मः।यत्यत्वर्ततेतत्तस्यएवइच्छयाइतिमत्वावर्तनीयम्।बुभुक्षाभवतिचेत्मातरंयाचामहे, चौर्यंनकरणीयम्, तथैवउदरंपूरयितुंभगवन्तंयाचामहे, अधिकंन।भगवान्अतिसमीपे, अतिदूरेअपिवर्तते।तथैवसःसर्वव्यापीवर्तते।अतःसःनदृश्यते।वयंप्रतिवर्षंतस्यजन्मोत्सवंकुर्मःयतोहिगतवर्षेवयंकृतवन्तःइतिअस्माभिःविस्मृतम्।अतःपुनःअस्मिन्वर्षेकुर्मः।वस्तुतःभगवतःवर्धापनदिवसःनकरणीयः।सःह्यःआसीत्, अद्यास्ति, श्वःभविष्यति।अतःतस्यवर्धापनदिनमेवभवितुम्अर्हति।भगवतःअस्तित्वम्अस्माभिःजागरितम्।तेनप्रतिवर्षम्उत्साहःवर्धते।वर्धापनदिनम्आनन्देनसम्पन्नंभवेत्।

        • रामइतिअक्षरद्वयंजानातु।गुरुमुखेनपरिचिनोतु।।*****

ऑक्टो.5, - अभिमानस्यपूर्णाहुतिरेववास्तवयज्ञः। जलस्यवर्णःकःइतिपृच्छतिचेत्किम्उत्तरामः?भगवान्तद्वत्वर्तते।यथाभवन्तःपश्यन्तितथैवसःदृश्यते।अस्मासुविद्यमानानांविकाराणांकारणेनसःभिन्नःदृश्येत।सत्यंयत्भगवतःस्वरूपज्ञातारःदुर्लभाः।यस्यविकाराःन्यूनाः, तस्यभगवत्प्रचीतिःअधिका।एकःरामःसर्वत्रकथंभवेदितिप्रश्नःभ्रमपूर्णः।सर्वेअवताराःएकस्यभगवतःएव।नारायणःबालावतारः।यतोहिसःसर्वेषुआरम्भः।रामःयुवावतारः।कृष्णःवृद्धावतारः।भगवन्तंजन्ममरणंनवर्तते।सःतुसच्चिदानन्दः।तर्हितस्यजन्मदिनंकिमर्थंकरणीयमितिकेचनपृच्छन्ति।कस्मिञ्श्चित्गृहेबालकाःकोलाहलंकुर्वन्तिस्म।पितामहःगृहेनास्तिइतितेचिन्तितवन्तः।स्वास्तित्वंज्ञापयितुंसःविनाकासमपिकासध्वनिंकृतवान्।श्रुत्वाबालकाःअनुक्षणंतूष्णींजाताः।तथैवभगवतःजनिःनवर्ततेइत्यस्यअज्ञानेनापितस्यभानंजागरितुंजन्मोत्सवःकरणीयः।भगवतःअस्तित्वभानेनवयंविषयेषुस्कन्दनंनकुर्मः, तान्संयतंभुञ्जामहे। यावदहंसाकारंप्रीणामितावत्भगवताआकारणीयम्अनिवार्यम्।यत्वेदैःअज्ञातं, ‘नेतिनेति’इत्युक्तं, तत्परमात्मरूपंसत्पुरुषैःज्ञातम्।तैःभगवान्सगुणत्वम्आनीतः।एनम्आनन्दस्वरूपंपरमात्मानंप्राप्तुम्अस्माकंसगुणोपासनायाःअत्यन्तम्आवश्यकतावर्तते।मनुष्यस्यकृतेयदत्यन्तंहितकरंतत्शान्तम्आनन्दस्वरूपंचवर्तते।सत्यस्वरूपस्यप्राप्तिंविनातत्नप्राप्यते।अतःभगवान्प्राप्तव्यः।वैदुष्यम्अभिमानम्उत्पादयति।अतःवैदुष्यंभगवन्निष्ठाचएकत्रदुर्लभा।अहंकारस्यअभिमानस्यचपूर्णाहुतिःएववास्तवःयज्ञः।निर्हेतुककर्मणासात्विकताउत्पद्यते।अनन्तरंपूर्णाहुतिःदीयते।एतादृशंसर्वस्वार्पणम्इत्येवयज्ञस्यसारः।यःआत्मानंजानातिसःभगवन्तमपिजानाति।विकाराधीनत्वेननभवितव्यम्इत्येवमनुष्यत्वम्।भगवतःअधिष्ठानंविनाकेवलंनीतिःअनाथा।परमात्मानंनविस्मरतिसासुयोग्याबुद्धिः।सःएवसदुद्योगः।नीतिधर्मःआचरणीयः, प्रेम्णाव्यवहरणीयं, जनेभ्यःसाहाय्यंकरणीयं, चेत्येवपरमार्थः।सःप्रत्येकंजनेनसम्यक्करणीयः।

      • यथाप्रपञ्चेआसक्तिःवर्तते, तथैवरामचरणौभवेत्इत्येवरामभक्तिः।****

ऑक्टो.6, - सच्चिदानन्दंपरमात्मानंसगुणत्वेनद्रष्टुंशक्यते। परमात्मासच्चिदानन्दस्वरूपःवर्ततेइतिसत्यं, परंतत्स्वरूपंसगुणाधारंविनावयंद्रष्टुंनशक्नुमः।सगुणरूपेएवतंपश्यामःचेत्तस्यस्वरूपंवयंकल्पयितुंशक्नुमः।अतःसमर्थरामदासैःउक्तंयत्निर्गुणंज्ञात्वासगुणेस्थातव्यम्।तत्रूपंसत्यं, शान्तम्, आनन्दमयंचभवेत्।इदमेवभगवतःमूलस्वरूपम्।एषासर्वासृष्टिःभगवतानिर्मिता, तस्यामेवसःव्याप्तःअर्थात्सर्वयासृष्ट्याअपिआनन्दमय्याभवितव्यम्।अहंमूलतःपरमात्मस्वरूपःतथापिविस्मरणेनआनन्दमयीसृष्टिःतथानदृश्यते।एषःभ्रमः।नेत्रेअन्तेदर्शनशक्तिःनास्तिचेत्केवलंबाह्यनेत्रेणकिमपिनदृश्यते।अन्तेशक्तिःवर्ततेचेदपिबाह्यनेत्रंविनानज्ञायते।तथैवसगुणनिर्गुणयोःसम्बन्धःवर्तते।सत्यंशाश्वतम्अतःशान्तं, शान्तम्अतःसनातनं, तत्शान्तंसनातनंचअतःतस्मिन्नेवसमाधानंवर्तते।यतोहिअशान्तःआनन्देनभवितुंनार्हति।अतःसत्यंपरमात्मस्वरूपम्।परमात्मरूपंव्यवहारभाषायांवक्तव्यम्ननु!परंव्यावहारिकंसत्यंभिन्नंवर्तते।एषासृष्टिःभगवतानिर्मिता।अतःतस्यांसर्वत्रभगवान्एववर्तते।अस्यार्थःवर्ततेयत्प्रत्येकंवस्तुनिभगवतःअस्तित्वस्यभानदातारःगुणःविद्यते।एषःगुणःवर्ततेजीवनस्यइच्छा।सर्वेशान्तिंप्राप्नुयुःइत्येवभगवतःइच्छावर्तते।एषाशान्तिःनपरिस्थित्यौअवलम्बिता।शान्तिःएकत्वेवर्तते।नद्वैते।एकस्मिन्नेववस्तुनियस्यमनःलग्नं, येनस्वमनःभगवतिस्थापितं, सःएवशान्तिंप्राप्नोति।तस्यअन्यःपरिवेशःकथमपिभवेत्।प्रपञ्चस्यअनुभवःकष्टमयः।परंभगवतःअनुभवआनन्दमयः।तस्यउपायःनामानुसन्धानंम्एव। भगवन्तंद्रष्टुम्अस्माभिःअपितथैवभवितव्यम्।सत्वगुणेभगवान्वर्तते, अतःतेनमार्गेणगन्तव्यम्।रुग्णेनजनेनविषयत्रयंकरणीयम्।कुपथ्यंपरिहर्तव्यं, पथ्यंपालनीयं, औषधंस्वीकरणीयंच।तद्वत्भवरुग्णेनापिविषयत्रयंकरणीयम्।मुख्यंध्येयंपरमात्मप्राप्तिः।ध्येयमार्गेयेविषयाःविघ्नंजनयन्तितेवर्तन्तेदुस्सङ्गतिः, अनाचारः, अधर्माचरणं, मिथ्याभाषणं, द्वेषः, मत्सरःच।तेषांत्यागःकरणीयः।परमात्मप्राप्त्यैसाहाय्यकाःसन्तिसत्सङ्गतिः, सद्विचारः, सद्ग्रन्थपठनं, सदाचारःच।पथ्यम्पालनीयम्।अखण्डनामस्मरणमौषधिः, सःसेवनीयः।

