योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ११८
← सर्गः ११७ | योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्) सर्गः ११८ अज्ञातलेखकः |
सर्गः ११९ → |
सहचरसहचर्यः क्रमेणोचुः ।
निर्गुणस्य बकस्यास्य गुण एकोऽस्ति दृश्यताम् ।
यत्प्रावृषं स्मारयति प्रावृट् प्रावृडिति ब्रुवन् ।। १
बक हंस इवाभासि सरःस्थो मद्गुसौहृदम् ।
नृशंसत्वं च वाणीं च त्यक्त्वा हंसो भव स्फुटम् २
गम्भीरं वारिगर्भं प्रसृतजलचरं ये प्रविश्य प्रविश्य
प्राङ्मतत्स्यान्प्रोतचञ्चवश्चतुरतर परं जग्धवन्तो विदग्धाः
ते केनाप्यद्य दिष्ट्या मृततिमिगमिताः कालयुक्ते महिम्ना
नाक्रामन्ति क्रमस्थाः सुहरमपि पुरः पङ्गवो मद्गवोऽमी ।। ३
एवं विहन्यते लोकः स्वार्थेनेति प्रदर्शयन् ।
मद्गुर्मद्गुरुतां यात इत्येवं स्तौति दुर्जनः ।। ४
उत्कन्धरो विततनिर्मलचारुपक्षो
हंसोऽयमत्र नभसीति जनैः प्रतीतः ।
गृह्णाति पल्वलजलाच्छफरीं यदासौ
ज्ञातस्तदा खलु बकोऽयमितीह लोकैः ।। ५
अतिबहुकालविलोलानवलोक्य बकांस्तपोदम्भान् ।
अत्रैवातिमिरस्थांस्तटवनिता विस्मिता धूर्तान् ।। ६
अत्र जले हिमहेलाः पश्यैता अपहरन्ति सितपद्मान् ।
इच्छसि ता अनुगन्तुं नाहं ते वल्लभा व्रजामीति ।। ७
कुपितां तामनुनेतुं यत्नपरः पान्थ एष पथि कान्ताम् ।
अवलोकय नरनायक कुसुमलताकुहरकेलितीरवने ।। ८
इति हावभावविलसितविवलनकोपार्धदृष्टिहसितानि ।
कुर्वाणा वरवनिता कथयति ते दृश्यतां राजन् ।। ९
बकमद्गुशरारूणां नित्यमेकौकसामपि ।
संकरोऽस्ति मिथो बुद्धेर्न मूर्खविदुषामिव ।। १०
चञ्चवग्रे खञ्जरीटस्य कीटः किटिकिटायते ।
दौर्भाग्यस्य पुराणस्य पताकेवोच्छ्रितोन्नते ।। ११
तारं तीरतरौ स रौति तरलो यावद्बकः प्रोल्लसं-
स्तावत्पल्वलगोष्पदेऽम्बुकलिले यावद्बलाद्देहकम् ।
मज्जन्त्या प्रियवक्षसीव निपुणं त्रातं शफर्या भया-
द्धृद्भङ्गेनमहापदीह हि मृतेनान्यद्भवेत्सौख्यदम् ।। १२
बकाजगरमद्गूनां हृदि या प्राणिनां धृतिः ।
अचर्वितनिगीर्णानां मन्ये निद्रोपमैव सा ।। १३
आसन्नमद्गुबकगृध्रबिडालसर्प-
दृष्ट्या भयं भवति यत्सलिलाशयानाम् ।
तस्याग्रतस्तृणमिवाशनिपातभङ्गो
जातिस्मरेण विदुषोक्तमदः पुरा मे ।। १४
इह सरोवरतीरतरोस्तले कुसुमशालिनि मुग्धमृगान्पुरः ।
समवलोकय लोकमलौ बला-त्समवकीर्णनवोत्पलकेतकान् ।। १५
बर्ही प्रोन्नतचित्तत्वात्तोयमिन्द्रं प्रयाचते ।
