अंशुमत्काश्यपागमः/गर्भन्यासविधिपटलः २५

विकिस्रोतः तः
← पटलः २४ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः २६ →


अथ वक्ष्ये विशेषेण गर्भन्यासविधिं परम् |
प्रासादं देहमित्युक्तं तस्य प्राणस्तु गर्भकम् || १ ||

गर्भहीने गृहे विप्र सकुत्कालवन्नवास्यकम् |
अहमन्ये च देवाश्च न वासे पुन्नगर्भके || २ ||

तस्मात्सर्वप्रयत्नेन गर्भन्यासं तु कारयेत् |
श्रीप्रदं प्राणिनां गर्भं इतरे श्रीकरं भवेत् || ३ ||

गर्भन्यासं न कर्तव्यं कर्तव्यं कर्तृनाशनम् |
अधिष्ठाने प्रतेरूर्ध्वे भूसुराणां हिताय वै || ४ ||

जगत्यूर्ध्वे नृपाणां तु कुमुदोर्ध्वे विशां परम् |
होमोर्ध्वे गर्भविन्यासं शूद्राणामभिवृद्धिदम् || ५ ||

एवं जात्यर्हकं प्रोक्तं भूमौ त्वाद्येष्टकोपरि |
प्रासादे मण्टपे चैव प्राकारे गोपुरे तथा || ६ ||

परिवारालये चैव गर्भन्यासं तु कारयेत् |
यत्रैवाद्येष्टकान्यासं तत्रगर्भं निधापयेत् || ७ ||

सौवर्णं राजतं ताम्रं श्रेष्ठमध्याधमं क्रमात् |
कांस्येनैवायसा वापि कर्तव्यं गर्भभाजनम् || ८ ||

पंचांगुलं समारभ्य यावद्वै विंशदंगुलम् |
एकांगुल विवृद्ध्या तु कलासंख्या तु भाजनम् || ९ ||

एकादिषोडशान्तानां भौमानां तु यथाक्रमम् |
गर्भभाजनतारास्ते स्वांघ्रिमूलतदन्तु वा || १० ||

गर्भभाजन विस्तारं सादृशोन्नतन्तथा |
भाजनोच्च त्रिभागैकं पिधानस्योच्छ्रयं भवेत् || ११ ||

भाजने द्वित्रिभागान्तं पिधानालम्बनं द्विज ! |
यवैकव्यासमारभ्य यावार्धं तु विवर्धनात् || १२ ||

यावत् सार्धाष्ट यवकं तावद्भित्ति विशालकम् |
प्रागुक्तानां तु फेलायां क्रमशः परिकल्पयेत् || १३ ||

पंचविंशतिकोष्ठादि भाजनाभ्यन्तरे कुरु |
फेलाभित्ति विशालार्धं एकोर्वा भित्तेस्तु द्विजसत्तम || १४ ||

अनन्तादि शिखण्ड्यन्तं मूलमंत्रं निधापयेत् |
तद्बाह्ये षोडशे कोष्ठे पूर्वादि क्रमयोगतः || १५ ||

अकारादि विसर्गान्तं स्वरान्न्यस्त्वा क्रमेण तु |
रत्नलोहानि धातूंश्च फेलाया भ्यन्तरे न्यसेत् || १६ ||

मृत्कन्दधान्य पत्राणि गर्भगर्ते तु विन्यसेत् |
फेलाशुचिं ततो गव्यैः अस्त्रमंत्रमुदाहरन् || १७ ||

माणिक्यं विन्यसेत्कूटे कूटाक्षरमुदाहृतम् |
अनन्ते विन्यसेद्वज्रं सूक्ष्मे तु मौक्तिकं न्यसेत् || १८ ||

शिवोत्तमेन्द्रनीलं स्यात् स्फटिकं त्वेकनेत्रके |
एकरुद्रे तु शंखं स्यात् त्रिमूर्तौ पुष्यरागकम् || १९ ||

श्रीकण्ठे सूर्यकान्तं स्यात् वैडूर्यं तु शिखण्डिके |
स्वर्णे नैव गजं कृत्वा अकारे विन्यसेद्बुधः || २० ||

कपालं रजतेनैव इकारे तु निधापयेत् |
ताम्रेणैव कृतं कुंभं उकारे द्विजसत्तम || २१ ||

आरकूटेन खट्वांगं ऋकारे तु निधापयेत् |
स्वर्णेन वृषभं कृत्वा कूटाक्षरे निधापयेत् || २२ ||

आकारे विन्यसेच्छ्यामं ईकारे तु मनश्शिला |
ऊकारे जातिलिंगं तु ऋकारे गैरिकं न्यसेत् || २३ ||

सौराष्ट्रं चैव ॡकारे ऐकारे त्वंजनं न्यसेत् |
गोरोचनं तथौकारे विसर्गे हरितालकम् || २४ ||

तत्तद्बीजमनुस्मृत्य विन्यसेत्तु क्रमेण च |
यवनी वारशाली च प्रियंगुतिलसर्षपम् || २५ ||

मुद्गानि सप्तबीजानि पूरयेद्गर्भ भाजनम् |
भाजनोर्ध्वे पिधानेन सुस्निग्धं सुदृढं कुरु || २६ ||

प्रासादस्योत्तरे चाग्रे पंचषट्सप्तहस्त वा |
षोडशस्तंभसंयुक्तं प्रपां कृत्वाति सुन्दरम् || २७ ||

