[ सर्गः १५] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ५४१ तस्य मुद्रादिकैः शङ्खचक्रकाचैः सुचिह्नितः ।। संसारबन्धनान्मुक्तो वैकुण्ठं वैष्णवो तमः ।। ३९ । गमिष्यामि यतस्तत्र तथाभूता वसन्ति तत् ॥ चिह्नस्य धारणे मानं पुराणं शृणु भो मुने ॥ १४० | ये बाहुमूलपरिचिह्नितशङ्खचक्रा ये कण्ठलग्मतुल सीनलिनाक्षमालाः ॥ ये वा ललाटफलके लसदृध्र्वपुण्ड्रास्ते वैष्णवा भुवनमाशु पवि त्रयन्ति ॥ ४१ ॥ इत्युक्त अाचार्य उवाच मैवं श्रुतेरभावात्कथनीयमत्र । अतप्तदेहो न समश्रुतेऽयं विमोक्षमेषा श्रुतिरस्ति मानम् ।। ४२ । नैवं यतः पातकनाशनार्थ महत्तपः कृच्छूमुखं स्चकर्म । यद्वाऽथवा ध्यानमधीश्वरस्य पोक्तं श्रुतौ चिह्नमतो न कार्यम् ॥ ४३ । ब्रह्मज्ञो यः सोऽश्रुते मोक्षमित्यादर्वाक्यान्मोक्षस्य हेतुर्विबोधः ।। क्षीणे पुण्ये मत्र्यलोकं विशन्तीत्यादेर्वाक्यादन्यतः संसृतिः स्यात् ।। ४४ ॥ पुराणेषु बृहन्नारदीयादिषु निषेधनम् ।। दृश्यते तप्तशङ्खादेर्वारणस्य प्रयत्नतः ।। १४५ ।। चिह्नानां धारणेनाहं भविष्यामि हरेः समः ॥ इत्येतत्तु मनाराज्यमात्रं शूद्रो यथा न हि ॥ ४६ ॥ शिाखायज्ञोपवीतादिवारणादेव साईजः । ब्रह्मात्मबोधतस्तस्मात्तत्प्राप्ति श्रुतिमानतः ॥ ४७ ॥ तस्माद्रह्माहमित्यवं चिन्तनं सर्वदा कुरु ॥ तेन नटे भिदागन्धे जीव एव परः शिवः ॥४८। ३शवः शिवोऽहमस्मीति वादनं यं च कंचन ॥ आत्मना सह तादात्म्यभागिनं कुरुते भृशम् ।। ४९ । इत्युक्तं शिवगीतास्वित्युक्तो वै णव आह तम् । नमस्कृत्य कृतार्थोऽहं स्वामिंस्त्वदुपदशतः ॥१५०॥ अधुनाऽद्वैतनिष्ठो हं भविष्या मीति सोऽब्रवीत् । ननाम दण्डवढूमौ । तं प्राह गुरुसत्तमः ॥ ५१ ॥ मुक्तो भवेति सोऽ प्युक्तः स्मार्ताचारेषु तत्परः । पश्चपूजारतो नित्यं स्वदेशस्थाञ्जनानाप ॥५२ । तथाऽकरो ततः पाञ्चरात्रागमसुदीक्षितः । आङ् मुक्तिप्रतिष्ठादिमूलभूतोऽस्मदागमः ॥ ५३ ।। तस्माद्यतेऽयमाचारो विपैः कायोऽखिलैरपि ॥ इत्युक्तः श्रीगुरुः प्राह यदि वेदावि रुद्वता ॥ ५४ ॥ अस्त्यागम तदा तस्याऽऽचार ग्राह्य[ न चान्यथा ॥ अन्यमत्रा ग्रहे तत्र वैष्णवत्वं प्रकीर्तितम् ॥१५५॥ गायत्र्या उपदेशस्तु ब्राह्मण्यायास्ति सर्वथा। एवं च वैष्णवत्वस्य भङ्ग एव समागतः ॥ ५६ ॥ तदभावे न विमत्वं विष्णुमत्रशत रपि । वैष्णवत्वं कुतोऽस्त्यस्याः सत्वे ननु हरेरियम् ॥ ५७ ॥ शक्तिः शङ्खादिव त्वस्य श्रवणादिति चत्तदा ।। रुद्रस्य शक्तिरेवास्तु चन्द्रशारखरतादिकम् ॥ ५८ ॥ । श्रूयतेऽस्या यतः पश्वमुखत्वाद्ययं च देहगम् । अस्तु वा सवसंपूज्या शुभदा परमे धरी ॥ ५९ ॥ ननु सूर्ये स्थितस्यास्यां प्राधान्यं तेजसो यत: । निरूप्यते ततो विष्णोः शक्तिरेव यतो हरिः ।। १६० । भानुमण्डलवर्तीति वण्यैते तत्र तत्र ह ।। पश्चास्यताऽपि नो तस्मिन्बहुरूपे विरुध्यते ॥ ६१ ॥ इति चेन्न यतस्तस्याः समु त्पत्तिनिरूपिता || याहृतिभ्यः किलाऽऽसां तु प्रणवात्सा महेश्वरात् ॥ ६२ ।। अस्य प्रोक्ताऽत एतस्य शक्तिर्नान्यस्य कस्यचित् | नारायणश्रुतौ प्रोक्तः स्वरकर्ता महेश्वरः ॥ ६३ ॥ यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ॥ तस्य यकृति
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५३९
दिखावट