कथासरित्सागरः/लम्बकः ५/तरङ्गः २
अत्रान्तरे द्विजयुवा शक्तिदेवः स दुर्मनाः ।
अचिन्तयदभिप्रेतराजकन्यावमानितः ।। १
मयेह मिथ्याकनकपुरीदर्शनवादिना ।
विमानना परं प्राप्ता न त्वसौ राजकन्यका ।। २
तदेतत्प्राप्तये तावद्भ्रमणीया मही मया ।
यावत्सा नगरी दृष्टा प्राणैर्वापि गतं मम ।। ३
तां हि दृष्ट्वा पुरीमेत्य तत्पणोपार्जितां न चेत् ।
लभेय राजतनयामेनां किं जीवितेन तत् ।। ४
एवं कृतप्रतिज्ञः सन्वर्धमानपुरात्ततः ।
दक्षिणां दिशमालम्ब्य स प्रतस्थे तदा द्विजः ।। ५५
क्रमेण गच्छंश्च प्राप सोऽथ विन्ध्यमहाटवीम् ।
विवेश च निजां वाञ्छामिव तां गहनायताम् ।। ६
तस्यां च मारुताधूतमृदुपादपपल्लवैः ।
वीजयन्त्यामिवात्मानं तप्तमर्ककरोत्करैः ।। '
भूरिचौरपराभूतिदुःखादिव दिवानिशम् ।
क्रोशन्त्यां तीव्रसिंहाविहन्यमानमृगारवैः ।। ८
स्वच्छन्दीच्छलदुद्दाममहामरुमरीचिभिः ।
जिगीषन्त्यामिवात्युग्राण्यपि तेजांसि भास्वतः ।। ९
जलसंगतिहीनायामप्यहो सुलभापदि ।
सततोल्लङ्घ्यमानायामपि दूरीभवद्भुवि ।। १०
दिवसैर्दूरमध्वानमतिक्रम्य ददर्श सः ।
एकान्ते शीतलस्वच्छसलिलं सुमहत्सरः ।। ११
पुण्डरीकोच्छ्रितच्छत्त्रं प्रोल्लसद्धंसचामरम् ।
कुर्वाणमिव सर्वेषां सरसामधिराजताम् ।। १२
तस्मिन्स्नानादि कृत्वा च तत्पार्श्वे पुनरुत्तरे ।
अपश्यदाश्रमपदं सफलस्निग्धपादपम् ।। १३
तत्राश्वत्थतरोर्मूले निषण्णं तापसैर्वृतम् ।
स सूर्यतपसं नाम स्थविरं मुनिमैक्षत ।। १४
स्ववयोब्दशतग्रन्थिसंख्ययेवाक्षमालया ।
जराधवलकर्णाग्रसंश्रयिण्या विराजितम् ।। १५
प्रणामपूर्वकं तं च मुनिमभ्याजगाम सः ।
तेनाप्यतिथिसत्कारैर्मुनिना सोऽभ्यनन्द्यत ।। १६
अपृच्छ्यत च तेनैव संविभज्य फलादिभिः ।
कुतः प्राप्तोऽसि गन्तासि क्व च भद्रोच्यतामिति ।। १७
वर्धमानपुरात्तावद्भगवन्नहमागतः ।
गन्तुं प्रवृत्तः कनकपुरीमस्मि प्रतिज्ञया ।। १८
न जाने क्व भवेत्सा तु भगवान्वक्तु वेत्ति चेत् ।
इति तं शक्तिदेवोऽपि स प्रह्वो मुनिमभ्यधात् ।। १९
वत्स वर्षशतान्यष्टौ ममाश्रमपदे त्विह ।
अतिक्रान्तानि न च सा श्रुतापि नगरी मया ।। २०
इति तेनापि मुनिना गदितः स विषादवान् ।
पुनरेवाब्रवीत्तर्हि मृतोऽस्मि क्ष्मां भ्रमन्निह ।। २१
ततः क्रमेण ज्ञातार्थः स मुनिस्तमभाषत ।
यदि ते निश्चयस्तर्हि यदहं वच्मि तत्कुरु ।। २२
अस्ति काम्पिल्यविषयो योजनानां शतेष्वितः ।
त्रिषु तत्रोत्तराख्यश्च गिरिस्तत्रापि चाश्रमः ।। २३
तत्रार्योऽस्ति मम भ्राता ज्येष्ठो दीर्घतपा इति ।
तत्पार्श्वं व्रज जानीयात्स वृद्धो जातु तां पुरीम् ।। २४
एतच्छ्रुत्वा तथेत्युक्त्वा जातास्थ तत्र तां निशाम् ।
नीत्वा प्रतस्थे स प्रातः शक्तिदेवो द्रुतं ततः ।। २५
क्लेशातिक्रान्तकान्तारशतश्चासाद्य तं चिरात् ।
काम्पिल्यविषयं तस्मिन्नारुरोहोत्तरे गिरौ ।। २६
तत्र तं दीर्घतपसं मुनिमाश्रमवर्तिनम् ।
दृष्ट्वा प्रणम्य च प्रीतः कृतातिथ्यमुपाययौ ।। २७
व्यजिज्ञपच्च कनकपुरीं राजसुतोदिताम् ।
प्रस्थितोऽहं न जानामि भगवन्क्वास्ति सा पुरी ।। २८
सा च मेऽवश्यगन्तव्या ततस्तदुपलब्धये ।
ऋषिणा सूर्यतपसा प्रेषितोऽस्मि तवान्तिकम् ।। २९
इत्युक्तवन्तं तं शक्तिदेवं सोऽप्यब्रवीन्मुनिः ।
इयता वयसा पुत्र पुरी साद्य श्रुता मया ।। ३०
देशान्तरागतैः कैः कैर्जातः परिचयो न मे ।
न च तां श्रुतवानस्मि दूरे तद्दर्शनं पुनः ।। ३१
जानाम्यहं च नियतं दवीयसि तया क्वचित् ।
भाव्यं द्वीपान्तरे वत्स तत्रोपायं च वच्मि ते ।। ३२
अस्ति वारिनिधेर्मध्ये द्वीपमुत्स्थलसंज्ञकम् ।
तत्र सत्यव्रताख्योऽस्ति निषादाधिपतिर्धनी ।। ३३
तस्य द्वीपान्तरेष्वस्ति सर्वेष्वपि गतागतम् ।
तेन सा नगरी जातु भवेद्दृष्टा श्रुतापि वा ।। ३४
तस्मात्प्रयाहि जलधेरुपकण्ठप्रतिष्ठितम् ।
नगरं प्रथमं तावद्विटङ्कपुरसंज्ञकम् ।। ३५
ततः केनापि वणिजा समं प्रवहणेन तत् ।
निषादस्यास्पदं गच्छ द्वीपं तस्येष्टसिद्धये ।। ३६
इत्युक्तस्तेन मुनिना शक्तिदेवः स तत्क्षणम् ।
तथेत्युक्त्वा तमामन्त्र्य प्रयाति स्म तदाश्रमात् ।। ३७
कालेन प्राप्य चोल्लङ्घ्य देशान्क्रोशान्वहंश्च सः ।
वारिधेस्तीरतिलकं तद्विटङ्कपुरं परम् ।। ३८
