कथासरित्सागरः/लम्बकः १०/तरङ्गः ३

विकिस्रोतः तः

ततः प्रातः कृतावश्यकार्यः स सचिवैः सह ।
नरवाहनदत्तः स्वमुद्यानं विहरन्ययौ ।। १
तत्रस्थश्च प्रभापुञ्जमादौ व्योम्नोऽप्यनन्तरम् ।
ततो विद्याधरीर्बह्वीरवतीर्णा ददर्श सः ।। २
तासां मध्ये च दीप्तानां ददर्शैकां स कन्यकाम् ।
ताराणामिव शीतांशुलेखां लोचनहारिणीम् ।। ३
विकसत्पद्मवदनां लोललोचनषट्पदाम् ।
सलीलहंसगमनां वहदुत्पलसौरभाम् ।। ४
तरङ्गहारित्रिवलीलतालंकृतमध्यमाम् ।
साक्षादिव स्मरोद्यानवापीशोभाधिदेवताम् ।। ७
स्मरसंजीवनीं तां च दृष्ट्वा सोत्कलिकामतः ।
चान्द्रीं मूर्तिमिवाम्भोधिश्चुक्षुभे स नृपात्मजः ।। ६
अहो सुन्दरनिर्माणवैचित्री काप्यसौ विधेः ।
इति शंसन्स सचिवैः सहितस्तामुपाययौ ।। ७
तिर्यक्प्रेमार्द्रया दृष्ट्या पश्यन्तीं तां च स क्रमात् ।
पप्रच्छ का त्वं कल्याणि किमिहागमनं च ते ।। ८
तच्छ्रुत्वा सब्रवीत्कन्या शृणुतैतद्वदामि वः ।
अस्ति काञ्चनशृङ्गाख्यं पुरं हैमं हिमाचले ।। ९
तत्रास्ति नाम्ना स्फटिकयशा विद्याधरेश्वरः ।
धार्मिकः कृपणानाथशरणागतवत्सलः ।। १०
तस्य हेमप्रभादेव्यां जातां गौरीवरोद्भवाम् ।
मां शक्तियशसं नाम जानीहि तनयामिमाम् ।। ११
पितुः प्राणप्रिया साहं पञ्चभ्रातृकनीयसी ।
अतोषयं तदादेशाद्व्रतैः स्तोत्रैश्च पार्वतीम् ।। ५२
तुष्टा सा सकला विद्या दत्त्वा मामेवमादिशत् ।
पितुर्दशगुणं पुत्रि भावि विद्याबलं तव ।। १३
नरवाहनदत्तश्च भर्ता तव भविष्यति ।
वत्सराजसुतो भाविचक्रवर्ती द्युचारिणाम् ।। १४
इत्युक्त्वा शर्वपत्नी मे तिरोऽभूत्तत्प्रसादतः ।
लब्धविद्याबला चाहं संप्राप्ता यौवनं क्रमात् ।। १५
अद्यादिशच्च सा रात्रौ देवी मां दत्तदर्शना ।
प्रातः पुत्रि त्वया गत्वा द्रष्टव्यः स निजः पतिः ।। १६
आगन्तव्यमिहैवाद्य मासेन हि पिता तव ।
चित्तस्थितैतत्संकल्पो विवाहं संविधास्यति ।। १७
इत्यादिश्य तिरोऽभूत्सा देवी याता च यामिनी ।
ततोऽहमार्यपुत्रैषा त्वामिह द्रष्टुमागता ।। १८
तत्संप्रति व्रजामीति गदित्वा ससखीजना ।
उत्पत्य खं शक्तियशाः सा जगाम पुरं पितुः ।। १९
नरवाहनदत्तश्च तद्विवाहोत्सुकस्ततः ।
विवेशाभ्यन्तरं विग्नः पश्यन्मासं युगोपमम् ।। २०
तत्र दृष्ट्वा विमनसं सोऽथ तं गोमुखोऽब्रवीत् ।
शृणु देव कथामेकां तवाख्यामि विनोदिनीम् ।। २१
बभूव काञ्चनपुरीत्याख्यया नगरी पुरा ।
तस्यां च सुमना नाम महानासान्महीपतिः ।। २२
आक्रान्तदुर्गकान्तारभूमिना येन चक्रिरे ।
चित्रं विराजमानेन तादृशा अपि शत्रवः ।। २३
