शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/विषयानुक्रमणिका

विकिस्रोतः तः

अथ चतुर्थों कोटिरुद्रसंहिता ॥४॥

१ शिवलिंगमहात्म्यवर्णने द्वादशज्योतिर्लिंग वर्णनम् ।

२ काशीस्थललिंगानां नामाऽनुकीर्तनपूर्वकतन्माहात्म्यकथनम् ।

३. अत्रीश्वरकथाऽनुवर्णनेऽनावृष्टौ सपत्नीकात्रितपोवर्णनम् ।

४ अनसूयातपस्तुष्टा गंगा तदाश्रमे न्युवास । वरदित्सयोपस्थितं शिवं प्रति भवताऽत्रैव स्थासंव्यमिति सपत्नीकात्रिवरयाचनम् ।

५ नन्दिकेशमाहात्म्यवर्णने कश्चिद्द्विजोऽर्भकाभ्यां प्रियां समर्प्य काशीं गतो मृतश्च ततो ज्येष्ठपुत्रो मृतमात्रस्थिं काशीं निनीषन्प्रस्थितो रात्रिमुखे कस्यचिद्द्विजस्य भवने न्युवासेति वर्णनम् ।

६ गृहेशपुत्रवधेन कृष्णत्वमाप्तया गवा सहोपनन्दिकेशं नर्मदातटं प्राप्य तत्र स्नानेन पुनः शुक्लांगामवलोच्य विस्मयमानो व्रजन्गंगया बोधित: स्वमात्रस्थि नर्मदायां प्रक्षिप्य दिव्यरूपामम्बां स्वर्यान्तीमवलोच्य गृहं निवृत्तः पुत्रः ।

७ बालविधवामृषिकन्यकां तपःप्रवृत्तां स्मराकृष्टमनसा मूढनाम्नाऽसुरेण पीड्यमानां रिरक्षिषुः शिव आविर्भूय दैत्यं जघान । सर्वे देवा गंगा च तदा तत्र समागता: पश्चात्प्रतिवर्षं वैशाखसितसप्तम्यां गंगा तत्र प्रयातीति वर्णनम् ।

८ गोकर्णक्षेत्रस्थमहाबलाख्यशिवलिंग माहात्म्यवर्णनम् ।।

९ सौमिनी द्विजकन्या व्यभिचारत्यक्ता शूदपत्नी भूत्वा गोवत्सं हत्वा जन्मान्तरे चाण्डालकन्या भूत्वा गोकर्णे गत्वा केनापि दत्तं बिल्वपत्रमसारतया प्रचिक्षेप दैवाच्छिवलिंगे तत्पातात्परं पदमवाप ।

१० गुरुशापाद्राक्षसत्वमाप्तो मित्रसहो राजा मुनि किशोरमभक्षयत् । हत्याविकलमना गौतमोपदिष्टः गोकर्णे स्नात्वा महाबलमभ्यर्च्य तत्पदमवाप ।

११ उत्तरदिक्स्थशिवलिङगवर्णने चन्द्रभालपशुपतीत्यादिवर्णनम् ।

१२ ऋषिशापभूमिपतितशिवलिंग दह्यमानभुवनरक्षणाय ऋषिप्रार्थनया पार्वत्या स्वयोनौ लिंगधरणे भुवनशान्तिः हाटकेशनाम्ना तल्लिंगप्रसिद्धिश्च ।

१३ अन्धकदमनाऽन्धकेश्वरमाहात्म्यवर्णनोत्तरं बटुकोत्पत्तिकथनम् ।

१४ सप्तविंशतिभार्यासु रोहिण्यामेवाधिकस्नेहाद्दक्षेण क्षयी भव इति चन्द्रः शप्तः विध्युपपदेशतः षण्मासं प्रभासे शिवार्चनात्पक्ष क्षयिलं पक्षं वर्धमानत्वञ्च लेभे ‘सोमेश्वर' नाम्ना तज्ज्योतिर्लिंगप्रसिद्धिश्च ।

१५ मल्लिकार्जुन द्वितीयज्योतिर्लिंगवर्णनम् ।

१६ दूषणदैत्यत्रस्तशैवद्विजार्चनगतादुत्पद्य दैत्यं हत्वा द्विजप्रार्थनया तत्रैव शिवस्तस्थाविति महाकाल तृतीज्योतिर्लिङ्गवर्णनम् ।