तस्मिन्समुद्रदत्ताख्यमुत्स्थलद्वीपयायिनम् ।
अन्विष्य वणिजं तेन सह सख्यं चकार सः ।। ३९
तदीयं यानपात्रं च समं तेनाधिरुह्य सः ।
तत्प्रीतिपूर्णपाथेयः प्रतस्थेऽम्बुधिवर्त्मना ।। ४०
ततोऽल्पदेशे गन्तव्ये समुत्तस्थावशङ्कितम् ।
कालो विद्युल्लताजिह्वो गर्जन्पर्जन्यराक्षसः ।। ४१
लघूनुन्नमयन्भावान्गुरूनप्यवपातयन् ।
ववौ विधेरिवारम्भः प्रचण्डश्च प्रभञ्जनः ।। ४२
वाताहताश्च जलधेरुदतिष्ठन्महोर्मयः ।
आश्रयाभिभवक्रोधादिव शैलाः सपक्षकाः ।। ४३
ययौ च तत्प्रवहणं क्षणमूर्ध्वमधः क्षणम् ।
उच्छ्रायपातपर्यायं दर्शयद्धनिनामिव ।। ४४
क्षणान्तरे च वणिजामाक्रन्दैस्तीव्रपूरितम् ।
भरादिव तदुत्पत्य वहनं समभज्यत ।। ०१
भग्ने च तस्मिंस्तत्स्वामी स वणिक्पतितोऽम्बुधौ ।
तीर्णश्च फलकारूढः प्राप्यान्यद्वहनं चिरात् ।। ४६
शक्तिदेवं पतन्तं तु तं व्यात्तमुखकंदरः ।
अपरिक्षतसर्वाङ्गं महामत्स्यो निगीर्णवान् ।। ४७
स च मत्स्योऽब्धिमध्येन तत्कालं स्वेच्छया चरन् ।
उत्स्थलद्वीपनिकटं जगाम विधियोगतः ।। ४८
तत्र तस्यैव कैवर्तपतेः सत्यव्रतस्य सः ।
शफरग्राहिभिर्भृत्यैः प्राप्य दैवादगृह्यत ।। ४९
ते च तं सुमहाकायं निन्युराकृष्य कौतुकात् ।
तदैव धीवरास्तस्य निजस्य स्वामिनोऽन्तिकम् ।। ५०
सोऽपि तं तादृशं दृष्ट्वा तैरेव सकुतूहलः ।
पाठीनं पाटयामास भृत्यैः सत्यव्रतो निजैः ।। ५१
पाटितस्योदराज्जीवञ्शक्तिदेवोऽथ तस्य सः ।
अनुभूतापराश्चर्यगर्भवासो विनिर्ययौ ।। ५२
निर्यातं च कृतस्वस्तिकारं तं च सविस्मयः ।
युवानं वीक्ष्य पप्रच्छ दाशः सत्यव्रतस्ततः ।। ५३
कस्त्वं कथं कुतश्चैषा शफरोदरशायिता ।
ब्रह्मंस्त्वयाप्ता कोऽयं ते वृत्तान्तोऽत्यन्तमद्भुतः ।। ५४
तच्छ्रुत्वा शक्तिदेवस्तं दाशेन्द्रं प्रत्यभाषत ।
ब्राह्मणः शक्तिदेवाख्यो वर्धमानपुरादहम् ।। ५५
अवश्यगम्या कनकपुरी च नगरी मया ।
अजानानश्च तां दूराद्भ्रान्तोऽस्मि सुचिरं भुवम् ।। ५६
ततो दीर्घतपोवाक्यात्संभाव्य द्वीपगां च ताम् ।
तज्ज्ञप्तये दाशपतेरुत्स्थलद्वीपवासिनः ।। ५७
पार्श्वं सत्यव्रतस्याहं गच्छन्वहनभङ्गतः ।
मग्नोऽम्बुधौ निगीर्णोऽहं मत्स्येन प्रापितोऽधुना ।। ५८
इत्युक्तवन्तं तं शक्तिदेवं सत्यव्रतोऽब्रवीत् ।
सत्यव्रतोऽहमेवैतद्द्वीपं तच्चेदमेव ते ।। ५९
किं तु दृष्टा बहुद्वीपदृश्वनापि न सा मया ।
नगरी त्वदभिप्रेता द्वीपान्तेषु श्रुता पुनः ।। ६०
इत्युक्त्वा शक्तिदेवं च विषण्णं वीक्ष्य तत्क्षणम् ।
पुनरभ्यागतप्रीत्या तं स सत्यव्रतोऽभ्यधात् ।। ६१
ब्रह्मन्मा गा विषादं त्वमिहैवाद्य निशां वस ।
प्रातः कंचिदुपायं ते विधास्यामीष्टसिद्धये ।। ६२
इत्याश्वास्य स तेनैव दाशेन प्रहितस्ततः ।
सुलभातिथिसत्कारं द्विजो विप्रमठं ययौ ।। ६३
तत्र तद्वासिनैकेन कृताहारो द्विजन्मना ।
विष्णुदत्ताभिधानेन सह चक्रे कथाक्रमम् ।। ६४
तत्प्रसङ्गाच्च तेनैव पृष्टस्तस्मै समासतः ।
निजं देशं कुलं कृत्स्नं वृत्तान्तं च शशंस सः ।। ६५
तद्बुद्ध्वा परिरभ्यैनं विष्णुदत्तः स तत्क्षणम् ।
बभाषे हर्षबाष्पाम्बुघर्घराक्षरजर्जरम् ।। ६६
दिष्ट्या मातुलपुत्रस्त्वमेकदेशभवश्च मे ।
अहं च बाल्य एव प्राक्तस्माद्देशादिहागतः ।। ६७
तदिहैवास्व नचिरात्साधयिष्यति चात्र ते ।
इष्टं द्वीपान्तरागच्छद्वणिक्कर्णपरम्परा ।। ६८
इत्युक्त्वान्वयमावेद्य विष्णुदत्तो यथोचितैः ।
तं शक्तिदेवं तत्कालमुपचारैरुपाचरत् ।। ६९
शक्तिदेवोऽपि संप्राप विस्मृताध्वक्लमो मुदम् ।
विदेशे बन्धुलाभो हि मरावमृतनिर्झरः ।। ७०
अमंस्त च निजाभीष्टसिद्धिमभ्यर्णवर्तिनीम् ।
अन्तरापाति हि श्रेयः कार्यसंपत्तिसूचकम् ।। ७१
ततो रात्रावनिद्रस्य शयनीये निषेदुषः ।
अभिवाञ्छितसंप्राप्तिगतचित्तस्य तस्य सः ।। ७२
शक्तिदेवस्य पार्श्वस्थो विष्णुदत्तः समर्थनम् ।
विनोदपूर्वकं कुर्वन्कथां कथितवानिमाम् ।। ७३
पुराभूत्सुमहाविप्रो गोविन्दस्वामिसंज्ञकः ।
महाग्रहारे कालिन्द्या उपकण्ठनिवेशिनि ।। ७४
जायेते स्म च तस्य द्वौ सदृशौ गुणशालिनः ।
अशोकदत्तो विजयदत्तश्चेति सुतौ क्रमात् ।। ७५
कालेन तत्र वसतां तेषामजनि दारुणम् ।
दुर्भिक्षं तेन गोविन्दस्वामी भार्यामुवाच सः ।। ७६
