मणिकण
दिखावट
मोहं रुणद्धि विपुलीकुरुते च बुद्धिं सूते च संस्कृतपदव्यवहारशक्तिम् । शास्त्रान्तराभ्यसनयोग्यतया युनक्ति तर्कश्रमो न तनुते कमिहोपकारम् ॥ प्रत्यक्षपरिच्छेदः जगन्नाथं नमस्कृत्य संक्षेपादेष निर्मितः । निबन्धो लुठतात् कण्ठे श्रीगोपालचिरायुषः ॥ मङ्गलवादः अभिमतकर्मारम्भसमये कर्मसमाप्तिकामाः शिष्टा मङ्गलमाचरन्ति । तत्र मङ्गलं समाप्तिं प्रति कारणम्, विघ्नघ्वंसो व्यापारः, समाप्तिस्तु ग्रन्थादौ चरमवर्णः तद्ध्वंसो वा इत्याचार्याः ॥ मङ्गलं न समाप्तिं प्रति कारणम्, सत्यपि मङ्गले कादम्बरीकारादिग्रन्थस्यापरिसमाप्तेः असत्यपि मङ्गले प्रमत्तनारितकादिप्रणीतग्रन्थसमाप्तेश्च अन्वयतो व्यतिरेकतश्च व्यभिचारात् । किंतु मङ्गलेन विघ्नघ्वंसः , तेन च प्रतिबन्धकसंसर्गाभावमुद्रया समाप्तिर्जन्यते । विघ्नत्वं तु मङ्गलनाश्यतावच्छेदकतया समाप्तिप्रतिबन्धकतावच्छेदकतया च सिद्धा जातिः । कादम्बर्यामसमाप्तिस्तु मङ्गलानन्तरोत्पन्नविघ्नात् लौकिककारणविरहाद्वा । न च मङ्गलं विना क्वापि विघ्नस्य नाश इति नान्वयतो व्यतिरेकतश्च व्यभिचार इति मणिकृतः ॥ प्रमाणवादः प्रमायाः करणं प्रमाणम् । तद्वति तत्प्रकारकोऽनुभवः प्रमा । तथाहि---रजते रजतमिति ज्ञानं रजतत्ववति रजतत्वप्रकारकम् ; शुक्तौ रजतमिति ज्ञानं न तथा । रजतविशेष्यतानिरूपितरजतत्वप्रकारताकज्ञानं यथार्थमिति व्यवह्रियते । रजतत्वाभाववद्विशेष्यतानिरूपितरजतत्वप्रकारताकं ज्ञानं भ्रम इति व्यवह्रियते । विशेष्यता प्रकारता च विषयताविशेषो ज्ञानविषययोः संबन्धः । विषयतयोर्निरूप्यनिरूपकभावोऽपि 'रजतत्वेनामुं जानामि ' इत्यनुभवसाक्षिकः ॥ प्रामाण्यवादः तच्च प्रामाण्यं प्रथमव्यवसायेन गृह्यते । तथाहि-रजतेन सह चक्षुःसंनिकर्षः ; ततो 'रजतम्' इति जायमानं चाक्षुषं मितिमातृमेयान् विषयीकरोति । मितिर्ज्ञानं, माता ज्ञाता, मेयं ज्ञानविषयः । तथाच 'रजतमहं पश्यामि' इत्येवमाकारकं चाक्षुषं रजते रजतत्ववत्ताम्, रजतेन सह ज्ञानस्य विशेष्यताम्, रजतत्वेन सह प्रकारताम् , प्रकारताविशेष्यतयोः निरूप्यनिरूपकभावं च विषयीकरोति , तेषां ज्ञानवित्तिवेद्यत्वात् इति प्राभाकराः ॥ चाक्षुषानन्तरोत्पन्नो 'रजतमहं पश्यामि' इत्यनुव्यवसायो निर्दिष्टरीत्य प्रामाण्यं गृह्णातीति मुररिमिश्राः ॥ प्रथमं ' रजतम् ' इति चाक्षुषम्, ततो रजतत्वप्रकारिका रजतसमवेता ज्ञातता विशेषणताविशेषेण आत्मन्युत्पद्यते ; ततो ' रजतत्वप्रकारकरजतसमवेतज्ञाततावान् अहम् ' इति ज्ञातताप्रत्यक्षम् ; ततः 'यो यत्प्रकारकयत्समवेतज्ञाततावान् , स तत्प्रकारकतद्विशेष्यकज्ञानवान् ' इति सामान्यतो व्याप्तिस्मरणम् ; ततो ' रजतत्वप्रकारकरजतविशेष्यकज्ञानवान् अहम् ' इत्यनुमितिः ; इति ज्ञानातीन्द्रियत्ववादिनो भाट्टाः ॥ मतत्रये प्रामाण्यं स्वतोग्रह्यम् । स्वतोग्रह्यत्वं तु तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यत्वम् ॥ अत्र नैयायिकाः --- प्रामाण्यं स्वाश्रयग्राहकेण सर्वेण न गृह्यते, गृहीतेऽपि ज्ञाने तत्र प्रामाण्यसंशयात् । तथाहि--प्रथमं ' रजतम् ' इति चाक्षुषम् , ततः तदनुव्यवसायः, ततः प्रामाण्याप्रामाण्यकोटिस्मरणम्, ततो 'रजतज्ञानं प्रमा न वा ' इति संशयो जायते । स च स्वतस्त्ववादेऽनुपपन्नः ; प्रथममनुव्यवसायेन तस्मिन् ज्ञाने प्रामाण्यनिश्चयात् ; अननुव्यवसाये च धर्मिज्ञानाभावात् । अतो ज्ञानग्राहिकाया अनुव्यवसायसामग्र्याः प्रामाण्यग्रहणेऽसामार्थ्यं कल्प्यत इति न स्वतस्त्वम् । किंतु अनुमानेन प्रामाण्यग्रहः । तथाहि--'रजतत्वप्रकारकं ज्ञानं न रजतत्वाभाववद्विशेष्यकम् , अरजतगोचरव्यवहाराजनकत्वात्' इति रजतत्वाभाववद्विशेष्यकत्वाभावे सिद्धे 'इदं रजतत्वप्रकारकं रजतविशेष्यकम् , रजतत्वाभाववद्विशेष्यकत्वाभावे सति रजतत्वप्रकारकत्वात् , इत्यनुमानेन रजतत्वप्रकारत्वावच्छेदेन रजतविशेष्यकत्वं सिध्यत् प्रामाण्य एव पर्यवस्यति इत्याहुः ॥ उत्पद्यतेऽपि प्रमा परतो गुणात् ; न स्वतो ज्ञानसामग्रीमात्रात् । गुणस्तु , अवयविप्रत्यक्षे भूयोऽवयवेन्द्रियसंनिकर्षः ; संशयविपर्ययोत्तरप्रत्यक्षे सद्विशेषदर्शनम् ; अनुमितौ सल्लिङ्गपरामर्शः ; उपमितौ सदतिदेशवाक्यार्थज्ञानम् ; शाब्दबोधे सत्तात्पर्यज्ञानम्, योग्यताप्रमा वा ; सर्वत्र वा विशेष्यसंबद्वविशेषणज्ञानम् ॥ गुणो न प्रमाकारणम् , प्रमात्वस्य कार्यतानवच्छेदकत्वात् इत्येकदेशिनः ॥ अन्यथारव्यातिवादः ननु----भ्रमो नाम व्यधिकरणप्रकारकं ज्ञानं जगति नास्त्येवेति कस्य व्यावृत्तये प्रमालक्षणे तद्वतीति विशेषणम् ? अथ यदि शुक्तौ रजतत्वप्रकारकं ज्ञानं नाभ्युपेयते, तदा तथाविधो व्यवहारोऽनुपपन्नः, समानाकारज्ञानस्य व्यवहारजनकत्वात् इति चेत् ; न । व्यवहारं प्रति स्वतन्त्रोपस्थितेष्टभेदाग्रहस्य कारणत्वात् । तथाहि---शुक्तौ रजतत्वप्रकारकव्यवहारत्वं जन्यतावच्छेदकम् । शुक्तेश्चक्षुषा ग्रहाणम् , रजतस्य च स्वातन्त्र्येण स्मरणम् , ' इदं न रजतम् ' इति भेदग्रहस्याभावश्च त्रितयं कारणम् । तथाच तत्त्रितयादेव विसंवादि व्यवहारसिद्धौ किमन्यथाख्यात्या ? संवादिव्यवहारे तु विशिष्टबुद्धिरेव लाघवात् कारणम् ; अतो न सर्वत्र विशिष्टज्ञानोच्छेद इति प्राभाकराः ॥ तन्न ; सामान्यतो विशेष्यतासंबन्धेन रजतत्वप्रकारके व्यवहारे रजतत्वप्रकारकज्ञानस्य विशेष्यतया कारणत्वात् अन्यथारव्यातिसिद्धेः ; संवादिविसंवादिव्यवहारभेदेन कारणता भेदकल्पने मानाभावत् । किंच ' रजतत्वेन पुरोवर्तिनं जानामि ' इत्यनुव्यवसायादेव अन्यथारव्यातिसिद्धिः । अन्यथा अनुव्यवसायाद्वस्त्वसिद्धौ प्रमापि न सिध्येत् इति ॥ संनिकर्षवादः तच्च प्रमाणं चतुर्विधम्--- प्रत्यक्षम्, अनुमानम्, उपमानम् , शब्द इति ॥ साक्षात्कारस्य करणं प्रत्यक्षम् । साक्षात्कारत्वं ' साक्षात्करोमि ' इत्यनुव्यवसायसिद्धा जातिः । साक्षात्कारकरणम् इन्द्रियं षोढा---घ्राणम्, रसनम्, चक्षुः, त्वक्, श्रोत्रम्, मन इति ॥ साक्षात्कारे जननीये इन्द्रियाणां नव प्रत्यासत्तयः---संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणता, ज्ञानलक्षणा, सामान्यलक्षणा, योगजलक्षणा चेति । तासु लौकिके साक्षात्कारे षट्, अलौकिके तिस्त्रः कारणानि ॥ संयोगेन द्रव्यग्रहः । चक्षुःसंयोगेन पृथिव्यप्तेजसां चाक्षुषम् ; त्वक्संयोगेन तेषामेव त्वाचम् ; मनःसंयोगेन जीवात्मनो मानसं प्रत्यक्षम् ॥ द्रव्यवृत्तिलौकिकविषयतया तत्पुरुषसमवेतचाक्षुषे तत्पुरुषचक्षुःसंयोगः समवायेन कारणम् ॥ द्रव्यवृत्तिलौकिकविषयतया जन्यसाक्षात्कारे समवायेन महत्त्वम् उद्भूतरूपं च कारणम् । तेन परमाणोः वायुगगनादेश्च न साक्षात्कारः ॥ उभ्दूतत्वं चानुभ्दूतत्वाभावः । अनुभ्दूतत्वानि शुक्लत्वादिव्याप्याः षट् जातयः । एकैव वा शुक्लत्वव्याप्यजातिरनुद्भूतत्वम् ॥ आलोकसंयोगोऽपि द्रव्यचाक्षुषे कारणम् ; अन्यथा अन्धकारे द्रव्यचाक्षुषापत्तेः । द्रव्यत्वाचे उद्भूतस्पर्शोऽपि कारणम् । अन्यथा प्रभायाः स्पर्शनप्रसङ्गात् ॥ एवं द्रव्यान्यद्रव्यसमवेतचाक्षुषं प्रति चक्षुःसंयुक्तसमवायः, द्रव्यान्यद्रव्यसमवेतत्वाचे त्वक्संयुक्तसमवायः, सद्रासने रसनसंयुक्तसमवायः, सद्घ्राणजे घ्राणसंयुक्तसमवायः कारणम् । तथाहि ---द्रव्यान्यद्रव्यसमवेतवृत्तिलौकिकविषयतासंबन्धेन चैत्रीयचाक्षुषे विशेषणतया चैत्रीयचक्षुःसंयुक्तोद्भूतरूपवन्महत्समवायः कारणम् । चैत्रचक्षुःसंयुक्तसमवायविरहेऽपि गुणादौ मैत्रीयचाक्षुषोत्पत्त्या व्यभिचारस्य वारणाय कार्यतावच्छेदके चैत्रीयत्वप्रवेशः । त्रसरेणुचाक्षुषे व्यभिचारवारणाय कार्यतावच्छेदकसंसर्गे द्रव्यान्येति । गुणत्वरूपत्वादिचाक्षुषे व्यभिचारवारणाय द्रव्यसमवेतेति । गुणोपनीतभाने व्यभिचारवारणाय लौकिकेति । पिशाचघटितसंनिकर्षात् तत्परिमाणादिप्रत्यक्षवारणाय कारणकोटौ चक्षुःसंयुक्ते उद्भूतरूपवत्ताप्रवेशः | परमाणुघटितसंनिकर्षेण तद्गुणानां प्रत्यक्षवारणाय महत्त्वप्रवेशः ॥ एवं त्वक्संयुक्तसमवायस्यापि गुणादित्वाचे कारणत्वमवसेयम् । तत्र प्रभाघटितसंनिकर्षेण प्रभागुणत्वाचवारणाय उभ्दूतस्पर्शस्य, त्रसरेणुगुणत्वाचवारणाय प्रकृष्टमहत्त्वस्य च कारणकोटौ प्रवेशः ॥ एवं घ्राणसंयुक्तसमवायरसनसंयुक्तसमवाययोरपि कार्यकारणभावः स्वयमवसेयः ॥ सद्वृत्तिलौकिकविषयतया घ्राणजे रासने च तादात्म्येन गन्धरसयोः कारणत्वम् । तेन न रूपादेर्घ्राणजरासनप्रसङ्गः ॥ एवं चाक्षुषे स्पर्शरसगन्धानां त्वाचे रूपरसगन्धानां प्रतिबन्धकत्वम् ; अन्यथा स्पर्शादिचाक्षुषस्य रूपादिस्पर्शनस्य चापत्तेः ॥ स्थितिस्थापकगुरुत्वादीनां च साक्षात्कारसामान्ये प्रतिबन्धकत्वमवसेयम् ॥ सदवृत्तिलौकिकविषयतया चैत्रीयश्रावणे चैत्रश्रोत्रसमवायो विशेषणतया कारणम् । श्रोत्रं नाम कर्णावच्छिन्नं नभः । यस्य शब्दस्याधारता कर्णसंयोगेनावच्छिद्यते स शब्दः श्रवसा गृह्यते । सदन्यत्र समवेते वृत्तिविषयतया चैत्रीयश्रावणप्रत्यक्षे चैत्रीयश्रोत्रसमवेतसमवायः कारणम् , येन शब्दसमवेतजातीनां शब्दत्वकत्वादीनां ग्रहणम् ॥ समवायवादः 'गुणकियाजातिविशिष्टबुद्धिः विशेषणविशेष्यसंसर्गविषया, विशिष्टबुद्धित्वात् ; दण्डिपुरुषविशिष्टबुद्धिवत्' इत्यनुमानेन लाघवादेकः संबन्धः सिध्यति । स एव समवायः ; स्वरूपसंबन्धानामनेकत्वगौरवात् ॥ नव्यास्तु जन्यसत्त्वावच्छिन्नं प्रति द्रव्यं तादात्म्येन कारणम् । तत्कार्यतावच्छेदकसंसर्गतया समवायसिद्धिः ; अन्यथा स्वरूपसंसर्गेण कियास्वरूपकालोपाधावपि जन्यसदुत्पत्त्या व्यभिचारप्रसङ्गादित्याहुः ॥ अभाववादः श्रोत्रविशेषणतया शब्दाभावस्य, श्रोत्रसमवेतविशेषणतया शब्दे कत्वाद्यभावस्य, चक्षुःसंयुक्तविशेषणतया भूतले घटाभावादेः, चक्षुःसंयुक्तसमवेतविशेषणतया गूणादौ द्रव्यत्वाद्यभावस्य, चक्षुःसंयुक्तसमवेतसमवेतविशेषणतया जात्यादौ सत्त्वाद्यभावस्य, इन्द्रियसंबद्धविशेषणतया अभावे भावत्वाभावस्य प्रत्यक्षम् ॥ यत्राधिकरणे यस्य प्रतियोगियोग्यानुपलब्धिः स तत्राभावो योग्यः । अनुपलब्धौ योग्यत्वं प्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जितप्रतियोगिकत्वम् । घटाभावस्य प्रतियोगी घटः, तत्सत्तया भूतले घटोपलब्धिः प्रसञ्जयितुं शक्यत इति भवति भूतले घटानुपलब्धिः योग्या । एवं पृथिव्यादिपरमाणै महत्त्वाभावः, महाबाह्याकाशादौ रूपाभावः, स्तम्भे पिशाचान्योन्याभावः, घटे मनोभेदश्च योग्यो भवतीत्यवधेयम् ॥ भाट्टास्तु--- अभावस्यानुपलब्धं भिन्नमेव ज्ञानम् ; न तु चक्षुरादीन्द्रियजन्यम् ; इन्द्रियान्वयव्यतिरेकानुविधानमाश्रय- ग्रहणोपक्षीणमित्याहुः । तन्न ; एवं त्वचा गृहीते अधिकरणे नीलाभावादीनामानुपलब्धज्ञानप्रसङ्गात् ॥ ननु नीलाभावादिज्ञाने चाक्षुषी अधिकरणोपलब्धिः ; चाक्षुषनीलोपलब्धेरभावश्च कारणमिति चेत् , एवं सत्यपि घटाभावादेरानुपलब्धे ज्ञाने कचिच्चाक्षुषी क्वचित्त्वाची अधिकरणोपलब्धिः तत्तदिन्द्रियजन्यघटोपलम्भाभावसहकृता कारणमिति तत्कार्यतावच्छेदकतया आनुपलब्धे ज्ञाने वैजात्यद्वयकल्पनप्रसङ्गत्, घटाभावगोचरे ज्ञाने क्लृप्तचाक्षुषत्वाचत्वादिकल्पनायामेव लाघवमिति ॥ अभावोऽपि नाधिकरणस्वरूपः, किंतु 'न' इत्यनुगतप्रतीतिसिद्धः सप्तमः पदार्थः । अन्यथा भूतलादेरधिकरणस्यैक्यात् घटापसरणकाल इव घटसत्ताकालेऽपि 'भूतले घटो न' इति प्रतीतिप्रसङ्गात् । अभावातिरेक्यमते तु नित्यस्यात्यन्ताभावस्य विशेषणता तत्तत्कालादिस्वरूपा, न नित्या, इति भवति भूतलादौ घटाद्यत्यन्ताभावस्य सामयिकमव्याप्यवृत्तित्वम् ॥ अत एव समवायवद्विशेषणताप्यतिरिच्यत इति परास्तम् ॥ प्रत्यक्षकारणवादः तन्निष्ठालौकिकप्रकारकबाह्यप्रत्यक्षे तन्निष्ठया विषयतान्तरनिरूपितविषयतया विशिष्टं ज्ञानं कारणम् । निर्विकल्पकविषयतावारणाय विषयतान्तरनिरूपितत्वं विषयताविशेषणम् । तन्निष्ठालौकिकविषयताकमानसे तद्विषयकसप्रकारकज्ञानस्य पृथगेव जनकता । अत एव उपनीतं वशेषणतयैव भासते, मानसे त्वनियम इति वदन्ति ॥ विशेषणविशेष्यतावच्छेदकप्रकारकज्ञानत्वेन कारणतयैवोपपत्तेः ज्ञानलक्षणा न पृथक् जनिकेति नवीनाः ॥ धूमत्वादिप्रकारतानिरूपितालौकिकमुरव्यविशेष्यतया चाक्षुषे स्वप्रकारीभूतधूमत्वादिमत्तासंसर्गेण चाक्षुषं कारणम् । तेन धूमत्वेनैकस्मिन् धूमे गृहीते धूमा इति सकलधूमगोचरं चाक्षुषमुपपद्यते । मानसस्थले तु धूम इति ज्ञानमात्रं सामान्यलक्षणा ; न तु तस्य मानसत्वमप्यपेक्ष्यते ॥ विशेषणज्ञानकारणतैव सामान्यलक्षणा कारणतेति तु तवीनाः ॥ योगजलक्षणा तु योगजनितो धर्मविशेषः । स स्वाश्रयसंयोगस्वाश्रयसंयुक्तसमवायादिसंसर्गेण द्रव्यगुणादौ प्रत्यासन्नः तत्प्रत्यक्षं जनयति । प्रणिधानं च तत्सहकारि । अत एव ' क्षणं ध्यात्वाब्रवीन्मुनिः ' इत्युपपद्यते ॥ सविकल्पकनिर्विकलपकवादौ प्रत्यक्षं द्विविधम्, निर्विकल्पकं सविकल्पकं च । निर्विकल्पकमेव आलोचनम् । सप्रकारकं सविकल्पकम् । प्रकारो द्विविधः----विशेषणमुपल (क्षणं) च । प्रत्यभिज्ञापि विशिष्टज्ञानम्, न तु ज्ञानद्वयम् , स्थैर्यासिद्धिप्रसङ्गात् ॥ इति प्रत्यक्षपरिच्छेदः अनुमानपरिच्छेदः अनुमितिप्रकरणम् अथानुमानं निरूप्यते । व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानमनुमितिः । तत्करणमनुमानम् ॥ अनुमितिः प्रत्यक्षमेवेति चार्वाकाः । तन्न ; अनुमिनोमि' इत्यनुव्यवसायसिद्धस्यानुमितित्वस्य प्रत्यक्षत्वसमानाधि- करण्ये मानाभावात् ॥ व्याप्तिप्रकरणम् तत्र व्याप्तिः न साध्याभाववदवृत्तित्वं, साध्यवदन्यावृत्तित्वं वा ; केवलान्वयिसाध्यके 'वाच्यं ज्ञेयत्वात्' इत्यादावव्याप्तेः । किंतु प्रतियोग्यनधिकरणहेत्वधिकरणनिष्ठाभावप्रतियोगितानवच्छेदकसाध्यतावच्छेदकविशिष्टसाध्यसमानाधिकरणहेतुत्वं व्याप्तिः ॥ ' संयोगी, द्रव्यत्वात् ' इत्यादिसंग्रहाय हेत्वधिकरणे प्रतियोग्यनधिकरणत्वं विशेषणम् । प्रतियोग्यनधिकरणत्वं तु प्रतियोगितावच्छेदकविशिष्टानधिकरणत्वम् । तेन 'गुणान्यत्वविशिष्टसत्तावान् जातेः ' इत्यादौ नातिव्याप्तिः । हेत्वधिकरणत्वमपि हेतुतावच्छेदकविशिष्टाधिकरणत्वम् ; अन्यथा 'द्रव्यं गुणाद्यन्यसत्त्वात् ' इत्यादौ अव्याप्तिप्रसङ्गात् । प्रतियोगिता च साध्यतावच्छेदकसंसर्गावच्छिन्ना ग्राह्या । तेन वह्नेः समवायेनाभावस्य धूमवद्वृत्तित्वेऽपि न क्षतिः । अवच्छेदकत्वं चे [ ह गुरु़ ] लधुसाधारणम् । तेन प्रमेयधूमत्वादिना साध्यतायां वह्रौ हेतौ नातिव्यप्तिः ॥ प्रतियोगिव्यधिकरणहेतुसमानाधिकरणाभावप्रतियोगितासामान्ये यत्संसर्गावच्छिन्नत्वयद्रूपावच्छिन्नत्वोभयाभावः, तेन संसर्गेण तद्रूपविशिष्टसामानाधिकरण्यं व्याप्तिरिति तु युज्यते । अन्यथा महाकालिकविशेषणतया घटादौ साघ्ये महाकालत्वे हेतौ अव्याप्तिप्रङ्गात् | कस्यापि हेत्वधिकरणवृत्तेरभावस्य साध्यतावच्छेदकसंसर्गावच्छिन्नप्रतियोगिताकस्य स्वप्रतियोगि- तावच्छेदकसंसर्गेण प्रतियोगिव्यधिकरणत्वाभावादिति संक्षेपः ॥ व्याप्तिग्रहोपायप्रकरणम् व्याप्तेर्ग्राहकं हेतुसाध्यसहचारदर्शनं व्यभिचारदर्शनाभावश्च । स चाभावः क्वचित् स्वारसिकः ;यथा ' घटभिन्नभिन्नोऽयम्, घटत्वात् ' इत्यादौ निसर्गत एव हेतौ साध्यव्यभिचारशङ्का नोदेति । क्वचित्तर्कप्रयुक्तः ; यथा ' वह्निमान् धूमात् ' इत्यादौ धूमे संभवन्त्यपि वह्निव्यभिचारशङ्का ' धूमो यदि वह्निव्यभिचारी स्यात्, वह्निजन्यो न स्यात् ' इति तर्केणापनीयते ; अनाहार्यशङ्काया वह्निजन्यत्वादिविधिशेषदर्शनेनापगतत्वेऽपि आहार्यशङ्कायास्तर्कैकापोद्यत्वात् ॥ तर्कप्रकरणम् तर्को नाम व्याप्यारोपेण व्यापकारोपः । तर्कत्वं नाम मानसत्वव्याप्यो जातिविशेषः । तर्के व्याप्यस्याहार्यारोपो नाम तर्कणम् आपाद्यव्यतिरेकनिर्णयश्च कारणमिति दिक् ॥ उपाधिप्रकरणम् व्यभिचारदर्शनं तु क्वचिदुपाधिदर्शनाहितम् । उपाधिस्तु यद्धर्मावच्छिन्नसाध्यव्यापकः तद्धर्मावच्छिन्नहेतोरव्यापको धर्मः । भवति च 'धूमवान् वह्नेः ' इत्यादौ द्रव्यत्वादिविशिष्टस्य साध्यस्य धूमस्य व्यापको द्रव्यत्वादिविशिष्टस्य वह्नेरव्यापकश्च आर्द्रेन्धनादिरुपाधिः । 'स श्यामः मित्रातनयत्वात् ' इत्यत्र मित्रातनयत्वविशिष्टश्यामत्वव्यापकं स्वविशिष्टस्य च हेतोरव्यापकं शाकपाकजत्वम् । 'वायुः प्रत्यक्षः प्रत्यक्षगुणाश्रयत्वात् ' इत्यत्र बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकं तदवच्छिन्नहेतोरव्यापकम् उभ्दूतरूपमुपाधिः ॥ अत एव 'वह्निमान् धूमात्' इत्यत्र महानसत्वावच्छिन्नवह्नेर्व्यापकं शुद्धधूमाव्यापकं व्यजनवत्त्वं(व्यञ्जनवत्त्वमिति कोशपाठः।) नोपाधिः ; महानसत्वावच्छिन्नधूमं प्रत्यपि व्यापकत्वात् ॥ तस्य चोपाधेर्व्यभिचारो हेतौ गृह्यमाणः साध्यव्यभिचारं ज्ञापयति । ततो व्याप्तिग्रहप्रतिबन्धः ॥ उपाधेरभावः पक्षवृत्तितया गृहीतः साध्याभावोन्नायकत्वेन सत्प्रतिपक्षमुद्रया दोष इति तु केचित् ॥ पक्षताप्रकरणम् पक्षता च सिषाधयिषाविरहविशिष्टसिद्धयभावः । सिद्धिः पक्षे साध्यवत्तानिश्चयः । सिषाधयिषा तु तत्पक्षसाध्यकानुमितिगोचरेच्छा । लिङ्गभेदेनापि पक्षता भिद्यत इति केचित् ॥ परामर्शप्रकरणम् तत्र 'वह्निव्याप्यो धूमः' 'धूमवान् पर्वतः' इति ज्ञानद्वयसाधारणेन गृह्यमाणव्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन धूमलिङ्गकवह्र्यनुमितौ कारणत्वमिति मीमांसकाः ॥ व्याप्यत्वविशिष्टस्य पक्षधर्मताज्ञानमेव कारणम् , लाघवादिति नैयायिकाः ॥ व्यापकताया ज्ञानमेव कारणम् ; न तु व्याप्तेः, सामानाधिकरण्यघटितत्वेन गौरवात् इत्येकदेशिनः ॥ अनुमितौ परामर्शोपनीतं लिङ्गमपि भासत इत्याचार्याः । न भासते, अनुभवविरोधात् प्रमाणाभावाच्च, इति मणिकृतः ॥ केवलान्वयिप्रकरणम् तच्चानुमानं त्रिविधम्---केवलान्वयि, केवलव्यतिरेकि, अन्वयव्यतिरेकि च ॥ अत्यन्ताभावाप्रतियोगिसाध्यकं केवलान्वयि । यथा 'आकाशाभाववान् प्रमेयत्वात् ' इति । आकाशाभावस्यात्यन्ताभावो न प्रतियोगिस्वरूपः । तथात्वे वा वृत्तिमत्प्रतियोग्यसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यकं केवलान्वयीति वक्तव्यम् ॥ मीमांसकास्तु, केवलान्वयिसाध्यकमनुमानमेव नास्ति ; तस्य केवलान्वयित्वग्रहदशायां साध्याभाववदवृत्तित्वव्याप्तेरग्रहाद् अनुमानावतारासंभवाद् इत्याहुः ॥ केवलव्यतिरेकिप्रकरणम् केवलव्यतिरेकि तदुच्यते, यत्र साध्यसाधनसामानाधिकरण्याग्रहेऽपि साध्याभावं प्रति हेत्वभावस्य व्यापकताग्रहादनुमितिः । तथाहि---जलादिकं प्रति पृथिवीत्वाभावस्य व्यापकत्वे गृहीते 'जलादिव्यापकपृथिवीत्वाभावप्रतियोगि पृथिवीत्ववती पृथिवी ' इति परामर्शात् ' पृथिव्यां जलादिभेदः ' इत्यप्रसिद्धसाध्यिका अनुमितिरुत्पद्यते । सा च साध्यविशेष्यिकैव, न तु तद्विशेषणिका, पूर्वं विशेषणज्ञानाभावात् ॥ अन्वयव्यतिरेकिप्रकरणम् अन्वयव्यतिरेकि तदुच्यते, यत्रान्वयतो व्यतिरेकतश्च व्याप्तिं हेतौ गृहीत्वा पक्षे साध्यमनुमीयत। तथाहि -- धूमे वह्र्यभावव्यापकधूमाभावप्रतियोगित्वं धूमसमानाधिकरणाभावाप्रतियोगिवह्निसामानाधिकरण्यं च गृहीत्वा पर्वते वह्निरनुमीयते । सा चानुमितिः साध्यविशेषणिकैव, प्रसिद्धसाध्यकत्वात् ॥ अर्थापत्तिप्रकरणम् अर्थापत्तिरपि व्यतिरेक्यनुमानमेव ; न तु मानान्तरम् , प्रमाणाभावात् ॥ न्यायप्रकरणम् अनुमितिर्द्विविधा -- स्वार्था परार्था च । परार्थानुमितौ न्यायजन्यः परामर्शः कारणम् ॥ उचितानुपूर्वीकप्रतिज्ञादिपञ्चकसमुदायो न्यायः । तस्य प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः ॥ न्यायान्तर्गतत्वे सति प्रकृतानुमित्यन्यूनानतिरिक्तविषयताकवाक्यार्थबोधजनकं वाक्यं प्रतिज्ञा । अवयवान्तरघटकपञ्चमीसाकाङ्क्षपदघटितत्वे सति हेतुभिन्नन्यायावयवो वा प्रतिज्ञा । भवति च हेतुघटकपञ्चमीसाकाङ्क्षेण साध्यवाचिना पदेन घटिता हेत्ववयवभि(न्ना) सर्वा प्रतिज्ञा ।' घटो दण्डात्, दण्डान्वयव्यतिरेकानुविधायित्वात् ' इत्यत्र हेत्ववयववारणाय हेतुभिन्नेति । उदासीनवाक्यवारणाय न्यायावयव इति ॥ प्रतिज्ञाघटकपदसाकाङ्क्षपदघटितो न्यायावयवो हेतुः ॥ हेत्ववयवाव्यवहितोत्तरो न्यायावयव उदाहरणम् ॥ प्रकृतपक्षे प्रकृतसाध्यव्याप्तिविशिष्टवैशिष्ट्यबोधको न्यायावयव उपनयः ॥ उपनयघटकपदसाकाङ्क्षपदघटितो न्यायावयव उपनयभिन्नो निगमनम् ॥ पर्वतो वह्निमान् ; धूमात् ; यो यो धूमवान् स वह्निमान्, यथा महानसम् ; वह्निव्याप्यधूमवान् अयम् ; तस्माद्वह्निमान् ; इति न्यायशरीरम् ॥ 'यो यो धूमवान् स वह्निमान् 'धूमवान् पर्वतः ' इत्युदाहरणोपनयावेव न्यायावयवौ, न त्वितरे इति बौद्धाः ॥ ' पर्वतो वह्निमान् ' 'धूमात् ' 'यो यो धूमवान् स वह्निमान् ' इति प्रतिज्ञाहेतूदाहरणान्येव न्यायावयवा इति प्राभाकराः ॥ उदाहरणे ' यो यः ' इति वीप्सा यच्छब्दे प्रयोक्तव्या, न तच्छब्दे इति प्राचीनाः । यच्छब्देऽपि न प्रयोज्या, इति मणिकृतः ॥ ' तथा चायम् ' इत्येव उपनयाकार इत्यपि वदन्ति ॥ हेत्वाभासप्रकरणम् अनुमितितज्जनकपरामर्शान्यतरप्रतिबन्धकज्ञानविषयो विशिष्टधर्मो हेतुदोषः ; तद्वान् हेत्वाभासः ॥ स पञ्चधा---सव्यभिचारः, विरुद्धः, सत्प्रतिपक्षः, असिद्धः, बाधितश्च ॥ तत्र व्याप्तिग्रहप्रतिबन्धकग्रहविषयत्वे सति हेतुसाध्यादिग्रहाविरोधी यो दोषः, तद्वान् सव्यभिचारः ॥ स त्रिविधः---साधारणः, असाधारणः, अनुपसंहारी च ॥ तत्र साध्ये हेतुव्यापकताग्रहविरोधी दोषः साधारण्यम् , तद्वान् साधारणः । यथा 'धूमवान् वह्नेः ' इत्यत्र वह्रौ साध्याभाववद्गामित्वम् , धूमाभाववद्गामी वह्निर्वा ॥ हेतुसाध्यसामानाधिकरण्यग्रहविरोधी दोषः असाधारण्यम् , तद्वान् असाधारणः । यथा 'शब्दो नित्यः शब्दत्वात् , आकाशाद्वा ' इत्यादौ साध्यासमानाधिकरणो हेतुः ॥ व्यतिरेकव्याप्तिग्रहविरोधि दोषः अनुपसंहारः ; तद्वान अनुपसंहारी । यथा ' सर्वँ प्रमेयं वाच्यत्वात् ' इत्यत्र अत्यन्ताभावाप्रतियोगिसाध्यकत्वादिविशिष्टो हेतुः ॥ साध्यव्यापकीभूताभावप्रतियोगी साध्याभावव्याप्यो वा प्रकृतो हेतुः पक्षवृत्तिः विरुद्ध इत्युच्यते । यथा 'शब्दो नित्यः शब्दत्वात् ' इत्यत्र नित्यत्वाभावव्याप्यं शब्दवृत्ति च प्रकृतमेव साधनं शब्दत्वम् ॥ तादृशं प्रकृतहेतुभिन्नं चेत् , तदा सत्प्रतिपक्षः । यथा ' शब्दो नित्यः व्योमैकगुणत्वात् ' इति स्थापनायाम् , 'शब्दो न नित्यः उत्पत्तिमत्त्वात् ' इति प्रतिस्थापनाविषयो हेतुः उत्पत्तिमत्त्वम् ॥ विरुद्धेन सत्प्रतिपक्षेण च संशयस्वरूपानुमितिर्जन्यत इति रत्नकोशकारः ; नेत्यन्ये ॥ व्यभिचारभिन्नः परामर्शविरोधी (दोषः) असिद्धिः ; तद्वान् असिद्धः । स त्रिविधः---आश्रयासिद्धः , व्याप्यत्वासिद्धः , स्वरूपासिद्ध इति ॥ आश्रयासिद्धः ' काञ्चनमयपर्वतो वह्निमान् धूमात् ' इत्यादौ । व्याप्यत्वासिद्धः ' काञ्चनमयवह्निमान् काञ्चनमयधूमात् ' इत्यादौ । स्वरूपासिद्धः ' तप्तायः पिण्डो वह्निमान् धूमात् ' इत्यादौ प्रकृतो हेतुः ॥ सत्प्रतिपक्षविरोधभिन्नः प्रकृतानुमितिविरोधी दोषो बाधः ; तद्वान् बाधितः । यथा 'ह्रदो वह्निमान् धूमात् ', 'गन्धप्रागभावकालावच्छिन्नो घटो गन्धवान् पृथिवीत्वात् ' इत्यत्र साध्याभाववत्प्रकृतपक्षको हेतुः ॥ ईश्वरानुमानप्रकरणम् एवमनुमाने निरूपिते तस्मात् जगन्निर्मातृपुरुषधौरेयसिद्धिः । तथाहि --- 'क्षितिः सकर्तृका कार्यत्वात् ' इत्यनुमानेन लौकिकस्य शरीरिणः कर्तुर्बाधे अशरीरः कर्ता सिध्यति । स एवेश्वरः । तत्र क्षितिद्वयणुकाङ्कुरादिः जन्यकृत्यजन्यजन्यत्वेन अनुगतेन रूपेण क्षितित्वादिना प्रत्येकं वा पक्षः । सकर्तृकत्वं तु उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यत्वम् । कार्यत्वं तु प्रागभावप्रतियोगित्वे सति सत्तावत्त्वम् । तेन ध्वंसे न व्यभिचारः ॥ स च कर्तो न शरीरी । तथात्वे हि स कार्यसंनिहितशरीरचेष्टाद्वारा कार्यजातमुत्पादयेत् , तदसंनिहित एव वा । आद्ये, पाषाणान्तर्वर्तिभेकनिर्माणे पाषाणभङ्गप्रसङ्गात् । अन्त्ये, किमस्य शरीरस्वीकारेण ? शरीरव्यापारमन्तरापि पाषाणान्तर्वर्तिभेकस्येव जगतो निर्माणसंभवात् ॥ तस्य च कर्तुः ज्ञानमिच्छा प्रयत्नश्च नोत्पद्यते, शरीराभावात् । अत एव न विनश्यति, उत्पत्तिमतामेव सतां विनाशात् । न च नाना, मानाभावात् । लाघवादेकैकेषामेव भगवज्ज्ञानेच्छाप्रयत्नानां सिद्धेश्च ॥ शक्तिवादः मण्यादिकुण्ठिते वह्रौ न दाहकत्वम् ; सहकारिणो मण्यभावस्याभावात् । दाहं प्रति हि मण्यभावः कारणम् । दाहकारणीभूताभावप्रतियोगितया मणिर्दाहप्रतिबन्धक इत्युच्यते ॥ यत्तु---वह्रौ दाहानुकूला शक्तिरभ्युपेया, सा मणिसमवधाने कुण्ठिता भवति, इति मीमांसकैरुक्तम्, तन्न ; शक्तेः कुण्ठनस्य निर्वक्तुमशक्यत्वात् । नित्यायाः शक्तेः विनाशासंभवात् । शक्तेरुत्पादविनाशवत्त्वे तत्कारणत्वेनावश्यकल्पनीयस्य मण्यभावस्य दाहकारणताकल्पनमेव न्याय्यम् ॥ तृणारणिमणीनां तृणत्वादिनैव वैकल्पिकी कारणता वह्रौ, न तु एकशक्तिमत्त्वेन, तस्यां शक्तौ मानाभावात् । पुरुषो हि वह्र्यर्थी तृणत्वेन वह्नियोग्यतां ज्ञात्वा तृणे प्रवर्तते । न च तृणस्य वह्निकारणत्वे अरणिजन्ये वह्रौ व्यभिचारः , वह्रौ तृणजन्यतावच्छेदकजातिविशेषस्वीकारात् ॥ व्रीह्यादौ प्रोक्षणादिना यजमानसमवेतमदृष्टमेवोत्पाद्यते, न तु व्रीह्यादौ । व्रीहिभेदात्तद्भेदोपगमे शक्त्याधिक्यापत्तेः । सर्वव्रीहावेकशक्तिस्वीकारे यत्किंचिद्व्रीहिनाशे तन्नाशात् अवघातपर्यन्तमनवस्थानप्रसङ्गात् । दिव्यस्थले तुलावनमनं प्रति परीक्ष्यपुरुषसमवेतमदृष्टमेव प्रयोजकम् । लाक्षारसावसिक्तबीजपूरतरोरपि रक्तकुसुमोद्गमप्रयोजिका न शक्तिः ; अपि तु कुसुमारम्भकबीजपूरावयवानां तरणिकिरणक्कथनजन्मा पाकजो रूपान्तरोत्पादः । गोमयवृश्चिकजन्ययोर्वृश्चिकयोः अमेध्यवस्तुतण्डुलीयकबीजप्रभवयोश्च तण्डुलीयकयोः वैजात्यमनुभवसिद्धमेवेति दिक् ॥ कारणतावादः कार्यकादाचित्कत्वोपपादिका शक्तिरपि कारणतैव । सा च अन्यथासिद्धिशून्यत्वे सति नियतपूर्ववर्तित्वम् । नियतपूर्ववर्तित्वं तु कार्याव्यवहित पूर्वक्षणावच्छेदेन कार्याधिकरणे विद्यमानस्याभावस्य प्रतियोगितानवच्छेदको यो घर्मः, तद्वत्त्वम् । तादृशश्च धर्मो द्रव्यत्वमपि भवतीति रासभेऽपि द्रव्यत्वेन घटकारणत्वप्रसङ्गवारणाय सत्यन्तम् । प्रतियोगितानवच्छेदके धर्मे अन्यथासिद्धिनिरूपकाणां धर्माणां भेदो निवेशनीय इति तत्त्वम् ॥ मोक्षवादः अस्य शास्त्रस्य परमं प्रयोजनमपवर्गः । स च आत्यन्तिको दुःरवध्वंसः । आत्यन्तिकत्वं च स्वसमानाधिकरणदुःरवासमानकालीनत्वम् । तादृशश्च दुःरवध्वंसः तत्त्वज्ञानजन्यः, श्रुतेस्तत्त्वज्ञाने मोक्षकारणताग्राहिकायाः सत्त्वात् इति संप्रदायः ॥ शिरोमणिस्तु---दुःरवध्वंसो दुःरवानुव्यवसायसाध्यः । न तत्र तत्त्वज्ञानं जनकम् । श्रुतिरपि नान्यथासिद्धस्य तत्त्वज्ञानस्य मोक्षकारणतां बोधयति, बाधात् । किं तु आत्यन्तिकः पापध्वंसः अपूर्वसामान्यध्वंसो वा मोक्षः । अजनितफलानि च पापानि तत्त्वज्ञानान्नश्यन्ति । " ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन " इति भगवद्वचनमप्यत्र प्रमाणम् ।" नाभुक्तं क्षीयते कर्म " इति पुनरारब्धव्यापारकादृष्टपरम् । तथा च अनारब्धव्यापारकाणि तत्त्वज्ञानेन, आरब्धव्यापारकाणि तु पापानि भोगेन क्षीयन्ते । भोगजनकेन कर्मणा तु न पापोत्पत्तिः, अदृष्टकारणमिथ्याज्ञानवासनाविरहात् । अतः परममोक्षस्यार्थादेव सिद्धिः । तत्त्वज्ञानस्य तु तत्त्वज्ञानाव्यवहितोत्तरवर्तिपापध्वंसं प्रत्येव जनकता । आरब्धव्यापारकादृष्टव्यक्तिनाशे तु स स व्यापारः प्रतिबन्धक इति (न) तेषां तदैव नाशः । न च पापनाशो विना तत्त्वज्ञानं तदा संभवतीति न तत्र तत्त्वज्ञानमन्यथासिद्धमित्याह ॥ लिङ्गशरीरापगमो मोक्ष इत्येके । नित्यसुरवाभिव्यक्तिः अविद्यापगमो वा मोक्ष इत्यपरे ॥ इत्यनुमानपरिच्छेदः समाप्तः उपमानपरिच्छेदः अथोपमानं निरूप्यते । तत्र उपमितिकरणं उपमानम् । उपमितित्वं ' उपमिनोमि ' इत्यनुव्यवसायसिद्धा जातिः । तत्र 'गोसदृशोऽयम् ' इति सादृश्यविशिष्टपिण्डप्रत्यक्षं करणम् । तज्जनितं ' गोसदृशो गवयपदवाच्यः ' इत्यतिदेशवाक्यार्थस्मरणं व्यापारः । 