अंशुमत्काश्यपागमः/आयादिलक्षणपटलः २३

विकिस्रोतः तः
← पटलः २२ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः २४ →

मुखभिस्तु हरेच्छेषं आयमित्युच्यते द्विज ! ।
तुंगं नवेन वृद्ध्या तु प्रागि वै नाडिभिर्हरेत् ॥ ५ ॥

शेषं व्ययमितिख्यातं आयाधिक्यं व्ययं क्षयः ।
केतुसिंहोवृषो हस्ती शुभयोनिमिति स्मृतम् ॥ ६ ॥

शुक्रेशनी बुधो जीवो शुभवारमिति स्मृतम् ।
यजमानस्य जन्मर्क्षा न विरोधदिनं तथा ॥ ७ ॥

वास्तु जन्मानुकूलं च नृपतेश्चानु कूलकम् ।
एवं परीक्ष्य बहुधा अंशुमानं तु संग्रहेत् ॥ ८ ॥

अथवा विस्तृतायामहस्तमष्टगुणी कृते ।
भानुर्वा एव शेषं तु आयमित्युच्यते बुधः ॥ ९ ॥

नववृद्द्यां दशभिर्ह्रासे शेषं व्यायमुदाहृतम् ।
वसुभिर्गुणिते ऋक्षे हते शेषं हयादिकम् ॥ १० ॥

गुणवद्ध्याष्टभिर्ह्रासे शेषं ध्वजादि योनयः ।
नव वृद्ध्या परिथौ हस्तं सप्तसंख्या तु ह्रासयेत् ॥ ११ ॥

शेषमर्कादिवारं स्यात् नववृद्ध्यास्त्रंशह्रासे तिथिर्भवेत् ।
प्राग्वच्छुभाशुभं वीक्ष्य शुभमानं तु संगृहेत् ॥ १२ ॥

तज्जन्मयुगलं वेदं षडष्टनवमं शुभैः ।
सदेष्टसिद्धिदा ऋक्षाः प्रोक्ताः शेषास्तु वर्जिताः ॥ १३ ॥

नृपकर्तुश्च जन्मर्क्षात् गेह ऋक्षावसानकम् ।
गणयेन्मतिमान्विप्र ! शुभमानं तु गृह्यताम् ॥ १४ ॥

लग्नाष्टमपि नाशं च दुर्योगं च विवर्जयेत् ।

आयादि रेवमाख्यातं नागरादि विधिं शृणु ।

इत्यंशुमान्काश्यपे आयादिलक्षणपटलः (त्रयोविंशाः) ॥ २३ ॥