कथासरित्सागरः/लम्बकः ३/तरङ्गः १
लावाणको नाम तृतीयो लम्बकः ।
इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना-
त्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।
प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो
धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ।।
निर्विघ्नविश्वनिर्माणसिद्धये यदनुग्रहम् ।
मन्ये स वव्रे धातापि तस्मै विघ्नजिते नमः ।। १
आश्लिष्यमाणः प्रियया शंकरोऽपि यदाज्ञया ।
उत्कम्पते स भुवनं जयत्यसमसायकः ।। २
एवं स राजा वत्सेशः क्रमेण सुतरामभूत् ।
प्राप्तवासवदत्तस्तत्सुखासक्तैकमानसः ।। ३
यौगन्धरायणश्चास्य महामन्त्री दिवानिशम् ।
सेनापती रुमण्वांश्च राज्यभारमुदूहतुः ।। ४
स कदाचिच्च चिन्तावानानीय रजनौ गृहम् ।
निजगाद रुमण्वन्तं मन्त्री यौगन्धरायणः ।। ५
पाण्डवान्वयजातोऽयं वत्सेशोऽस्य च मेदिनी ।
कुलक्रमागता कृत्स्ना पुरं च गजसाह्वयम् ।। ६
तत्सर्वमजिगीषेण त्यक्तमेतेन भूभृता ।
इहैव चास्य संजातं राज्यमेकत्र मण्डले ।। ७
स्त्रीमद्यमृगयासक्तो निश्चिन्तो ह्येष तिष्ठति ।
अस्मासु राज्यचिन्ता च सर्वानेन समर्पिता ।। ८
तदस्माभिः स्वबुद्ध्यैव तथा कार्यं यथैव तत् ।
समग्रपृथिवीराज्यं प्राप्नोत्येव क्रमागतम् ।। ९
एवं कृते हि भक्तिश्च मन्त्रिता च कृता भवेत् ।
सर्वं च साध्यते बुद्ध्या तथा चैतां कथां शृणु ।। १०
आसीत्कश्चिन्महासेन इति नाम्ना पुरा नृपः ।
स चान्येनाभियुक्तोऽभून्नृपेणातिबलीयसा ।। ११
ततः समेत्य सचिवैः स्वकार्यभ्रंशरक्षिभिः ।
दापितः स महासेनो दण्डं तस्मै किल द्विषे ।। १२
दत्तदण्डश्च राजासौ मानी भृशमतप्यत ।
किं मया विहितः शत्रोः प्रणाम इति चिन्तयन् ।। १३
तेनैव चास्य गुल्मोऽन्तः शोकेन ह्युदपद्यत ।
गुल्माक्रान्तश्च शोकेन स मुमूर्षुरभून्नृपः ।। १४
ततस्तदौषधासाध्यं मत्वैको मतिमान्भिषक् ।
मृता ते देव देवीति मिथ्या वक्ति स्म तं नृपम् ।। १५
तच्छ्रुत्वा सहसा भूमौ पततस्तस्य भूपतेः ।
शोकावेगेन बलिना स गुल्मः स्वयमस्फुटत् ।। १६
रोगोत्तीर्णश्चिरं देव्या तयैव च सहेप्सितान् ।
भोगान्स बुभुजे राजा जिगाय च रिपून्पुनः ।। १७
तद्यथा स भिषग्बुद्ध्या चक्रे राजहितं तथा ।
वयं राजहितं कुर्मः साधयामोऽस्य मेदिनीम् ।। १८
परिपन्थी च तत्रैकः प्रद्योतो मगधेश्वरः ।
पार्ष्णिग्राहः स हि सदा पश्चात्कोपं करोति नः ।। १९
तत्तस्य कन्यकारत्नमस्ति पद्मावतीति यत् ।
तदस्य वत्सराजस्य कृते याचामहे वयम् ।। २०
छन्नां वासवदत्तां च स्थापयित्वा स्वबुद्धितः ।
दत्त्वाग्निं वासके ब्रूमो देवी दग्धेति सर्वतः ।। २१
नान्यथा तां सुतां राज्ञे ददाति मगधाधिपः ।
एतदर्थं स हि मया प्रार्थितः पूर्वमुक्तवान् ।। २२