अयं दुर्भिक्षदोषेण देशस्तावद्विनाशितः ।
तन्न शक्नोम्यहं द्रष्टुं सुहृद्बान्धवदुर्गतिम् ।। ७७
दीयते च कियत्कस्य तस्मादन्नं यदस्ति नः ।
तद्दत्त्वा मित्त्रबन्धुभ्यो व्रजामो विषयादितः ।। ७८
वाराणसीं च वासाय सकुटुम्बाः श्रयामहे ।
इत्युक्त्या सोऽनुमतो भार्ययान्नमदान्निजम् ।। ७९
सदारसुतभृत्यश्च स देशात्प्रययौ ततः ।
उत्सहन्ते नहि द्रष्टुमुत्तमाः स्वजनापदम् ।। ८०
गच्छंश्च मार्गे जटिलं भस्मपाण्डुं कपालिनम् ।
सार्धचन्द्रमिवेशानं महाव्रतिनमैक्षत ।। ८१
उपेत्य ज्ञानिनं तं च नत्वा स्नेहेन पुत्रयोः ।
शुभाशुभं स पप्रच्छ सोऽथ योगी जगाद तम् ।। ८२
पुत्रौ ते भाविकल्याणौ किं त्वेतेन कनीयसा ।
ब्रह्मन्विजयदत्तेन वियोगस्ते भविष्यति ।। ८३
ततोऽस्याशोकदत्तस्य द्वितीयस्य प्रभावतः ।
एतेन सह युष्माकं भूयो भावी समागमः ।। ८४
इत्युक्तस्तेन गोविन्दस्वामी स ज्ञानिना तदा ।
सुखदुःखाद्भुताक्रान्तस्तमामन्त्र्य ततो ययौ ।। ०५
प्राप्य वाराणसीं तां च तद्बाह्ये चण्डिकागृहे ।
दिनं तत्रातिचक्राम देवी पूजादिकर्मणा ।। ८६
सायं च तत्रैव बहिः सकुटुम्बस्तरोस्तले ।
समावसत्कार्पटिकैः सोऽन्यदेशागतैः सह ।। ८७
रात्रौ च तत्र सुप्तेषु सर्वेष्वधिगताध्वसु ।
श्रान्तेष्वास्तीर्णपर्णादिपान्थशय्यानिषादिषु ।।
तदीयस्य विबुद्धस्य तस्याकस्मात्कनीयसः ।
सूनोर्विजयदत्तस्य महाञ्शीतज्वरोऽजनि ।। ८९
स तेन सहसा भाविबन्धुविश्लेषहेतुना ।
भयेनेव ज्वरेणाभूदूर्ध्वरोमा सवेपथुः ।। ९०
शीतार्तश्च प्रबोध्यैव पितरं स्वमुवाच तम् ।
बाधते तात तीव्रो मामिह शीतज्वरोऽधुना ।। ९१
तन्मे समिधमानीय शीतघ्नं ज्वलयानलम् ।
नान्यथा मम शान्तिः स्यान्नयेयं न च यामिनीम् ।। ९२
तच्छ्रुत्वा तं स गोविन्दस्वामी तद्वेदनाकुलः ।
तावत्कुतोऽधुना वह्निर्वत्सेति च समभ्यधात् ।। ९३
नन्वयं निकटे तात दृश्यतेऽग्निर्ज्वलन्नितः ।
भूयिष्ठेऽत्रैव तद्गत्वा किं नाङ्गं तापयाम्यहम् ।। ९४
तस्मात्सकम्पं हस्ते मां गृहीत्वा प्रापय द्रुतम् ।
इत्युक्तस्तेन पुत्रेण पुनर्विप्रोऽपि सोऽब्रवीत् ।। ९५
श्मशानमेतदेषा च चिता ज्वलति तत्कथम् ।
गम्यतेऽत्र पिशाचादिभीषणे त्वं हि बालकः ।। ९६
एतच्छ्रुत्वा पितुर्वाक्यं वत्सलस्य विहस्य सः ।
वीरो विजयदत्तस्तं सावष्टम्भमभाषत ।। ९७
किं पिशाचादिभिस्तात वराकैः क्रियते मम ।
किमल्पसत्त्वः कोऽप्यस्मि तदशङ्कं नयात्र माम् ।। ९८
इत्याग्रहाद्वदन्तं तं स पिता तत्र नीतवान् ।
सोऽप्यङ्गं तापयन्बालश्चितामुपससर्प ताम् ।। ९९
ज्वलन्तीमनलज्वालाधूमव्याकुलमूर्धजाम् ।
नृमांसग्राहिणीं साक्षादिव रक्षोधिदेवताम् ।।
क्षणात्तत्र समाश्वस्य सोऽर्भकः पितरं च तम् ।
चितान्तर्दृश्यते वृत्तं किमेतदिति पृष्टवान् ।।
कपालं मानुषस्यैतच्चितायां पुत्र दह्यते ।
इति तं प्रत्यवादीच्च सोऽपि पार्श्वस्थितः पिता ।। १०२
ततः स्वसाहसेनेव दीप्ताग्रेण निहत्य तम् ।
कपालं स्फोटयामास काष्ठेनैकेन सोऽर्भकः ।। १०३
तेनोच्चैः प्रसृता तस्मान्मुखे तस्यापतद्वसा ।
श्मशानवह्निना नक्तंचरीसिद्धिरिवार्पिता ।। १०४
तदास्वादेन बालश्च संपन्नोऽभूत्स राक्षसः ।
ऊर्ध्वकेशः शिखोत्खातखड्गो दंष्ट्राविशङ्कटः ।। १०५
आकृष्य च कपालं तद्वसां पीत्वा लिलेह सः ।
अस्थिलग्नानलज्वालालोलया निजजिह्वया ।। १०६
ततस्त्यक्तकपालः सन्पितरं निजमेव तम् ।
गोविन्दस्वामिनं हन्तुमुद्यतासिरियेष सः ।। १०७
कपालस्फोट भो देव न हन्तव्यः पिता तव ।
इत एहीति तत्कालं श्मशानादुदभूद्वचः ।।
तच्छ्रुत्वा नाम लब्ध्वा च कपालस्फोट इत्यदः ।
स बटुः पितरं मुक्त्वा रक्षोभूतस्तिरोदधे ।। १०९
तत्पिता सोऽपि गोविन्दस्वामी हा पुत्र हा गुणिन् ।
हा हा विजयदत्तेति मुक्ताक्रन्दस्ततो ययौ ।। ११०
एत्य चण्डीगृहं तच्च प्रातः पत्न्यै सुताय च ।
ज्यायसेऽशोकदत्ताय यथावृत्तं शशंस .सः ।। १११
ततस्ताभ्यां सहानभ्रविद्युदापातदारुणम् ।
यथा शोकानलावेशमाजगाम स तापसः ।। ११२
यथा वाराणसीसंस्थो देवीसंदर्शनागतः ।
तत्रोपेत्य जनोऽप्यन्यो ययौ तत्समदुःखताम् ।। ११३
तावच्च देवीपूजार्थमागत्यैको महावणिक् ।
अपश्यदत्र गोविन्दस्वामिनं तं तथाविधम् ।। ११४
समुद्रदत्तनामासावुपेत्याश्वास्य तं द्विजम् ।