          • आनन्दस्वरूपंपरमात्मानंप्राप्तुंसगुणोपासनाआवश्यकी।****

ऑक्टो.7, - त्यागःहियज्ञस्यअवितथंरहस्यम्। सदाचरणेनवसतःजनस्यव्ययःन्यूनःभवति।यतोहिवास्तवसमाधानेनतस्यउदरंपूर्यतेअतःअन्नम्अल्पमपेक्ष्यते।नैककृत्वंमयाइदंकथ्यतेयतोहिसदाचरणंनीतिधर्माचरणंचपरमार्थभवनस्यअधिष्ठानम्।अधिष्ठानंदृढंनभवतिचेत्तदोपरिभवनंदीर्घकालंस्थातुंनशक्नोति।तथैवनीतिपालनंनक्रियतेचेत्अग्रिमकर्माणांपरिणामःनभवति।परस्त्रींमातृवत्पश्यन्तु।परद्रव्यंनाभिलषन्तु।परनिन्दांविष्ठासमंत्यजन्तु।एतान्विषयत्रीन्सम्यक्पालयन्तु।परमार्थभवनम्एतेषुत्रिषुविषयेषुसंस्थापनीयम्।केवलम्अधिष्ठानेनवयम्उशितुंनशक्नुमः।तथैवअधिष्ठानंविनाभवनमपिनभवति।श्रीरामःकर्तेतिभावनयानाम्निवर्तनीयम्इत्यस्यएवअर्थःपरमार्थभवनेआनन्देनस्थातव्यम्।लौकिकंश्रेष्ठत्वम्अपनीयदेवम्अनन्यभावेनशरणंगच्छन्तु।देवंशरणंगत्वासर्वंविस्मरन्तु।चिन्तयन्तु, नाटकेकश्चनराजाइतिअभिनयति।सःअनन्तरंगृहंगत्वाराजासदृशमेवव्यवहरतिचेत्तस्यसर्वेव्यवहाराःअसमीचीनाःभवेयुः।तथैवदेवंशरणगमनसमयेअहंमहान्भक्तः, विद्वान्, धनवान्चेतिसर्वंविस्मृत्यगन्तव्यम्। कर्मफलंनास्माकंहस्तेवर्ततेअतःतस्यचिन्तानकरणीयाइतिजानीमःपरंचिन्तायाःअकरणम्अपिअस्माकंहस्तेनास्ति।वयंचिन्तांकुर्मःएव।एतदर्थंभगवन्नाम्निस्थातुंप्रयतताम्।कर्मकरणेनकापिविशेषता।कर्मविनावयंस्थातुंनशक्नुमः।कर्मकरोतुइतिगीतायाम्अपिकथितमस्ति।परन्तुकर्मणाअस्माकम्इच्छानुसारंफलंवयंप्राप्नुमःएवेतिन।अतःभगवन्तंस्मृत्वाकर्मकरोतु।अनन्तरंकिंभवतीतिपश्यतु।इदमेवनिष्कामंकर्म।भगवतःइच्छयासर्वंभवतीतिभावनयास्वकर्तव्यंकरणीयम्इत्येवगीतायाःसारः। यःज्ञात्वात्यागंकरोतितस्यलाभःभवेत्।अन्यथासंन्यासः, त्यागःचास्माकंसमीपेअपिवर्तेते।भगवतःकृतेवयंसन्यस्तवृत्तिंधरामः।अस्माकंपितरौत्यजामः।एतेनकःलाभः?त्यागःयज्ञस्यवास्तवंरहस्यम्।यत्भगवत्प्राप्तिम्अवरुणद्धितत्सर्वंत्यजामः।एषःएवयज्ञः।अस्मिन्यज्ञेवासनानाम्आहुतिःदातव्या।कस्यापिविषयेइच्छानिच्छानभवेत्इत्येववासनानाम्आहुतिदानस्यलक्षणम्।

          • यत्रवासनासमाप्तिःतत्रैवभगवत्कृपावर्तते।****

ऑक्टो.8, - प्रयत्नपरमेश्वरयोर्मध्येसमञ्जनंकरणीयम्। जगतिकोऽपिसुखीनवर्ततेइतिसमर्थरामदासःवदति।कश्चनराजपुत्रःजातःअतःसःसुखीतिवयंमन्यामहे।उदरपूर्तेःसमस्याःनवर्तन्ते,अतःअन्याःसमस्याःनसन्तीतिकथम्?‘गतजन्मनिमयाकस्यचित्घातःकृतः,अतःअधुनामयिइदंदुःखम्आपतितम्’इतिवयंवदामः।परंयुगपत्फलाशयाकर्मकृत्वाअग्रिमजन्मनःसिद्धतांकुर्मः।इतःमोक्तुंमार्गम्नअन्विष्यामः।अद्यपर्यन्तंकर्मसुमहान्तःजनाःबद्धाः।जनिंप्राप्तवन्तःतर्हिसासार्थकीकरणीया।परम्अस्मिनआवर्तनेएवनिगृहीताःतर्हिकःलाभः?वस्त्रनिर्माणींगच्छामःतदा‘कथंवेमानःभ्रमन्ति‘इतिवयंवदामः।परंभ्रामकःअन्यत्रएववर्तते।तद्वत्देहस्यदेहत्वं, यावत्जीवःभवतितावदेव।जीवात्माभवतिचेत्देहत्त्वमपियाति।आत्मनःसंयोगेनैवसर्वंप्रवर्तते। कश्चनगृहस्थःबहुकार्यव्यापृतः।भोजनार्थमपिसमयःनासीत्।तस्यमातातस्यकोशेवाताम्बून्, शर्कराखण्डान्, मधुरभोज्यानिचस्थापितवतीउक्तवतीच,“गच्छन्नागच्छन्कार्यंकुर्वन्चभवान्मुखेस्थापयतु।“तद्वत्सत्पुरुषाःअस्मभ्यंनामरूपंभोज्यानिदत्तवन्तः, उक्तवन्तःच,“गच्छन्नागच्छन्कार्यंकुर्वन्चमुखेस्थापयतु, तेनलोभस्यक्षुधानभवेत्।बहुसुखंभवेत्।” कस्यचित्जनस्यभ्रात्रासहकलहःजातः।मृत्युपत्रेसःलिखितवान्,“ममशवेभ्रातुःस्पर्शोऽपिमाभवतु।”कथम्एषादेहबुद्धेःपराकाष्ठा!अद्ययत्करणीयंतत्त्यक्त्वामनुष्यःह्यस्तनंवाश्वस्तनंपश्यति।बहवःजनाःश्वःकिंभविष्यतीतिज्ञातुम्इच्छन्ति।परम्आगामिकालःसम्यक्कर्तुमद्यसमीचीनंवर्तनीयम्।परम्इदम्अकृत्वाअतीतस्य, अनागतस्यचचिन्तनमितिमायालक्षणमेव।माययानिगृहीताःजनाःअकरणीयंकुर्वन्ति, श्वस्तनचिन्तांकरिष्यन्तिच।मनुष्यःएकायांस्थित्यांनकदापिवर्तते।अद्यतनीदुस्स्थितिःगच्छति।समीचीनास्थितिःश्वःवापरश्वःवाआगमिष्यत्येव।परंस्वप्रयत्नाःनत्यक्तव्याः।व्यवहारेसदाप्रयत्नपरमेश्वरयोःसमञ्जनंकरणीयम्।कर्मणःहेतुरेवज्वालनीयःइतिअग्रिमःसोपानः।रामेच्छयासर्वंभवतीतिदृढभावनयामरणभयंव्यपाकृत्यजीवनचिन्तानकरणीया।सदानामस्मरणेस्थातुंप्रयतनीयम्।

      • कर्तव्येतत्परता।मुखेनामनिरन्तरम्।***

ऑक्टो.9,- भगवतःस्मरणमेवभक्तेःरहस्यम्।**** ‘नाहंभवान्नेव’इतिएतस्यज्ञानमेववास्तवाभक्तिः।भक्तेःविषयःएकःभगवान्यदिवर्ततेतर्हिअन्यत्सर्वंविस्मरति।भक्तिःकृताचेत्चित्तंनिर्विषयंभवतिइत्येतस्यवचनस्यआवश्यकतानवर्तते।स्वस्यविस्मरणंभगवतःस्मरणमेवभक्तेःरहस्यम्।भगवत्प्राप्तिंयदिइच्छतितर्हिभक्तिःकरणीया।भगवच्चरित्रेभक्तानांसर्वप्रकाराःसन्ति।तेषुवयंनिश्चयेनकोपिभवितुम्अर्हामः।भगवान्तेभ्यःसर्वेभ्यःसमाधानंदत्तवान्।वयंकिमर्थंनप्राप्नुमः?जगत्उन्नतिमुखंवर्ततेइतिसत्यंपरंवित्तं, पुत्राः, प्रतिष्ठा, इत्यादिऐहिकसुखवृद्धिरेवउन्नतिःइतिवयंमन्यामहे।भगवत्भक्तिरेववास्तवाउन्नतिः।एषाउन्नतिःबाह्यतःनदृश्यते।भगवन्तंविनायशःअपयशःएवमन्यताम्।नैकवारम्अपयशःएवयशःभवति।अतःअपयशोऽपिभगवदिच्छयाआगतमितिमत्वाशान्ततयावर्तनीयम्।भगवान्वर्ततेइतिवचनस्य, मननस्यवाएषःएवअर्थःवर्ततेयत्एषासृष्टिःभगवताकृता, तस्याःरक्षणं, पालनंचसःएवकरोति।सृष्ट्यांनैकेसमूहाः।तेषामपिरक्षणंपालनंचसःएवकरोति।तस्मिन्समूहेअहम्अपिएकःजीवः।ममरक्षणपालनमपिसःसदाकरोति। वास्तविकंप्रत्येकंमनुष्यःअद्वैतस्यएवअभ्यासंकरोति।अद्वैतंप्रतिनयत्द्वैतंवयम्इच्छामः।भगवान्इत्युक्तेसगुणपरमात्माएवंवर्ततेयत्भगवान्भिन्नत्वेनदृश्यतेतथापिभक्तम्आत्मलीनंकरोति।मातृपुत्रयोःमध्येसाम्यंवर्तते।पुत्रस्वरंमातासदैवमधुरमेवमन्यते।तथैवभक्तस्यस्वरःईश्वरेणमधुरःइत्येवअवगम्यते।क्षेत्ररक्षणार्थंयष्ट्युपरिकम्बलंसंस्थाप्यप्रतिरूपंकुर्वन्तितथासगुणोपासनायाःभावःवर्तते।रक्षकस्यअनुपस्थितौतत्प्रतिरूपंक्षेत्ररक्षणंकरोतितथैवनिर्गुणस्यअभावेपरमात्मनःस्मरणंसगुणंकारयति।गिरिशिखरारोहणेनविनाविपरीतदिशिवर्तमानंस्वग्रामंद्रष्टुंनशक्नुमः, तद्वत्सगुणत्वेनविनानिर्गुणत्वंप्राप्तुंनशक्नुमः। यःभगवतिअवलम्बितः, सःएवअवितथंस्वतन्त्रः।भगवतःनिदिध्यासःएवतद्रूपत्वम्।भगवतःप्रीतिरेवभक्तिः।ममत्राता, चिन्ताकर्ता, रक्षकः, पालकःचसःभगवान्एवेतिमननंतथावर्तनंचैवभगवद्विषयेवास्तवाआस्तिक्यबुद्धिः।स्वप्रेम्णःअधिकंभगवत्प्रेमएववास्तवाउपासना।इदमेवजीवनसर्वस्वम्।