'अयं गवयपदवाच्यः ' इत्युपमितिः फलम् ॥ एवं क्वचित् वैधर्म्यविशिष्टपिण्डप्रत्यक्षकरणिकाप्युपमितिरूहनीया । तथाहि--- ' भावविधर्मा नञ्पदवाच्यः ' इत्यतिदेशवाक्यार्थज्ञानानन्तरं ' भावविधर्मा अयम् ' इति वैधर्म्यविशिष्टघटाभावादिप्रत्यक्षम् ; अथातिदेशवाक्यार्थस्मरणम् ; ततः ' अयमभावो नञ्पदवाच्यः ' इत्युपमितिरुत्पद्यते ॥ एवं सादृश्यवैधर्म्यातिरिक्तधर्मदर्शनजन्माप्युपमितिर्विद्यते । तथाहि--- ' धिक् करभकमतिदीर्घग्रीवं कठोरकण्टकाशिनमतिविकटपृष्ठमपसदं पशूनाम् ' इत्युदीच्यवक्तृकमतिदेशवाक्यं श्रुत्वा, दक्षिणापथिकैः ' अतिदीर्घग्रीवोऽयं पशुः ' इति दृष्ट्वा, ' अतिदीर्घग्रीवादिः पशुः करभकपदवाच्यः ' इत्यतिदेशवाक्यार्थं स्मृत्वा,' अयं पशुः करभकपदवाच्यः ' इत्युपमीयते ॥ एवं वाच्यत्वातिरिक्तोऽपि धर्मः उपमितिविषयः । 'इयमोषधिः कटुः ' इति प्रत्यक्षेणोपलभ्य ' कटुरोषधिर्ज्वरहरा ' इति भैषज्यातिदेशवाक्यार्थं स्मृत्वा 'ज्वरहरेयमोषधिः ' इत्युपमिमीत इति दिक् ॥ इत्युपमानपरिच्छेदः समाप्तः शब्दपरिच्छेदः अथ शब्दो निरूप्यते । शाब्दमितिकरणं शब्दः । शाब्दमितित्वं तु ' वाक्यार्थं श्रृणोमि ' इत्यनुभवसाक्षिको जातिविशेषः ; श्रावण इव शाब्दबोधेऽपि श्रृणोतेः शक्तेः ॥ शब्दप्रामाण्यवादः अत्र शब्दो न प्रमाणम् ; अपि तु पदैरुपस्थितानां पदार्थानामसंसर्गाग्रहः संभावना वा व्यवहारजनिका इति सौगताः । तन्न ; निष्कम्पप्रवृत्तौ इष्टपुरोवर्तिविशिष्टनिश्चयत्वेनैव कारणतया शब्दात्तदुत्पत्तेरावश्यकत्वात् ॥ शाब्दप्रमितित्वमनुमितित्वव्याप्यमिति वैशेषिकाः । तदसत् ; मानाभावात् ॥ वेद एव प्रमाणम् ; स्मृत्यादिलौकिकवाक्यमनुवादकत्वादप्रमाणम् , गृहीतार्थग्राहित्वात् इति मीमांसकाः । तदपि न ; वेदे क्लृप्तया सामग्र्या लौकिकवाक्यस्यापि अगृहीतार्थविषयकशाब्दबोधजनकत्वात् ॥ योग्यतावादः तस्य शब्दस्य शाब्दबोधजनने योग्यताकाङ्क्षासत्तितात्पर्याणि सहकारीणि ॥ तत्रान्वयप्रतियोगिपदार्थयोः परस्परसंसर्गाबाधो योग्यतेति केचित् । एकपदार्थे अपरपदार्थसंसर्ग एव योग्यता ; तस्याः संशयसाधारणं ज्ञानं कारणमिति नवीनाः ॥ आकाङ्क्षावादः आकाङ्क्षा तु एकपदव्यतिरेकप्ररयुक्तान्वयबोधाभावप्रयोजकव्यतिरेकप्रतियोगित्वं द्वितीयपदस्य । भवति हि 'घटीया कर्मता ' इत्यन्वयबोधाभावो घटपदस्य अम्पदस्य च व्यतिरेकेण प्रयुक्त इति ' घटम् ' इत्यत्र प्रकृतिप्रत्यययोराकाङ्क्षेति संप्रदायः । पदयोः पौर्वापर्यमाकाङ्क्षेति वस्तुगतिरिति नवीनाः ॥ आसत्तिवादः आसत्तिरन्वयप्रतियोगिनां यौगपद्येन पदजन्योपस्थितिः । प्राभाकरास्तु पदाजन्यापि पदार्थोपस्थितिः आसत्तिघटिका भवतीत्याहुः । असावर्थाध्याहारवादो न स्वीकर्तव्यः ;'घटः कर्मत्वम् ' इत्यादिना घटकर्मताबोधाभावेन पदविशेषजन्याया एव पदार्थोपस्थितेः शाब्दबोधाङ्गत्वात् शब्दाध्याहारवाद एव श्रेयानिति तदितरे ॥ तात्पर्यवादः घटपदत्वावच्छेदेन घटकर्मत्वान्वयबोधतात्पर्यज्ञानमपि कारणम् ; तात्पर्यविरहनिश्चये शाब्दबुद्धेरनुदयात् ; अतात्पर्य- निश्चयत्वेन प्रतिबन्धकत्वे गौरवात् ; इति संप्रदायः ॥ अत एव वैदिकवाक्यानां अतात्पर्यकत्वे तस्मात् वाक्यार्थबुद्धयनुदयप्रसङ्गात् अनादितात्पर्यवान् भगवान् भवः सिध्यति ॥ शब्दानित्यतावादः वेदत्वं तु यादृशानुपूर्वीकवाक्यत्वसामानाधिकरण्येन जन्यबुद्ध्यजन्यत्वं तादृशानुपूर्वीकवाक्यत्वम् । सर्गादौ हि भगवानेव प्रथममाम्नायमुच्चारयति ; ततोऽन्ये । स प्रथमो वेदो जन्यबुद्ध्यजन्य इति तद्गतानुपूर्वीमादाय आधुनिकवेदेऽपि वेदत्वमुपपन्नम् । न च वेदस्य नित्यत्वात् कथमीश्वरप्रवक्तृकत्वमिति वाच्यम् ; ध्वनिवत् वर्णस्यापि नित्यत्वे मानाभावात् ; उत्पादविनाशप्रतीतेः भ्रासन्तत्वे मानाभावत् । 'स एवायं गकारः ' इति प्रतीतेः एकजातीयत्वविषयकत्वेनाप्युपपत्तेः, तदेवेदमौषधम् इतिवत् ॥ उच्छिन्नप्रच्छन्नवादः प्रवाहाविच्छेद एव वेदस्य नित्यत्वम् । तच्च प्रवक्तृसत्त्वे विरुध्यते इति चेत्, न ; स्मृत्याचारमूलीभूतानां श्रुतीनामुच्छेददर्शनात् । नित्यानुमेयास्ताः श्रुतय इति चेत् , न ; श्रुतित्वस्य शब्दत्वस्य वा उत्पन्नत्वव्यञ्जितत्वादिव्याप्यत्वात् ॥ प्रलयसत्त्वादपि भवति श्रुतीनामुच्छेदः ; ' द्वयणुकत्वं कालनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकं जन्यमात्रवृत्तिधर्मत्वात् ' इत्यनुमानेन प्रलयसिद्धेः ॥ विधिवादः आचारमूलत्वं श्रुतेः प्रवर्तकज्ञानजननद्वारा । प्रवर्तकं तु कृतिसाध्यत्वेष्टसाधनत्वबलवदनिष्टाननुबन्धित्वानां ज्ञानम् । तेषु जनकज्ञानविषयेषु लिङः शक्तिः । यत्र यागत्वावच्छेदेन स्वर्गादीष्टसाधनत्वं, नरकमरणादिबलवदनिष्टाननुबन्धित्वं, स्वकीयेदानींतनकृतिसाध्यत्वं च गृह्यते, तत्र 'यागो मत्कृति साध्यो भवतु ' इत्याकारा चिकीर्षा ; ततो यागकृतिरुत्पद्यते । तेन यागेच्छां प्रति स्वर्गेच्छाविशिष्टं स्वर्गसाधनताज्ञानं, नरकद्वेषविशिष्टयागेच्छां प्रति नरकासाधनत्वज्ञानं, कृतिसाध्यत्वप्रकारकेच्छायां तत्प्रकारकं ज्ञानं कारणम् । तैर्जनिता चिकीर्षा उपादानप्रत्यक्षसहकारेण प्रवृत्तिं जनयतीति नैयायिकादीनां सिद्धान्तः ॥ प्राभाकरास्तु---कार्यताज्ञानमात्रं चिकीर्षासामान्यजननद्वारा प्रवृत्तिजनकम् । चिकीर्षायां तु नेष्टसाधनताबुद्धिः कारणम् , मानाभावात् ; चिकीर्षाभिन्नाया इच्छाया यागदावनभ्युपगमात् ; वृष्टिजन्ये सुखे हीच्छा वृष्टिमपि विषयीकरोति इति गुरुसिद्धान्तात् । भवतु वा उपायेच्छासामान्ये इष्टसाधनताज्ञानम्, उपायाभावगोचरद्वेषसामग्रीभूतं प्रत्यवायसाधनताज्ञानम्, उपायाभावगोचरो द्वेष एव वा वैकल्पिकं कारणम् । अत एव निष्फलतया ज्ञाते नित्ये प्रवृत्तिरुपपद्यत इति कार्यत्वेन कार्यं विध्यर्थ इत्याहुः ॥ भाट्टास्तु---प्रवृत्तिर्द्विविधा, स्वारसिकी प्रैरणिकी च । तत्र स्वारसिकप्रवृत्तौ इष्टसाधनताज्ञानदि कारणम् । प्रैरणिकप्रवृत्तौ प्रवर्तनाज्ञानमेव कारणम् । प्रवर्तना च लोके राजाज्ञादिः ; वेदे तु लिङ्निष्ठो धर्मविशेषः ; स एव लिङादिशक्य इत्याहुः ॥ अपूर्ववादः अपूर्वं तु वैदिकलिङा कार्यत्वेनाभिधीयत इति प्राभाकराः । वेदेन कियागतेष्टसाधनतायां बोधितायाम् , आशुविनाशिन्याः फलपर्यन्तमनवस्थानात् तत् द्वारतया कल्प्यत इत्यन्ये । देवताप्रीतिरेव यागादेः स्वर्गजनने व्यापार इति वेदान्तिनः । यागध्वंस एव यागव्यापार इत्येकदेशिनः ॥ जातिशक्तिवादः गवादिपदानां जातिरेव शक्या ; व्याक्तिः आक्षेपात् लक्षणया तुल्यवित्तिवेद्यतया वा लभ्या , इत्येके । कायान्विता गौः इतरान्विता वा गौः शक्या इत्यपरे । वस्तुतः समवायेन गोत्वविशिष्टा व्यक्तिः गोपदशक्या । अन्वयस्तु आकाङ्क्षादिबललभ्यत्वान्न पदार्थः ॥ शक्तिवादः शक्तिस्तु गोत्वविशिष्टबुद्धौ गोपदजन्यत्वावगाही सङ्केतः ; न त्वतिरिक्तपदार्थः , मानाभावात् ॥ शक्तं पदं त्रिविधम्---योगरूढं रूढं यौगिकं च । योगरूढं पङ्कजादिपदम् । तत्र हि योगोपस्थितः पङ्कजनिकर्ता रूढयर्थे पद्मे अन्वेति ॥ रूढं धेन्वादिपदम् । औणादिकप्रत्ययानां शक्तत्वे मानाभावात् ; धानकर्मगोत्वावच्छिन्ने विशिष्टैकशक्तिस्वीकारात् ॥ यौगिकं कृत्तद्धितसमासभेदात् त्रिविधम् ॥ कृदन्तं पावकवाचकादि ॥ तद्धितान्तमौपगवादि ॥ समासवादः समासाः अव्ययीभावतत्पुरुषकर्मधारयद्विगुबहुव्रीहिद्वन्द्वोपपदभेदात् सप्तधा ॥ उपकुम्भं निर्मक्षिकं इत्यादिरव्ययीभावः । तत्र उपादिपदार्थे सामीप्ये कुम्भादीनां भेदेनान्वयात् कुम्भसामीप्यादिरर्थः ॥ राजपुरुषादिस्तत्पुरुषः । तत्र षष्ठीस्मरणेन राजसंबन्धः पुरूषेऽवगम्यत इत्येके । राजसंबन्धे राजसंबन्धिनि वा राजशब्दो लाक्षणिक इत्यन्ते ॥ समानाधिकरणपदद्वयघटितो नीलोत्पलादिः कर्मधारयः । तत्र च न कुत्रापि पदे लक्षणा ॥ पञ्चपूल्यादिर्द्विगुः । पञ्चानां पूलानां समाहार इति बोधे पूलपदं तत्समाहारे लाक्षणिकम् । इतरथा शक्त्यैव पञ्चाभिन्नपूलबोधः ॥ चित्रगुरिति बहुव्रीहिः । तत्र गोपदं गोस्वामिनि लाक्षणिकम् ; तदेकदेशे गवि चित्राभेदान्वयः ॥ धवखदिराविति द्वन्द्वः । तत्र धवादिसहितखदिरादौ (खदिरपदस्य) लक्षणेत्यन्ये । तन्न ; धवखदिरपदाभ्यां शक्त्या स्वस्वार्थोपस्थापनेन अन्वयबोधोपपत्तौ लक्षणायां मानाभावात् ॥ धातुशक्तिवादः धातूनां फलावच्छिन्ने व्यापारे फलव्यापारयोर्वा शक्तिः । फलमात्रं धात्वर्थ इति मण्डनः । तन्न ; पाकादिपदात् व्यापारबोधोदयात् ॥ आख्यातशक्तिवादः आख्यातस्य कर्तृकर्मणी वाच्ये । ते च धात्वर्थे विशेषणीभवतः । ' चैत्रः पचति ' इत्यत्र चैत्रकर्तृको विक्लित्त्यनुकूलो व्यापार इति, 'तण्डुलः पच्यते ' इत्यत्र तण्डुलकर्मको व्यापार इति प्रतीयत इति वैयाकरणाः ॥ व्यापारत्वेन भावनैव आरव्यातार्थः ; सैव वाक्ये प्रधानम् ; इति मीमांसकाः ॥ यत्नत्वविशिष्टमेवाख्यातवाच्यम् ; तच्चेदाश्रयतया अन्वेति तदा कर्तृलकार इति यदि विषयतया तदा कर्मलकार इति व्यवह्रियते । ' रथो गच्छति ' इत्यादौ व्यापारे आश्रयत्वे वा लक्षणा इति नैयायिकाः ॥ इति सिद्धानि चत्वारि प्रमाणानि ॥ ऐतिह्यसंभवाभावार्थापत्तयो न प्रमाणान्तरम् ; उक्तेष्वन्तर्भावात् इति ॥ इति सन्दर्भशुद्धानां सुवर्णानां गुणैर्दृढाः । कर्णौ गोपालसिंहस्य मण्डयन्तु मणेः कणाः ॥ इति मणिकणो नाम प्रन्थः संपूर्णः