५९२ श्रीमच्छकरदिग्विजयः । [ सर्गः १५] शास्त्रीयबाह्यमवृत्या ह्यान्तरोऽपूर्वाख्यो धर्मोऽनुमीयत इति प्रवृत्त्यनुमेयो धर्मास्तिकायः । ऊध्र्वगमनशीलस्य जीवस्य देहेऽवस्थानेनाधर्मोऽनुमीयत इति स्थित्यनुमेयोऽधर्मास्ति कायः । आकाशास्तिकायो द्वेधा । लोकाकाशोऽलोकाकाशश्च । तत्रोपर्युपरि स्थितानां लोकानामन्तर्वत्र्याद्यस्तेषामुपरि मोक्षस्थानं द्वितीयः । पुरुषं विषयेष्वास्रावयति गमय तीतीन्द्रियप्रवृत्तिरास्रवः । इन्द्रियद्वारा हि पौरुषं ज्योतिर्विषयान्स्पृशादूपादिज्ञानरूपेण परिणमते । अन्ये तु कर्माण्यास्रवमाहुस्तानि कर्तारमभिव्याप्य स्रवन्ति कर्तारमनु गच्छन्तीत्यास्रवः । सेयं मिथ्या प्रवृत्तिरनर्थहेतुत्वात् । जीवमजीवमाखवं चाऽऽश्रित वन्तौ तैः सहितौ संवरनिर्जरौ सम्यक्पवृत्ती तत्र शमदमादिप्रवृत्तिः संवरः । सह्यास्त्र वस्रोतसो द्वारं संवृणोतीति संवर उच्यते । निर्जरस्त्वनादिकालप्रवृत्तिकषायकलुषपु ण्यापुण्यमहाणहेतुस्तप्तशिलारोहणादिः । स हि निःशेषं पुण्यापुण्यं सुखदुःखोपभोगेन जरयतीति निर्जरः । बन्धोऽष्टविधं कर्म । तत्र घातिकर्म चतुर्विधं तद्यथा ज्ञानावरणीयं दशैनावरणीयं मोहनीयमान्तरायमिति । तथा चत्वार्यघातिकर्माणि । तद्यथा वेदनीयं नामिकं गोत्रिकमायुष्कं चेति । तत्र सम्यग्ज्ञानं न मोक्षसाधनं न हि ज्ञानाद्वस्तुसि द्धिरतिप्रसङ्गादिति विपर्ययो ज्ञानावरणीयम् । अभाईतदर्शनाभ्यासान्न मोक्ष इति ज्ञानं दर्शनावरणीयम् । बहुषु विप्रतिषिद्धेषु तीर्थकरैरुपदशितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयम् । मोक्षमार्गप्रवृत्तानां तद्विघ्रकरं ज्ञानमान्तरायम् । तानीमानि श्रेयोहन्तृ त्वाद्धातीनि कर्माण्युच्यन्ते । अघातीनि कर्माणि तद्यथा शुक्रुशरीराकारेण परिणामहे तुर्वेदनीयम् । तङ्कारेण तत्त्ववेदनहतुत्वात् । तदनुगुणं नामिकं तद्धि शुक्रपुद्रलस्याऽऽ द्यामवस्थां कललबुढुदादिरूपामारभते । गोत्रिकं त्वव्याकृतं ततोऽप्याद्ययं देहाकारप रिणामशक्तिरूपेणावस्थितम् । आयुष्कं चाऽऽयुः कायाति कथयत्युत्पादनद्वारेणेति शुक्रशोणितस्वरूपम् । यद्वा मम वेदनीयं तत्त्वमसीति वेदनीयम् । एतन्नामाहमस्मी त्यभिमानो नामिकम् । अहमत्रभगवतो देशिकस्यार्हतः शिष्यवंशे प्रविष्ट इत्यभिमानो ोत्रिकम् । शरीरस्थित्यर्थ कर्माऽऽयुष्कम् । तान्येतानि तत्त्वावेदकशुक्रुपुद्रलाश्रयत्वा द्धातीनि कर्माणि । तदेतत्कर्मष्टकं पुरुषं बन्नातीति बन्धः । विगलितसमस्तकेशत द्वासनस्यानावरणीयज्ञानस्य सुखैकतानस्याऽऽत्मन उपरिदेशावस्थानं मोक्ष इत्येके । अन्ये तृध्र्वगमनशीलो हि जीवो धर्माधर्मास्तिकायेन बद्धस्तद्विमोकादूध्वं गच्छत्येव स मोक्ष इति । पप्तानामस्तित्वादीनां भङ्गानां समाहारः सप्तभङ्ग तयोपलक्षितान्सप्तपदार्था न्कथं नाङ्गीकरोषि । सप्तभङ्गास्तु स्यादस्तिं । स्यान्नास्तैि । स्यादस्ति च नास्ति च । स्यादवक्तव्य: । स्यादस्ति चावक्तव्यः । स्यान्नास्ति चावक्तव्थैश्च । स्यादस्ति च नास्ति चावत्व्य श्चेति । स्यादिति तिङन्त मतिरूपकं कथंचिदर्थकमव्ययम् । तत्र वस्तुनोऽ स्तित्ववाञ्छायां प्रथमो भङ्गः प्रवर्तते । नास्तित्ववाञ्छायां द्वितीयः । क्रमेणोभयवा ञ्छायां तृतीयः । युगपदुभयवाञ्छायां चतुर्थः । आद्यचतुर्थभङ्गयोर्वाञ्छायां पञ्चमः।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९०
दिखावट