[ सर्गः १५] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अथ पञ्चदशः सर्गः ॥ अथ शिष्यवरैर्युतः सहखै रनुयातः स सुधन्वना च राज्ञा ॥ ककुभो विजिगीषुरप सर्वा प्रथमं सेतुमुदारधीः प्रतस्थे ॥ १ ॥ र्गिरिजाचकपटान्मधुप्रसतैः ॥ निकटस्थवितीर्णभरिमोद स्फुटरिङ्कत्पटुयुक्तिमान्विवादः ॥ २ ॥ ५२९ अथ दिग्विजयकौतुकं परिकरं निरूपयितुमुपक्रमते । अथानन्तरं पद्मपादहस्ता मलकसमित्पाणिचिद्विलापज्ञानकन्दविष्णुगुप्तशुद्धकीर्तिभानुमरीचिकृष्णदर्शनबुद्धिवृद्धि विरिञ्चिपादशुद्वानन्तानन्दगिरिप्रमुखैः सहस्रः शिष्यवरैर्युत: सुधन्वना राज्ञा चानुयात सर्वा दिशो विजिगीषुः स एष उदारधीः श्रीशंकराचार्यः प्रथमं सेतुं प्रति प्रतस्थे । वसन्तमालिका वृत्तम् । अत्र प्राचीनानुरोवेन मध्यार्जुनं प्राप्य ततः सर्वाः ककुभो विजिगीषुः प्रथमं सेतुं प्रति पतस्थ इति * श्रीशांकराचायों याख्ययम् । तथाहि । मध्यार्जुनं नाम शिवाविभूतिस्थलविशेषं पाप । ‘ मध्याजनशानमद्दष्टपूर्व विद्यादाभ पूजितपादपद्मम् । बुद्धोपचारैरभजत्परेशं निप्पापतां माप फलैकपात्रम्’ ॥ तत्र किल भगवाञ्श्रीशंकराचार्यः सदाशिवमेवमब्रवीत्स्वामिन्मध्यार्जुन सर्वोपनि सर्वेषां षदर्थोऽसि सर्वज्ञोऽसि तस्मान्निगमादितात्पर्यगोचरो द्वैतमद्वैतं वेति संशयस्य पश्यतां निवृत्तिं कुर्विति पार्थितो मध्यार्जुनेशो लिङ्गग्रात्सावयवरूपेण निष्क्रम्य मेघ वद्रम्भीरया गिरा दक्षिणहस्तमुद्यम्य सत्यमद्वैतं सत्यमद्वैतं सत्यमद्वैतमिति त्रिरुक्त्वा लिङ्गाग्रेऽन्तर्दधे । पश्यतां नराणां महदद्रुतमासीत्तद्भक्ताश्च तद्देशस्थिताः श्रीशंकरमेव सदुरुं कृत्वोमागणपतीशार्कच्युताचपराः प्रातःस्नानादिविशुद्धाः पश्चयज्ञपरायणा श्रुतिसंचोदिताचारगाः शुद्धाद्वैतपरायणा बभूवुः । एवं तद्देशस्थानद्वैतवादिनः कृत्वा प्रमथैः शंकर इव शिष्यसमेतो रामेश्वरं प्रांत जगाम ' इति ॥ १ ॥ [ सहस्रर्विपुलैः ] [ सुधन्वना मागिन्द्रावतारत्वेन वर्णितेन सुधन्वाभिवेनेत्यर्थः ] [ सर्वाः ककुभो दिशो लक्षणया तत्स्थभेदवादिनः प्रतीत्यर्थः ] ॥ १ ॥ तत्र किल तस्य शापैर्विवादोऽभवत् । तान्विशिनष्टि । गिरिजाचकपटान्मधुप सतैः । विवादं विशिनष्टि । निकटस्थेभ्यो वितणों दत्तो बहुमोदो याभिस्ताश्च ता स्फुटं यथा स्यात्तथा रिङ्गन्त्यः स्फुरन्त्यो याः पट्टयश्चतुरा युक्तयस्तद्वान् । पदेति १ घ. 'णिवि '। २ क. घ. 'भूतस्थ'। ३ स्थेषु वि '।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५२७
दिखावट