तमेकदास्थानगतं प्रतीहारो व्यजिज्ञपत् ।
देव मुक्तालता नाम निषादाधिपकन्यका ।। २४
पञ्जरस्थितमादाय शुकं द्वारि बहिः स्थिता ।
वीरप्रभेणानुगता भ्रात्रा देवं दिदृक्षते ।। २५
प्रविशत्विति राज्ञोक्ते प्रतीहारनिदेशतः ।
भिल्लकन्या नृपास्थानप्राङ्गणं प्रविवेश सा ।। २६
न मानुषीयं दिव्यस्त्री कापि नूनमसाविति ।
सर्वेऽप्यचिन्तयंस्तत्र दृष्ट्वा तद्रूपमद्भुतम् ।। २७
सा च प्रणम्य राजानमेवं व्यज्ञापयत्तदा ।
देवाय शास्त्रगञ्जाख्यश्चतुर्वेदधरः शुकः ।। २८
कविः कृत्स्नासु विद्यासु कलासु च विचक्षणः ।
मयेश्वरोपयोगित्वादिहानीतोऽद्य गृह्यताम् ।। २९
इत्यर्पितस्तयादाय प्रतीहारेण कौतुकात् ।
नीतोऽग्रे नृपतेरेतं शुकः श्लोकं पपाठ सः ।। ३०
राजन्युक्तमिदं सदैव यदयं देवस्य संधुक्ष्यते धूमश्याममुखो द्विषद्विरहिणीनिःश्वासवातोद्गमैः ।
एतत्त्वद्भुतमेव यत्परिभवाद्वाष्पाम्बुपूरप्लवैरासां प्रज्वलतीह दिक्षु दशसु प्राज्यः प्रतापानलः ।। ३१
एवं पठित्वा व्याख्याय शुकोऽवादीत्पुनश्च सः ।
किं प्रमेयं कुतः शास्त्राद्ब्रवीम्यादिश्यतामिति ।। ३२
ततोऽतिविस्मिते राज्ञि मन्त्री तस्याब्रवीदिदम् ।
शङ्के शापाच्छुकीभूतः पूर्वर्षिः कोऽप्ययं प्रभो ।। ३३
जातिस्मरो धर्मवशात्पुराधीतं स्मरत्यतः ।
इत्युक्ते मन्त्रिणा राजा स शुकं पृच्छति स्म तम् ।। ३४
कौतुकं भद्र मे ब्रूहि स्ववृत्तान्तं क्व जन्म ते ।
शुकत्वे शास्त्रविज्ञानं कुतः को वा भवानिति ।। ३५
ततः स बाष्पमुत्सृज्य वदति स्म शुकः शनैः ।
अवाच्यमपि देवैतच्छृणु वच्मि त्वदाज्ञया ।। ३६
हिमवन्निकटे राजन्नस्त्येको रोहिणीतरुः ।
आम्नाय इव दिग्व्यापिभूरिशाखाश्रितद्विजः ।। ३७
तस्मिन्नेकः समं शुक्या शुकस्तस्थौ कृतालयः ।
तस्मादेषोऽहमुत्पन्नस्तस्यां दुष्कर्मयोगतः ।। ३८
जातस्यैव च मे माता शुकी सा पञ्चतां गता ।
तातस्तु वृद्धः पक्षान्तः क्षिप्त्वा वर्धयति स्म माम् ।। ३९
कटस्थशुकानीतभुक्तशेषफलानि च ।
अश्नन्मह्यं च वितरन्नथ तत्रास्त मत्पिता ।। ४०
एकदा तत्र तूर्याभिध्मातगोशृङ्गनादिनी ।
आखेटकाय समगाद्भिल्लसेना भयंकरी ।। ४१
वित्रस्तकृष्णसाराक्षी धूलिव्यालुलितांशुका ।
संभ्रमोद्वेलचमरीविस्रस्तकबरीभरा ।। ४२
विद्रुतव्याकुलेवाभूत्सहसा सा महाटवी ।
पुलिन्दवृन्दे विविधप्राणिघाताय धावति ।। ४३
कृतान्तक्रीडितं कृत्वा दिनमाखेटभूमिषु ।
आगाच्छबरसैन्यं तदात्तैः पिशितभारकैः ।। ४४
एकस्तु वृद्धशबरस्तत्रानासादितामिषः ।
अद्राक्षीत्स तरुं सायं क्षुधितस्तमुपागमत् ।। ०५५