      • आपद्गिरयःयदिमस्तकेआपतन्तितर्हियस्यवृत्तिःभगवतःनविचलतिसःएवभगवतःआत्मीयः।****

ऑक्टो.11 –भगवत्समीपेवासःआत्मानंनिर्वासनंकरोति। कञ्चनदुर्जनंदृष्ट्वागतजन्मनिसःव्याधःस्यात्इतिवयंवदामः।परम्इदम्अयोग्यम्।जन्मवासनयालभ्यतेनतुकर्मणा।अतःकर्मनपरिहर्तव्यं, वासनापरिहर्तव्या।कर्मनबाधते, तस्यपृष्ठतःविद्यमानःहेतुःबाधते।अधिकारिणःअग्रेआरक्षकःचलति, बद्धस्यपुरतःअपिचलति।तयोःमध्येयःभेदःसःएवसत्पुरुषसामान्यजनवासनयोःमध्येवर्तते।वयंवासनायाःउर्वरकंविषयमूलेसिञ्चामः, विषयेएवबद्धाःभवामः।सत्सङ्गंविनावासनाक्षयःनभवति।सङगत्यामनःपरिणमते।वासनाकेनापिउपायेननतृप्यतिकेवलंभगवत्सहवासेनसाशान्ताभवति।वासनाइत्युक्तेविषयसन्निधेवासःन।आदिनं, आरात्रिःचसर्वकर्माणिवासनयापरस्परंनिबद्धानि।वृद्धानांयूनांचकृतेवासनासमाना।‘अधुनाममग्लानिःजाता’इतिवदामःपरंवासनामांनत्यजति।देहावसानसमयेअपिवासनाआत्मनासहआयाति।परमात्मनासमंवासनापिचिरञ्जीवि। वासनायाःइच्छायाःवातिस्रःअवस्थाः।प्रथमासामान्याइच्छा, द्वितीयालोभः, तृतीयाध्यासः।प्रथमायांवस्तुकेवलम्इच्छामः।द्वितीयायांसदावस्तुनासहवासम्इच्छामः।तृतीयायांतद्विनाकिमपिनचिन्तयामः।विशालःवृक्षःयदित्रोटनीयःतर्हिप्रथमंबाह्यशाखाकर्तनंकुर्मः।अनन्तरंमध्यभागंकर्तयामः।तद्वत्वासनावृक्षनिखन्दनार्थम्आरम्भेइच्छानिच्छेत्यक्तव्ये, अनन्तरंवासनाहननीया।अस्माकम्इच्छांभगवतेकथयामः।तेननदत्तंचेत्तदेवअस्माकंहितायइतिबुद्धिःभवेत्।तेनैववासनाम्रियते।वासनानाशेनबुद्धिःभगवत्स्वरूपाभवति।किमपिअकृत्वाकथंपरमार्थंलब्धुंशक्नुमः?एतावत्वासःसरलः?सुवासनासुअपिनीतिधर्मानुकूल्यःएवभोक्तव्याः।धनिकानाम्आवश्यकताःआजीवनंनसमाप्नुवन्ति।यतोहितेषांवासनाःअधिकाः।कालःअस्मान्आशानिबद्धान्करोति।अन्तपर्यन्तंसुखम्अद्त्त्वाअस्माकंजीवनंसमाप्नोति।जीवनेएवयःवासनाविरहितत्वंप्राप्नोतितंसुखदुःखेनबाधेते।स्वगृहेअतिथीसदृशंवर्तनेनवासनाक्षीयते।

            • ‘रामःकर्ता’इतिभावनयानामस्मरणेस्थातुंप्रयतनीयम्।तेनवासनारहस्यमेवभग्नंभवतिइतिमन्यन्ताम्।*****

ऑक्टो.12 –वृत्तेःभगवन्मयताइत्युक्तेभक्तिः। भगवतःपञ्चमहाभूतानिनिर्मितानि।तथापश्यामःचेत्सर्वश्रेष्ठःचमत्कारःभगवत्सामर्थ्येननिर्मितानांपञ्चमहाभूतानाम्कार्यमेववर्तते।भगवतियत्यत्वर्तते, तत्तत्सर्वंस्वात्मनिअपिवर्तते।भगवान्जगतःस्वामी।तस्यसत्तयासर्वंप्रवर्तते।वयंजीवाःतस्यांशाः।अतःकर्तव्यंकृत्वाफलंभगवदिच्छायांत्यक्तव्यम्।अधुनाप्रश्नःउद्भवतियत्सर्वेविषयाःभगवदिच्छयाप्रवर्तन्तेतर्हिममइच्छापिभगवताएवउत्पद्यते।अतःममइच्छामहंकिमर्थंहन्येयम्?सत्यम्।रात्रौअन्धकारःभवति।तस्यकिंकारणम्?सूर्यः।यतोहिसःअस्तंगतोभवति।तेनअन्धःकारःआयातिइतिएतस्यअर्थःयत्प्रकाशस्यकारणंसूर्यःतद्वत्अन्धकारस्यकारणमपिसूर्यःएव।केवलंभेदःवर्ततेयत्प्रकाशस्यकारणंतस्यअस्तित्वम्, अन्धःकारस्यकारणंतस्यनास्तित्वम्च।तद्वत्ममइच्छायाःकारणमपिईश्वरःएव, परंतस्यनास्तित्वेन।सारांशेन, भगवतःविस्मरणंभवतिचेत्ममइच्छाउद्भवति।अतःयःभगवन्तम्इच्छतितेनतस्यस्मरणंकृत्वास्वेच्छातस्मैसमर्पणीया। स्वदेहबुद्धिःविनष्टाचेत्भगवन्तंज्ञातुंशक्नुमः।यथाभवनस्यमानचित्रंकर्गजेभवतितद्वत्सगुणमूर्तिःधातव्या।ब्रह्मनिराकारं, तम्आकारेआनयनंप्रमादपूर्णम्इतिकेचनवदन्ति।परंयावत्अहम्आकारेअस्मितावत्सगुणमूर्तिपूजनम्आवश्यकमेव।‘अहंरामस्य’इतिवचनम्‘अहंब्रह्मास्मि’इतिवचनमेव।तदाकारवृत्तिःइत्युक्तेअनुसन्धानम्।अनुसन्धानेनवृत्तिःभगवन्मयीभवतिचेत्साभक्तिः।‘ब्रह्मसत्यंजगन्मिथ्याइतिवचनस्यसारांशेनअर्थःवर्ततेयत्जगत्यथावयंचिन्तयामःतथानविद्यते।अन्तर्बाह्यंपरमात्मदर्शनमेवभक्त्याःलक्षणम्।एतदर्थंभगवान्निरन्तरंमांपश्यतीतिभानंसदैवभवेत्।भगवतःदूरेअस्मिइतिकदापिनचिन्तनीयम्।भगवत्प्राप्त्यर्थंदेहस्यपालनंकरणीयम्।मनःरामेआसक्तःचेत्देहविस्मरणंभवति।अतःनामस्मरणयोगेनमनःभगवतिलीनंकरणीयम्।एषःपरमार्थसारः।

