योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १२९

विकिस्रोतः तः

श्रीराम उवाच ।
तयोर्द्वयोर्मुनिश्रेष्ठ संपन्नं किमतः परम् ।
पश्चाद्विपश्चितोस्तस्य रुद्धयोर्वै विपश्चितोः ।। १
श्रीवसिष्ठ उवाच ।
तयोरेकश्चिराभ्यस्तवासनाविवशीकृतः ।
भ्रमन्द्वीपेषु देहौघैस्तामेव पदवीं गतः ।। २
तथैवावरणांस्त्यक्त्वा परमाकाशकोटरे ।
पश्यन्संसारलक्षाणि तथैवाद्यापि संस्थितः ।। ३
तयोर्द्वितीयः स्वाभ्यस्तादादावासंगतेर्वशात् ।
त्यक्तवान्प्रभ्रमद्देहैरद्य शैले मृगः स्थितः ।। ४
श्रीराम उवाच ।
एकैव वासना ब्रह्मन्या चतुर्णां सदोदिता ।
नानातां सा कथं प्राप्ता हीनोत्तमफलप्रदाम् ।। ५
श्रीवसिष्ठ उवाच ।
स्वभ्यस्ता वासना जन्तोर्देशकालक्रियावशात् ।
तनुदार्ढ्यान्यतामेति घनदार्ढ्यैति नान्यताम् ।। ६
देशकालक्रियाद्येतदेकता वासनैकता ।
तयोर्यदेव बलवत्तदेव जयति क्षणात् ।। ७
एवं विभागेनैतेऽत्र चत्वारः समवस्थिताः ।
कृष्यन्ते द्वावविद्यार्थमन्यो मुक्तो मृगोऽपरः ।।
नाद्यापि तैरविद्याया लब्धोऽन्तो भ्रान्तिबुद्धिभिः ।
अनन्तेयमविद्येयमज्ञानपरिबृंहिता ।। ९
क्षिप्रेण शान्ता भवति विज्ञानालोक आगते ।
अमूलमेव गलति तिमिरश्रीरिवोदये ।। १०
कालेनान्यजगज्जातं शृणु वृत्तं विपश्चितः ।
तस्मिन्दूरतरे देशे कस्मिंश्चित्संसृतिभ्रमे ।। ११
क्वचिद्ब्रह्ममहाव्योम्नि कस्मिंश्चिद्दृश्यमण्डले ।
तस्य दृश्यात्मना प्राप्ते वस्तुतो ब्रह्मरूपिणि ।। १२
स एकः शुभसंगत्या विदुषां मध्यमागतः ।
दृश्यं यथावद्विज्ञाय ब्रह्मतामलमागतः ।। १३
तत्रैवाशु परिज्ञानात्साऽविद्या स च देहकः ।
मृगतृष्णाम्ब्विवाशान्तिमागतौ रागतन्त्रितौ ।। १४
इति ते सर्वमाख्यातं विपश्चिच्चेष्टितं स्फुटम् ।
अनन्तैवमविद्येयं ब्रह्मवत्तन्मयी यतः ।। १५
येन यत्रैव वर्षाणां लक्षलक्षाणि गम्यते ।
तत्र तत्र स्वभावेन चिता किमपि लक्ष्यते ।। १६
तदेवाश्वपरिज्ञातं मिथ्या विद्येति कथ्यते ।
परिज्ञातं तु तच्छान्तं तथा ब्रह्मेति कथ्यते ।। १७
भेदो न भेदस्तत्रायं भेदोऽयं यन्मयः किल ।
तद्ब्रह्मैव चिदाभासं चिद्रूपैव हि भिन्नता ।। १८
ब्रह्माण्डमण्डपस्यास्य भ्रमतेत्यविपश्चिता ।
लब्धो युगशतैरन्तो नाविद्याया विपश्चिता ।। १९
श्रीराम उवाच ।
स ब्रह्माण्डकपाटः किं न संप्राप्तो विपश्चिता ।
त्वयैतत्कथितं ब्रह्मन्न कथं वदतां वर ।। २०
श्रीवसिष्ठ उवाच ।
जातेनैव विरिञ्चेन पुरा ब्रह्माण्डमण्डलम् ।
द्वाभ्यामधस्तादूर्ध्वात्स्वभुजाभ्यां प्रविदारितम् ।। २१
भागस्तेनोर्ध्वतस्तस्मादतिदूरतरं गतः ।
अतो भागो गतोऽधस्तादतिदूरतरान्तरम् ।। २२
ताविवाश्रित्य तिष्ठन्ति जलाद्यावरणास्ततः ।
त एव च तदाधारा लम्बन्ते संस्थितास्तयोः ।। २३
एतयोर्मध्यमाकाशं विदुरण्डकपाटयोः ।
अपारावारमानीलमिदमालक्ष्यते तु यत् ।। २४
जलाद्यावरणास्तत्र न लगन्ति न सन्ति च ।
तद्धि निर्मलमाशून्यमालानं कल्पक्लृप्तिभिः ।। २५
तेन मार्गेण यातोऽसौ विपश्चिदृक्षचक्रवत् ।
अविद्यायाः परीक्षार्थमामोक्षमतिदीक्षितः ।। २६
ब्रह्मैवानन्तरूपेयमविद्या तन्मयी यतः ।
अतोऽस्ति साऽपरिज्ञाता परिज्ञाता न विद्यते ।। २७
विपश्चित इति प्राप्य दूराद्दूरं परेऽम्बरे ।