आरुह्य च स तत्राशु शुकानन्यांश्च पक्षिणः ।
आकृष्याकृष्य नीडेभ्यो हत्वा हत्वा भुवि न्यधात् ।। ४६
तथायान्तं च निकटं यमकिंकरसंनिभम् ।
तं दृष्ट्वाहं भयाल्लीनः शनैः पक्षान्तरे पितुः ।। ४७
तावच्चास्मत्कुलायं स प्राप्याकृष्यैव पातकी ।
तातं मे पीडितग्रीवं हत्वा तरुतलेऽक्षिपत् ।। ४८
अहं च तातेन समं पतित्वा तस्य पक्षतेः ।
निर्गत्य तृणपर्णान्तः सभयः प्राविशं शनैः ।। ४९
अथावतीर्य भिल्लोऽसावग्नौ भृष्टानभक्षयत् ।
शुकानन्यान्समादाय पापः पल्लीं निजामगात् ।। ५०
ततः शान्तभयो दुःखदीर्घां नीत्वा निशामहम् ।
प्रातर्भूयिष्ठमुदिते जगच्चक्षुषि भास्वति ।। ५१
अगच्छं पक्षसंरुद्धवसुधः प्रस्खलन्मुहुः ।
तृषार्तः पद्मसरसस्तीरमासन्नवर्तिनः ।। ५२
तत्रापश्यं कृतस्नानमहं तत्सैकतस्थितम् ।
मुनिं मरीचिनामानं पूर्वपुण्यमिवात्मनः ।। ५३
स मां दृष्ट्वा समाश्वास्य मुखक्षिप्तोदबिन्दुभिः ।
कृत्वा पत्त्रपुटेऽनैषीदाश्रमं कृपया मुनिः ।। ५४
तत्र दृष्ट्वा कुलपतिर्मां पुलस्त्यः किलाहसत् ।
तेनान्यमुनिभिः पृष्टो दिव्यदृष्टिरुवाच सः ।। ५५
इमं शापशुकं दृष्ट्वा दुःखेन हसितं मया ।
वक्ष्यामि चैतत्संबद्धां कथां वो विहिताह्निकः ।। ५६
जातिं यच्छ्रवणादेष प्राग्वृत्तं च स्मरिष्यति ।
इत्युक्त्वा स पुलस्त्यर्षिराह्निकायोत्थितोऽभवत् ।। ५७
कृताह्निकश्च मुनिभिः पुनरभ्यर्थितोऽत्र सः ।
मत्संबद्धां कथामेतां महामुनिरवर्णयत् ।। ५८
आसीज्ज्योतिष्प्रभो नाम राजा रत्नाकरे पुरे ।
आरत्नाकरमुर्वी यः शशासोर्जितशासनः ।। ५९
तस्य तीव्रतपस्तुष्टगौरीपतिवरोद्भवः ।
हर्षवत्यभिधानायां पुत्रो देव्यामजायत ।। ६०
स्वप्ने मुखप्रविष्टं यत्सोमं देवी ददर्श सा ।
तेन सोमप्रभं नाम्ना तं चक्रे स्वसुतं नृपः ।। ६१
ववृधे च स तन्वानः प्रजानां नयनोत्सवम् ।
राजपुत्रोऽमृतमयैर्गुणैः सोमप्रभः क्रमात् ।। ६२
दृष्ट्वा भरक्षमं शूरं युवानं प्रकृतिप्रियम् ।
यौवराज्येऽभ्यषिञ्चत्तं प्रीतो ज्योतिष्प्रभः पिता ।। ६३
प्रभाकराभिधानस्य तनयं निजमन्त्रिणः ।
ददौ प्रियंकरं नाम मन्त्रित्वे चास्य सद्गुणम् ।। ६४
तत्कालमम्बरादश्वं दिव्यमादाय मातलिः ।
अवतीर्णस्तमभ्येत्य सोमप्रभमभाषत ।। ५०
विद्याधरः सखा शक्रस्यावतीर्णो भवानिह ।
तेन चाशुश्रवा नाम शक्रेणोच्चैःश्रवःसुतः ।। ६६
पूर्वस्नेहेन ते राजन्प्रहितस्तुरगोत्तमः ।
अत्राधिरूढः शत्रूणामजेयस्त्वं भविष्यसि ।। ६७
इत्युक्त्वा वाजिरत्नं तद्दत्त्वा सोमप्रभाय सः ।
आत्तपूजः खमुत्पत्य ययौ वासवसारथिः ।। ६८
ततो नीत्वैव दिवसं तमुत्सवमनोरमम् ।