      • वेदान्तिनःयंब्रह्मइतिवदन्ति, तमेवभक्ताःनामेतिवदन्ति।*****

ऑक्टो.13, - बलवत्तरीनिष्ठाअपेक्ष्यते। प्रवचनेसमाप्तेसतिश्रवणकार्यंसमाप्तम्, आचरणस्यसमयःआगतःइतिअवगन्तव्यम्।प्रवचनस्यमूल्यंप्रवचनकारायधनंदत्त्वानसमाप्नोति।तत्मूल्यम्एवंभवेत्येनद्वयोरपिकल्याणंभवेत्।भगवद्भक्तिःएववास्तवंमूल्यम्। जगतिनैकेविषयाःअज्ञाताःसन्ति।परंतान्वयम्असत्यंनमन्यामहे।अस्माकम्अत्यल्पज्ञानस्यअपिवयम्अभिमानंधरामःइतिअस्माकंप्रमादः।भगवतःददतःज्ञानस्यवयम्अभिमानंधरामः, तर्हिखड्गहस्तेनशत्रुशिरःकर्तनस्यअपेक्षयास्वशिरकर्तनमेवकृतमितिभवेत्।ययाविद्ययास्वहितंनज्ञायतेसानविद्याअपितुअविद्याएव।असत्यंयेनसत्यंभातितत्अज्ञानम्।अविद्याअज्ञानम्एकमेव।परमात्मस्वरूपविषयेमनःशङ्कतेइतिएतस्यकारणम्आत्मनःअज्ञानम्एव।देवःआत्मानम्आत्मनःकृतिम्अपिपश्यतिइतिएतस्यभानमेवज्ञानम्। प्रत्येकंजनायतस्यआवश्यकतानुरूपंभगवान्ददाति।अतःविद्यमानेसमाधातव्यम्।यस्यसमाधानंभगवतिअवलम्बितंतस्यसमाधानंसर्वदाप्रवर्तते।स्वनिष्ठाबलवत्तरीआवश्यकीययावयंसमाधानेस्थास्यामः।हरिश्चन्द्रः, प्रह्लादःचइतिएतादृशाणांज्येष्ठानांकियत्आस्कन्दनंजातं, परम्अतिबलवत्तर्यानिष्ठयातेआपदःउत्तीर्णवन्तः।परिस्थितिःपरिवर्तनशीलाअतःअस्माभियाचितंफलंपरिवर्तितायांपरिस्थित्यांकदाचित्सुखकरंनभवेदपि।अतःप्राप्तेफलेसमाधातव्यम्।गीताकथयतियत्सर्वधर्मान्त्यक्त्वाभगवन्तंशरणंगन्तव्यम्।परंवयंतथाअकृत्वाविषयान्शरणंगच्छामः।तदाकिंकरणीयम्?अर्जुनःश्रीकृष्णम्आत्मनःपक्षेस्वीकृतवान्।तेनपाण्डवानांयथासमाधानंरक्षितंतथाकौरवाणांनरक्षितम्।पाण्डवैःदेहेनवनवासःसोढःपरंमनसातेभगवद्भजनाः।अतःवनवासेअपितेसमाहिताःआसन्।भगवदिच्छयासर्वंवर्तते, सःएवसर्वंकरोतिइतिईदृशीभावनाएवसर्वोत्तमंसमाधानम्।आनन्दःकृत्यांवर्ततेनतुफलाशायाम्।नामस्मरणकृत्याशाश्वदानन्दसमाधानप्राप्तिंविनानभविष्यामः।यत्वर्ततेतत्भगवदिच्छयाइतिअनयाभावनयायःएकंवर्षंस्थास्यतिसःसमाधानस्वरूपंनिश्चयेनज्ञास्यति।

      • नामजपसमयेभगवान्कथनीयःयत्प्रपञ्चेविद्यमानायमह्यंनकिमपिददातु।केवलंमयिप्रीयताम्।*****

ऑक्टो.14 –परमात्मनःप्रियत्वंप्राप्नुमःचेत्जनप्रियत्वम्लभ्यते। परमात्मनासर्वाःशक्त्यःआत्मनेलोककल्याणार्थंदातव्याइतिकेचनजनाःचिन्तयन्ति।परम्अमुकदेहद्वाराएवजनकल्याणंभवेदीतिकिमर्थम्अस्माभिःईष्यते?देहबुद्धिःनगताइतिएषःएवएतस्यअर्थःवान?शक्तेःउपयोजनसामर्थ्यंवर्ततेचेत्परमात्माकदाचित्दद्यादपि।बालकस्यहस्तेखड्गंदत्त्वाकःलाभः?जनैःअस्माकंश्रोतव्यम्इतिमन्यामहे, परंक्रोधःनगतः, मनःनियन्त्रणेनवर्ततेइत्यपिभवन्तःवदन्ति।प्रथमंस्वविकारान्परिहरन्तु।मनस्संयमनंकुर्वन्तु।अनन्तरंजनानांचिन्तयन्तु।भवन्तःजनप्रियत्वम्इच्छन्ति।प्रथमंजनानांराज्ञःपरमात्मनःप्रियत्वंसंपादयन्तु।तेनसहजंजनप्रियत्वम्अपिलभ्येत।भवन्तःजनान्दुर्जनत्वेनपश्यन्ति।परंतेषांपरिष्करणार्थंनप्रयतन्ताम्।भवतांमनसिदुर्भावनावर्ततेअतःजनाःतथादृश्यन्ते।प्रथमंस्वात्मनिसंशोधनंकुर्वन्तुतेनकोऽपिदुर्जनत्वेननदृश्येत। बालिकाःपाञ्चालिकयासहक्रीडन्ति, तांभोजयन्ति, स्वापयन्ति।ताःजानन्तियत्पाञ्चालिकाःनिर्जीवाः, परंभावनयातांसजीवाम्इतिकल्पयित्वातयासहताःक्रीडन्ति।भवन्तःअपिएतादृशींभावनांकिमर्थंनकुर्वन्तियत्परमात्माअस्माभिःसहभाषते, वयमपितेनसहभाषामहेच?एषाभावनायथादृढाभवेत्तथासःअवितथंभवद्भिःसहभाषेत।मनसाअस्माकंभावबन्धःभगवतासहस्थापनीयः।अस्माकंसर्वंजीवनंयदितस्यहस्तेवर्तते, तर्हिजीवनेसर्वाःघटनाःअपिसःएवनियतते। सात्विककर्माणिवयंकुर्मः, परंतेषाम्अभिमानंधरामः।सात्विककर्माणिउत्तमानि, परंतेषाम्अभिमानःभवतिचेत्नयोग्यम्।दुष्कृत्यानिभवन्तिचेत्नचिन्ताकदाचित्पश्चात्तापेनमुक्तिंप्राप्स्यामः।परंसात्विककृतिषुनिहितम्अभिमानंकथंनिष्कासयामः?आप्तजनेभ्यःसाहाय्यंकृत्वायदितेवदन्ति,‘अनेनकिंविशेषंकृतम्?परमात्मनादत्तम्अतःएषःसाहाय्यंकृतवान्,’तर्हिवयंदुःखम्अनुभवामः।अत्रतेपरमात्मनंस्मरन्ति।वयंमयादत्तम्इतिअभिमानंधृत्वादुःखिताःभवामः।परमात्मातेभ्यःममहस्तात्दत्तवान्इतिवास्तवेवर्तमानेसतिमयाकिमर्थंदुःखंभाव्यम्?अतःपरमात्मेच्छयासर्वंप्रवर्ततेइतिभावनारक्षणीया।परमात्मानंप्रार्थयामहेयत्कस्यामपिस्थित्यांमांस्थापय, परंममसमाधानभञ्जनंनकरोतु।ममअहंकारंनाशयतु।भवतःविस्मरणंनभवतु।नामस्मरणेप्रेमयच्छतु।तवचरणौदृढाश्रद्धासततंभवतु।

        • अस्माकंजीवनंदेवहस्तेवर्तते, देवःनामाधीनःवर्तते।****

ऑक्टो.15 –नम्रःजनःभगवन्तंशीघ्रंप्राप्नुयात्। नामस्मरणम्अभिमानंत्यक्त्वाकरणीयम्।परमेश्वरःअनन्यशरणंगत्वैवतस्यनामस्मरणंकरणीयम्।बहुधासाधनम्आरब्धंचेत्तस्यअपिअभिमानःजायतेवर्धतेच।तेनसाधनाव्यर्थाभवति।सत्पुरुषंप्रतिगमनसमयेमनसिकोऽपिहेतुःधृत्वानगन्तव्यम्।अथवातस्मात्नेतव्यंचेत्भगवत्प्रेमएवनेतव्यम्।वयंप्रपञ्चप्रेमअभिमानंचगृहीत्वागच्छामः।तेनएकस्यउपरिअन्यत्लिखितंयथापठितुंनशक्नुमःतद्वत्अवस्थाभवति।किञ्चनवस्तुआवश्यकीचेत्तत्प्राप्तुंचिन्तयामः।अतःप्रथमंभगवान्आवश्यकःइतिमन्तव्यम्।तदनन्तरंतस्यप्राप्तेःसाधनानाम्अभ्यासःकरणीयः।एषःअभ्यासःमनसेकष्टदः।क्रोधप्राकटनस्यअपेक्षयाक्रोधस्यअन्तरङ्गेशामनम्अधिकंकष्टकरम्।वर्तमानेकष्टानिसन्तिपरन्तुअग्रेनिश्चयेनसुखंभविष्यति।वर्तने, भाषणे, चलनेचनिरन्तरंसावधानताआवश्यकी।अनुचितंपरिहर्तव्यम्। भगवतासहअनन्यतायैनधनंनविद्याचअपेक्ष्येते।तदर्थंकेवलम्अस्माकम्अभिमानवृत्तिःपरिहर्तव्या।भगवतःभवितुंनम्रताअनिवार्या।नम्रःजनःभगवन्तंशीघ्रंप्राप्तुम्अर्हति।लीनतायांभगवन्तंविनाअन्यत्सर्वंविस्मरति।वृत्त्याकनीयःजनःभगवन्तंशीघ्रंलभते।ज्येष्ठःजनःबालकवत्व्यवहरतिचेत्उत्तममेव।मनसातुसुदृढेनभवितव्यम्।आत्मनासहआत्मनाचतुर्विंशतिःहोराःमुक्ततयाव्यवहर्तव्यम्।भगवताकदापिदृष्टःचेत्मया–हीःनअनुभूया।अस्माकंवर्तनम्एतादृशंभवेत्यत्भगवत्प्राप्तेःइच्छामनसिवर्धमानाभवेत्तस्याःध्यासःभवेत्।रात्रौयत्स्वप्नम्ईष्यामहेतच्चिन्तनम्आदिनंकरणीयम्।वृत्तिःनामस्मरणेनियोक्तव्या।‘सर्वेषुभूत्वापिकस्यापिनभवितव्यम्’अनयावृत्यायःव्यवहरेत्सःशीघ्रंपरमार्थंलब्धुंशक्नुयात्। देहोपचारान्प्रतियःलुब्धःसःभगवन्तंपूर्णतःविस्मरति।परन्तुयस्यअनुसन्धानंसम्यक्वर्ततेसःबाह्यजगतिविद्यमानस्यऐश्वर्यस्यचिन्तांनकरोति।वित्तवासनालोकेषणाचजनंभगवतःदूरंनयतः।तयोःपाशेननिगृहीतव्यम्।लोकेषणावित्तेषणाभ्यांसहप्रपञ्चेसंसर्गःभवेदेव।तयोःपरिहरणंदुष्करम्।यःभगवत्प्रेमइच्छतितेनतयोःगुणधर्मान्ज्ञात्वातयोःउपयोगःकरणीयः।तेनतयोःदोषाःतंनबाधन्ते।