तदैव स्वगृहं साधुर्निनाय सपरिच्छदम् ।। ११५
स्नानादिनोपचारेण तत्र चैनमुपाचरत् ।
निसर्गो ह्येष महतां यदापन्नानुकम्पनम् ।। ११६
सोऽपि जग्राह गोविन्दस्वामी पत्न्या समं धृतिम् ।
महाव्रतिवचः श्रुत्वा जातास्थः सुतसंगमे ।। ११७
ततः प्रभृति चैतस्या वाराणस्यामुवास सः ।
अभ्यर्थितो महाढ्यस्य तस्यैव वणिजो गृहे ।। ११८
तत्रैवाधीतविद्योऽस्य स सुतः प्राप्तयौवनः ।
द्वितीयोऽशोकदत्ताख्यो बाहुयुद्धमशिक्षत ।। ११९
क्रमेण च ययौ तत्र प्रकर्षं स तथा यथा ।
अजीयत न केनापि प्रतिमल्लेन भूतले ।। १२०
एकदा देवयात्रायां तत्र मल्लसमागमे ।
आगादेको महामल्लः ख्यातिमान्दक्षिणापथात् ।। १२१
तेनात्र निखिला मल्ला राज्ञो वाराणसीपतेः ।
प्रतापमुकुटाख्यस्य पुरतोऽन्ये पराजिताः ।। १२२
ततः स राजा मल्लस्य युद्धे तस्य समादिशत् ।
आनाय्याशोकदत्तं तं श्रुतं तस्माद्वणिग्वरात् ।। १२३
सोऽपि मल्लो भुजं हत्वा हस्तेनारभताहवम् ।
मल्लं चाशोकदत्तस्तु भुजं हत्वा न्यपातयत् ।। १२४
ततस्तत्र महामल्लनिपातोत्थितशब्दया ।
युद्धभूम्यापि संतुष्य साधुवाद इवोदिते ।। १२५
स राजाशोकदत्तं तं तुष्टो रत्नैरपूरयत् ।
चकार चात्मनः पार्श्ववर्तिनं दृष्टविक्रमम् ।। १२६
सोऽपि राज्ञः प्रियो भूत्वा दिनैः प्राप परां श्रियम् ।
शेवधिः शूरविद्यस्य विशेषज्ञो विशांपतिः ।। १२७
सोऽथ जातु ययौ राजा चतुर्दश्यां बहिः पुरे ।
सुप्रतिष्ठापितं दूरे देवमर्चयितुं शिवम् ।। १२८
कृतार्चनस्ततो नक्तं श्मशानस्यान्तिकेन सः ।
आगच्छन्नशृणोदेतां तन्मध्यादुद्गता गिरम् ।। १२९
अहं दण्डाधिपेनेह मिथ्या वध्यानुकीर्तनात् ।
द्वेषेण विद्धः शूलायां तृतीयं दिवसं प्रभो ।। १३०
अद्यापि च न निर्यान्ति प्राणा मे पापकर्मणः ।
तद्देव तृषितोऽत्यर्थमहं दापय मे जलम् ।। १३१
तच्छ्रुत्वा कृपया राजा स पार्श्वस्थमुवाच तम् ।
अशोकदत्तमस्याम्भः प्रहिणोतु भवानिति ।। १३२
कोऽत्र रात्रौ व्रजेद्देव तद्गच्छाम्यहमात्मना ।
इत्युक्त्वाशोकदत्तः स गृहीत्वाम्भस्ततो ययौ ।। १३३
याते च स्वपुरीं राज्ञि स वीरो गहनान्तरम् ।
महत्तरेण तमसा सर्वतोऽन्तरधिष्ठितम् ।। १३४
शिवावकीर्णपिशितप्रत्तसंध्यामहाबलि ।
क्वचित्क्वचिच्चिताज्योतिर्दीप्रदीपप्रकाशितम् ।। १३५५
लसदुत्तालवेतालतालवाद्यं विवेश तत् ।
श्मशानं कृष्णरजनीनिवासभवनोपमम् ।। १३६
केनाम्भो याचितं भूपादित्युच्चैस्तत्र स ब्रुवन् ।
मया याचितमित्येवमशृणोद्वाचमेकतः ।। १३७
गत्वा तदनुसारेण निकटस्थं चितानलम् ।
ददर्श तत्र शूलाग्रे विद्धं कंचित्स पूरुषम् ।। १३८
अधश्च तस्य रुदतीं सदलंकारभूषिताम् ।
अदृष्टपूर्वां सर्वाङ्गसुन्दरीं स्त्रियमैक्षत ।। १३९
कृप्णपक्षपरिक्षीणे गतेऽस्तं रजनीपतौ ।
चितारोहाय तद्रश्मिरम्यां रात्रिमिवागताम् ।। १४०
का त्वमम्ब कथं चेह रुदत्येवमवस्थिता ।
इति पृष्टा च सा तेन योषिदेवं तमब्रवीत् ।। १४१
अस्याहं शूलविद्धस्य भार्या विगतलक्षणा ।
निश्चिताशा स्थितास्मीह चितारोहे सहामुना ।। १४२
कंचित्कालं प्रतीक्षे च प्राणानामस्य निष्क्रमम् ।
तृतीयेऽह्नि गतेऽप्यद्य यान्त्येतस्य हि नासवः ।। १४३
याचते च मुहुस्तोयमानीतं च मयेह तत् ।
किं त्वहं नोन्नते शूले प्राप्नोम्यस्य मुखं सखे ।। १४४
इति तस्या वचः श्रुत्वा स प्रवीरोऽप्युवाच ताम् ।
इदं त्वस्य नृपेणापि हस्ते मे प्रेषितं जलम् ।। १४५
तन्मे पृष्ठे पदं दत्त्वा देह्येतस्यैतदानने ।
न परस्पर्शमात्रं हि स्त्रीणामापदि दूषणम् ।। १४६
एतच्छ्रुत्वा तथेत्यात्तजला दत्त्वा पदद्वयम् ।
शूलमूलावनम्रस्य पृष्ठं तस्यारुरोह सा ।। १४७
क्षणाद्भुवि स्वपृष्ठे च रक्तबिन्दुष्वशङ्कितम् ।
पतत्सु मुखमुन्नम्य स वीरो यावदीक्षते ।। १४८
तावत्स्त्रियमपश्यत्तां छित्त्वा छुरिकया मुहुः ।
खादन्तीं तस्य मांसानि पुंसः शूलाग्रवर्तिनः ।। १४९
ततस्तां विकृतिं मत्वा क्रोधादाकृष्य स क्षितौ ।
आस्फोटयिष्यञ्जग्राह पादे रणितनूपुरे ।। १५०
सापि तं तरसा पादमाक्षिप्यैव स्वमायया ।
क्षिप्रं गगनमुत्पत्य जगाम क्वाप्यदर्शनम् ।। १५१
तस्य चाशोकदत्तस्य तत्पादान्मणिनूपुरम् ।
तस्मादाकर्षणस्रस्तमवतस्थे करान्तरे ।। १५२
ततस्तां पेशलामादावधःकर्त्री च मध्यतः ।