सोमप्रभस्तमन्येद्युरुवाच पितरं नृपम् ।। ६९
तात न क्षत्रियस्यैष धर्मो यदजिगीषुता ।
तदाज्ञां देहि मे यावद्दिग्जयाय व्रजाम्यहम् ।। ७०
तच्छ्रुत्वा स पिता तुष्टस्तथेति प्रत्यभाषत ।
चक्रे ज्योतिष्प्रभस्तस्य यात्र संविदमेव च ।। ७१
ततः प्रणम्य पितरं दिग्जयाय बलैः सह ।
प्रायाच्छक्रहयारूढः शुभे सोमप्रभोऽहनि ।। ७२
जिगाय सोऽश्वरत्नेन तेन दिक्षु महीपतीन् ।
आजहार च रत्नानि तेभ्यो दुर्वारविक्रमः ।। ७३
नामितं स्वधनुस्तेन विद्विषां च शिरः समम् ।
उन्नतिं तद्धनुः प्राप न तु तद्द्विषतां शिरः ।। ७४
आगच्छन्कृतकार्योऽथ हिमाद्रिनिकटे पथि ।
संनिविष्टबलश्चक्रे मृगयां स वनान्तरे ।। ७५
दैवात्सद्रत्नखचितं तत्रापश्यत्स किंनरम् ।
अभ्यधावच्च तं प्राप्तुं तेन शाक्रेण वाजिना ।। ७६
स किंनरो गिरिगुहां प्रविश्यादर्शनं ययौ ।
सोमप्रभस्तु तेनाश्वेनातिदूरमनीयत ।। ७७
तावत्प्रकीर्य काष्ठासु प्रकाशं तिग्मतेजसि ।
प्राप्ते प्रतीचीं ककुभं संध्यासंगमकारिणीम् ।। ७८
श्रान्तः कथंचिदावृत्य स ददर्श महत्सरः ।
तत्तीरे तां निशां नेतुकामश्चाश्वादवातरत् ।। ७९
दत्त्वा तृणोदकं तस्मायाहृताम्बुफलोदकः ।
विश्रान्तश्चैकतोऽकस्मादशृणोद्गीतनिःस्वनम् ।। ८०
गत्वा तदनुसारेण कौतुकान्नातिदूरतः ।
सोऽपश्यच्छिवलिङ्गाग्रे गायन्तीं दिव्यकन्यकाम् ।। ८१
केयमद्भुतरूपा स्यादिति तं च सविस्मयम् ।
साप्युदाराकृतिं दृष्ट्वा कृत्वातिथ्यमवोचत ।। ८२
कस्त्वं कथमिमां भूमिमेकः प्राप्तोऽसि दुर्गमाम् ।
एतच्छ्रुत्वा स्ववृत्तान्तमुक्त्वा पप्रच्छ सोऽपि ताम् ।। ८३
त्वं मे कथय कासि त्वं वनेऽस्मिन्का च ते स्थितिः ।
इति तं पृष्टवन्तं च दिव्यकन्या जगाद सा ।। ८४
कौतुकं चेन्महाभाग तद्वच्मि शृणु मत्कथाम् ।
इत्युक्त्वा सा लसद्वाष्पपूरा वक्तुं प्रचक्रमे ।। ८५५
अस्तीह काञ्चनाभाख्यं हिमाद्रिकटके पुरम् ।
पद्मकूटाभिधानोऽस्ति तत्र विद्याधरेश्वरः ।। ८६
तस्य हेमप्रभादेव्यां राज्ञः पुत्राधिकप्रियाम् ।
मनोरथप्रभां नाम विद्धि मां तनयामिमाम् ।। ८७
साहं विद्याप्रभावेण सखीभिः सममाश्रमान् ।
द्वीपानि कुलशैलांश्च वनान्युपवनानि च ।। ८८
क्रीडित्वा प्रत्यहं चैवमाहारसमये पितुः ।
आगच्छामि स्वभवनं वासरप्रहरैस्त्रिभिः ।। ८९
एकदाहमिह प्राप्ता विहरन्ती सरस्तटे ।
मुनिपुत्रकमद्राक्षं सवयस्यमिह स्थितम् ।। ९०
तद्रूपशोभयाकृष्टा दूत्येवाहं तमभ्यगाम् ।
सोऽपि साकूतया दृष्ट्यैवाकरोत्स्वागतं मम ।। ९१
ततो ममोपविष्टायाः सखी ज्ञातोभयाशया ।
