भारतमञ्जरी/आश्रमवासिकं पर्व
- आश्रमवासिकं पर्व
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १५.१ ॥
एकच्छत्रां महीं राज्ञि प्रशासति युधिष्ठिरे ।
नाश्रूयतार्तिजः शब्दो न चादृश्यत याचकः ॥ १५.२ ॥
यशसा धर्मवीरस्य तस्य व्याप्ते जगत्त्रये ।
राघवादिकथाबन्धेष्वभून्मन्दाचरो जनः ॥ १५.३ ॥
धृतराष्ट्रः सविदुरो गान्धारी च पतिव्रता ।
सततं दैवतं तस्य बभूवुः प्रतिमां विना ॥ १५.४ ॥
राज(ज्ञः) षड्रसवैचित्र्यवेशवारविधायिनः ।
भोजने धृतराष्ट्रस्य स सूदान्स्वयमैक्षत ॥ १५.५ ॥
तच्छासनान्नाप्रियाणि कुरुवृद्धस्य पाण्डवाः ।
अश्लीलं ददतः सर्वे प्रतिवादं प्रचक्रिरे ॥ १५.६ ॥
राजार्हं भोजनं भुङ्क्ते सर्वमेवाम्बिकासुतः ।
इति विश्राव्य गूढं तु सोऽभवत्फलभोजनः ॥ १५.७ ॥
अहो व्रतवतस्तस्य जापिनः क्षितिशायिनः ।
जायासखस्य वैराग्यं बुबुधे न युधिष्ठिरः ॥ १५.८ ॥
एवं निवसतां तेषां मिथः प्रणयशालिनाम् ।
काले प्रवाहिनि ययुः समः पञ्चाधिका दश ॥ १५.९ ॥
कदाचिदथ संस्मृत्य भीमः कौरवदुर्नयान् ।
चकार तद्वधकथां बहुशब्दं च दुर्मदः ॥ १५.१० ॥
धृतराष्ट्रो जितक्रोधस्तदाकर्ण्य वधूसखः ।
विधायाश्रुतवत्सर्वमभूत्संन्यासलालसः ॥ १५.११ ॥
ततस्तस्यातिनिर्वेदाद्भावभ्रमपराङ्भुखम् ।
बभुव शमकामस्य वैराग्याभरणं मनः ॥ १५.१२ ॥
वियोगशतदग्धानामवमानविषाशिनाम् ।
सर्वत्यागः सुखायैव निर्वाणामृतनिर्झरः ॥ १५.१३ ॥
स युधिष्ठिरमभ्येत्य वनवाससमुत्सुकः ।
उवाच नियमक्षामो दमोपशममन्थनम् ॥ १५.१४ ॥
वर्णाश्रमगुरो राजन्ननुजानीहि पार्थ माम् ।
दशां वृद्धोचितां लब्धुं व्रजाम्येष तपोवनम् ॥ १५.१५ ॥
इयं भवसुखास्वादरतिस्तत्परचेतसाम् ।
नृणामजीर्णतृष्णेव सततं परिवर्धते ॥ १५.१६ ॥
स्पृश मां पुण्यगन्धेन वपुषा धर्मनन्दन ।
स्वस्ति ते पाहि पृथिवीं पुत्रवत्पश्य च प्रजाः ॥ १५.१७ ॥
कोशदुर्गबलादाने कुर्वीथा यत्नमुत्तमम् ।
गूढमन्त्रः प्रजापाल उन्मूला हि नृपश्रियः ॥ १५.१८ ॥
इत्युक्त्वा मूर्ध्न्युपाघ्राय निराहारः कृशो नृपम् ।
कम्पमानतनुर्वृद्धो बभूव गमनोत्सुकः ॥ १५.१९ ॥
तं साश्रुलोचनो राजा ययाचे रचिताञ्जलिः ।
मामुत्सृज्य कथं नाम गन्तुमर्हसि काननम् ॥ १५.२० ॥
त्वत्पादसेवासंतोषं त्युक्तुं नाहमिहोत्सहे ।
वीतरागस्य ते तात गृहेष्वेव तपोवनम् ॥ १५.२१ ॥
इति तेनार्थ्यमानोऽपि बुबुधे न यदा स तत् ।
तदा सत्यवतीसूनुर्मुनिः स्वयमुपाययौ ॥ १५.२२ ॥
स धर्मराजमभ्येत्य बभाषे ज्ञानलोचनः ।
त्यज्यतामेष भूपाल वृद्धो यातु तपोवनम् ॥ १५.२३ ॥
श्रुतस्य वयसो बुद्धेर्विवेकस्य कुलस्य च ।
सुपक्वमनसां काले वैराग्यं परमं फलम् ॥ १५.२४ ॥
