अंशुमत्काश्यपागमः/सप्ततालविधिपटलः ६३

विकिस्रोतः तः
← पटलः ६२ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ६४ →


अथ वक्ष्ये विशेषेण सप्ततालविधिं परम् ।
पिशाचप्रतिमोत्सेधं अष्टाशीत्यंशकं भवेत् ॥ १ ॥

उष्णीषमर्धभागेन केशान्तं शशिभागया ।
सार्धद्व्यंशं तु नेत्रान्तं सार्धाग्न्यंशं पुटान्तकम् ॥ २ ॥

चिबुकान्तं च तत्तुल्यं वेदांशं तु गलोदयम् ।
स्तनान्तं सप्तभागं तु रुद्रांशं नाभिसीमकम् ॥ ३ ॥

तथा वै योनिमूलान्तं विंशांशं चोरुदीर्घकम् ।
जानुमानं द्विभागेन जंघा चोरुसमा भवेत् ॥ ४ ॥

चरणोच्चं द्विभागेन मन्वंशं तु तलायतम् ।
ऊरुदीर्घसमं बाहुप्रकोष्ठदीर्घं त्रिपंचकम् ॥ ५ ॥

तलायामं तु वेदांशं भूतांशं तस्य विस्तृतम् ।
तलायामसदृशं मध्यमांगुलि दीर्घकम् ॥ ६ ॥

शेषं प्रागुदितोक्तेन व्यासं कुर्याद्धीकृतम् ।
सप्ततालं समाख्यातं शेषं प्रागपरोदितम् ॥ ७ ॥


इत्यंशुमान्काश्यपे सप्ततालविधिपटलः (त्रिषष्ठितमः) ॥ ६३ ॥