कस्त्वं ब्रूहि महाभागेत्यपृच्छत्तद्वयस्यकम् ।। ९२
स चाब्रवीत्तद्वयस्यो नातिदूरमितः सखि ।
निवसत्याश्रमपदे मुनिर्दीधितिमानिति ।। ९३
स ब्रह्मचारी सरसि स्नातुमत्र कदाचन ।
आगतो ददृशे देव्या तत्कालागतया श्रिया ।। ९४
सा तं शरीरेणाप्राप्यं प्रशान्तं मनसैव यत् ।
सकामा चकमे तेन पुत्रं संप्राप मानसम् ।। ९५
त्वद्दर्शनान्ममोत्पन्नः पुत्रोऽयं प्रतिगृह्यताम् ।
इति नीत्वैव तज्जातं सा दीधितिमतः सुतम् ।। ९६
बालकं मुनये तस्मै समर्प्य श्रीस्तिरोदधे ।
सोऽप्यनायासलब्धं तं पुत्रं हृष्टोऽग्रहीन्मुनिः ।। ९७
रश्मिमानिति नाम्ना च कृत्वा संवर्ध्य च क्रमात् ।
उपनीय समं सर्वा विद्याः स्नेहादशिक्षयत् ।। ९८
तं रश्मिमन्तं जानीतमेतं मुनिकुमारकम् ।
श्रियः सुतं मया साकं विहरन्तमिहागतम् ।। ९९
इत्युक्त्वा तद्वयस्येन पृष्टा तेनापि मत्सखी ।
सा सनामान्वयं सर्वं मदुक्तं तं तदब्रवीत् ।। १००
ततोऽन्योन्यान्वयज्ञानान्नितरामनुरागिणौ ।
मुनिपुत्रः स चाहं च यावत्तत्र स्थितावुभौ ।। १०१
तावदेत्य द्वितीया मां स्वगृहादवदत्सखी ।
उत्तिष्ठाहारभूमौ त्वां पिता मुग्धे प्रतीक्षते ।। १०२
तच्छ्रुत्वा शीघ्रमेष्यामीत्युक्त्वावस्थाप्य चात्र तम् ।
मुनिपुत्रं गताभूवं भीत्याहं पितुरन्तिकम् ।। १०३
तत्र किंचित्कृताहारा यावच्चाहं विनिर्गता ।
तावदाद्या सखी सा मामागत्य स्वैरमब्रवीत् ।। १०४
आगतो मुनिपुत्रस्य तस्येह स सखा सखि ।
स्थितश्च प्राङ्गणद्वारि सत्वरश्च ममावदत् ।। १०५
मनोरथप्रभापार्श्वमहं रश्मिमताधुना ।
प्रेषितो व्योमगमनीं विद्यां दत्त्वैव पैतृकीम् ।। १०६
प्राणेश्वरीं विना तां हि मदनेन स दारुणाम् ।
दशां नीतो न शक्नोति प्राणान्धारयितुं क्षणम् ।। १०७
तच्छ्रुत्वैवास्मि निर्गत्य तेन युक्ताग्रयायिना ।
मुनिपुत्रकमित्त्रेण सख्या चाहमिहागता ।। १०८
प्राप्ता च तमिहाद्राक्षं मुनिपुत्रं विना मया ।
चन्द्रोद्गमेनैव समं वृत्तप्राणोद्गमान्मृतम् ।। १०९
ततोऽहं तद्वियोगार्ता निन्दन्ती तनुमात्मनः ।
प्रवेष्टुमैच्छमनलं गृहीत्वा तत्कलेवरम् ।। ११०
तावद्दिवोऽवतीर्यैव तेजःपुञ्जाकृतिः पुमान् ।
आदाय तच्छरीरं स चोत्पत्य गगनं ययौ ।। १११
अथाहं केवलैवाग्नौ पतितुं यावदुद्यता ।
तावदुच्चरति स्मैवं गगनादिह भारती ।। ११२
मनोरथप्रभे मैवं कृथा भूयो भविष्यति ।
एतेन मुनिपुत्रेण तव कालेन संगमः ।। ११३
एतच्छ्रुत्वा परावृत्त्य मरणात्तत्प्रतीक्षिणी ।
स्थितास्मीहैव बद्धाशा शंकरार्चनतत्परा ।। ११४
मुनिपुत्रसुहृत्सोऽपि गतो मे क्वाप्यदर्शनम् ।