नाहं वत्सेश्वरायैतां दास्याम्यात्माधिकां सुताम् ।
तस्य वासवदत्तायां स्नेहो हि सुमहानिति ।। २३
सत्यां देव्यां च वत्सेशो नैवान्यां परिणेष्यति ।
देवी दग्धेति जातायां ख्यातौ सर्वं तु सेत्स्यति ।। २४
पद्मावत्यां च लब्धायां संबन्धी मगधाधिपः ।
पश्चात्कोपं न कुरुते सहायत्वं च गच्छति ।। २५
ततःपूर्वां दिशं जेतुं गच्छामोऽन्याश्च तत्क्रमात् ।
इत्थं वत्सैश्वरस्यैतां साधयामोऽखिलां भुवम् ।। २६
कृतोद्योगेषु चास्मासु पृथिवीमेष भूपतिः ।
प्राप्नुयादेव पूर्वं हि दिव्या वागेवमब्रवीत् ।। २७
श्रुत्वेति मन्त्रिवृषभाद्वचो यौगन्धरायणात् ।
साहसं चैतदाशङ्क्य रुमण्वांस्तमभाषत ।। २८
व्याजः पद्मावतीहेतोः क्रियमाणः कदाचन ।
दोषायास्माकमेव स्यात्तथा ह्यत्र कथां शृणु ।। २९
अस्ति माकन्दिका नाम नगरी जाह्नवीतटे ।
तस्यां मौनव्रतः कश्चिदासीत्प्रव्राजकः पुरा ।। ३०
स च भिक्षाशनोऽनेकपरिव्राट्परिवारितः ।
आस्त देवकुलस्यान्तर्मठिकायां कृतस्थितिः ।। ३१
प्रविष्टो जातु भिक्षार्थमेकस्य वणिजो गृहे ।
स ददर्श शुभां कन्यां भिक्षामादाय निर्गताम् ।। ३२
दृष्ट्वा चाद्भुतरूपां तां स कामवशगः शठः ।
हा हा कष्टमिति स्माह वणिजस्तस्य शृण्वतः ।। ३३
गृहीतभिक्षश्च ततो जगाम निलयं निजम् ।
ततस्तं स वणिग्गत्वा रहः पप्रच्छ विस्मयात् ।। ३४
किमद्यैवमकस्मात्त्वं मौनं त्यक्त्वोक्तवानिति ।
तच्छ्रुत्वा वणिजं तं च परिव्राडेवमब्रवीत् ।। ३५
दुर्लक्षणेयं कन्या ते विवाहोऽस्या यदा भवेत् ।
तदा ससुतदारस्य क्षयः स्यात्तव निश्चितम् ।। ३६
तदेतां वीक्ष्य दुःखं मे जातं भक्तो हि मे भवान् ।
तेनैवमुक्तवानस्मि त्यक्त्वा मौनं भवत्कृते ।। ३७
तदेषा कन्यका नक्तं मञ्जूषायां निवेशिता ।
उपरि न्यस्तदीपायां गङ्गायां क्षिप्यतां त्वया ।। ३८
तथेति प्रतिपद्यैतद्गत्वा सोऽथ वणिग्भयात् ।
नक्तं चक्रे तथा सर्वं निर्विमर्शा हि भीरवः ।। ३९
प्रव्राजकोऽपि तत्कालमुवाचानुचरान्निजान् ।
गङ्गां गच्छत तत्रान्तर्वहन्तीं यां च पश्यथ ।। ४०
पृष्ठस्थदीपां मञ्जूषां गुप्तमानयतेह ताम् ।
उद्धाटनीया न च सा श्रुतेऽप्यन्तर्ध्वनाविति ।। ४१
तथेति चागता यावद्गङ्गां न प्राप्नुवन्ति ते ।
राजपुत्रः किमप्येकस्तावत्तस्यामवातरत् ।। ४२
सोऽत्र तां वणिजा क्षिप्तां मञ्जूषां वीक्ष्य दीपतः ।
भृत्यैरानाय्य सहसा कौतुकादुदघाटयत् ।। ४३
ददर्श चान्तः कन्यां तां हृदयोन्मादकारिणीम् ।
उपयेमे च गान्धर्वविधिना तां च तत्क्षणम् ।। ४४
मञ्जूषां तां च गङ्गायां तथैवोर्ध्वस्थदीपिकाम् ।
कृत्वा तत्याज निःक्षिप्य घोरं वानरमन्तरे ।। ४५
गतेऽथ तस्मिन्संप्राप्तकन्यारत्ने नृपात्मजे ।
आययुस्तस्य चिन्वन्तः शिष्याः प्रव्राजकस्य ते ।। ४६