पिधानस्योर्ध्वमाच्छाद्य तरंगस्तंभ वेष्टनम् |
द्वारतोरणसंयुक्तं दर्भमालादि भूषितम् || २८ ||

मण्टपस्य त्रिभागैकं मध्ये वेदीं प्रकल्पयेत् |
हस्तमात्रसमुत्सेधं तालमात्रमथापि वा || २९ ||

परितस्त्वग्निकुण्डानि महाशासु द्विजोत्तम ! |
चतुरश्रं धनुर्वृत्तं पद्मं प्रागादिषु क्रमात् || ३० ||

त्रिमेखला समायुक्तं नाभियोनिसमन्वितम् |
दर्पणोदरसंकाशं कुण्डवेदींस्त्वलं कुरु || ३१ ||

ततः शिल्पिनमुद्वास्य गोमयालेपनं गुरुः |
पिष्टचूर्णैरलं कृत्य पुण्याहं प्रोक्षणं कुरु || ३२ ||

वेद्यूर्ध्वे स्थंडिलं कृत्वा चतुर्द्रोणैः सुशालिभिः |
तिलतण्डुललाजैश्च दर्भैः पुष्पैः परिस्तरेत् || ३३ ||

गन्धपुष्पादिभिः पूज्य दिशि देवान्स्वमंत्रतः |
गव्याभिषिच्य फेलायां स्नापयेद्गन्ध तोयकैः || ३४ ||

तन्तुना कौतुकं बध्वा नववस्त्रेण वेष्टयेत् |
स्थण्डिले स्थापयेत्फेलां कूटाक्षरमुदाहरन् || ३५ ||

परितोऽष्टौ घटान्न्यस्त्वा ससूत्रान्सापिधानकान् |
सकूर्चान्वस्त्रसंयुक्तान् गन्धाम्बुपरिपूरितान् || ३६ ||

विद्येशाधिपकुंभांस्तान् स्थाप्याभ्यर्च्य स्वमंत्रतः |
कुण्डानि पंचसंस्कारं कृत्वा होमं समाचरेत् || ३७ ||

अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् |
समिदाज्य चरुं लाजान् तिलसर्षपतण्डुलान् || ३८ ||

हृदयादि षडंगैश्च ईशानेन क्रमेण तु |
होमं कृत्वा विशेषेण प्रत्येकाष्टशताहुतिम् || ३९ ||

द्रव्यान्ते व्याहृतिं हुत्वा मूलेनैव शताहुतिम् |
जयादिरभ्यातानैश्च राष्ट्रभृच्चैव होमयेत् || ४० ||

एवं जागरणं रात्रौ प्रभाते सुमुहूर्तके |
सुनक्षत्रे सुलग्ने च सुतिथौ च सुवारके || ४१ ||

आदिशैव कुले जातं स्वाचार्यं शिवदीक्षितम् |
स्नानद्वयसमायुक्तं सकलीकृतविग्रहम् || ४२ ||

सितवस्त्रोत्तरीयं च सितमाल्यानुलेपनम् |
आचार्यं पूजयेत्सम्यक् वस्त्रहेमांगुलीयकैः || ४३ ||

शिल्पिनं पूजयेत्तत्र वस्त्रैश्चाभरणादिभिः |
गर्भस्थानं प्रविश्याथ कर्ताचाचार्य शिल्पिभिः || ४४ ||

अष्टधा विभजेद्भित्तिं बाह्यतश्चतुरं त्यजेत् |
त्रीणि वाभ्यन्तरे वर्ज्य शेषांशे भाजनं न्यसेत् || ४५ ||

हृन्नदीसस्य वल्मीकं हलस्थं कुलिरावटे |
नागदन्ते वृषशृंगे वा अष्टमृद्ग्राह्य देशिकः || ४६ ||

गर्भगर्त तमापूर्य कन्दं न्यस्त्वा मृदोपरि |
मध्येत्वंबुजकन्दं च पूर्वे कुमुदकन्दकम् || ४७ ||

दक्षिणे चोत्पलं कन्दं सौगन्धिं पश्चिमे न्यसेत् |
सौम्ये कशेरुकन्दं च बीजं तदुपरि न्यसेत् || ४८ ||

पूर्वे तु विन्यसेच्छालीं ब्रीहि वै दक्षिणे न्यसेत् |
पश्चिमे कोद्रवं न्यस्त्वा माषमुत्तरतो न्यसेत् || ४९ ||

पावके विन्यसेन्मुद्गं नैर्-ऋत्यां कंगुबीजकम् |
प्रियंगुं वायुभागे तु वैशान्यां तु कुलस्थकम् || ५० ||

एवं न्यस्त्वा हृदामंत्रं ततो वै गर्भभाजनम् |
सर्वातोद्य समायुक्तं नृत्तगेयसमाकुलम् || ५१ ||

जयशब्द समायुक्तं ब्रह्मघोषसमायुतम् |
प्रासादबीजमुच्चार्य स्थापयेद्गर्भभाजनम् || ५२ ||

गन्धपुष्पादिभिः पूज्य प्रासादं गर्भभाजने |
शैलैर्वाचेष्टकाभिर्वा सैकतैस्सुदृढं कुरु || ५३ ||

गर्भन्यासविधिः ख्यातं ततस्त्वेकतलं शृणु |

इत्यंशुमान्काश्यपे गर्भन्यासविधिपटलः (पंचविंशः) || २५ ||