१७ चन्द्रसेनराज-श्रीकरगोपबालक-सुखप्रदानादिमहाकालमाहात्म्य वर्णनम्

१८ विन्ध्यकथोक्तिपूर्वकमोंकारेश्वर चतुर्थज्योतिर्लिंगवर्णनम्

१९ 'केदारेश्वर' पंचमज्योतिर्लिंगमहात्म्यवर्णनम्

२० 'भीमेश्वर' षष्ठज्योतिर्लिंगमाहात्म्यनिरूपणे कुम्भकर्णपुत्रभीमाऽसुरकृतोपद्रववर्णनम् ।।

२१ स्वभक्त कामरूपेश्वरमनुगृह्णन् सपरिवारं भीमाऽसुरं भस्मसाच्चकारेति ‘भीमेश्वर' नाम्ना प्रसिद्धिः ।

२२ 'विश्वेश्वर' सप्तमज्योतिर्लिंगमाहात्म्यवर्णने काश्यां रुद्रगमनवर्णनम् ।

२३ श्रीकाशीमाहात्म्यवर्णनम् ।

२४ ‘त्र्यम्बकेश्वरा'ष्टमज्योतिर्लिङगमाहात्म्यवर्णने गौतमर्षिप्रभावनिरूपणम्।

२५ अनावृष्टौ तपस्तुष्टवरुणवरलब्धगौतमतोयपूर्णगर्तलिप्सया न्यर्षयो गणेशवरतो गोहत्यादोष व्याजतस्सपत्नीकं गौतमन्निस्सारयामासुः । ततो ऋषीणामाज्ञया गौतमस्य पार्थिवेश्वरार्चनप्रवृत्तिः ।

२६ शिवाऽनुग्रहतो गौतमस्य निष्पापत्व गंगात्र्यम्बकेश्वरयोस्सदैव तत्र स्थितश्चावर्णि ।।

२७ गंगाकृतगौतमद्वेष्यृष्यनादरः कल्पभेदेनगौतमकृत ऋषिषु शापश्च।

२८ वैद्यनाथेश्वर नवमज्योतिर्लिंग माहात्म्यवर्णनम्।

२९ नागेश्वर दशमज्योतिर्लिंगमाहात्म्यवर्णने दारुकवनराक्षसोपद्रवर्णनम्।

३० शिवार्चकसुप्रियाह्ववैश्यं हन्तुमुद्यतान्राक्षसाञ्छिवः प्रत्यक्षीभूय पाशुपतास्त्रेण जघान । वीरसेन राज्ञो दारुकावनगमनम्।

३१ 'रामेश्वरै’ कादशज्योतिर्लिङ्ग वर्णनम् ।

३२ 'घुश्मेश्वर’ द्वादशज्योतिर्लिंग माहात्म्यवर्णने सुदेहासु कर्मचरितनिरूपणम् ।

३३ संदहानशितघुश्यपुत्रस्य शिवानुग्रहात्पुनर्जीवनम् ’घुश्मेश्वर' नाम्ना शिवलिंगप्रसिद्धिश्च ।

३४ दैत्यपीडितसुराणां दुःखनिवृत्त्यै शिवमाराध्य ततस्सुदर्शनचक्रं लब्ध्वा दैत्याञ्जघान विष्णुः

३५ शिवसहस्रनाम वर्णनम् ॥

३६ शिवहस्रनामस्तोत्र फलनिरूपणम् ।

३७ देवर्षिनृपशैवत्ववर्णनम् ।

३८ शिवरात्रिव्रतमहिमनिरूपणम्

३९ शिवरात्रिव्रतोद्यापननिरूपणम् ।

४० व्याध कथाप्रसंगे शिवरात्रिमाहात्म्यवर्णनम् ।

४१ मुक्तिनिरूपणम् ॥

४२ शिवसगुणनिर्गुणभेदवर्णनम् । ॥

४३ ज्ञाननिरूपणं शिवविज्ञानफलनिरूपणञ्च ।

इति चतुर्थी कोटिरुद्रसंहिता । ४ ।।