      • अभिमानरहितत्वेनगच्छतुरामंशरणं।आत्मीयःसःभवेदितितेनभवतुज्ञानम्।।****

ऑक्टो.16 –परनिन्दाविद्याभिमानःचमनुष्यंभगवतःअपनयतः। परनिन्दासमंपापंनविद्यते।निन्दाभ्यासःअतीवअसमीचीनः।तेनआत्मनःहानिरेवप्रवर्तते।परदुःखार्थंमनुष्यःनिन्दांकरोति, परंतांश्रोतुंसःअनुपस्थितः।अतःतेनकिंसाधितम्?निन्दयास्वमनःएवदूषयति।दूषितंमनःदुष्कर्मवापरनिन्दार्थंप्रवर्तते।परनिन्दायस्मैरोचतेतेनज्ञातव्यंयत्परमेश्वरःतस्मात्बहुदूरंवर्तते।सर्पविषनाशस्यचिह्नंवर्ततेयत्कटुःकटुःएवअनुभूयते, तद्वत्परनिन्दानरोचतेचेत्ईश्वरःसमीपम्आगतःइतिज्ञातव्यम्।अतःयःस्वहितम्इच्छतितेनपरनिन्दात्यक्तव्या, जिह्वानामजपार्थम्एवअर्पणीयाच।भगवन्मार्गेणगच्छताजनेनपरदोषबीजम्आत्मन्येववर्ततेइतिमनसिनिधायवर्तनीयम्।अवगुणान्स्वान्तःकरणतःनिष्कास्यभगवन्नामतस्मिन्वपनीयम्। बहुधाअस्माकंदोषान्वयंजानीमः।तेअस्मान्भगवन्तंप्रतिगन्तुंरुन्धन्तिइत्यपिवयम्अवगच्छामः।परंवयम्असहायाः।उदाहरणार्थंकेषाञ्चनजनानांदृष्टिःअन्यान्बाधते।किमपिसमीचीनंवस्तुतैःदृष्टंचेत्तत्भ्रंस्रते।एतादृशान्दोषान्स्वयमेवपरिष्कर्तुंनशक्नुमः।परंसत्सङ्गत्यापरिष्करणंशक्यम्।एषाएवसत्पुरुषसङ्गत्याःमहिमा।मनुष्यःस्वभावतःस्वदोषान्वर्धयतिअतःतस्यजीवनंसुखकरंनभवति।सःअन्यान्तेषांदोषान्दर्शयेत्परंस्वदोषावगमनंदुष्करम्। विद्याबहुधामनुष्यंभगवतःअपनयति।अज्ञाः‘वारकरिणः’अपि‘विठ्ठलविठ्ठल’इतिवदन्तःभगवन्तंजानन्ति।परंविद्वज्जनाःपरमार्थपुस्तकानिपठित्वापितंनावगच्छन्ति।गृहेवाताम्बुखर्जूरिकापूर्णाःस्यूताःयदिविद्यन्तेतर्हिनलाभः।यदिएतानिव्यञ्जनानिभुक्त्वारक्तेनसम्मिलन्तितदातेषाम्उपयोगःभवति।तद्वत्पुस्तकेविद्यमानंज्ञानम्आचरणेनपरिणमतेतर्हिव्यर्थम्।भगवतःकृतेकष्टानिमाकुर्वन्तु।एषःकष्टसाध्यःविषयःन।सात्विकप्रेम्णाएवभगवान्साध्यः।प्रेम्णाजातान्परिश्रमान्जनःविस्मरति।भवान्भगवत्प्रेम्णापूर्णःभवतु।परस्परंप्रेमवर्धयन्तु।तेनसर्वंजगत्आनन्दमयंप्रेममयंचदृश्येत।आत्मानंविस्मरन्तुच।

            • निन्दाअस्माकंसाधनंज्वालयति।****

ऑक्टो.17, - अनन्यतायामेवभक्तिःउदेति। भगवन्तंविनाभक्तिःन।सौभाग्यवत्याःस्त्रियःपतिःविद्यतेएवतथैवयत्रभक्तिःतत्रभगवान्विद्यतेएव।भगवान्भक्तेःप्राणः।भक्तिःमायाचभगवतःएवद्वेभार्ये।तेनतेद्वेसपत्न्यौ।सपत्न्यौएकस्मिन्गृहेसुखेनननिवसतःइतिजगतिसर्वत्रानुभवः।मायाअपनेतव्याचेत्भक्तिःअनुसरणीया।सामायांसहजंप्रतिसंहरति।मायायाःप्रभावःनश्यतिचेत्अस्माकंकार्यंजातम्। व्यायामशालांगन्तारःअगन्तारःएतयोःमध्येस्वल्पःवाभेदःद्रष्टव्यः।व्यायामकर्तुःशरीरेकिञ्चित्वास्नायुवलयंद्रष्टव्यम्।तथैवभक्तिकारणेनस्वभावेकिञ्चनवाभिन्नत्वम्आगच्छेत्एव।विद्याम्इच्छामःचेत्विद्वत्सङ्गतिःआवश्यकी।तद्वत्भक्तिःआनन्दःचआवश्यकौचेत्भगवत्सङ्गतिःअनिवार्या।सर्वसृष्ट्यांरामरूपदर्शनमेवभक्तेःफलम्।तदर्थम्अनन्यतायाःआवश्यकताअतीववर्तते।अनन्यतायामेवभक्तिःउदेति।द्रोपद्याःअनन्यतासत्या।भगवन्तंविनाममकृतेकोऽपिआधारःनवर्ततेइतिएतस्यविश्वासःएवअनन्यतायाःस्वरूपम्।ममप्राप्तेःसाधनंभक्तिःइतिसाक्षात्परमात्मनाकथितम्।यथानामस्मरणंविस्मरणेननकर्तुंशक्यतेतथैवभक्तिःअभिमानेनकर्तुंनशक्यते। चिन्तयन्तु, कस्यचिद्जनस्यविवाहःजातः।ह्यःसःब्रह्मचारीआसीत्अद्यसःगृहस्थःजातः।तथापितस्यजीवनेइतरकार्याणितथैवप्रवर्तन्ते।तद्वत्वयंभगवतःभवामःचेदपिप्रपञ्चव्यवहाराःपूर्ववत्प्रवर्तन्ते।यद्यत्प्रवर्ततेतत्तत्सर्वंभगवान्कथनीयः।भगवतःअस्तित्वस्यभानंरक्षितुंभगवतेकथयित्वाएवप्रत्येकंकार्यंकुर्मः।भक्त्याभगवान्लभ्यते, फलाशासहजंनिमिलतिच।अतःअस्माभिःउपासनाभक्तिःचवर्धनीये।‘अहंदेही’इतिवदन्‘अहंदेहस्य’एवजातः।तद्वत्‘अहंदेवस्य’इतिवदन्‘अहंदेवस्य’अपिभविष्यामि।परंतदर्थंसगुणोपासनायाःआवश्यकतावर्तते।मार्गाक्रमणेनविनागृहंगन्तुंनशक्नुमःतथैवसगुणोपासनयाविनाउपाधिरहितत्वंनप्राप्नुमः।‘रामःकर्ता’इतिभावनाएवसगुणोपासना।इदम्एवसत्यभक्त्याःस्वरूपम्।‘भवान्यत्ददातितत्मह्यंरोचते’।इदंभगवन्तंकथयित्वा‘देवायइदंरोचेतकिम्’इतिविचिन्त्यव्यवहरामः।

      • ‘प्रत्येकंघटनाभगवदिच्छयाएवप्रवर्तते’इतिस्थिराभावनाएवभक्तिः।***

ऑक्टो.18 –भगवत्प्राप्तेःसाधनानि। भगवान्तथाचवयम्एतयोःमध्येअभिमानस्यजवनिकावर्तते।एषादूरीभवतिचेत्भगवत्प्राप्तिःभवति।एतांदूरीकर्तुंविविधाःउपायाःवर्तन्ते।कर्ममार्गः, राजयोगः, हठयोगःइत्यादिभिःमार्गैःएषानदूरीभवति, कदाचित्वर्धतेअपि।भक्तिमार्गःसरलः।भक्तिःइत्युक्तेभगवन्तम्अभिमानेनविनाअनन्यतयाशरणगमनम्।भगवतःभूत्वाअवस्थानम्।भगवन्तंविनाकस्यापिनदर्शनंकरणीयम्।सर्वत्रभगवत्प्रतीतिःएव।एतादृशींभक्तिंप्राप्तुम्उपायःइत्युक्तेसर्वंकर्तृत्वंभगवतेदातव्यम्।सर्वंजगत्तस्यइच्छयाप्रवर्ततेइतिमन्तव्यम्, अस्माकंप्रत्येकंक्रियातस्मैसमर्पणीयाच।एतेनअस्माकम्अभिमानःशीघ्रंनश्यति।इदंयदिनशक्यतेतर्हिगुर्वाज्ञयाव्यवहर्तव्यम्।अस्माकम्अभिमानःसुज्ञत्वंचव्यपाकृत्ययथागुरुःकथयतितथाविनाआक्षेपंवर्तनीयम्।इदम्अपियदिनशक्यतेतर्हिसत्पुरुषाणांसमीपेकेवलंस्थातव्यम्।तैःसहवासेनवचनैःचशनैःशनैःअभिमानःक्षीयते। भक्तिम्उत्पादयितुम्उपायद्वयम्।प्रथमोपायःसर्वंपरित्यज्यएकवस्त्रेण‘यदाभवन्तंप्राप्स्यामितदाएवउत्थास्यामि’इतिएवंनिग्रहेणस्थातव्यम्।एषःअतिदुर्गमःमार्गः।प्रापञ्चिकानांकृतेअसाध्यःएव।अपरोपायःवर्ततेयत्सहवासेनभक्तिःउत्पादनीया।भगवद्गुणवर्णनं, श्रवणं, पठनं, तस्यदर्शनं, प्रत्येकंकृतिःभगवतेएव, प्रत्येकंकृतौतस्यस्मरणंचेतिएवंतेनसहअखण्डवासेनभगवत्प्रेमउत्पद्यते।विषयार्थंकृताभगवद्भक्तिःनवास्तवाभक्तिः।निष्कामभगवत्सेवाअपेक्ष्यते।यतोहिभक्तिःइत्युक्तेसंलग्नता।विषयेणसंलग्नताविषयभक्तिः, नभगवद्भक्तिः।वयंविषयसेवांकुर्मः, नतुभगवत्सेवाम्।तेनवयंविषयाणांम्एवदासाः।दासाःभूत्वाविषयान्कथंभुञ्ज्महे।स्वामिनःभूत्वाविषयाःभोक्तव्याः।सत्पुरुषाःभगवान्चनिरतिशयंसुखदातारः।तेभ्यःविषययाच्ञाइत्युक्तेरामंभिक्षावस्त्रयाच्ञासदृशंमूर्खताएव।सेवाफलंप्रार्थ्यवयंभगवन्तंदूरीकुर्मः।भगवत्प्राप्तिःएवअस्माकंजीवनध्येयम्इतिनिश्चित्यतांपरितःएवसदाभ्रमणीयम्।भगवतितद्रूपाःभवन्तितेनप्रत्यागच्छन्तिइतिअवधातव्यम्।

