सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७००
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

३३१६ । अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा । (३-४-१८)

प्रतिषेधार्थयोरलंखल्वोरुपपद्योः क्त्वा स्यात् । प्राचांग्रहणं पूजार्थम् । अमैवाव्ययेन' (सू ७८३) इति नियमान्नोपपदसमास । “दो दद्धोः’ (सू ३०७७) अलं दत्त्वा । “घुमास्था- (सू २४६२) । पीत्वा खलु । अलं खलवा ' किम् । मा कार्षीत् । “ प्रतिषेधयोः' किम् । अलंकारः ।

३३१७ । उदाचा माड व्यताहारं । (३-४-१९)

व्यतीहारेऽर्थे माङः क्त्वा स्यात् । अपूर्वकालार्थमिदम् ।

३३१८ । मयतेरिद्न्य तरस्याम् । (६-४-७०)

मेड इकारोऽन्तादेशः स्याद्वा ल्यपि । अपमित्य याचते । अपमाय । उदीचांग्रहणाद्यथाप्राप्तमपि । याचित्वा अपमयते ।

३३१९ । परावरयोगे च । (३-४-२०)


विधिस्तु 'ात्रया Iत्तन्’ इत्यतः प्रागेवेति *प्रैषातिसर्ग' इति सूत्रे भाष्ये स्पष्टम् । अलं खल्वोः ॥ क्त्वा स्यादिति ॥ भावार्थकोऽयम् । ‘अव्ययकृतो भावे' इति वचनात् । एतच तुमर्थे सेन' इति सूत्रे भाष्ये स्पष्टम् । ननु “उदीचां माडो व्यतीहारे' इत्युत्तरसूत्रे उदीचा ड्रहणादस्य नित्यत्वावश्यकत्वात् प्राचाङ्गहण व्यर्थमित्यत आह । प्राचांग्रहणं पूजार्थ मात ॥ न च वाऽसरूपविधिराशङ्कय । तस्य “त्रियां क्तिन्' इत्यतः प्रागेव प्रवृत्तरुक्तत्वात् । अलं रोदनेनेत्यादि तु बहुलग्रहणात्समाधेयमित्यलम् । उपपदसमासे ल्यपमाशङ्कय आह । अमैवाव्ययेनेति ॥ अलन्दत्वेति ॥ दानेन किञ्चिदपि साध्यन्नास्तीत्यर्थ . । इत्व स्मारयात घुमास्थेति ॥ पीत्वा खल्विति ॥ पानेन साध्यन्नास्तीत्यर्थ. । उदीचां माडो ॥ व्यती हारो विनिमयः ‘समानकर्तृकयो. पूर्वकाले’ इत्यनेन सिद्धिमाशङ्कय आह । अपूर्वकालार्थमिति ॥ मयतेरिदन्यतरस्याम् ॥ ‘वाऽन्यस्य सयोगादेः' इत्यतो वेति “न ल्यपि' इत्यतो ल्यपीति चानुवर्तते इति भावः । अपमित्य याचत इति ॥ त्वया गौर्दत्ता चेत् मया महिषी दीयते इत्येवं विनिमयं कर्तु गां याचते इत्यर्थः । इह विनिमयस्य पूर्वकालिकत्वाभावात् समानकर्तृकयो रिल्यस्य न प्राप्तिः । प्रत्युत याचनाया एव पूर्वकालिकत्वात् याचे काप्राप्तिः । गतिसमासे को ल्यप् इत्वन्तुक् । अपमायेति ॥ इत्वाभावे रूपम् । “ईद्यति' इति ईत्वन्तु न, ‘न ल्यपि' इति निषेधात् । उदीचाङ्गहणादिति ॥ तेन मेडो काप्रत्ययख्य विकल्पलाभात् तदभावे याचे पूर्वकालक्रियावृतित्वात् समानकर्तृकयोरिति खेकति भावः । परावरयोगे च ॥ परावरयोर्योगे इति विग्रहः । योगशब्दस्य प्रत्येकमन्वय । परयोगे अवरयोगे च कति लभ्यते । परेण कस्य योग इत्याकांक्षायां अवरस्येतेि लभ्यते । अवरेण कस्य योग इत्याकांक्षायाम्परखेति लभ्यते । तदाह ।