अन्ते विकारघोरां च दुर्जनैरिव संगतिम् ।। १५३
नष्टां विचिन्तयन्पश्यन्हस्ते दिव्यं च नूपुरम् ।
सविस्मयः साभितापः सहर्षश्च बभूव सः ।। १५४
ततः श्मशानतस्तस्मात्स जगामात्तनूपुरः ।
निजगेहं प्रभाते च स्नातो राजकुलं ययौ ।। १५५
किं तस्य शूलविद्धस्य दत्तं वारीति पृच्छते ।
राज्ञे स च तथेत्युक्त्वा तं नूपुरमुपानयत् ।। १५६
एतत्कुत इति स्वैरं पृष्टस्तेन स भूभृता ।
तस्मै स्वरात्रिवृत्तान्तं शशंसाद्भुतभीषणम् ।। १५७
ततश्चानन्यसामान्यं सत्त्वं तस्यावधार्य सः ।
तुष्टोऽप्यन्यगुणोत्कर्षात्तुतोष सुतरां नृपः ।। १५८
गृहीत्वा नृपुरं तं च गत्वा देव्यै ददौ स्वयम् ।
हृष्टस्तत्प्राप्तिवृत्तान्तं तस्य च समवर्णयत् ।। १५९
सा तद्बुद्ध्वा च दृष्ट्वा च तं दिव्यं मणिनूपुरम् ।
अशोकदत्तश्लाघैकतत्परा मुमुदे रहः ।। १६०
ततो जगाद तां राजा देवि जात्येव विद्यया ।
सत्येनेव च रूपेण महतामप्ययं महान् ।। १६१
अशोकदत्तो भव्याया भर्ता च दुहितुर्यदि ।
भवेन्मदनलेखायास्तद्भद्रमिति मे मतिः ।। १६२
वरस्यामी गुणाः प्रेक्ष्या न लक्ष्मीः क्षणभङ्गिनी ।
तदेतस्मै प्रवीराय ददाम्येतां सुतामहम् ।। १६३
इति भर्तुर्वचः श्रुत्वा देवी सा सादरावदत् ।
युक्तमेतदसौ ह्यस्या युवा भर्तानुरूपकः ।। १६४
सा च तेन मधूद्यानदृष्टेन हृतमानसा ।
शून्याशया दिनेष्वेषु न शृणोति न पश्यति ।। १६५
तत्सखीतश्च तद्बुद्ध्वा सचिन्ताहं निशाक्षये ।
सुप्ता जाने स्त्रिया स्वप्ने कयाप्युक्तास्मि दिव्यया ।। १६६
वत्से मदनलेखेयं देयान्यस्मै न कन्यका ।
एषा ह्यशोकदत्तस्य भार्या जन्मान्तरार्जिता ।। १६७
तच्च श्रुत्वा प्रबुध्यैव गत्वा प्रत्यूष एव च ।
स्वयं तत्प्रत्ययाद्वत्सां समाश्वासितवत्यहम् ।। १६८
इदानीं चार्यपुत्रेण स्वयमेव ममोदितम् ।
तस्मात्समेतु तेनासौ वृक्षेणेवार्तवी लता ।। १६९
इत्युक्तः प्रियया प्रीतः स राजा रचितोत्सवः ।
आहूयाशोकदत्ताय तस्मै तां तनयां ददौ ।। १७०
तयोश्च सोऽभूद्राजेन्द्रपुत्रीविप्रेन्द्रपुत्रयोः ।
संगमोऽन्योन्यशोभायै लक्ष्मीविनययोरिव ।। १७१
ततः कदाचिद्राजानं तं देवी वदति स्म सा ।
अशोकदत्तानीतं तदुद्दिश्य मणिनूपुरम् ।। १७२
आर्यपुत्रायमेकाकी नूपुरो न विराजते ।
अनुरूपस्तदेतस्य द्वितीयः परिकल्प्यताम् ।। १७३
तच्छ्रुत्वा हेमकारादीनादिदेश स भूपतिः ।
नूपुरस्यास्य सदृशो द्वितीयः क्रियतामिति ।। १७४
ते तन्निरूप्य जगदुर्नेदृशो देव शक्यते ।
अपरः कर्तुमेतद्धि दिव्यं शिल्पं न मानुषम् ।। १७५
रत्नानीद्दृंशि भूयांसि न भवन्त्येव भूतले ।
तस्मादेष यतः प्राप्तस्तत्रैवान्यो गवेष्यताम् ।। १७६
एतच्छ्रुत्वा सदेवीके विषण्णे राज्ञि तत्क्षणम् ।
अशोकदत्तस्तत्रस्थस्तद्दृष्ट्वा सहसाब्रवीत् ।। १७७
अहमेवानयाम्यस्य द्वितीयं नूपुरस्य ते ।
एवं कृतप्रतिज्ञश्च राज्ञा साहसशङ्किना ।। १७८
स्नेहान्निवार्यमाणोऽपि निश्चयान्न चचाल सः ।
गृहीत्वा नूपुरं तच्च श्मशानं स पुनर्ययौ ।। १७९
निशि कृष्णचतुर्दश्यां यत्रैव तमवाप्तवान् ।
प्रविश्य तत्र च प्राज्यचिताधूममलीमसैः ।। १८०
पाशोपवेष्टितगलस्कन्धोल्लम्बितमानुषैः ।
पादपैरिव रक्षोभिराकीर्णे पितृकानने ।। १८१
अपश्यन्पूर्वदृष्टां तां स्त्रियं तन्नूपुराप्तये ।
उपायमेकं बुबुधे स महामांसविक्रयम् ।। १८२
तरुपाशाद्गृहीत्वाथ शवं बभ्राम तत्र सः ।
विक्रीणानो महामांसं गृह्यतामिति घोषयन् ।। १८३
महासत्त्व गृहीत्वैतदेहि तावन्मया सह ।
इति क्षणाच्च जगदे स दूरादेकया स्त्रिया ।। १८४
तच्छ्रुत्वा स तथैवैतामुपेत्यानुसरन्स्त्रियम् ।
आरात्तरुतले दिव्यरूपां योषितमैक्षत ।। १८५
स्त्रीभिर्वृतामासनस्थां रत्नाभरणभासुराम् ।
असंभाव्यस्थितिं तत्र मरावम्भोजिनीमिव ।। १८६
स्त्रिया तयोपनीतश्च तामुपेत्य तथा स्थिताम् ।
नृमांसमस्मि विक्रीणे गृह्यतामित्युवाच सः ।। १८७
भो महासत्त्व मूल्येन केनैतद्दीयते त्वया ।
इति सापि तदाह स्म दिव्यरूपा किलाङ्गना ।। १८८
ततः स वीरो हस्तस्थं तमेकं मणिनूपुरम् ।
संदर्श्य स्कन्धपृष्ठस्यप्रेतकायो जगाद ताम् ।। १८९
यो ददात्यस्य सदृशं द्वितीयं नूपुरस्य मे ।
मांसं तस्य ददाम्येतदस्त्वसौ यदि गृह्यताम् ।। १९०