इति तां वादिनीं विद्याधरीं सोमप्रभोऽभ्यधात् ।। ११५
स्थितास्येकाकिनी तर्हि कथं सापि सखी क्व ते ।
एतच्छ्रुत्वा तमाह स्म सा विद्याधरकन्यका ।। ११६
सिंहविक्रम इत्यस्ति नाम्ना विद्याधरेश्वरः ।
तस्यानन्यसमा चास्ति तनया मकरन्दिका ।। ११७
सा मे सखी प्राणसमा कन्या मद्दुःखदुःखिता ।
तया सखी प्रेषिताभूद्वार्तां ज्ञातुमिहाद्य मे ।। ११८
ततो मयापि तत्सख्या समं सा प्रहिता निजा ।
सखी तदन्तिकं तेन स्थितास्म्येकैव संप्रति ।। ११९
एवं वदन्ती गगनादवतीर्णा तदैव ताम् ।
स्वसखीं दर्शयामास तस्मै सोमप्रभाय सा ।। १२०
तामथोक्तसखीवार्तां पर्णशय्यामकारयत् ।
सोमप्रभस्य तद्वाहस्यापि घासमदापयत् ।। १२१
ततो नीत्वा निशां सर्वे तत्र ते प्रातरुत्थिताः ।
व्योम्नोऽवतीर्णं ददृशुर्विद्याधरमुपागतम् ।। १२२
स च विद्याधरो देवजयो नाम कृतानतिः ।
मनोरथप्रभामेवमुपविश्य जगाद ताम् ।। १२३
मनोरथप्रभे राजा वक्ति त्वां सिंहविक्रमः ।
यावत्तव न निष्पन्नो वरस्तावन्न मत्सुता ।। १२४
विवाहमिच्छति स्नेहात्त्वत्सखी मकरन्दिका ।
तदेतां बोधयागत्य येनोद्वाहे प्रवर्तते ।। १२५
एतच्छ्रुत्वा सखीस्नेहात्तां विद्याधरकन्यकाम् ।
गन्तुं प्रवृत्तां वक्ति स्म राजा सोमप्रभोऽथ सः ।। १२६
द्रष्टुं वैद्याधरं लोकमनघे कौतुकं मम ।
तत्तत्र नय मामश्वो दत्तघासोऽत्र तिष्ठतु ।। १२७
तच्छ्रुत्वा सा तथेत्युक्त्वा व्योम्ना सद्यः सखीयुता ।
तेन देवजयोत्सङ्गारोपितेन समं ययौ ।। १२८
प्राप्ता तत्र कृतातिथ्या मकरन्दिकया तया ।
दृष्ट्वा सोमप्रभं कोऽयमिति स्वैरमपृच्छ्यत ।। १२९
तयोक्ततदुदन्ता च ततः सा मकरन्दिका ।
सोमप्रभेण तेनाभूत्सद्योऽपहृतमानसा ।। १३०
सोऽपि तां मनसा प्राप्य लक्ष्मीं रूपवतीमिव ।
स तु कः सुकृती योऽस्या वरः स्यादित्यचिन्तयत् ।। १३१
ततः स्वैरं कथालापे तामाह मकरन्दिकाम् ।
मनोरथप्रभा चण्डि कस्मान्नोद्वाहमिच्छसि ।। १३२
तच्छ्रुत्वा साप्यवोचत्तां त्वयानङ्गीकृते वरे ।
कथं विवाहमिच्छेयं त्वं शरीराधिका हि मे ।। १३३
एवं तया सप्रणयं मकरन्दिकयोदिते ।
मनोरथप्रभावादीद्वृतो मुग्धे मया वरः ।। १३४
तत्संगमप्रतीक्षा हि तिष्ठामीत्युदिते तया ।
करोमि तर्हि त्वद्वाक्यमित्याह मकरन्दिका ।। १३५
मनोरथप्रभा साथ ज्ञातचित्ता जगाद ताम् ।
सखि सोमप्रभः पृथ्वीं भ्रान्त्वा प्राप्तोऽतिथिस्तव ।। १३६
तदस्यातिथिसत्कारः कर्तव्यः सुन्दरि त्वया ।
इत्याकर्ण्यैव जगदे मकरन्दिकया तया ।। १३७
आ शरीरान्मया सर्वमिदमेतस्य सांप्रतम् ।
