श्रीमच्छकरदिग्विजयः । [ सर्गः १६ ] एवंप्रकारैः कलिकल्मषप्रै शिवावतारस्य शुभैश्चरित्रैः ॥ द्वात्रिंशदत्युज्ज्वलकीर्तिराशे समा व्यतीयुः किल शंकरस्य ।। ९६ ॥ भाष्यं भूष्यं सुशीलैरकलि कलिमलध्वंसि कैवल्यमूल्यं हन्ताहंता समन्तात्कुमतिनतिकृता स्वण्डिता पण्डितानाम् ॥ सद्यो विद्योतिताऽसौ विपथविमथनैर्मुक्तिपद्याऽनवद्या श्रेयो भूयो बुधानामधिकतररांमत: शंकरः किं करोतु ॥ ९७ ।। हन्ताऽऽशोभियशोभरैस्त्रिजगतीमन्दारकुन्देन्दुभा मुक्ताहारपटीरहीरविहरन्नीहारतारानिभैः ।। कारुण्यामृतनिईरैः मुकृतिनां दैन्यानलः शून्यतां नीतः शंकरयोगिना किमधुना सौरभ्यमारभ्यताम् ॥ ९८ ॥ स्वाय यशा यस्य स यातरराट् आशाकराचायः स्वमयमात्मप्रचुर समय शास्त्रमवगमय न्सदयं सुवियां हृदयं रमयन्सन्नितरां शुशुभे । तोटकं वृत्तम् ॥ ९५ ।। उपसंहरति । एवंप्रकौरैः कलिकल्मषझैः शुभैश्चरित्रैरुज्ज्वलकीर्तिराशेः शिावावता रस्य शंकरस्य द्वात्रिंशत्संवत्सरा व्यतीयुरिति योजना । भाख्यानकी वृत्तम् ॥ ९६ ॥ ['चतुर्वेद्यष्टमे वर्षे द्वादशे सर्वशास्त्रवित् । षोडशे सर्वदिग्जेता द्वात्रिंशे मुनिरत्यागात् इत्यभियुक्तोक्तद्वात्रिंशत्संख्याकाः समाः 'हायनोऽस्त्री शरत्समाः' इत्यमराद्वर्षाणि व्यती युरतिक्रान्तान्यासन्नित्यन्वयः ] ॥ ९६ ॥ श्रीशंकराचवायां भाप्यादिकरणैः सुवियां कृते निरतिशयं श्रेयः संपादितवानित्या शयेनाऽऽह । भाष्यमिति । सुशीलैंभूप्यं कलिमलविनाशकं कैवल्यस्य मृल्यं वेतनं भाष्यमकल कृतम् । हन्तेति हर्षे कोमलामश्रणे वा । कुमतानां नमस्कारैः कृता या पण्डितानामहंता सा समन्तात्खण्डिता । एवं च विपथमथनैरसावनवद्या मुक्तिपद्या मोक्षपद्धतिः सद्योः विद्योतिता तस्मादेवंकर्ता शंकर इतोऽधिकतरं श्रेयः पुनः किं करोतु तस्याभावादित्यर्थः । स्रग्वरा वृत्तम् ॥ ९७ ॥ [ सुशीलै भूप्यं व्याख्येयम् । कलिमल विनाशाकं कैवल्यस्य मूल्यं वेतनं भाप्यमकारि कृतम् । अत्र पृर्वपूर्वे प्रत्युत्तरोत्तरस्य कारणत्वं बोध्यम् ] ॥ ९७ ।। किंच हन्तेत्याश्चर्थे हर्षे वा । त्रिजगत्यां त्रिलोक्यां यानि मन्दारादीनि तत्तुल्यै रासमन्ताच्छोभनैर्यशसां भैरर्भरैरतिशयैर्वा कारुण्यामृतस्य निईरै: प्रवाः शंकरये॥गिना सुकृतिनां दैन्यलक्षणोऽभिः शून्यतां नतोऽतस्तेनाधुनाऽतः परं सौरभ्यं सौगन्ध्यं
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६१८
दिखावट