तच्छ्रुत्वा साप्यवादीत्तमस्त्यन्यो नूपुरो मम ।
असौ मदीय एवैको नूपुरो हि हृतस्त्वया ।। १९१
सैवाहं या त्वया दृष्टा शूलविद्धस्य पार्श्वतः ।
कृतान्यरूपा भवता परिज्ञातास्मि नाधुना ।। १९२
तत्किं मांसेन यदहं वच्मि ते तत्करोषि चेत् ।
तद्द्वितीयं ददाम्यस्य तुल्यं तुभ्यं स्वनूपुरम् ।। १९३
इत्युक्तः स तदा वीरः प्रतिपद्य तदब्रवीत् ।
यत्त्वं वदसि तत्सर्वं करोम्येव क्षणादिति ।। १९४
ततस्तस्मै जगादैवमा मूलात्सा मनीषितम् ।
अस्ति भद्र त्रिघण्टाख्यं हिमवच्छिखरे पुरम् ।। १९५
तत्रासील्लम्बजिह्वाख्यः प्रवीरो राक्षसाधिपः ।
तस्य विद्युच्छिखा नाम भार्याहं कामरूपिणी ।। १९६
स चैकस्यां सुतायां मे जातायां दैवतः पतिः ।
प्रभोः कपालस्फोटस्य पुरतो निहतो रणे ।। १९७
ततो निजपुरं तन्मे प्रभुणा तेन तुष्यता ।
प्रदत्तं तेन च सुखं स्थितास्मि ससुताधुना ।। १९८
सा च मद्दुहितेदानीमारूढा नवयौवनम् ।
तत्प्रवीरवरप्राप्तिचिन्ता च मम मानसम् ।। १९९
अतस्तदा समं राज्ञा यान्तं त्वाममुना पथा ।
दृष्ट्वा नक्तं चतुर्दश्यामिहस्थाहमचिन्तयम् ।। २००
अयं भव्यो युवा वीरो योग्यो मे दुहितुः पतिः ।
तदेतत्प्राप्तये कंचिदुपायं किं न कल्पये ।। २०१
इति संकल्प्य याचित्वा शूलविद्धवचोमिषात् ।
जलं मध्येश्मशानं त्वमानीतोऽभूर्मया मृषा ।। २०२
मायादर्शितरूपादिप्रपञ्चालीकवादिनी ।
विप्रलब्धवती चास्मि तत्र त्वां क्षणमात्रकम् ।। २०३
आकर्षणाय भूयस्ते युक्त्या चैकं स्वनूपुरम् ।
संत्यज्य शृङ्खलापाशमिव याता ततोऽप्यहम् ।। २०४
अद्य चेत्थं मया प्राप्तो भवांस्तद्गृहमेत्य नः ।
भजस्व मे सुतां किं च गृहाणापरनूपुरम् ।। २०५
इत्युक्तः स निशाचर्या तथेत्युक्त्वा तया सह ।
वीरो गगनमार्गेण तत्सिद्ध्या तत्पुरं ययौ ।। २०६
सौवर्णं तदपश्यच्च शृङ्गे हिमवतः पुरम् ।
नभोध्वखेदविश्रान्तमर्कबिम्बमिवाचलम् ।। २०७
रक्षोधिपसुतां तत्र नाम्ना विद्युत्प्रभां स ताम् ।
स्वसाहसमहासिद्धिमिव मूर्तामवाप्तवान् ।। २०८
तया च सह तत्रैव कंचित्कालमुवास सः ।
अशोकदत्तः प्रियया श्वश्रूविभवनिर्वृतः ।। २०९
ततो जगाद तां श्वश्रूं मह्यं तद्देहि नूपुरम् ।
यतः संप्रति गन्तव्या पुरी वाराणसी मया ।। २१०
तत्र ह्येतत्प्रतिज्ञातं स्वयं नरपतेः पुरः ।
एकत्वन्नूपुरस्पर्धिद्वितीयानयनं मया ।। २११
इत्युक्ता तेन सा श्वश्रूर्द्वितीयं तं स्वनूपुरम् ।
तस्मै दत्त्वा पुनश्चैकं सुवर्णकमलं ददौ ।। २१२
प्राप्ताब्जनूपुरस्तस्मात्स पुरान्निर्ययौ ततः ।
अशोकदत्तो वचसा नियम्यागमनं पुनः ।। २१३
तया श्वश्र्वैव चाकाशपथेन पुनरेव तम् ।
श्मशानं प्रापितः सोऽभून्निजसिद्धिप्रभावतः ।। २१४
तरुमूले च तत्रैव स्थित्वा सा तं ततोऽब्रवीत् ।
सदा कृष्णचतुर्दश्यामिह रात्रावुपैम्यहम् ।। २१५
तस्मान्निशि च भूयोऽपि त्वमेष्यसि यदा यदा ।
तदा तदा वटतरोर्मूलात्प्राप्स्यसि मामितः ।। २१६
एतच्छ्रुत्वा तथेत्युक्त्वा तामामन्त्र्य निशाचरीम् ।
अशोकदत्तः स ततो ययौ तावत्पितुर्गृहम् ।। २१७
कनीयः सुतविश्लेषदुःखद्वैगुण्यदायिना ।
तादृशा तत्प्रवासेन पितरौ तत्र दुःखितौ ।। २१८
अतर्कितागतो यावदानन्दयति तत्क्षणात् ।
तावत्स बुद्ध्वा श्वशुरस्तत्रैवास्याययौ नृपः ।। २१९
स तं साहसिकस्पर्शभीतैरिव सकण्टकैः ।
अङ्गैः प्रणतमालिङ्ग्य मुमुदे भूपतिश्चिरम् ।। १२०
ततस्तेन समं राज्ञा विवेश नृपमन्दिरम् ।
अशोकदत्तः स तदा प्रमोदो मूर्तिमानिव ।। २२१
ददौ राज्ञे स संयुक्तं तद्दिव्यं नूपुरद्वयम् ।
कुर्वाणमिव तद्वीर्यस्तुति झणझणारवैः ।। २२२
अर्पयामास तच्चास्मै कान्तं कनकपङ्कजम् ।
रक्षःकोषश्रियो हस्ताल्लीलाम्बुजमिवाहृतम् ।। २२३
पृष्टोऽथ कौतुकात्तेन राज्ञा देवीयुतेन सः ।
अवर्णयद्यथावृत्तं स्वं कर्णानन्ददायि तत् ।। २२४
विचित्रचरितोल्लेखचमत्कारितचेतनम् ।
प्राप्यते किं यशः शुभ्रमनङ्गीकृत्य साहसम् ।। २२५
एवं वदंस्ततस्तेन जामात्रा कृतकृत्यताम् ।
मेने स राजा देवी च प्राप्तनूपुरयुग्मका ।। २२६
उत्सवातोद्यनिर्ह्रादि तदा राजगृहं च तत् ।
अशोकदत्तस्य गुणानुद्गायदिव निर्बभौ ।। २२७
अन्येद्युश्च स राजा तत्स्वकृते सुरसद्मनि ।
हेमाब्जं स्थापयामास सद्रौप्यकलशोपरि ।। २२८
