विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १०४

विकिस्रोतः तः
← अध्यायः १०३ विष्णुधर्मोत्तरपुराणम्
अध्यायः १०४
वेदव्यासः
अध्यायः १०५ →

।। मार्कण्डेय उवाच ।। ।।
एवं शान्त्यवसाने तु यजमानस्य याजकः ।।
हृदि विन्यस्य दर्भाग्रान्स्थितान्स्वे दक्षिणे करे ।। १ ।।
कुर्यात्प्रतिसराबन्धं तन्मे निगदतः शृणु ।।
बद्धप्रतिसरस्यास्य सर्वे नश्यन्तु राक्षसाः ।। २ ।।
ध्रुवस्त्वामूर्ध्वतः पातु पूर्वतः पातु भास्करः ।।
भौमो दक्षिणतः पातु पश्चात्पातु शनैश्चरः ।। ३ ।।
उत्तरेण बुधः पातु केतुः पातु तथा ह्यधः ।।
पूर्वदक्षिणतः शुक्रो दक्षिणापरतस्तमः ।। ४ ।।
पश्चिमोत्तरतश्चन्द्रो जीवः प्रागुत्तरेण तु ।।
उक्तसन्धिषु सर्वाणि नक्षत्राणि तवानघ ।। ५ ।।
स्वांस्वां दिशमधिष्ठाय तव नित्यं दिगीश्वराः ।।
रक्षन्तु सर्वदुष्टेभ्यः शक्रवह्निपुरोगमाः ।। ६ ।।
शात्रवाणां च चोराणां व्याधीनां पातकस्य च ।।
अमङ्गलानां घोराणामरिष्टानां तथैव च ।। ७ ।।
दुस्स्वप्नानां च घोराणां चिन्तितानां तथा मृषा।।
वज्रेण नाशनं शक्रः करोतु बलसूदनः ।। ८ ।।
दण्डेन नाशनं नित्यं विदधातु यमोन्तकः ।।
पाशेन वरुणो देवो गदया च धनेश्वरः ।। ९ ।।
ग्रहसन्नाहसन्नद्धो ग्रहपञ्जरमध्यगः ।।
अदृश्यः सर्वभूतानां सर्वदुःखविवर्जितः ।।1.104.१०।।
सर्वव्याधिविहीनश्च कालकर्णीविवर्जितः ।।
तथा त्वं भव दीर्घायुर्ग्रहेन्द्राणां प्रसादतः ।।११।।
रक्षन्तु ते देवगणाः समन्त्राः धर्मे मतिं चापि सदा दिशन्तु ।।
नाशं तथा शत्रुगणस्य चोग्रं भोगान्मनोज्ञान्विपुलाश्च लक्ष्मीम् ।। १२ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शान्त्यवसाने प्रतिसरबन्धाशीर्वादोनाम चतुरधिकशततमोऽध्यायः ।। १०४ ।। ।।