विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०७६

विकिस्रोतः तः
← अध्यायः ०७५ विष्णुधर्मोत्तरपुराणम्
अध्यायः ७६
वेदव्यासः
अध्यायः ०७७ →

वज्र उवाच ॥
ब्राह्मस्य दिवसस्यान्ते यादृशी द्विज जायते ॥
जगतोऽस्य समावस्था तादृशीं वक्तुमर्हसि ॥ १ ॥
मार्कण्डेय उवाच ॥
वृत्ते प्रक्षालने राजन्कल्पस्यान्ते चतुर्दिशम् ॥
उत्तिष्ठंति तदा घोरा दिवि सप्त दिवाकराः ॥ २ ॥
ते तु पीत्वा जलं सर्वं शोषयन्ति जगत्त्रयम् ॥
विनाशे सर्वभूतानामयोगुडसमा तदा ॥ ३ ॥
भूमिर्भवति भूपाल दग्धास्सर्वे च जन्तवः ॥
विनष्टकिल्बिषास्सर्वे जीवमात्रावशेषकाः ॥ ४ ॥
जनलोकमथासाद्यतत्र तिष्ठन्ति निर्भयाः।।
भूर्भुवस्स्वर्महश्चैव तदा नश्यन्ति पार्थिव।।५।।
जनलोकादयो लोका न तु नश्यन्ति पार्थिव।।
ततोऽर्कास्ते तु नश्यन्ति संहिता रुद्रतेजसा ॥ ६॥
उत्तिष्ठन्ति महारौद्रास्ततो दिविचरा घनाः ॥
केचिदञ्जनपुञ्जाभाः केचिद्गजकुलोपमाः ॥ ७ ॥
केचित्पुरवराकाराः केचिद्धारिद्रसन्निभाः।।
हरितालाञ्जनप्रख्यास्तथा हिङ्गुलकप्रभाः।।८।।
शुकपत्रनिभाः केचित्केचिन्नीलोत्पलप्रभाः।।
विद्युन्माला विनद्धाङ्गा गर्जन्तोऽथ बलाहकाः ॥ ९ ॥
आक्रम्य गगनं राजन्पूरयन्ति महीतलम् ॥
गङ्गाप्रवाहप्रतिमैर्धारापातैः पुनःपुनः ॥ 1.76.१० ॥
ततस्समुद्रा भूपाल वेलोद्भेदतरङ्गिणः ॥
छादयन्ति महीं सर्वां दग्धां सूर्यगभस्तिभिः ॥ ११ ॥
ततस्संवर्तको वायुर्घनानारुजति क्षणात् ॥
ततो वायुं समादाय स्वशरीरे पितामहः ॥ १२ ॥।
स्वपित्येकार्णवे लोके नष्टस्थावरजङ्गमे ॥
नष्टचन्द्रार्कपवने ग्रहनक्षत्रतारके ॥ १३ ॥
सुप्त्वा युगसहस्रं तु देवदेवो जगत्पतिः ॥
पुनर्विबुद्धः कुरुते सृष्टिं प्राग्वत्पितामहः ॥ १४ ॥
सृष्टिं करोति धर्मज्ञ कल्पेकल्पे पुनःपुनः ॥
पितामहस्य रात्र्यन्ते तस्माद्धि सृजति प्रजाः॥१९॥
जन्तूनां जननाद्राजञ्जन इत्यभिधीयते ॥१६॥
एतावदुक्तं तव भूमिपाल कल्पे गते यद्भवतीह लोके ॥
अतः परं सर्वयदुप्रधान वदस्व किं ते कथयामि राजन् ॥ १७ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० कल्पान्तवर्णनो नाम षट्सप्ततितमोऽध्यायः ॥ ७६ ॥