शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः ०७

विकिस्रोतः तः
← अध्यायः ०६ शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः ०७
वेदव्यासः
अध्यायः ०८ →

ईश्वर उवाच ।।
स्ववामे चतुरस्रं तु मण्डलं परिकल्पयेत्।।
ओमित्यभ्यर्च्य तस्मिंस्तु शंखमस्त्रोपशोभितम्।।१।।
स्थाप्य साधारकं तं तु प्रणवेनार्चयेत्ततः ।।
आपूर्य्य शुद्धतोयेन चन्दनादिसुगंधिना ।। २ ।।
अभ्यर्च्य गन्धपुष्पाद्यैः प्रणवेन च सप्तधा ।
अभिमंत्र्य ततस्तस्मिन्धेनुमुद्रां प्रदर्शयेत् ।। ३ ।।
शंखमुद्रां च पुरतश्चतुरस्रं प्रकल्पयेत् ।।
तदन्तरेर्द्धचन्द्रं च त्रिकोणं च तदन्तरे ।। ४ ।।
षट्कोणं वृत्तमेवेदं मण्डलं परिकल्पयेत् ।।
अभ्यर्च्य गंधपुष्पाद्यैः प्रणवेनाथ मध्यतः ।।५।।
साधारमर्घ्यपात्रं च स्थाप्य गंधादिनार्चयेत् ।।
आपूर्य्य शुद्धतोयेन तस्मिन्पात्रे विनिःक्षिपेत् ।। ६ ।।
कुशाग्राण्यक्षताश्चैव यवव्रीहितिलानपि ।।
आज्यसिद्धार्थ पुष्पाणि भसितं च वरानने ।। ७ ।।
सद्योजातादिभिर्मंत्रैः षडंगैः प्रणवेन च ।।
अभ्यर्च्य गंधपुष्पाद्यैरभिमंत्र्य च वर्मणा ।। ८ ।।
अवगुंण्ठ्यास्त्रमंत्रेण संरक्षार्थं प्रदर्शयेत् ।।
धेनुमुद्रां च तेनैव प्रोक्षयेदस्त्रमंत्रतः ।।९।।
स्वात्मानं गंधपुष्पादिपूजोपकरणान्यपि ।।
पद्मस्येशानदिक्पद्मं प्रणवोच्चारपूर्वकम् ।। 6.7.१० ।।
गुर्वासनाय नम इत्यासनं परिकल्पयेत् ।।
गुरोर्मूर्तिं च तत्रैव कल्प येदुपदेशतः ।। ११ ।।
प्रणवं गुं गुरुभ्योन्ते नमः प्रोच्यापि देशिकम् ।।
समावाह्य ततो ध्यायेद्दक्षिणाभिमुखं स्थितम् ।। १२ ।।
सुप्रसन्नमुखं सौम्यं शुद्धस्फटिकनिर्मलम् ।।
वरदाभयहस्तं च द्विनेत्रं शिवविग्रहम् ।। १३ ।।
एवं ध्यात्वा यजेद्गन्धपुष्पादिभिरनुक्रमात् ।।
पद्मस्य नैर्ऋते पद्मे गणपत्यासनोपरि ।।१४।।
मूर्तिम्प्रकल्प्य तत्रैव गणानां त्वेति मंत्रतः ।।
समावाह्य ततो देवं ध्यायेदेका ग्रमानसः ।। १५ ।।
रक्तवर्णं महाकायं सर्वाभरणभूषितम् ।।
पाशांकुशेष्टदशनान्दधानङ्करपङ्कजैः ।। १६ ।।
गजाननम्प्रभुं सर्वविघ्नौघघ्नमुपासितुः ।।
एवन्ध्यात्वा यजेद्गन्धपुष्पाद्यैरुपचारकैः ।। १७ ।।
कदलीनारिकेलाम्रफललड्डुकपूर्वकम् ।।
नैवेद्यं च समर्प्याथ नमस्कुर्याद्गजाननम् ।।१८।।
पद्मस्य वायुदिक्पद्मे संकल्प्य स्कान्दमासनम् ।।
स्कन्दमूर्तिम्प्रकल्प्याथ स्कन्दमावाहयेद्बुधः।।१९।।
उच्चार्य्य स्कन्दगायत्रीं ध्यायेदथ कुमारकम्।।
उद्यदादित्यसंकाशं मयूरवरवाहनम्।।6.7.२०।।
चतुर्भुजमुदाराङ्गं मुकुटादिविभूषितम्।।
वरदाभयहस्तं च शक्तिकुक्कुटधारिणम्।।२१।।
एवन्ध्यात्वाऽथ गंधाद्यैरुपचारैरनुक्रमात्।।
संपूज्य पूर्वद्वारस्य दक्षशाखामुपाश्रितम्।।२२।।
अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ।।
चामीकराचलप्रख्यं सर्वाभरणभूषितम् ।।२३।।
बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ।।
दीप्तशूलमृगीटंकहेमवेत्रधरं विभुम् ।।२४।।
चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ।।
उत्तरस्यान्तथा तस्य भार्यां च मरुतां सुताम् ।।२५।।
सुयशां सुव्रतामम्बापादमण्डनतत्पराम् ।।
संपूज्य विधिवद्गन्धपुष्पाद्यैरुपचारकैः ।।२६।।
ततस्संप्रोक्षयेत्पद्मं सास्त्रशं खोदबिन्दुभिः ।।