जराशुभ्रेषु केशेषु प्रशान्ते विषयादरे ।
तपोवनात्परं मन्ये भूषणं न शरीरिणाम् ॥ १५.२५ ॥
इत्युक्त्वान्तर्हिते व्यासे विषण्णेन महीभुजा ।
कृच्छ्रादिव तथेत्युक्तो जहर्ष कुरुपुंगवः ॥ १५.२६ ॥
स कृत्वा भीष्ममुख्यानां गुरूणां श्राद्धमुत्तमम् ।
महार्हः विपुलं दानं ददौ ब्राह्मणसंमतम् ॥ १५.२७ ॥
ददतस्तस्य नो विघ्नं चक्रिरे पाण्डुनन्दनाः ।
भमस्तु कोपताम्राक्षो धनंजयमभाषत ॥ १५.२८ ॥
किल्बिषं यैः कृतं घोरं पुरास्मासु बहुच्छलम् ।
कौरवाणां कथं श्राद्धे तेषां वित्तव्ययं सहे ॥ १५.२९ ॥
यातु दुर्योधनः पापो नरकं सहितोऽनुजैः ।
वयं श्राद्धं करिष्यामः स्वयं शंतनुनन्दने ॥ १५.३० ॥
इति ब्रुवाणमसकृन्निवार्य पवनात्मजम् ।
नैतद्वाच्यं पुनरिति प्रोवाच श्वेतवाहनः ॥ १५.३१ ॥
अथ प्रतस्थे गान्धार्या सह राजाम्बिकासुतः ।
गावल्गनिसखः पौरानामन्त्र्य विदुरानुगः ॥ १५.३२ ॥
पुत्रैरुदश्रुनयनैः स्नुषाभिश्चार्थिता भृशम् ।
कुन्ती तपोवनरुचिं नात्यजद्देवरानुगा ॥ १५.३३ ॥
अथाग्रे सहितः कुन्त्या धृतराष्ट्रः सहानुजः ।
राजर्षिजुष्टं विपिनं विवेश विशदाशयः ॥ १५.३४ ॥
तत्र राजर्षिवर्येण शतयूपेन संगतः ।
जटावल्कलभृच्चक्रे सानुजः सुचिरं तपः ॥ १५.३५ ॥
तं तीव्रनियमक्षामं नारदाद्या महर्षयः ।
कृतकृत्यतया प्राप्तं द्रष्टव्या द्रष्टुमाययुः ॥ १५.३६ ॥
सर्वाभिर्भरतस्त्रीभिः सहितास्ते महारथाः ।
निधाय काननोपान्ते चतुरङ्गे महद्बलम् ॥ १५.३७ ॥
अपनीतसितच्छत्त्रचामराः पादचारिणः ।
तपोवनं प्रविविशुर्धृतराष्ट्रेण सेवितम् ॥ १५.३८ ॥
ते प्रणम्याम्बिकासूनुं जननीं संजयं तथा ।
विषण्णाः प्रययुर्मूर्च्छां स्नायुशेषान्विलोक्य तान् ॥ १५.३९ ॥
धृतराष्ट्रोऽपि राजानं संजयेन निवेदितम् ।
पप्रच्छ कुशलं कोशे पौरे जनपदे तथा ॥ १५.४० ॥
तपोवृद्धिं ततः पृष्ट्वा कुरुवृद्धं युधिष्ठिरः ।
विदुरः क्वेति पप्रच्छ स च पृष्टस्तमब्रवीत् ॥ १५.४१ ॥
वायुभक्षोऽस्थिशेषाङ्गः स्वेच्छाचारी निरम्बरः ।
विदुरोऽस्मिन्वने पुत्र दृश्यते न च दृश्यते ॥ १५.४२ ॥
इत्युक्ते धृतराष्ट्रेण समभ्यायाद्यदृच्छया ।
विदुरो धूलिदिग्धाङ्गो बिल्वमात्रमुखः कृशः ॥ १५.४३ ॥
आश्रमे स जनं दृष्ट्वा पलायनपरोऽभवत् ।
तमन्वधावदेकाकी साश्रुनेत्रो युधिष्ठिरः ॥ १५.४४ ॥
दृश्यः क्वचिददृश्यश्च विदुरस्तमनादरात् ।
अपश्यद्वीतरागाणां तृणे राज्ञि च तुल्यता ॥ १५.४५ ॥
स वृक्षमूलमाश्रित्य ज्ञानदेहो ज्वलन्निव ।
उक्तो युधिष्ठिरोऽस्मीति राज्ञा संभाषणार्थिना ॥ १५.४६ ॥
निर्निमेषेक्षणो मौनी तं वीक्ष्य क्षपिताशयः ।
नेत्रपाणेन्द्रियैः क्षिप्रं तमेव सहसाविशत् ॥ १५.४७ ॥