      • भगवत्प्राप्त्यैयेविक्षेपाःतान्व्यपाकर्तुंयःव्याकुलःतस्यसाधनासम्यक्प्रवर्तते।****

ऑक्टो.19 –संस्कारकर्मणःमूलहेतुः। धार्मिकसंस्काराःबहुसमीचीनाः।यतोहितेनअस्माकंमनःसम्यक्प्रवर्तते।प्रत्येकंधर्मेसंस्काराःतुसन्तिएव।संस्कारविहीनस्यनकोऽपिधर्मः।सःआस्तिकःभवेत्वानास्तिकः।वस्तुतःकिमपिकर्मयथाशास्त्रंनभवति।परंयावत्शक्यंसंस्कारकर्मयथाशास्त्रंकरणीयम्।तस्मिन्यत्रन्यूनतावर्ततेतत्रभगवत्स्मरणंकरणीयम्।यतोहिभगवत्श्रद्धावर्धनीयाइतिएवसंस्काराणांमूलहेतुः।संस्कारकर्मसमयेआवश्यकःधार्मिकविधिःकरणीयःतथैवयेषांमनसिअस्माकंविषयेप्रेमवर्ततेतथाचयेषांविषयेअस्माकंमनसिप्रेमवर्ततेतेभोजनार्थम्आह्वयनीयाः।नअत्रलौकिकःवर्धनीयः।असमीचीनंत्यक्तव्यम्समीचीनंस्वीकरणीयंचइत्यैवसंस्कारस्यमूलहेतुः।संस्काराःभगवत्स्मरणंकारयन्ति।समाजःबन्धनंविनानप्रवर्तते।बन्धनंमाअस्तुइतिवदन्तःजनाःमूर्खाः।बन्धनैःअस्माकंधर्मःसनातनत्वंप्राप्नोत्।अतःबन्धनानाम्अतीवमहत्त्वम्।धर्मःकदापिननश्यति।बन्धनानिनश्यन्ति।साम्प्रतंबन्धनानिनश्यन्तःसन्ति।पुराधर्मेश्रद्धाआसीत्।अतःएतावताम्अन्वेषणानाम्अभावेअपिस्वास्थ्यम्आसीत्।परम्अधुनाबाह्यजगतिबहूनिसंशोधनानिजातानितथापिअविद्यमानेनधर्माधिष्ठानेनमानवस्यकृतेस्वास्थ्यंनविद्यते।साम्प्रतंकेचनजनाःवदन्तियत्यथासमाजःपरिवर्ततेतथानीतिनियमाःअपिपरिवर्तनीयाः।परम्अध्यात्मविद्यानुसारंनीतिनियमाःशाश्वताः।तान्अपरिवर्त्यमनुष्येणस्वयंपरिवर्तनीयम्।यस्यसमाजस्यअधिष्ठानंनबुद्धिः, नधनंवा, अपितुधर्मःवर्तते, सःसमाजःवास्तवंसमाधानंप्राप्नुयात्।धर्मःइत्युक्तेएकेनअर्थेनव्यवस्थितता।धर्मःवस्तुमात्रंसंस्काररूपेणसम्यक्धरति। व्यवहारेउपयुक्तःएववास्तवःवेदान्तःतथापरमार्थेउपयुक्तःएवयोग्यःव्यवहारः।वयंभगवन्तम्इच्छामः, परंजगत्मध्येआगच्छतिइतिमन्यामहे।किमर्थंजगत्मध्येआगच्छति?यतोहिअस्माकंजगतासहसम्बन्धाःस्वार्थपराः।जगतासहनिस्वार्थतयाव्यवहारस्यअविद्यमानेनअभ्यासेनजगन्मोहःअस्मान्नमुञ्चति।तंनाशयितुम्अस्माभिःनिस्वार्थित्वेनभवितव्यम्।तदर्थंमनःनियन्त्रणेआनेतव्यम्।तदर्थंसाधनंनामस्मरणम्।जनिंप्राप्ययदिकिमपिकरणीयंतर्हिभगवन्तम्अविस्मृत्यकर्माणिकरणीयानि।इदंपर्याप्तम्।

          • नामस्मरणेयःगार्हस्थ्यंकरोतितस्यगार्हस्थ्यंपूर्णत्वंप्राप्नोति।*****

ऑक्टो.21 - प्रारब्धम्इत्युक्तेअज्ञातविषयाणांकारणम्। किंभवेत्अस्माकंध्येयम्इतिनिश्चिनोतुंमनुष्यस्यबुद्धिःवर्तते।सानतुपशूनाम्।इदमेवमनुष्यपश्वोःमध्येभेदः।प्रारब्धभोगाःपशुभिःमनुष्यैःचभोक्तव्याःएव।परंयस्यभगवत्कृपावर्ततेसःसौकर्येणयथानुकूलसमयेभोक्तुंशक्नोति।जगतःघटनाःयथाप्रवर्तन्तेतथाएवअस्माकम्अपिसर्वेविषय़ाःप्रारब्धेनप्रवर्तन्ते।मयाप्राप्तंसर्वंस्वप्रयत्नेनएवविद्यतेइतिएतायाःकल्पनायाःपरित्यागंविनादेहःप्रारब्धेस्थापयितुंनशक्नुमः।ममसर्वंतस्यकृपाफलम्इतिमननेनक्रियाप्रवर्तते, परंकर्तृत्वंनविद्यते।बहवःविषयाःएवंसन्तियत्तान्निर्दिश्यतेषांकारणानिवयंवक्तुंशक्नुमः।परंकेषाञ्चनविषयाणांकारणानिवयंदर्शयितुंनशक्नुमः।तदावयंप्रारब्धकारणंवदामः।प्रारब्धम्इत्युक्तेविषयाणांअज्ञातकारणानिइतिवचनेनहानिः।सत्पुरुषैःअपिप्रारब्धंभोक्तव्यम्परंतेषांदेहबुद्धिःनविद्यते।अतःभोगानांसुखदुःखंतेषांकृतेनभवति।व्यवहारतःऔषधिंस्वीकृत्यभोगाःभोक्तव्याःएषःएवसत्यमार्गः।कश्चनसाधुःसिद्धिद्वाराजनानांरोगान्दूरीकरोतिइतिनसमीचीनम्।तेनसाधुःविख्यातःभवेत्परंतेनतस्यकल्याणंनास्ति, नतुजनहितम्।चिन्तयन्तु, कश्चनमनुष्यःमार्गेगच्छन्दशरुप्यकाणांमुद्रांपश्यति।पूर्वसंस्कारेणताम्उन्नेतुंतस्यमनसिवासनाउद्भवेत्।परंसासाक्षाद्उन्नेतव्यावानेतिनिश्चिनोतुंस्वातन्त्र्यंतस्यवर्तते।देहभोगःप्रारब्धेनआपद्यन्ते, परंमनोवृत्तिम्अवस्थापयितुंस्वातन्त्र्यम्अस्माकंकृतेवर्तते।तत्नप्रारब्धेअवलम्बितम्।भगवान्सगुणरूपेप्रकटितःचेत्सोऽपिप्रारब्धनियमैःबद्धः। अस्माकंस्वभावःजन्मतःअसम्यक्वर्ततेचेदपितंनिश्चयेनपरिष्कर्तुंशक्नुमः।अन्तःकरणेयावत्अवगुणाःवर्तन्तेतावत्विकासःदुष्करः।बीजवपनार्थंक्षेत्रस्ययथासिद्धताकरणीयाभवतितथैवभगवत्प्रेमआनेतुम्अन्तःकरणंदुर्गुणविरहितंस्वच्छंचकरणीयंभवति।एकदाअन्तःकरणम्एवंशुद्धंभवतिचेत्भगवन्तंविनानकोऽपिविद्यतेइतिभावनाम्अनुवर्तयितुम्इत्युक्तेअनुसन्धातुंबहूनिकष्टानिनभवन्ति।अनुसन्धानम्एवअस्माकंध्येयमितिमत्वातदनुसारेणइतरविषयाःकरणीयाः।तदर्थंसर्वैःमनसानामस्मरणंकरणीयम्आनन्देस्थातव्यंच।