कल्पयेदासनं पश्चादाधारादि यथाक्रमात् ।। २७ ।।
आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि ।।
तस्याः पुरस्तादुत्कंठमनन्तं कुंडलाकृतिम् ।। २८ ।।
धवलं पंचफणिनं लेलिहानमिवाम्बरम् ।।
तस्योपर्यासनं भद्रं कंठीरवचतुष्पदम् ।। २९ ।।
धर्मो ज्ञानं च वैराग्यमैश्वर्यं च पदानि वै ।।
आग्नेयादिश्वेतपीतरक्तश्यामानि वर्णतः ।। 6.7.३० ।।
अधर्मादीनि पूर्वादीन्युत्तरां तान्यनुक्रमात् ।।
राजावर्तमणिप्रख्यान्यस्य गात्राणि भावयेत् ।।३१।।
अधोर्द्ध्वच्छदनं पश्चात्कंदं नालं च कण्टकान् ।।
दलादिकं कर्णिकाञ्च विभाव्य क्रमशोऽर्चयेत् ।। ३२ ।।
दलेषु सिद्धयश्चाष्टौ केसरेषु च शक्तिकाः ।।
रुद्रा वामादयस्त्वष्टौ पूर्वादिपरितः क्रमात् ।। ३३ ।।
कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ।।
वामाद्या एव पूर्वादि तदन्तश्च मनोन्मनी ।। ३४ ।।
कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ।।
कर्णिकोपरि वाह्नेयं मंडलं सौरमैन्दवम् ।।३५।।
आत्मविद्या शिवाख्यं च तत्त्वत्रयमतः परम् ।।
सर्वासनोपरि सुखं विचित्रकुसुमोज्ज्वलम् ।। ३६ ।।
परव्योमावकाशाख्यं विद्ययातीव भास्वरम् ।।
परिकल्प्यासनं मूर्त्तेः पुष्पविन्यास पूर्वकम् ।।३७।।
आधारशक्तिमारभ्य शुद्धविद्यासनावधि ।।
ॐकारादिचतुर्थ्यंतं नाममन्त्रं नमोन्तकम् ।। ३८ ।।
उच्चार्य पूजयेद्विद्वान्सर्वत्रैवं विधिक्रमः ।।
अङ्गवक्त्रकलाभेदात्पंचब्रह्माणि पूर्ववत् ।। ३९ ।।
विन्यसेत्क्रमशो मूर्त्तौ तत्तन्मुद्राविचक्षणः ।।
आवाहयेत्ततो देवं पुष्पाञ्जलिपुटस्थितः ।। 6.7.४० ।।
सद्योजातम्प्रपद्यामीत्यारभ्योमन्तमुच्चरन् ।।
आधारोत्थितनादं तु द्वादशग्रन्धिभेदतः ।।४१।।
ब्रह्मरन्धांतमुच्चार्य ध्यायेदोंकारगोचरम् ।।
शुद्धस्फटिकसंकाशं देवं निष्कलमक्षरम् ।।४२।।
कारणं सर्वलोकानां सर्वलोकमयं परम् ।।
अन्तर्बहिः स्थितं व्याप्य ह्यणोरल्पं महत्तमम् ।। ४३ ।।
भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ।।
ब्रह्मेन्द्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ।। ४४ ।।
वेदसारञ्च विद्वद्भिरगोचरमिति श्रुतम् ।।
आविर्मध्यान्तरहितं भेषजं भवरोगिणाम् ।। ४५ ।।
समाहितेन मनसा ध्यात्वैवं परमेश्वरम् ।।
आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् ।।४६।।
नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक्।।
ध्यायेत्सदाशिवं साक्षाद्देवं सकलनिष्कलम्।।४७।।
शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम्।।
विद्युद्वलयसंकाशं जटामुकुटभूषितम् ।।४८।। ।
शार्दूलचर्मवसनं किंचित्स्मितमुखाम्बुजम्।।
रक्तपद्मदलप्रख्यपाणिपादतलाधरम्।।४९।।
सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम्।।
दिव्या युधकरैर्युक्तं दिव्यगन्धानुलेपनम्।।6.7.५०।।
पञ्चवक्त्रन्दशभुजञ्चन्द्रखण्डशिखामणिम् ।।
अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम्।।५१।। ।।
त्रिलोचनारविन्दाढ्यं बालेन्दुकृतशेखरम्।।
दक्षिणं नीलजीमूतसमानरुचिरप्रभम्।।५२।।
भ्रुकुटीकुटिलं घोरं रक्तवृत्तत्रिलोचनम्।।
दंष्ट्रा करालं दुष्प्रेक्ष्यं स्फुरिताधरपल्लवम्।।५३।।