देहं निर्मोकवत्त्यक्त्वा प्रविष्टे विदुरे नृपः ।
विहाय राजसं भावं बभूव ज्ञाननिर्भरः ॥ १५.४८ ॥
दग्धुमभ्युद्यतं क्षत्तुरथ तत्र कलेवरम् ।
युधिष्ठिरं व्योमचरा ज्ञानसिद्धा न्यवारयन् ॥ १५.४९ ॥
ततः समेत्य तत्सर्वं धृतराष्ट्राय भूपतिः ।
निवेद्य तस्थौ निर्दुःखः सानुजो मातुरन्तिके ॥ १५.५० ॥
फलाहारः क्षमाशायी क्षपयित्वाथ शर्वरीम् ।
प्रातर्दत्वा यथाकामं द्विजेभ्यो रत्नकाञ्चनम् ॥ १५.५१ ॥
राजर्षिभिः सहासीनं प्रणम्य कुरुपुंगवम् ।
ददर्श तेजसां राशिं प्राप्तं सत्यवतीसुतम् ॥ १५.५२ ॥
व्यासोऽपि धर्मतनयं संभाव्य रचिताञ्जलिम् ।
यतिधर्मेण तां सिद्धिं श्लाघ्यां क्षत्तुरपूजयत् ॥ १५.५३ ॥
अर्थितः क्षत्रवृद्धेन गान्धार्या पृथया तया ।
परलोकगतान्सर्वान्भूपालान्सह कौरवैः ॥ १५.५४ ॥
अदर्शयत्कुरुस्त्रीणां व्यासः स्वर्गनदीजले ।
साध्व्योऽपि ताननुययुर्विमानैस्त्यक्तविग्रहाः ॥ १५.५५ ॥
अथ धर्मात्मजो राजा तत्र सप्तर्षिसेविते ।
मासं स्थित्वा पुरं प्रायात्कुरुवृद्धेन चोदितः ॥ १५.५६ ॥
रथाश्वकुञ्जरानीकैः स गत्वा निःश्वसन्मुहुः ।
अकाम इव कृच्छ्रेण राजधानीं समाविशत् ॥ १५.५७ ॥
अथ धर्मेण वसुधां धर्मराजस्य शासतः ।
याति काले सुरमुनिर्नारदः समुपाययौ ॥ १५.५८ ॥
धृतराष्ट्रकथां पृष्टः पूजितः स महीभुजा ।
उवाच राजन्यातोऽसौ राजर्षिः परमां गतिम् ॥ १५.५९ ॥
संवत्सरं वायुभक्षो वर्षं च त्यक्तभोजनः ।
कन्दुकाकारवदनो दुर्लक्ष्यः सोऽभवत्कृशः ॥ १५.६० ॥
ततः स वह्नींस्तत्याज मुमुक्षुर्निष्क्रियो मुनिः ।
कानने तेऽप्यवर्तन्त जरत्तरुनिरन्तरे ॥ १५.६१ ॥
तत्र प्रियासखो राजा कुन्त्या सह महामतिः ।
वनं प्रज्वलितं दृष्ट्वा समाधि विदधे परम् ॥ १५.६२ ॥
अव्याप्ता व्यापकाः स्वच्छाः स्वयं गलितवृत्तयः ।
स्फुचब्रह्माण्डविवरास्ते धाम परमं ययुः ॥ १५.६३ ॥
एवं शमाङ्कुरस्तेषां सर्वसंन्यासपल्लवः ।
स्वान्तप्रकाशकुसुमः फलितो ज्ञानपादपः ॥ १५.६४ ॥
ततो दावाग्निना तेन दग्धास्ते बन्धुना यथा ।
संजयस्तु व्रतक्षामो यातस्तुहिनभूधरम् ॥ १५.६५ ॥
श्रुत्वैतत्पाण्डुतनयो व्याप्तः शोककृषाणु(शानु)ना ।
शुशोच सानुजः कुन्तीं ससुतं च कुरूद्वहम् ॥ १५.६६ ॥
ततः प्रयाते देवर्षौ राजा कृत्वा जलक्रियाम् ।
तानेवोद्दिश्य विपुलं ददौ द्रविणमक्षयम् ॥ १५.६७ ॥
सोऽथ धैर्यं समालम्ब्य शोकमुत्सार्य देहजम् ।
संसारासारतां ध्यायन्विवेकशरणोऽभवत् ॥ १५.६८ ॥
भावाः स्वभावविशरारव एव तेषु सक्तं मनो न विरहे सहतेऽनुतापम् ।
तत्सर्वथा प्रियवियोगविषाहतानां शान्त्यै सुधा तनुभृतां विपुलो विवेकः ॥ १५.६९ ॥
- इति श्रीक्षेमेन्द्रविरचितायां भारतमञ्जर्यामाश्रमवासिकं पर्व