        • प्राप्तिर्वियोगःद्वावपिप्रारब्धाधीनौ।अतःहर्षशोकौकिमर्थम्?****

ऑक्टो.26, - भगवत्कृपायाःआवेगःइत्युक्तेकिम्? वपनार्थंबीजम्अत्यन्तंशुद्धम्अपेक्ष्यते।दूषितंनष्टंवामास्तु।भगवन्तंविनाअन्यस्यकस्यापिफलस्यअपेक्षांमनसिनिधायकृताभक्तिःदूषितबीजवद्वर्तते।आरम्भेएवउत्तमबीजोत्पत्तिःकदाचित्नशक्या, परंप्रयत्नेनसापिशक्या।बहुधाऐहिकसुखेच्छयामनुष्यःभक्तिम्आरभतेइत्युक्तेसःदूषितंबीजंवपति।प्रारम्भःतुकेनापिनिमित्तेनभवति।परम्अल्पविचारेणशुद्धबीजवपनम्आवश्यकमितिचित्तम्आकलति।तादृशीभगवत्प्रार्थनाअनन्यभावेनकरणीया।वृष्टेःभावाभावौभगवदधीनौ।सःयथाकालंवृष्टिंकारयत्यपि।कदाचित्अधस्तनभागेवर्तमानेक्षेत्रेअधिकंसञ्चितंजलंयदिबहिःननिष्कासयामःतर्हिसर्वंसस्यंनष्टंभवति।तथैवभगवत्कृपावेगःयदिअत्यधिकःतर्हिबन्धंभञ्जयित्वासःबहिःत्यक्तव्यः।तेनउभयत्रअपिलाभः।क्षेत्रात्अधिकंजलंबहिःत्यजामःचेत्सस्यंसम्यक्वर्धतेतथाबहिःनिस्सरितेनजलेनपरितःवर्तमानानिक्षेत्राणिसुफलानिभवन्ति।भग्नबन्धात्जलनिस्सरणम्इत्युक्तेपरोपकारः।साधकस्ययथाउन्नतिःभवतितथासिद्धिंप्राप्यवचनानुसारंघटना, परचेतसःअवगमनम्, अदृश्यंभूत्वास्थानान्तरणम्इत्येतादृशाःप्रकाराःप्रभवन्ति।तदामोहग्रस्तैःनभूत्वास्वार्थायतेषामुपयोगःनकरणीयःइतिअवधातव्यम्।उपयोक्तव्यंचेत्अन्येषांकृतेपरोपकारायवा।एतदर्थमेवबन्धंभञ्जयित्वाजलंबहिर्निस्सारणम्इतिउक्तम्। सुज्ञजनेनस्वसुखार्थंबाह्यवस्तुनःउपरिनिरवलम्बनस्यअभ्यासःकरणीयः।बाह्यवस्तुत्यजामःचेत्मनसःकृतेअन्यत्किमपिआवश्यकम्।एतत्वस्तुवर्ततेभगवान्।भगवान्नित्यःस्वयम्पूर्णःआनन्दमयःचवर्तते।तस्यचिन्तनेनएतेगुणाःमनसिअवतरन्ति।अर्थात्मनसःभगवच्चिन्तनेनआनन्दमयत्वेनमनुष्यजीवनंकियत्रसमयंभवेत्इतिएतस्यकल्पनांकुर्वन्तु।‘अहंतस्य’‘इदंसर्वंतस्य’चेतिभानंसततंभवेत्।कियान्आनन्दःतत्रवर्तते।

          • शुद्धचेतसानामस्मरणेनभगवत्कृपाअनुभवःचप्राप्यते।******

ऑक्टो.25 –ईश्वरप्राप्तेःमार्गः, वास्तवासिषाधयिषा, सम्पूर्णाशरणागतिःच। केवलंविषयत्यागेनईश्वरप्राप्तिःनभवति।नपत्नीत्यागेन, नजनेषुउषित्वा, नवावनेउषित्वा।वस्तुतःअमुकंकिमपिविशिष्टंनवर्ततेयेनतस्यप्राप्तिःभवेत्।तथायदिअभविष्यत्तर्हिसत्पुरुषाणाम्अवगमनंसहजम्अभविष्यत्।सत्पुरुषाःकिंनकुर्वन्ति?केचनप्रपञ्चंकुर्वन्ति, केचनवनेनिवसन्ति।अतःअमुककरणेनईश्वरप्राप्तिःभवतिइतिन।अतःकिंकरणेनतस्यप्राप्तिःभवेत्?तदर्थम्एकमेवआवश्यकंयत्ईश्वरप्राप्तेःअन्तर्मनसितीव्रेच्छाभवेत्।यस्यएतादृशीसिषाधयिषाविद्यतेतस्यअर्धंकार्यंजातम्।यथाविशालंभवनंनिर्मातुंप्रथमंदृढम्अधिष्ठानम्आवश्यकंतथावास्तवयासिषाधयिषयाअग्रिमकार्यार्थम्अधिकाबाधानायाति।इदंभाग्येनएवभवति।सिषाधयिषाविद्यतेचेत्भोगानांत्यागःनअनिवार्यः।अहंरामस्यइतिमनसाचिन्तनीयम्।तंशरणंगत्वातथाव्यवहर्तव्यंचइत्युक्तेमनसातस्यैवभवितव्यम्।अनेनप्रपञ्चःअसमीचीनःभवेदितिमन्यतेकिम्?वयंसेवावृत्तिंकुर्मःतदाअधिकारिविषयेअस्माकंमतंसम्यग्वर्ततेकिम्?मनसेसःनरोचतेतथापिवयंदेहेनतस्यकार्यंकुर्मएव।तद्वत्मनसावयंरामस्यइतिनिश्चित्यदेहेनप्रपञ्चःकरणीयः।तेनप्रपञ्चःअसम्यग्नभूत्वाउत्तमःएवभविष्यति।यतोहियंवयंशरणंगच्छामःतस्यमनसिचिन्तावर्ततेएव।यदाबिभीषणःशरणम्आगतःतदासःहन्तव्यःइतिअन्येउक्तवन्तः।परंरामःउवाच,“मांशरणम्आगतस्यरक्षणंममकर्तव्यम्।”शरणागतायनकेवलंजीवदानम्अपितुलङ्काराज्यमपिदत्तवान्।यःरामस्यभूत्वावर्ततेतस्यचिन्तांरामःकरोति। एतावन्तःजनाःमाम्आगच्छन्ति, परंरामस्यप्राप्तिंकारयतुइतिएकःअपिजनःपृष्टवान्वा?अहंभवतांविषयान्पूरयितुम्आगतःकिम्?चिन्तयन्तु, चौर्यार्थंप्रस्थितस्यजनस्यमार्गेमारुतिमन्दिरंवर्तते।सःमारुतिंप्रार्थयति, “चौर्यकार्येयदियशःप्राप्नोमितर्हिमन्दिरशिखरेसुवर्णकलशंसंस्थापयामि।”अधुनावदन्तुयत्मारुतिःतस्मैकिंदद्यात्?तेनतस्यपणःस्वीकरणीयःवा?यदिन, तर्हिभवन्तःविषयान्याचन्तेतदाहंनददामिचेत्भवन्तःमांकिमर्थंदूषयन्ति।यदिभगवत्समीपेपणःकरणीयःतर्हिएतादृशःकरणीयःयत्‘मांयस्यांस्थित्यांसंस्थापयसितस्याम्आनन्देनसमाधानेनवामयाभवितव्यम्।याच्ञायाःइच्छाएवनभवेत्इतिकरोतु’।

        • साधकेनयावच्छक्यंकर्तव्यंकरणीयम्अनन्तरंगुरुःभगवान्वापश्येत्इतिमत्वाआनन्देनस्थातव्यम्। *****

ऑक्टो. 28, - परमेश्वरःअस्माकंहृदयेनिवसति। सर्वकारीयाःकर्मकराःवरिष्ठाधिकारिणाम्आज्ञयाव्यवहरन्ति।तेनतेषांव्यक्तिगतंदायित्वंकिमपिनविद्यते, नकर्तृभावःअपितान्स्पृशति।तथैवगुरौश्रद्धांनिधायतस्यआज्ञयावर्तनीयम्।लाभहानीदेवःजानाति।गुरोःदायित्वंतथाचसःएवसाधनंकारयति, अतःकर्तृभावःअपितस्यैव।ततःअपियाःयाःकृतयःभवन्तिताःसर्वाःतस्यइच्छयाअधिकारेणचभवन्तिइतिदृढाभावनावर्ततेचेत्कर्तृत्वंपरित्यज्यपूर्णतःनिर्बन्धनत्वंलभते।एतादृशीअवस्थाप्राप्यतेचेत्स्वतःयत्प्रवर्ततेतत्तस्यैवसेवा।मुख्यविषयःवर्ततेयत्‘परमात्माआत्मनःहृदयेवर्तते’‘अहंतस्मिन्वर्ते’‘अहंसःएवअस्मि’चइतिएतादृशीभावनाआवश्यकी।इतःपूर्वंसोपानंवर्ततेयत्परमात्मापश्यतितथाचअहंसर्वंकरोमीतिभानम्।तेनअभिमानःसर्वतःनगलतिपरम्असमीचीनानिकर्माणिनप्रवर्तन्ते।क्षेत्रायक्षेत्रत्वंभावनयानदद्मःचेत्तत्रजलम्अश्मानःचवर्तन्ते।काशी, गङ्गाचेतिनामनीउच्चारयामःचेत्अन्तःकरणेपवित्रसंस्काराःउद्भवन्ति।परन्तुतत्रस्थाःस्थानीयजनाःएतादृशाःभावविहीनाःभवन्तियत्वर्षानुवर्षंस्नानार्थमपिनगच्छन्ति।अनेनतत्स्थानंक्षेत्रंनइतितेचिन्तयन्तिइतिदृश्यते।क्षेत्रंभावनयाएवप्रवर्ततेखलु।अतःतत्गृहेएवकिमर्थंननिर्मामः?अर्थात्तदर्थंदृढःभावःअपेक्षितः।तादृशःदृढःभावःयदिनभवतितर्हिक्षेत्रंगन्तव्यम्।अर्थाभावेनयदिनशक्यतेतर्हिकाशींगच्छामिइतिनित्यंवक्तव्यम्, इत्युक्तेकाश्याःनित्यंस्मरणंकरणीयम्।तेनपवित्रसंस्काराःउद्भूयमनःपवित्रीकुर्वन्ति।देवःसर्वत्रव्याप्तः।परंभावेनसःप्रकटनीयः।प्रह्लादः, द्रोपदीइतिएतादृशानाम्एवंदृढःभावःआसीत्यत्देवःअस्माकंसाहाय्यकर्तावर्तते।अतःप्रकटनंदेवस्यकृतेअनिवार्यंजातम्।सद्गुरुःममसाहाय्यंकरिष्यतिएवइतियदिदृढःविश्वासःवर्तते, तर्हितेनसाहाय्यंकरणीयमेवभवति।अस्यअनुभवंस्वयमेवभवन्तःकर्तुंशक्नुवन्ति। स्वार्थवशात्कर्मइत्युक्तेप्रपञ्चः।निःस्वार्थतयाकर्मकरणम्इत्युक्तेपरमार्थः।यःआसक्त्यांनविद्यतेसःनिःस्वार्थी।आसक्तिंनिराकर्तुंप्रथमसोपानंवर्ततेउदासीनता।देवःवर्ततेइतिनिःशङ्कंभाव्यतेतत्ज्ञानम्।इदंज्ञानंभगवदनुसन्धानेनसहजंप्राप्यते।