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम्।।
सद्विलासन्त्रिनयनं चन्द्रार्द्धकृतशेखरम्।।५४।। ।
पश्चिमम्पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम्।।
चन्द्रलेखाधरं सौम्यं मन्दस्मितमनोहरम्।।५५।।
पञ्चमं स्फटिकप्रख्यमिन्दुरेखासमुज्ज्वलम्।।
अतीवसौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम्।।५६।।
दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ।। ५७ ।।
पूर्व्वे पिनाकनाराचघण्टा पाशांकुशोज्ज्वलम्।।
निवृत्त्याजानुपर्य्यंतमानाभि च प्रतिष्ठया।।५८।।
आकण्ठं विद्यया तद्वदाललाटं तु शान्तया।।
तदूर्ध्वं शान्त्यतीताख्यकलया परया तथा ।। ५९ ।।
पञ्चाध्वव्यापिनं तस्मात्कलापञ्चकविग्रहम् ।।
ईशानमुकुटं देवम्पुरुषाख्यम्पुरातनम् ।। 6.7.६० ।।
अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ।।
सद्योजातं च तन्मूर्तिमष्टत्रिंशत्कलामयम् ।। ६१ ।।
मातृकामयमीशानम्पञ्चब्रह्ममयन्तथा।।
ॐकाराख्यमयं चैव हंसन्यासमयन्तथा ।। ६२ ।।
पञ्चाक्षरमयन्देवं षडक्षरमयन्तथा ।।
अङ्गषट्कमयञ्चैव जातिषट्कसमन्वितम्।।६३।।
एवन्ध्यात्वाथ मद्वामभागे त्वां च मनोन्मनीम्।।
गौरी मिमाय मन्त्रेण प्रणवाद्येन भक्तितः ।।६४।।
आवाह्य पूर्ववत्कुर्यान्नमस्कारांतमी श्वरि ।।
ध्यायेत्ततस्त्वां देवेशि समाहितमना मुनिः ।। ६५ ।।
प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ।।
पूर्णचन्द्राभवदनान्नील कुंचितमूर्द्धजाम् ।। ६६ ।।
नीलोत्पलदलप्रख्याञ्चन्द्रार्धकृतशेखराम् ।।
अतिवृत्तघनोत्तुंगस्निग्धपीनपयोधराम्।।६७।।
तनुमध्याम्पृथुश्रोणीम्पीतसूक्ष्मतराम्बराम् ।।
सर्वाभरणसम्पन्नां ललाटतिलकोज्ज्वलाम् ।। ६८ ।।
विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम्।।
सर्वतोऽनुगुणाकारां किंचिल्लज्जानताननाम् ।। ६९ ।।
हेमारविन्दं विलसद्दधानां दक्षिणे करे ।।
चण्डवच्चामरं हस्तं न्यस्यासीनां सुखासने ।। 6.7.७० ।।
एवम्मान्त्वां च देवेशि ध्यात्वा नियतमानसः ।।
स्नापयेच्छंखतोयेन प्रणवप्रोक्षणक्रमात् ।। ७१ ।।
भवे भवे नातिभव इति पाद्यम्प्रकल्पयेत् ।।
वामाय नम इत्युक्त्वा दद्यादाचमनीयकम्।।७२।।
ज्येष्ठाय नम इत्युक्त्वा शुभ्रवस्त्रम्प्रकल्पयेत्।।
श्रेष्ठाय नम इत्युक्त्वा दद्याद्यज्ञोपवीतकम् ।। ७३ ।।
रुद्राय नम इत्युक्त्वा पुनराचमनीयकम् ।।
कालाय नम इत्युक्त्वा गन्धन्दद्यात्सुसंस्कृतम् ।। ७४ ।।
कलाविकरणाय नमोऽक्षतं च परिकल्पयेत् ।।
बलविकरणाय नम इति पुष्पाणि दापयेत् ।। ७५ ।।
बलाय नम इत्युक्त्वा धूपन्दद्यात्प्र यत्नतः ।।
बलप्रमथनायेति सुदीपं चैव दापयेत् ।। ७६ ।।
ब्रह्मभिश्च षडंगैश्च ततो मातृकया सह ।।
प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ।। ७७ ।।
मुद्राः प्रदर्शयेन्मह्यन्तुभ्यञ्च वरवर्णिनि ।।
मयि प्रकल्पयेत्पूर्वमुपचारांस्ततस्त्वयि ।। ७८ ।।
यदा त्वयि प्रकुर्वीत स्त्रीलिंगं योजयेत्तदा ।।
इयानेव हि भेदोऽस्ति नान्यः पार्वति कश्चन ।। ७९ ।।
एवन्ध्यानम्पूजनं च कृत्वा सम्यग्विधानतः ।।
ममावरणपूजां च प्रारभेत विचक्षणः ।।6.7.८०।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाशसंहितायां शिवध्यानपूजनवर्णनं नाम सप्तमोऽध्यायः ।। ७ ।।