पृष्ठम्:न्यायमकरन्दः.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२००८ न्यायमकरन्दे मू ०-तदेतदखिलमप्याकाशरोमन्थनमिवाभाति, न ख ल्वियं ममेदं कार्यमितिधीः किन्त्वभिलाष एवायं चिकी र्षालक्षणः सकलजनमानसप्रत्यक्षप्रवेदनीयतया साक्षि मात्रनिर्भास्यतया वा प्रथत, इति नैषा कञ्चनार्थ व्यव स्थापयितुमलं प्रमाणभावाभावाद्, इन्दुमण्डलोदयादौ चाभिलाषभावेपि न तत्र चिकीर्षालक्षणः कृतियोग्य तानुविधानातु तस्य, तत्र च कृतियोग्यताभावातु, अ तोभिलाषरूपाविशेषेप्यसाधारणाकारभेदाद् निर्भासभेदो पपतिः । यत्पुनरिहैके वर्णयांवभूवुः, यावदियं सङ्कल्परूप टी०-षयति--* न खल ?” इति, । मानसप्रत्यक्षइत्यादिना मतभेदेन पकता किन्न स्यादित्यत अवाह-* नंषा इति, । तस्याऽमानत्वा दू, आजानत एव सविषयत्वे विज्ञानत्वप्रसङ्गादू, एतज्जनकविज्ञानस्य सविषयतया सविषयत्वोपचाराच्च न विषयसाधनत्वमित्यर्थः । न. न्बभिलाष एव यदि ममेदं कार्यमिति प्रथते अभिलाषत्वाधिशे. षादिन्दुमण्डलाभिलाषोपि तथाप्रथामनुभवेदित्यत आह-'इन्दु मण्डल इति । अवान्तरभेदादेव तथा न प्रथत इत्यर्थः, कृ नियोग्यतापि तत्रस्यादित्यत आह-“ तत्र च ” इति । अशक्य विषयत्वादित्यर्थ. । चिकीर्षवानुपपद्यमाना खकारणतया कार्यधियमुपस्थापयतीच्छा ज्ञानयोर्जन्यजनकभाचादिति शङ्कते-* यत्पुनर् ' इति ।