*** रामःअस्माकंकृतेआधाररूपेणवर्ततेइतिभावनाउत्पादनीयाइतिउपासनायाःहेतुःभवेत्।*****

ऑक्टो.29 –भगवतःभवितुम्अस्माभिःनिर्दोषैःभव्यम्। भगवत्प्राप्तेःसमाधानंवयंनप्राप्नुमःयतोहिवयंयेषाम्आत्मीयाःस्मःइतिचिन्तयामःतेषांबन्धंनत्रोटयितुंशक्नुमः।प्रपञ्चंवयम्इच्छामः।जगन्मुखंदृष्ट्वासमाधानंलभ्येतइतिवयंमन्यामहे।परंप्रपञ्चस्य, जगतःइच्छायाःत्यागंविनाभगवतःदास्यंविनाचसमाधानप्राप्तिःदुष्करा।इदंदास्यंलब्धुंभगवत्प्राप्तेःअत्यन्ताउत्कण्ठाअपेक्ष्यते।एषाउत्कण्ठाकथम्उद्भवेत्?भगवतःभवितुम्अस्माकंपूर्णंनिर्दोषत्वम्अपेक्ष्यते।इदंनिर्दोषत्वंलब्धुंवयंयथानस्मःतथानदर्शयामः।मनःसदाशुद्धंभवेत्।वयंवस्तुतःसुयोग्याःनस्मःइतिज्ञात्वापिजनाःस्तुवन्तिइतिएतेनअस्माभिःखेदनीयम्।जगतिअस्माकंवर्तनम्एतादृशंभवेत्यत्अस्माकंविषयेकोऽपिनशङ्केत।कश्चिदपिमिथ्याचारःमास्तु।आचारविचारैःएवंपवित्राःभूत्वावयंभगवतःकिमर्थंभवितुंनशक्नुमः? यदिभगवतःभवेमतर्हिचिन्तायाःकारणम्?वयंसर्वे‘वयंभगवतः’इतिवदामःपरंचिन्तामपिकुर्मःइतिइदंकियत्विपरीतम्!एतांप्रपञ्चचिन्तांवारयितुंप्रपञ्चेविद्यमानंवैभवंधनंचसर्वम्अस्माकंकर्तृत्वंन, अपितुइदंरामेच्छयाआगतम्इतिअस्माभिःचिन्तनीयम्।ममप्रपञ्चःभवतःइच्छयाप्रवर्ततेभवान्यथास्थापयतितथाहंसमाधानेस्थास्यामि, इतिएतादृशीवृत्तिःभवितव्या।एतदर्थंयथार्थंवैराग्यम्आवश्यकम्इतिन।वस्तुतःतत्वैराग्यंत्यागःचेत्यादीनिगूढकार्याणिभवद्भिःनचिन्तनीयानि।भगवान्यथास्थापयतितथासमाहितेनभवितव्यम्इतिएतादृशंवैराग्यंनान्यत्।यत्रभगवन्तंविस्मरामःतत्रवैराग्यंकुर्वन्तु।यत्रभगवतस्स्मरणंभवतिसःविवेकःइतिमत्वाआचरन्तु।प्रपञ्चंसम्यक्कुर्वन्तु।परंतस्मिन्आसक्तिःमास्तु।आसक्तिःपापम्।प्रपञ्चकरणंनपापम्।यावच्छक्यंधर्मपालनंकुर्वन्तु।नीतिंप्राणेनसहपालयन्तु।गतेप्राणेअपिनामचैतन्यंभवतु।एतावत्नामरक्षन्तु।एतान्त्रीन्विषयान्रक्षन्तु।गोन्दवलेग्रामंभवन्तःसर्वेआगच्छन्ति।अहंसङ्कोचम्अनुभवामियत्एतावत्कष्टंसोढ्वाधनंव्ययीकृत्यचभवन्तःआगच्छन्ति, परंकिंनयन्ति?किमपिनीत्वातत्आचरणेआनयन्तु।नामस्मरणेसदास्थातव्यम्।नामार्थमेवनामजपंकुर्वन्तु।नामजपंकृत्वाकिमपिनयाचन्ताम्।श्रीरामःकल्याणम्अकृत्वानस्थास्यति।

        • यदिकश्चनअस्मान्उत्तममितिवदतितर्हिजीवायपीडनंभवेत्, नामस्मरणंकुर्यात्च।****

ऑक्टो. 31–मनुष्यमात्रंभगवत्प्राप्त्यर्थंजातम्। भगवान्एकमेवजानाति।तस्यभक्तस्ययत्वर्ततेतदेवतस्मैरोचते।तत्रनजातिवर्णबन्धनम्।वयंकःभाग्यवान्इतिकथयामः?धनिकः।परंसःनवास्तवःभाग्यवान्।येनभगवान्मिलितःसःएववास्तवःभाग्यवान्।भगवतासहमेलनम्एवजीवनेमुख्यकार्यमितिप्रत्येकंजनःचिन्तयेत्।धनंभगवन्तंनरुणद्धि।अस्माकम्अहंकारःएवभगवन्तंरुणद्धि।‘अहंसेवे’इतियःवदतितेनवास्तवासेवानभवति।कर्तृभावःयावत्पर्यन्तंवर्ततेतावत्पर्यन्तंसेवानभवति।भगवन्तंस्मृत्वायत्कुर्मःतत्पुण्यकर्म।भगवान्ममसमीपेवर्ततेइतिश्रद्धयाव्यवहरन्तु।श्रद्धयायःकरोतिसःनिश्चयेनफलंप्राप्नोति।श्रद्धयाविनाकृतंभजनपूजनंवृथाइतिमाचिन्तयन्तु।भगवद्भक्तिम्उत्पादयितुमेवभजनपूजनंकरणीयम्, नतुमनोरञ्जनार्थम्।सत्कर्मकुर्वाणाःबहवःसन्ति।परंबहुधातत्रस्वार्थबुद्धिःवर्तते।फलाशाविरहितंसत्कर्मएववास्तवाभक्तिः। सर्वभूतेषुभगवद्भावःएवपरमार्थसारः।मयिभगवान्वर्ततेइतियदाजानामितदाइतरेषुअपिभगवन्तंद्रष्टुंशक्नोमि।कोऽहम्इत्यस्यअज्ञानेनसर्वःदोषःभवति।आत्मनिविद्यमानःभगवान्प्रकारद्वयेनज्ञातुंशक्नुमः।सर्वांचेतनांतस्मादेवप्राप्नुमःइत्येकम्।वयंवदामःयत्तस्यदेहःशान्तःजातः।तस्यइत्युक्तेअन्यःकश्चनअपेक्षितः।तेनज्ञातुंशक्नुमःयत्देहःनाहम्।जागृतिः, स्वप्नः, सुषुप्तिःइतिएतासाम्अवस्थानांकश्चनसाक्षीवर्तते।कोऽहम्इतिज्ञातुंसाक्षिरूपेणव्यवहर्तव्यम्।सर्वंजगत्ममेतिवयंवदामःपरंयःवास्तवःमदीयःतमेवममेतिनवदामः।भगवान्मयिवर्ततेइतिभानम्उत्पादनीयम्।अनुमानेनअनुभवेनचयदिपश्यामःतर्हिभगवान्मयिवर्ततेइतिनिश्चयेनजानीमः।वर्षस्यआनन्दःवर्षप्रतिपत्तः, आयुरानन्दःवर्धापनदिनतः, दिनस्यानन्दःउषःकालतःचआरभन्ते।अतःभगवद्भक्तिःतस्यनामजपेनआरभणीया।तेनततःलभ्यमानःआनन्दःअस्माभिःप्राप्यते।आरम्भःमधुरःअन्तोऽपिमधुरः।आकाशंयथासर्वेषांकृतेसमानंतथामानवजीवनस्यध्येयंसर्वेषांकृतेसमानम्एकंच।मनुष्यःकस्यापिजातेःधर्मस्यदेशस्यवाभवेत्सःभगवत्प्राप्त्यर्थ्यम्इत्युक्तेपरमार्थायएवजातः।

        • भगवन्तंशरणंगच्छामःचेत्सःकदापिनत्यक्ष्यति।******