उभौ कलशपद्मौ च शुशुभाते सितारुणौ ।
यशःप्रतापाविव तौ भूपालाशोकदत्तयोः ।। २२९
तादृशौ च विलोक्यैतौ स हर्षोत्फुल्ललोचनः ।
राजा माहेश्वरो भक्तिरसावेशादभाषत ।। २३०
अहो विभाति पद्मेन तुङ्गोऽयं कलशोऽमुना ।
भूतिशुभ्रः कपर्दीव जटाजूटेन बभ्रुणा ।। २३१
अभविष्यद्द्वितीयं चेदीदृशं कनकाम्बुजम् ।
अस्थापयिष्यतामुष्मिन्द्वितीये कलशेऽपि तत् ।। २३२
इति राजवचः श्रुत्वाशोकदत्तस्ततोऽब्रवीत् ।
आनेष्याम्यहमम्भोजं द्वितीयमपि देव ते ।। २३३
तच्छ्रुत्वा न ममान्येन पङ्कजेन प्रयोजनम् ।
अलं ते साहसेनेति राजापि प्रत्युवाच तम् ।। २३४
दिवसेष्वथ यातेषु हेमाब्जहरणैषिणि ।
अशोकदत्ते सा भूयोऽप्यगात्कृष्णचतुर्दशी ।। २३५
तस्यां चास्य सुवर्णाब्जवाञ्छां बुद्ध्वा भयादिव ।
द्युसरःस्वर्णकमले यातेऽस्तशिखरं रवौ ।। २३६
संध्यारुणाभ्रपिशितग्रासगर्वादिव क्षणात् ।
तमोरक्षःसु धावत्सु धूमधूम्रेषु सर्वतः ।। २३७
स्फुरद्दीपावलीदन्तमालाभास्वरमीषणे ।
जृम्भमाणे महारौद्रे निशानक्तंचरीमुखे ।। २३८
प्रसुप्तराजपुत्रीकात्स्वैरं निर्गत्य मन्दिरात् ।
अशोकदत्तः स ययौ श्मशानं पुनरेव तत् ।। २३९
तत्र तस्मिन्वटतरोर्मूलै तां पुनरागताम् ।
ददर्श राक्षसीं श्वश्रूं विहितस्वागतादराम् ।। २४०
तया च सह भूयस्तदगमत्तन्निकेतनम् ।
स युवा हिमवच्छृङ्गं मार्गोन्मुखवधूजनम् ।। २४१
कंचित्कालं समं वध्वा तत्र स्थित्वाब्रवीच्च ताम् ।
श्वश्रूं देहि द्वितीयं मे कुतश्चित्कनकाम्बुजम् ।। २४२
तच्छ्रुत्वा साप्यवादीत्तं कुतोऽन्यत्पङ्कजं मम ।
एतत्कपालस्फोटस्य विद्यतेऽस्मत्प्रभोः सरः ।। २४३
यत्रेदृशानि जायन्ते हेमाब्जानि समन्ततः ।
तस्मात्तदेकं मद्भर्त्रे प्रीत्या पद्मं स दत्तवान् ।। २४४
एवं तयोक्ते सोऽवादीत्तर्हि तन्मां सरोवरम् ।
नय यावत्स्वयं तस्मादादास्ये कनकाम्बुजम् ।। २४५
न शक्यमेतद्रक्षोभिर्दारुणैस्तद्धि रक्ष्यते ।
एवं निषिद्धोऽपि तया निर्बन्धं न स तं जहौ ।। २४६
ततः कथंचिन्नीतश्च तया श्वश्र्वा ददर्श तत् ।
दूरात्सरोवरं दिव्यं तुङ्गाद्रिकटकाश्रितम् ।। २४७
छन्नं निरन्तरोद्दण्डदीप्तहेमसरोरुहैः ।
सततोन्मुखतापीतसंक्रान्तार्कप्रभैरिव ।। २४८
गत्वैव तत्र यावच्च पद्मान्यवचिनोति सः ।
तावत्तद्रक्षिणो घोरा रुरुधुस्तं निशाचराः ।। २४९
सशस्त्रः सोऽवधीच्चैनानन्यानन्ये पलाय्य च ।
गत्वा कपालस्फोटाय स्वामिने तन्न्यवेदयन् ।। २५०
स तद्बुद्ध्वैव कुपितस्तत्र रक्षःपतिः स्वयम् ।
आगत्याशोकदत्तं तमपश्यल्लुण्ठिताम्बुजम् ।। २५१
कथं भ्राता ममाशोकदत्तः सोऽयमिहागतः ।
इति प्रत्यभ्यजानाच्च तत्क्षणं तं सविस्मयः ।। २५२
ततः शस्त्रं समुत्सृज्य हर्षबाष्पाप्लुतेक्षणः ।
धावित्वा पादयोः सद्यः पतित्वा च जगाद तम् ।। २५३
अहं विजयदत्ताख्यः सोदर्यः स तवानुजः ।
आवां द्विजवरस्योभौ गोविन्दस्वामिनः सुतौ ।। २५४
इयच्चिरं च जातोऽहं दैवादीदृङ्निशाचरः ।
चिताकपालदलनात्कपालस्फोटनामकः ।। २५५
त्वद्दर्शनादिदानी च ब्राह्मण्यं तत्स्मृतं मया ।
गतं च राक्षसत्वं मे मोहाच्छादितचेतनम् ।। २५६
एवं विजयदत्तस्य वदतः परिरभ्य सः ।
यावत्क्षालयतीवाङ्गं राक्षसीभावदूषितम् ।। २५७
अशोकदत्तो बाष्पाम्बुपूरैस्तावदवातरत् ।
प्रज्ञप्तिकौशिको नाम विद्याधरगुरुर्दिवः ।। २५८
स तौ द्वावप्युपेत्यैव भ्रातरौ गुरुरब्रवीत् ।
यूयं विद्याधराः सर्वे शापादेतां दशां गताः ।। २५९
अधुना च स शापो वः सर्वेषां शान्तिमागतः ।
तद्गृह्णीत निजा विद्या बन्धुसाधारणीरिमाः ।। २६०
व्रजतं च निजं धाम स्वीकृतस्वजनौ युवाम् ।
इत्युक्त्वा दत्तविद्योऽसौ तयोद्यामुद्ययौ गुरुः ।। २६१
तौ च विद्याधरीभूतौ प्रबुद्धौ जग्मतुस्ततः ।
व्योम्ना तद्धिमवच्छृङ्गं गृहीतकनकाम्बुजौ ।। २६२
तत्र चाशोकदत्तस्तां रक्षःपतिसुतां प्रियाम् ।
उपागात्साप्यभूत्क्षीणशापा विद्याधरी तदा ।। २६३
तया च साकं सुदृशा भ्रातरौ तावुभावपि ।
वाराणसीं प्रययतुः क्षणाद्गगनगामिनौ ।। २६४
तत्र चोपेत्य पितरौ विप्रयोगाग्नितापितौ ।
निरवापयतां सद्यो दर्शनामृतवर्षिणौ ।। २६५
अदेहभेदेऽप्याक्रान्तचित्रजन्मान्तरौ च तौ ।
न पित्रोरेव लोकस्याप्युत्सवाय बभूवतुः ।। २६६