स पूरयति तेनास्य महात्मा निखिलां महीम् ।। १६
मेघाननुसरन्त्येते मयूरास्तनपा इव ।
मलिनो मलिनस्यैव पुत्र इत्यनुमीयते ।। १७
मृगानालोक्य पथिकश्चिन्तयन्दयितेक्षणे ।
पुरःस्थेषु पदार्थेषु यन्त्रपुत्रिकतां गतः ।। १८
शिखी वार्यपि नादत्ते भूमेर्भुङ्क्ते बलादहिम् ।
दौरात्म्यं तन्न जाने किं सर्पस्य शिखिनोऽथवा ।। १९
सज्जनाशयनीकाशं त्यक्त्वा बर्ही महत्सरः ।
पिबत्यम्ब्वभ्रनिष्ठ्यूतं मन्ये तन्नतिभीतितः ।। २०
लसत्कलापजलदाः पश्य नृत्यन्ति बर्हिणः ।
धुन्वानाः पिच्छकान्तीन्दुं प्रावृषः पोतका इव ।। २१
वरवने वनवातविसारिणां चपलचन्द्रकचारुतरङ्गिणाम् ।
इह पयोनिधिरेव कलापिनां विसृतमुक्ततयेव विलासनः ।। २२
चर तृणानि पिबाम्बु वनावनौ कलय विश्रमणं कदलीवने ।
चकितचातक पावकदूषिता न हि सुखाय भवत्यतिमानिता ।। २३
नायं मयूर मकरालयवारिपूरपूर्णोदरो जलधरोऽम्बरमारुरुक्षुः ।
दावाग्निदग्धवनपादपकोटराग्र धूमावलीवलय उत्थित एष शैलात् ।। २४
येनाब्देन शरद्विधावपि शिखी संतर्पितो वारिभि-
र्नो वर्षास्वपि पूरयेद्यदि सरस्तद्वाललोकोचितम् ।
आरब्धं समवेक्ष्य सज्जनजनो हासेन दुःस्थो भवे-
द्बर्हीत्यात्मतृषैव नेतुमखिलं कालं समभ्युद्यतः ।। २५
स्फटिकविमलं पीत्वा तोयं घनोदरनिर्गतं
पिबति न पुनर्मार्गे क्षुभ्यंस्तृषापि शिखी जलम् ।
स्फुरति च घनं स्मृत्वा स्मृत्वा न चापि विपद्यते
गुणवति जने बद्धाशानां श्रमोऽपि सुखावहः ।। २६
इहातिवाहयन्त्येते मार्गदौस्थ्यं घनागमे ।
कथाभिः पथिकाः प्रायो विमूढा जीवितं यथा ।। २७
पश्यात्र नाथ सरसः कमलोत्पलकुमुदबिसमृणालानाम् ।
कह्लारपत्रपयसा भारानादाय बालिकाश्चलिताः ।। २८
किमिदं नयथेति ततः पृष्टाभिस्ताभिरुक्तमेतस्य ।
व्यसनज्वरतप्तायाः पथिक वयं बालसख्य इति ।। २९
अथ रागरक्तहृदयाः स्तनभरवितता विलासललिताङ्ग्यः ।
पथिकानां स्मरणपथं भूयोऽप्यनयन्प्रियाः स्वगेहस्थाः ।। ३०
सा नूनं मम कान्ता दृष्ट्वा सुस्निग्धघनतमःश्यामम् ।
गगन च शून्यगहनं प्रलपति भुवि पतति विस्खलति ।। ३१
भृङ्गावलीकुवलयावलिताब्जपात्र-संप्रेर्यमाणनलिनीमधुपानमत्तः ।
हा वाति तीरतरुपल्लवलास्यलब्ध-
संमुग्धशब्दगणगीतगुणो नभस्वान् ।। ३२
इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० नि० उ० अवि० वि० हरिणमयूरबकमुग्धादिवर्णनं नामाष्टादशाधिकशततमः सर्गः ।। ११८ ।।