सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । १९३ कथयाऽऽर्हत जीवमस्तिकायं स्फुटमेवंविध इत्युवाच मौनी । अवदत्स च देहतुल्यमानो दृढकर्माष्टकवेष्टितश्च विद्वन् ॥ ४४ ॥ अमहाननणुर्घटादिवत्स्यात्स न नित्योऽपि च मानुषाच देहात् ॥ गजदेहमयन्विशेन्न कृत्स्त्रं प्रविशेच पुषिदेहमप्यकृत्स्रः ॥१४५॥ उपयान्ति च केचन प्रतीका महता संहननेन संगमेऽस्य ॥ अपयान्त्यधिजग्मुषोऽल्पदेहं तदयं देहसमः समश्रुतेश्च ॥ ४६ ॥ उपयन्त इमे तथाऽपयन्तो यदि वषर्मव न जीवतां भजेयुः ॥ प्रभवेयुरनात्मनः कथं ते कथमात्मावयवाः प्रयन्तु तस्मिन् ॥ ४७ ॥ जनितारहिताः क्षयेण हीनाः समुपायान्त्यपयान्ति चाऽऽत्मनस्ते ॥ अमुकोपचितः प्रयाति कृत्स्त्रं त्वमुकैश्चापचितः प्रयात्यकृत्स्रम् ॥ ४८ ॥ द्वितीयचतुर्थेच्छायां षष्टः । तृतीयचतुर्थेच्छायां सप्तम इति विवेकः ॥ ४३ ॥ एवमुक्तो मौनी श्रीशंकराचार्य उवाच । हे आईत जीवारितकायमेवंविधो जीवा स्तिकाय इति स्फुटं कथय । एवमुक्तः स चाऽऽर्हतो बभाषे । देहतुल्यप्रमाणो दृढे नोक्तकर्मष्टकेन बद्धश्रव ॥ ४४ ॥ आचार्य आह । अमहाननणुर्देहपरिमाणो जीवो घटादयो मध्यमपरिमाणत्वाद्यथा न नित्यास्तथा नित्यो न स्यात् । अपि च शरीराणामनवस्थितपरिमाणत्वान्मनुष्य जीवो मनुष्यशरीरपरिमाणो भूत्वा पुनः केनचित्कर्मविपाकेन हस्तिजन्मप्रामुवन्न सर्वे हस्तिशरीरं प्रविशेद्देहापरदेशो निजीवः स्यात्पुत्तिकादेहं च मामुवंस्तं सर्वो न प्रविशेत्। देहाद्वहिरपि जीवः स्यादित्यर्थः । चकारादस्मिन्नपि जन्मनि कौमारयौवनस्थविरेष्वेष दोषो बोध्य ।। १४५ ॥ एवमुक्त आर्हतः शङ्कते । महता संपातेनास्य जीवस्य संगमे सति केचनावयवा उपयान्ति । तथाऽल्पदेहमभिगन्तुमिच्छोः केचनावयवा अपयान्तीत्येवं समानव्याप्तश्च स चासावयं जीवो देहसम: ।। ४६ ।। अभाचार्य आह । यदीमेऽवयवा उपयन्तस्तथाऽपयन्तश्च तह्यगमापयित्वाच्छ रीरवदात्मतां न भजेयुः । किंचानात्मनस्ते जीवावयवाः कथं प्रादुर्भवेयुः । कथं च तस्मिन्ननात्मनि ते लीयेरन्विरोधादित्यर्थः ॥ ४७ ॥ आईत आह । आत्मनस्तेऽवयवा जन्मना रहिताः क्षयेण च हीना नित्या एव समुपायान्त्यपयान्ति च । तथाचामुकैरुपचितो गजादिदेहं कृत्तं प्रयात्यमुकैश्चापचित पुत्तिकादिदेहमकृत्स्नं स्वल्पं प्रयाति ॥ ४८ ॥

क. * पाययन्त्य ।