[ सर्गः ११] धनपतिसूरिकृतडिण्डिमाख्यटीकांसंवलितः । मा भूदकाण्डे प्रलयो महात्म म्कोपं नियच्छेति गृणद्भिरारात् ।। ससाध्वसैः प्राञ्जलिभिः सगात्र कम्पैर्विरिश्यादिभिरथ्र्यमानम् ॥ ५८ ॥ विलोक्य विद्युचपलोग्रजिह्व यतिक्षितीशः पुरतो ऋसिंहम् ।। अभीतिरेडिष्ट तदोपकण्ठं स्थितोऽपि हपश्रपिनद्धकण्ठ ॥ ५९ ।। नरहरे हर कोपमन्नर्थदं तव रिपुर्निहतो भुवि वर्तते । कुरु कृपां मयि देव सनातनीं जगांददं भयमति भवदृशा ।। ६० ।। तव वपुः किल सत्त्वमुदाहृतं तव हि कोपनमण्वपि नोचितम् !! तदिह शान्तिमवामुहि शर्मणे हरगुणं हरिराश्रयसे कथम् ॥ ६१ ।। ५४ सुरविशेषं द्वेष्टीति जम्भद्विडेिन्द्र उज्जूम्भित उलसितः शंभुर्महादेवस्तयोर्दम्भस्यै क्षमापनकैतवस्य षत्संस्तम्भनं तस्याऽऽरम्भको दन्तपेषो यस्य ॥ ५७ ॥ [ दम्भो ‘दम्भस्तु कैतवे कल्के' इति मेदिन्याः संहारकालिकजगद्भयरचनकैतवविशेषः] ॥५७॥ हे महात्मन्नसमये पलयो मा भूदतः कोपं नियच्छेत्येवं ससाध्वसैः सगात्रकम्पैः प्राञ्जलिभिरैदरात्स्तुवद्भिर्बह्मादिभिः प्राथ्यैमानम् ॥ ५८ ॥ [ आरादूर एव ] ॥५८॥ विद्युद्धचपलोग्रजिह्वमेवंभूतं नृहरिं पुरतो विलोक्य तदा समीपं स्थितोऽपि भीति रहितो हर्षाश्रुभिः पिनद्धः कण्ठो यस्य स यतिराजः श्रीशंकरः स्तुतवान् । उपेन्द्र वत्रा वृत्तम् ॥ ५९ ॥ हे नरहरे कोपमुपसंहर । यतोऽनर्थदं यदर्थमाविष्कृतः स तु तव शत्रुनिहतः सन्भुवि वर्ततेऽतो हे देव सनातनीं मयि कृपां कुरु । किंच भवत्कोप दृष्टया सर्वमिदं जगद्भयमेति । द्रुतविलम्बितं वृत्तम् ॥ ६० ।। किंच तव विष्णोर्वपुः खलु सत्त्वमुदाहृतं हि यतस्तव कोपनमण्वपि नोचितं तत्त ४२९
- गृणद्रिरारादित्यत्र गृणद्रिराद्रादितिपाठानुरोधेनेदम् । आदर्शपुस्तकेषु तु नायमुपलभ्यते ।
१ क. 'काले प्र'। २ क. ख. १. 'स्य क्षगाप'।