जगद्रूपेष्वविद्याया भ्रमन्त्यन्येषु केषुचित् ।। २८
कश्चिन्मुक्तो मृगः कश्चित्कौचिदद्यापि तौ क्वचित् ।
भ्रमतः प्राक्तनानल्पसंस्कारविवशीकृतौ ।। २९
श्रीराम उवाच ।
कीदृशेषु क्व दूरेषु ते जगत्सु विपश्चितः ।
भ्रमन्तीति मुने ब्रूहि मयि चेज्जायते कृपा ।। ३०
कियत्यध्वनि संसारास्ते जाता येषु ते मुने ।
महदेतदिहाश्चर्यमस्माकं कथितं त्वया ।। ३१
श्रीवसिष्ठ उवाच ।
स्थितौ विपश्चितौ राम तावुभौ जगतोर्ययोः ।
तेऽस्माकं गोचरं याते जगती यत्नतोऽपि नो ।। ३२
तृतीयो मृगतां यातो विपश्चिद्यत्र तिष्ठति ।
स कदाचित्ससंसारो गोचरे नोऽवतिष्ठते ।। ३३
श्रीराम उवाच ।
विपश्चिन्मृगतां यातो यस्मिञ्जगति संस्थितः ।
तज्जगत्क्व महाबुद्धे यथावत्कथयेति मे ।। ३४
श्रीवसिष्ठ उवाच ।
दूराद्दूरतरं गत्वा परब्रह्ममहाम्बरे ।
मृगो विपश्चिज्जगति स यस्मिंस्तज्जगच्छणु ।। ३५
तदिदं विद्धि त्रिजगदिहासौ संस्थितो मृगः ।
इदं तत्परमाकाशं दूरदूरे जगत्स्थितम् ।। ३६
श्रीराम उवाच ।
विपश्चिदस्मादेवासौ जगतस्तां गतिं गतः ।
इहैवाद्य मृगो जातः कथमेतत्समञ्जसम् ।। ३७
श्रीवसिष्ठ उवाच ।
अवयवानवयवी नित्यं वेत्ति यथाखिलान् ।
तथा सर्वानहं वेद्मि ब्रह्मण्यात्मन्यवस्थितान् ।। ३८
अनिष्ठितान्ससंहारान्नानाकारांस्तु तान्बहून् ।
मिथः प्रोतान्मिथोदृश्यान्स्वरूपानिव पार्थिवान्।। ३९
तत्र कस्मिंश्चिदन्यस्मिन्मार्गेऽस्मिन्निव तिष्ठति ।
यद्वृत्तं कथितं राम तदेतद्भवते मया ।। ४०
विपश्चितोऽन्यसंसारे देहैर्भ्रान्ता दिगन्तरान् ।
ताननन्ताम्बरे व्योम्नि तावत्कालमखिन्नधीः ।। ४१
इहैव हरिणा जातः कस्मिंश्चिद्गिरिकन्दरे ।
काकतालीययोगेन भ्रान्त्वा भूरिजगद्भ्रमम् ।। ४२
स जगन्ति भ्रमन्दूरे यस्मिन्सर्गे मृगः स्थितः ।
ससर्गोऽयमिति व्योम्नि काकतालीयवत्स्थितम् ४३
श्रीराम उवाच ।
एवं चेत्तद्वद ब्रह्मन्कस्यां ककुभि मण्डले ।
कस्मिन्कस्मिंश्च शैलेऽसौ वने कस्मिन्मृगः स्थितः ४४
किं करोति कथं दूर्वाश्चर्वयत्युर्वरास्पदः ।
जातिं तां जरठज्ञानी कदोदारां स्मरिष्यति ।। ४५
श्रीवसिष्ठ उवाच ।
योऽसौ त्रिगर्तनाथेन दत्तः क्रीडामृगस्तव ।
स्थितः क्रीडामृगागारे विद्धि तं त्वं विपश्चितम् ।।४६ ।
श्रीवाल्मीकिरुवाच ।
श्रुत्वेति राघवस्तस्यां सभायां विस्मयान्वितः ।
बालकान्मृगमानेतुं प्रेषयामास भूरिशः ।। ४७
अथानीतो मृगो मुग्धः सभां स्फारां विवेश सः ।
सर्वैः सभ्यगणैर्दृष्टः पुष्टिमांस्तुष्टिमानपि ।। ४८
ताराबिन्दुयुतं देहबिन्दुभिः खं विडम्बयन् ।
दृष्टिपातोत्पलासारैः सुन्दरीः परितर्जयन् ।। ४९
आदृतानादृतसभैर्नीला मरकतत्विषः ।
धावंस्तृणेच्छया लोलं मुग्धैश्चकितवीक्षितैः ।। ५०
उत्कर्णोन्नयनोद्ग्रीवं क्षणभङ्गावलस्थितैः ।
उत्कर्णनयनोद्ग्रीवैः सभ्यानाकुलयञ्जवैः ।। ५१
मृगमालोक्य तं लोकाः सराजमुनिमन्त्रिणः ।
अनन्ता बत मायेति चिरमासन्स्मयाकुलाः ।। ५२
आश्चर्यचर्वणसुविस्मितसर्वलोका सर्वावलोकनघनोत्पलवर्षकृष्णम् ।
रत्नांशुजालकचितं मृगमीक्षमाणा सासीत्सभा कमलिनी लिपिनिर्मितेव ।। ५३
इत्यार्षे श्रीवा० वा० दे० मो० निर्वा० उ० अवि० विप० विपश्चिन्मृगलाभो नामैकोनत्रिशदधिकशततमः सर्गः ।। १२९ ।।