५९० श्रीमच्छकरदिग्विजयः । न [ सर्गः १५ ] युगपत्समवैति नो हि शौकुयद्वयकं यत्र च कुत्रचिद्यदेतत् ॥ नर्नु चिन्न गुणो गुणी तथाच प्रसरेन्नोदितदुष्टतेति चेन्न ॥ ३३ ॥ कटकाश्रयभूतदीप्तहेस्रो रुचकाधारकभाववत्तथैव ॥ अविनाशैिचिदाश्रयस्य भूयोऽन्यंचिदाधारतया स्थितेरयोगात् ॥३४॥ न च संस्कृतिरग्रहोऽप्यविद्या भ्रमशब्दार्थनिरुक्तयसंभवेऽपि ॥ नमसंज्ञितवस्त्वसंभवेन भ्रमसंपादितसंस्कृतेरयोगात् ॥ १३५ ॥ अपि नाग्रहणं चितेरभावश्चितिरुपग्रहणस्य नित्यतायाः । तदसंभवतो न वृत्त्यभावस्तदभावेऽपि चिदात्मनोऽवभासात् ॥ ३६ ॥ न च भञ्जकमीक्ष्यते न तस्योपगमे दुःखजडानृतात्मकस्य । इति वाच्यमखण्डवृत्तिरूढेश्वरबोधस्य निवर्तकत्वयोगात् ॥ ३८ ॥ अपि चेष्टतदन्यहेतुधीजे जगतः कृत्यकृती न ते घटेते ॥ सकलव्यवहारसंकरत्वात्तदलं जीवनिकाऽपि दुर्लभा ते ॥ ३८ ॥ हि यस्माच्छोछयद्वयं यत्र कुत्रचिदपि नो संभवति । ननु मन्मते ज्ञानं न गुणोऽपि तु गुणी द्रव्यपदार्थस्तथाच नोदितदुष्टता पसरेत् । एतदूषयति । इति चेन्नेति ॥ ३३ ॥ तत्र हेतुमाह । कटकाश्रयभूतदीप्तसुवर्णस्य तदैव रुचकाधारत्वं यथा तथैव नित्य ज्ञानाश्रयस्य भूयो ज्ञानान्तराधारतया स्थितेरयोगात् ॥ ३४ ॥ [ रुचकेति । रुच कसंज्ञकालंकारविशेषाधारकत्वं तदैव कटकदशायामेव यथा न घटते तथैव ] ॥ ३४ ॥ ननु भ्रमशब्दार्थनिरुक्त्यसंभवेऽपि संस्कृतिरग्रहणं वाऽविद्यः स्यादित्याशङ्कय परिहरति । न चेति । तत्र हेतुमाह । भ्रमसंज्ञितेति ॥ १३५ ॥ अभग्रहणमपि किं स्वरूपग्रहणस्याभावः उत आगन्तुकस्योत विकल्प्याऽऽद्य प्रत्याह । नाप्यग्रहणं चितेरभावाश्चातिरूपग्रहणस्य नित्यत्वेन तस्य चितेरभावस्यासं भवात् । द्वितीयं प्रत्याह। वृत्त्यभावोऽप्यग्रहणं न भवति तत्र हेतुस्तस्या वृत्तेरागन्तु कस्य ग्रहणस्याभावेऽपि चिदात्मनः स्फरणान्न तस्य प्रतिबन्धकत्वमित्यर्थः ॥ ३६ ॥ नन्वात्मन्यज्ञानाभ्युपगमे तस्य भञ्जकं नेक्ष्यत इत्याशङ्कय परिहरति । न चेति । तत्त्वमस्यादिमहावाक्यजन्याखण्डवत्यारूढपरब्रह्मचैतन्यस्य निवर्तकत्वयो गात् ॥ ३७ ॥ [ ननु दुःखाद्यात्मकाज्ञानोपगमे किं तन्निवर्तकमित्याशङ्कय समाधत्ते । न चेति ] ॥ ३७ ॥ किंचेष्टानिष्टसाधनज्ञानजनिते सर्वस्य जङ्गमस्य प्रवृत्तिनिवृत्ती न च ते सर्वसंकर १ क. नु विन्न । २ क. ग. 'शिविदा । ३ क. ग. 'न्यविदा' । ४ घ. 'न चि' । ५ घ. भ
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८८
दिखावट