सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । [ सर्गः १५] इत्यादिश्रुतिभिर्मागों ज्ञानादन्यो निषिध्यते ॥ षट्चक्रभेदनाद्योऽयं मुक्तः किंच श्रुति र्जगौ ॥ २७५ ॥ शान्त्यादियुक्त आत्मानं पश्येदात्मनि केवलम् । अधिकारी शुद्ध चित्तः श्रवणाद्यः सुसाधनैः ॥ ७६ ॥ वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्य तयः शुद्धसत्वाः । ते ब्रह्मलोकेषु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे ॥ ७७ ॥ इत्यादिभिः श्रौतवचोभिरेष योगो भवत्प्रोक्त उपेक्षणीयः । इत्युक्त आचार्यमुवाच भूयो यतेऽपरिज्ञानवशाद्रवीषि ॥ ७८ ॥ अज्ञात्वा खेचरी मुद्रां ब्रह्मज्ञोऽहमिति द्विजः । यो वदेत्तस्य जिह्वायां छेदं कुर्विति शासनम् ॥ ७९ ॥ नदीत्रितयसंयोगं त्रिकूटाख्यामिति द्विजः । ब्रह्माहमिति यो जूते तजिह्वाछेदमाचरेत् ॥ २८० ॥ अविदित्वा द्विजो यस्तु शृङ्गाटकमतः परम् । ब्रह्माहमिति यो बूते तजिह्वाछेदमाच रेत् ॥ ८१ || मनोन्मन्याः स्वरूपं हि पूर्णमण्डलमार्गत । अविदित्वाऽब्रवीद्रह्मत्यस्य जिह्वां हि संछिनेन् ॥ ८२ ॥ अङ्गष्टमात्रस्य पुंसः स्थानज्ञानं विना द्विजः ॥ ब्रह्मा स्मीत्युच्यते येन तस्य जिह्वां हि *संछिनेत् ॥ ८३ ॥ अवस्थात्रितयस्थानं नीचोन्म त्तविगर्हितम् । अज्ञात्वा ब्रह्मा यो नृते शिरस्तस्य पतत्यधः ।। ८४ ॥ लयवित्परमं याति ब्रह्म नान्येन वत्र्मना । हठवित्परमं स्थानं याति ब्रह्म सनातनम् ।। २८५ ।। इत्यादिवचनैयगः सर्वदा मोक्षकाङ्क्षभि । भवद्भिरतियत्नेन स्वीकर्तव्य इती रितः ॥ ८६ । गुरुराहं वृथैवं त्वं जल्पस्य ज्ञानमोहितः । अष्टाङ्गयोगजा मुक्तिर्न तु किंतु विशुद्धिदः ॥ ८७ ॥ ऐकायदस्तथा श्रौतो विरुद्धो वेदतो न हि ॥ खेचर्यादिकमुद्राया विज्ञानेन विना न हि ॥ ८८ ॥ मुक्तिरित्युक्तिरत्यन्तसाहसादेव नान्यथा । ब्रह्मज्ञानाद्यतो मुतिं वेदो वदति नान्यत ।। ८९ ॥ तस्माच्छतिमोदि तकर्मनिष्ठो विशुद्धाचत्तः पुरुषो विवेकी। वैराग्यवाञ्शान्तिदमादियुक्तो मुमुक्षुरात्मान मजं सहिष्णुः ॥ २९० । गुरोर्मुखात्तत्त्वमसीति वाक्यं श्रुत्वा विचार्याऽऽत्मगर्ति स सम्यक् । सचित्सुखं भेदविहीनमद्धा विज्ञाय मुक्तो भवतीति चोक्तः ॥ ९१ ॥ नत्वा गुरोः पादयुगं सुभक्त्या शिष्यो बभूवाथ पराणुवादम् ॥ समाश्रिता वीरशिवादयोऽन्ये समागताः प्रोचुरिदं यतीशम् ॥ ९२ ॥ कर्ता परेशो यदुदीरितोऽस्ति सृष्टौ स भूम्या द्यणुकान्युनक्ति । नित्यालॅये तान्वियनक्ति चैष भम्यादिभिलॉकगरुः स लोकान् । ॥ ९३ । विधाय सृष्टा विविधांश्च जीवानास्ते स्वयं साक्षिवदेष पूर्णः । इत्युक्त आचार्य उवाच मैवं श्रुतेर्विरोधाच्छ्णु तद्विरोधम् ॥ ९४ ॥ परात्मनः खादिकसगे उक्तः श्रुतौ कथं टेषु तु नित्यताऽतः । परेशा एकः खलु नित्यरूपो जन्यं जगत्सर्व मनित्यमेव ॥२९५ ॥ जगदीशादजन्यत्वं केषु चिद्यदि वर्तते । तस्य तत्त्वं न वक्तव्यं १ क. *येव त्वं ।