चिराद्विजयदत्तश्च गाढमाश्लिष्यतः पितुः ।
भुजमध्यमिवात्यर्थं मनोरथमपूरयत् ।। २६७
ततस्तत्रैव तद्बुद्ध्वा प्रतापमुकुटोऽपि सः ।
अशोकदत्तश्वशुरो राजा हर्षादुपाययौ ।। २६८
तत्सत्कृतश्च तद्राजधानीं सोत्कस्थितप्रियाम् ।
अशोकदत्तः स्वजनैः सार्धं बद्धोत्सवामगात् ।। २६९
ददौ च कनकाब्जानि राज्ञे तस्मै बहूनि सः ।
अभ्यर्थिताधिकप्राप्तिहृष्टः सोऽप्यभवन्नृपः ।। २७०
ततो विजयदत्तं तं सर्वेष्वत्र स्थितेषु सः ।
पिता पप्रच्छ गोविन्दस्वामी साश्चर्यकौतुकः ।। २७१
तदा श्मशाने यामिन्यां राक्षसत्वं गतस्य ते ।
अभवत्कीदृशो वत्स वृत्तान्तो वर्ण्यतामिति ।। २७२
ततो विजयदत्तस्तं बभाषे तात चापलात् ।
प्रस्फोटितचितादीप्तकपालोऽहं विधेर्वशात् ।। २७३
मुखप्रविष्टया सद्यस्तद्वसाछटया तदा ।
रक्षोभूतस्त्वया तावद्दृष्टो मायाविमोहितः ।। २७४
कपालस्फोट इत्येवं नाम कृत्वा हि राक्षसैः ।
ततोऽन्यैरहमाहूतस्तन्मध्ये मिलितोऽभवम् ।। २७५
तैश्च नीतो निजस्यास्मि पार्श्वं रक्षःपतेः क्रमात् ।
सोऽपि दृष्ट्वैव मां प्रीतः सेनापत्ये न्ययोजयत् ।। २७६
ततः कदाचिद्गन्धर्वानभियोक्तुं मदेन सः ।
गतो रक्षःपतिस्तत्र सङ्ग्रामे निहतोऽरिभिः ।। २७७
तदैव प्रतिपन्नं च मद्भृत्यैर्मम शासनम् ।
ततोऽहं रक्षसां राज्यमकार्षं तत्पुरे स्थितः ।। २७८
तत्राकस्माच्च हेमाब्जहेतोः प्राप्तस्य दर्शनात् ।
आर्यस्याशोकदत्तस्य प्रशान्ता सा दशा मम ।। २७९
अनन्तरं यथास्माभिः शापमोक्षवशान्निजाः ।
विद्याः प्राप्तास्तथार्यो वः कृत्स्नमावेदयिष्यति ।। २८०
एवं विजयदत्तेन तेन तत्र निवेदिते ।
अशोकदत्तः स तदा तदामूलादवर्णयत् ।। २८१
पुरा विद्याधरौ सन्तौ गगनाद्गालवाश्रमे ।
आवां स्नान्तीरपश्याव गङ्गायां मुनिकन्यकाः ।। २८२
तुल्याभिलाषास्ताश्चात्र वाञ्छन्तौ सहसा रहः ।
बुद्ध्वा तद्बन्धुभिः क्रोधाच्छप्तौ स्वो दिव्यदृष्टिभिः ।।२८३
पापाचारौ प्रजायेथां मर्त्ययोनौ युवामुभौ ।
तत्रापि विप्रयोगश्च विचित्रो वां भविष्यति ।। २८४
मानुषागोचरे देशे विप्रकृष्टेऽप्युपागतम् ।
एकं दृष्ट्वा द्वितीयो वां यदा प्रज्ञानमाप्स्यति ।। २८५
तदा विद्याधरगुरोर्विद्या प्राप्य भविष्यथः ।
पुनर्विद्याधरौ युक्तौ शापमुक्तौ स्वबन्धुभिः ।। २८६
एवं तैर्मुनिभिः शप्तौ जातावावामुभाविह ।
वियोगोऽत्र यथा भूतस्तत्सर्वं विदितं च वः ।। २८७
इदानीं पद्महेतोश्च श्वश्रूसिद्धिप्रभावतः ।
रक्षःपतेः पुरं गत्वा प्राप्तोऽयं चानुजो मया ।। २८८
तत्रैव च गुरोः प्राप्य विद्याः प्रज्ञप्तिकौशिकात् ।
सद्यो विद्याधरीभूय वयं क्षिप्रमिहागताः ।। २८९
इत्युक्त्वा पितरौ च तौ प्रियतमां तां चात्मजां भूपतेः
सद्यः शापतमोविमोक्षमुदितो विद्याविशेषैर्निजैः ।
तैस्तैः संव्यभजद्विचित्रचरितः सोऽशोकदत्तस्तदा
येनैते सपदि प्रबुद्धमनसोऽजायन्त विद्याधराः ।। २९०
ततस्तमामन्त्र्य नृपं स साकं मातापितृभ्यां दयिताद्वयेन ।
उत्पत्य धन्यो निजचक्रवर्तिधाम द्युमार्गेण जवी जगाम ।। २९१
तत्रालोक्य तमाज्ञां प्राप्य च तस्मादशोकवेग इति ।
नाम स बिभ्रत्सोऽपि च तद्भ्राता विजयवेग इति ।। २९२
विद्याधरवरतरुणौ स्वजनानुगतावुभौ निजनिवासम् ।
गोविन्दकूटसंज्ञकमचलवरं भ्रातरौ ययतुः ।। २९३
सोऽप्याश्चर्यवशः प्रतापमुकुटो वाराणसीभूपतिः
स्वस्मिन्देवकुले द्वितीयकलशन्यस्तैकहेमाम्बुजः ।
तद्दत्तैरपरैः सुवर्णकमलैरभ्यर्चितत्र्यम्बक-
स्तत्संबन्धमहत्तया प्रमुदितो मेने कृतार्थं कुलम् ।। २९४
एवं दिव्याः कारणेनावतीर्णा जायन्तेऽस्मिञ्जन्तवो जीवलोके ।
सत्त्वोत्साहौ स्वोचितौ ते दधाना दुष्प्रापामप्यर्थसिद्धिं लभन्ते ।। २९५
तत्सत्त्वसागर भवानपि कोऽपि जाने देवांश एव भविता च यथेष्टसिद्धिः ।
प्रायः क्रियासु महतामपि दुष्करासु सोत्साहता कथयति प्रकृतेर्विशेषम् ।। २९६
सापि त्वदीप्सिता ननु दिव्या राजात्मजा कनकरेखा ।
बालान्यथा हि वाञ्छति कनकपुरीदर्शिनं कथं हि पतिम् ।। २९७
इति रहसि निशम्य विष्णुदत्तात्सरसकथाप्रकरं स शक्तिदेवः ।
हृदि कनकपुरीविलोकनैषी धृतिमवलम्ब्य निनाय च त्रियामाम् ।। २९८
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे चतुर्दारिकालम्बके द्वितीयस्तरङ्गः ।