अर्घपात्रीकृतं कामं स्वीकरोतु यदीच्छति ।। १३८
एवं तयोक्ते तत्प्रीतिं क्रमादावेद्य तत्पितुः ।
मनोरथप्रभा चक्रे तयोरुद्वाहनिश्चयम् ।। १३९
ततः सोमप्रभो लब्धधृतिस्तुष्टो जगाद ताम् ।
त्वदाश्रममहं यामि सांप्रतं तत्र जातु मे ।। १४०
चिन्वानं पदवीं सैन्यमागच्छेन्मन्त्र्यधिष्ठितम् ।
मामप्राप्याहिताशङ्कि तच्च गच्छेत्पराङ्मुखम् ।। १४१
तद्गत्वा सैन्यवृत्तान्तं बुद्ध्वागत्य ततः पुनः ।
निश्चित्य परिणेष्यामि शुभेऽह्नि मकरन्दिकाम् ।। १४२
तच्छ्रुत्वा सा तथेत्युक्त्वा तमनैषीन्निजाश्रमम् ।
मनोरथप्रभा देवजयाङ्कारोपितं पुनः ।। १४३
तावत्प्रियंकरो मन्त्री तस्य सोमप्रभस्य सः ।
विचिन्वानश्च पदवीं तत्रैवागात्ससैनिकः ।। १४४
मिलिताय ततस्तस्मै प्रहृष्टो निजमन्त्रिणे ।
सोमप्रभः स्ववृत्तान्तं यावत्सर्वं स शंसति ।। ६४५
तावत्तस्याययौ दूतः शीघ्रमागम्यतामिति ।
लेखे लिखित्वा संदेशमादाय पितुरन्तिकात् ।। १४६
तेन सैन्यं समादाय सचिवानुमतेन सः ।
पित्राज्ञामनतिक्रामञ्जगाम नगरं निजम् ।। १४७
तातं दृष्ट्वाहमेष्यामि नचिरादित्युवाच च ।
मनोरथप्रभां तां च तं च देवजयं व्रजन् ।। १४८
सोऽथ देवजयो गत्वा तत्सर्वं मकरन्दिकाम् ।
तथैवाबोधयत्तेन जज्ञे सा विरहातुरा ।। १४९
नोद्याने सा रतिं लेभे न गीते न सखीजने ।
शुकानामपि शुश्राव न विनोदवतीर्गिरः ।। १५०
नाहारमपि सा भेजे का कथा मण्डनादिके ।
प्रयत्नैर्बोध्यमानापि पितृभ्यां नाग्रहीद्धृतिम् ।। १५१
उत्सृज्य बिसिनीपत्त्रशयनं चाचिरेण सा ।
उन्मादिनीव बभ्राम पित्रोरुद्वेगदायिनी ।। १५२
यदा न प्रतिपेदे सा समाश्वासयतोस्तयोः ।
वचस्तदा तौ कुपितौ पितरौ शपतः स्म ताम् ।। १५३
निषादमध्ये निःश्रीके कंचित्कालं पतिष्यसि ।
अनेनैव शरीरेण स्वजातिस्मृतिवर्जिता ।। १५४
इति शप्ता पितृभ्यां सा निषादभवनं गता ।
निषादकन्या संपन्ना तदैव मकरन्दिका ।। १५५
स चानुतप्य तच्छोकात्तत्पिता सिंहविक्रमः ।
विद्याधरेश्वरः पत्न्या सह पञ्चत्वमाययौ ।। १५६
स च विद्याधरेन्द्रोऽभूत्प्रागृषिः सर्वशास्त्रवित् ।
केनापि प्राक्तनापुण्यशेषेण शुकतां गतः ।।
सोऽयं शुकः पुराधीतं वेत्ति चैव तपोबलात् ।। १५८
अथ कर्मगतिं चित्रां दृष्ट्वास्य हसितं मया ।
एतां राजसदस्युक्त्वा कथां चैष विमोक्ष्यते ।। १५९
सोमप्रभश्च तामस्य सुतां द्युचरजन्मनि ।
प्राप्स्यत्येव निषादीत्वमागतां मकरन्दिकाम् ।। १६०
मनोरथप्रभा तं च जातं संप्रति भूमिपम् ।
रश्मिमन्तं मुनिसुतं तदैव पतिमाप्स्यति ।। १६१
सोमप्रभोऽपि पितरं दृष्ट्वा गत्वा तदाश्रमे ।
