विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः । स च द्विविधः-
साध्यः सिद्धश्च । साध्यो यत्र विषयिणोऽसत्यतया प्रतीतिः । असत्यत्वं च
विषेयिगतस्य धर्मस्य विषय उपनिबन्धे विषयिसंभवित्वेन विषयासंभवित्वेन
च प्रतीतेः । धर्मो गुणक्रियारूपः तस्य संभवासंभवप्रतीतैौ संभवाश्रयस्य
तत्रापरमार्थतया असत्यत्वं प्रतीयते इतरस्य तु परमार्थतया सत्यत्वम् ।
यस्यासत्यत्वं तस्य सत्यत्वप्रतीतावध्यवसायः साध्यः । अतश्च व्यापारप्रा
धान्यम् । सिद्धो यत्र विषयिणो वस्तुतोऽसत्यस्यापि सैत्यताप्रतीतिः । स
दार्ढ्यदपरस्य च शैथिल्यात्’ इति । इह 'संभाव्यमानस्य विषयिणो दार्ढ्यादत्र संशयाद्वैल क्षण्यम् । तस्य ह्यनियतोभयांशावलम्बी किंस्विदिति विमर्शो लक्षणम् । संभावनाविषयस्य च शैथिल्यान्निश्चयादपि भेदः । निश्चये हि बाधकसद्भावादेकस्य पक्षस्यापसरणेन शैथिल्येन वा साधकसद्रावाच्च पक्षान्तरस्य सिद्धिः स्यात् । आतिशयोक्तिश्च निश्चयात्मिकेति ततोऽस्या भेदः । यत्तु साध्यो यत्र विषयिणोऽसत्यतया प्रतीतिः’ इत्यादि ग्रन्थकृद्वक्ष्यति तद्वस्तुवृत्ताभि प्रायेणावगन्तव्यम् । तदेवं विषयस्य निगीर्यमाणत्वाद्विषयिणश्च निश्चयात्सिद्धमध्यवसाय मूलत्वमस्या इति यथोक्तमेव लक्षणं पर्यालोचिताभिधानम् । तस्मात् ‘इवादौ निश्चयाभा वाद्विषयस्य परिग्रहात् । कचिदध्यवसायेन नोत्प्रेक्षापि तु संशयात् ॥' इत्याद्युक्तमयुक्तमे वेत्यलं बहुना । एतदेव व्याचष्टे-विषयेत्यादिना । अभेदप्रतिपत्तिरिति विषयान्तःक रणात् । संभावनाप्रत्ययात्मकत्वेऽपि साध्याध्यवसायस्य वस्त्वभिप्रायेण तद्वैलक्षण्यं प्रदर्श यितुमाह-साध्य इत्यादि । विषयपरिशोधनद्वारेण. प्रमाणानुग्राहकत्वात्संभावनाप्रत्य यस्य पुरुषेणानेन भवितव्यमित्यत्र वस्तुवृत्तेन पुरुषस्य सत्यत्वम् । इह पुनस्तत्र तस्य प्र योजनपरतयाध्यवसीयमानत्वात्संभावनाविषये संभाव्यमानस्य वस्तुनो न सत्यत्वमित्याह असत्यतया प्रतीतिरिति '। अत्रैव निमित्तमाह-असत्यत्वं चेत्यादि । वि षय उपनिबन्ध इति । तद्गतधर्माभेदेनाध्यवसित इत्यर्थः । अनेन सप्रयोजनत्वमेवो पोद्वलितम् । धर्म इति विषयेिगतः । स एव चोत्प्रेक्षणे निमित्तम् । तस्येति धर्मस्य । .. संभावनाश्रयस्योति विषयिणः । तत्रेति संभावनाश्रये विषये । इतरस्येति असंभवाश्रयस्य विषयस्य । यस्येति विषयिणः । अतश्चेति । अध्यवसायस्य साध्यमानत्वात् । असत्य स्यापीति । वस्तुतो विषयिणस्तत्रासंभवात् । सत्यताप्रतीतिरिति । निश्चयस्वभा वत्वादतिशयोक्त्तेः । असत्यत्वनिमित्तस्येति धर्मसंचारादेः । अतश्चेति धर्मसंचारान्निगीर्यमाण
१. “विषयिणि सत्यतया' ख. २. “विषयगतस्य’ क. ३. ‘प्रतीतः’ क. ४. ‘तत्र पर’ ख. ५. ‘अपरमार्थ' ख. ६. ‘यस्य सत्यत्वं' ख. ७. ‘सत्यतया' ख.
१. ‘असंभाव्यमानस्य' ख. २. ‘विषयस्येति विषयिणः’ ख.