शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/विषयानुक्रमणिका

विकिस्रोतः तः

अथ प्रथमा विद्येश्वरसंहिता ।। १ ।।

१ तीर्थराजे मुनियज्ञावलोचनार्थमागताय सूताय कलिदोषक्षीयमाणे वर्णाश्रमधर्मे नृणां श्रेयस्सा- धनमधि जिगमिषुमुनिप्रश्नस्य वर्णनम् ।

२ शिवपुराणस्य कलिकल्मषविध्वंसितवर्णनं तत्सं हिताभेदप्रदर्शञ्च ।

३ षट्कलीनमुनीन्प्रति ब्रह्मकृतसाध्यसाधनसाध- कवर्णनम् ।

४ सनत्कुमारेण व्यासाय शम्भोः श्रवणकीर्तन- मननानि मुक्तिसाधनान्यभिहितानि ।

५ साधनत्रयाऽशक्तस्य शिवलिंगेवरपूजनादेव मुक्त्युक्तिः, लिंगेपूजने नन्दिकेश्वराभिहित- हेतुनिरूपणश्च ।

६ परस्परमीश्वरत्वाभिमानिनोर्विष्णुब्रह्मणोराहवे क्षिप्त माहेश्वरपाशुपतास्त्रभीतामराणां कैलासगमनम् ।

७ विदितामराभिप्रायशम्भोस्समरमागत्यानलस्ताम्भाविष्कारेण विमानविष्णुब्रह्मणोस्स्तम्भप्रमाणज्ञाने प्रवृत्तिः, तदनुलब्धौ केतकीपुष्प कूटसाक्षित्वं विधाय दृष्टपारोहमिति ब्रह्मोक्य विष्णुना ब्रह्मगौरवस्वीकारस्ततः प्रसन्नशम्भो- र्विष्णवे स्वसाम्यप्रदानम् ।

८ शिवाज्ञया विधिवधे प्रवृत्तमवलोच्य भैरवमच्युतेन प्रार्थितस्य शम्भोर्यज्ञेतरत्राऽपूज्यत्वं विधाय विधावनुग्रह केतकीपुष्पं च स्वान्यत्रस्वीकारः ।

९ विष्णुविधिभ्यामर्चितोऽर्चनदिवसं शिवरात्रिं- संज्ञितमहाफलप्रदमभिधाय स्वस्यैवैश्वरत्वमभिदधे महेश्वरः ।

१० विष्णुब्रह्मभ्यां पंचकृत्यमभिधार्योंकारमन्त्रञ्चोपदिश्यान्तर्दधे शिवः ।

११ शिवलिंगस्थापनपूजनदान प्रकारवर्णनम्, प्रणव जपप्रकारश्चादर्शि ।

१२ शिवक्षेत्रवर्णनम् ।

१३ सदाचारवर्णनम् ।

१४ अग्नियज्ञादिवर्णनम् ।

१५ देवयज्ञादिषु देशकालपात्रनिरूपणम् ।

१६ पार्थिवपूजाप्रकारं प्रदर्श्याऽमुकाऽमुकसमये ऽमुकाऽमुकदेवपूजनेनाऽमुकाऽमुक फलप्राप्तिः प्रादर्शि ।

१७ प्रणवपञ्चाक्षरमन्त्रमाहात्म्यवर्णनम् ।

१८ बन्धमोक्षस्वरूपं निरूप्य शिवलिंगमाहात्म्य वर्णनम् ।

१९ पार्थिवशिवलिङ्गपूजनमाहात्म्यप्रदर्शनं भस्मप्रकाराऽभिधानञ्च ।

२० वैदिकविधिना पार्थिवपूजाप्रकारमभिधाय प्रकारान्तरेणापि तदर्चाभिधानम् ।

२१ कामनाऽनुरोधेन पूजने शिवलिङ्गसंख्या भिधानम् ।

२२ शिवनैवेद्यभक्षणं निर्णीय बिल्वमाहात्म्य- वर्णनम् ।

२३ शिवनाममाहात्म्य निरूपणम् ।

२४ भस्ममाहात्म्याऽभिधानम् ।

२५ रुद्राक्षमहिमकथनम् ।

इति प्रथमा विद्येश्वरसंहिता ।। १ ।।