सांप्रतं स प्रियाप्राप्त्यै शर्वमाराधयन्स्थितः ।। १६२
इत्याख्याय कथां तत्र पुलस्त्यो व्यरमन्मुनिः ।
अहं च जातिमस्मार्षं हर्षशोकपरिप्लुतः ।। १६३
ततो येनाहमभवं नीतस्तत्कृपयाश्रमम् ।
स मरीचिमुनिस्तत्र गृहीत्वा मामवर्धयत् ।। १६४
जातपक्षश्च पक्षित्वसुलभाच्चापलादहम् ।
इतस्ततः परिभ्राम्यन्विद्याश्चर्यं प्रदर्शयन् ।। १६५
निषादहस्ते पतितः क्रमात्प्राप्तस्त्वदन्तिकम् ।
इदानीं च मम क्षीणं दुष्कृतं पक्षियोनिजम् ।। १६६
इति सदसि कथामुदीर्य तस्मिन्विदुषि शुके विरते विचित्रवाचि ।
सपदि स सुमनोमहीभृदासीत्प्रमदतरङ्गितविस्मृतान्तरात्मा ।। १६७
अत्रान्तरे तं परितुष्य शंभुः स्वप्ने च सोमप्रभमादिदेश ।
उत्तिष्ठ राजन्सुमनोनृपस्य पार्श्वं व्रज प्राप्स्यसि तत्र कान्ताम् ।। १६८
मुक्तालताख्या पितृशापतो हि भूत्वा निषादी मकरन्दिकाख्या ।
आदाय तं स्वं पितरं गतास्य राज्ञोऽन्तिकं सा शुकतामवाप्तम् ।। १६९
स्मरिष्यति त्वां तु विलोक्य जातिं विद्याधरी सा विनिवृत्तशापा ।
अन्योन्यविज्ञानविवृद्धहर्षशोभी भविष्यत्यथ संगमो वाम् ।। १७०
इति भूमिपतिं निगद्य तं गिरिशः स्वाश्रमगां तथैव ताम् ।
अपरां स मनोरथप्रभां भगवान्भक्तकृपालुरब्रवीत् ।। १७१
यो रश्मिमान्मुनिसुतोऽभिमतो वरस्ते जातः स संप्रति पुनः सुमनोभिधानः ।
तत्तत्र गच्छ तमवाप्नुहि स स्वजातिं सद्यः स्मरिष्यति शुभे तव दर्शनेन ।। १७२
एवं ते सोमप्रभविद्याधरकन्यके पृथग्विभुना ।
स्वप्नादिष्टे नृपतेस्तस्य सदः सुमनसस्तदा ययतुः ।। १७३
सोमप्रभं तत्र च तं विलोक्य संस्मृत्य जातिं मकरन्दिका स्वाम् ।
दिव्यं प्रपद्यैव निजं वपुस्तज्जग्राह कण्ठे चिरशापमुक्ता ।। १७४
सोऽपि प्रसादाद्गिरिजापतेस्तां संप्राप्य विद्याधरराजपुत्रीम् ।
सोमप्रभः साकृतिदिव्यभोगलक्ष्मीमिवाश्लिष्य कृती बभूव ।। १७५
स चापि दृष्ट्वैव मनोरथप्रभां स्मृतस्वजातिः सुमनोमहीपतिः ।
प्रविश्य पूर्वां नभसश्च्युतां तनुं मुनीन्द्रपुत्रश्च बभूव रश्मिमान् ।। १७६
तया च संगम्य पुनः स्वकान्तया चिरोत्सुकः स प्रययौ स्वमाश्रमम् ।
ययौ स सोमप्रभभूपतिश्च तां प्रियां समादाय निजां निजं पुरम् ।। १७७
शुकोऽपि मुक्त्वैव स वैहगीं तनुं जगाम धाम स्वतपोभिरर्जितम् ।
इतीह दूरान्तरितोऽपि देहिनां भवत्यवश्यं विहितः समागमः ।। १७८
इति नरवाहनदत्तो निजसचिवाद्गोमुखात्कथां श्रुत्वा ।
अद्भुतविचित्ररुचिरां शक्तियशः सोत्सुकस्तुतोष तदा ।। १७९
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके तृतीयस्तरङ्गः ।