ददृशुस्तां च मञ्जूषां गृहीत्वा तस्य चान्तिकम् ।
निन्युः प्रव्राजकस्यैनां सोऽथ हृष्टो जगाद तान् ।। ४७
एकोऽहं साधये मन्त्रमादायैतामिहोपरि ।
अधस्तूष्णीं च युष्माभिः शयितव्यमिमां निशाम् ।। ४८
इत्युक्त्वा तां स मञ्जूषामारोप्य मठिकोपरि ।
स परिव्राड्विवृतवान्वणिक्कन्याभिलाषुकः ।। ४९
ततश्च तस्या निर्गत्य वानरो भीषणाकृतिः ।
तमभ्यधावत्स्वकृतो मूर्तिमानिव दुर्नयः ।। ५०
स तस्य दशनैर्नासां नखैः कर्णौ च तत्क्षणम् ।
चिच्छेद पापस्य कपिर्निग्रहज्ञ इव क्रुधा ।। ५१
तथाभूतोऽथ स ततः परिव्राडवतीर्णवान् ।
यत्नस्तम्भितहासाश्च शिष्यास्तं ददृशुस्तदा ।। ५२
प्रातर्बुद्ध्वा च तत्सर्वं जहास सकलो जनः ।
ननन्द स वणिक्सा च तत्सुता प्राप्तसत्पतिः ।। ५३
एवं यथा स हास्यत्वं गतः प्रव्राजकस्तथा ।
व्याजप्रयोगस्यासिद्धौ वयं गच्छेम जातुचित् ।। ५४
बहुदोषो हि विरहो राज्ञो वासवदत्तया ।
एवं रुमण्वतोक्तः सन्नाह यौगन्धरायणः ।। ५५७
नान्यथोद्योगसिद्धिः स्यादनुद्योगे च निश्चितम् ।
राजनि व्यसनिन्येतन्नश्येदपि यथास्थितम् ।। ५६
लब्धापि मन्त्रिताख्यातिरस्माकं चान्यथा भवेत् ।
स्वामिसंभावनायाश्च भवेम व्यभिचारिणः ।। ५७
स्वायत्तसिद्धे राज्ञो हि प्रज्ञोपकरणं मता ।
सचिवः को भवेत्तेषां कृते वाप्यथवाकृते ।। ५८
सचिवायत्तसिद्धेस्तु तत्प्रज्ञैवार्थसाधनम् ।
त एव चेन्निरुत्साहाः श्रियो दत्तो जलाञ्जलिः ।। ५९
अथ देवीपितुश्चण्डमहासेनाद्विशङ्कसे ।
स सपुत्रश्च देवी च वचः कुरुत एव मे ।। ६०
इत्युक्तवन्तं धीराणां धुर्यं यौगन्धरायणम् ।
प्रमादशङ्किहृदयो रुमण्वान्पुनरब्रवीत् ।। ६१
अभीष्टस्त्रीवियोगार्त्या सविवेकोऽपि बाध्यते ।
किं पुनर्वत्सराजोऽयमत्र चैतां कथां शृणु ।। ६२
पुराभूद्देवसेनाख्यो राजा मतिमतां वरः ।
श्रावस्तीति पुरी तस्य राजधानी बभूव च ।। ६३
तस्यां च पुर्यामभवद्वणिगेको महाधनः ।
तस्योदपद्यतानन्यसदृशी दुहिता किल ।। ६४
उन्मादिनीति नाम्ना च कन्यका सापि पप्रथे ।
उन्माद्यति गतस्तस्या रूपं दृष्ट्वाखिलो जनः ।। ६५
तनयेयमनावेद्य राज्ञे देया क्वचिन्न मे ।
स हि कुप्येदिति पिता तस्याः सोऽचिन्तयद्वणिक् ।। ६६
ततश्च गत्वा राजानं देवसेनं व्यजिज्ञपत् ।
देवास्ति कन्यारत्नं मे गृह्यतामुपयोगि चेत् ।। ६७
तच्छ्रुत्वा व्यसृजद्राजा सोऽथ प्रत्ययितान्द्विजान् ।
गत्वा सुलक्षणा सा वा न वेत्यालोच्यतामिति ।। ६८
तथेति ते द्विजा गत्वा तां दृष्ट्वैव वणिक्सुताम् ।
उन्मादिनीं ययुः क्षोभं सद्यः संजातमन्मथाः ।। ६९
राजास्यां परिणीतायामेतदेकमनास्त्यजेत् ।
राजकार्याणि नश्येच्च सर्वं तस्मात्किमेतया ।। ७०
इति च प्रकृतिं प्राप्ता द्विजाः संमन्त्र्य ते गताः ।
कुलक्षणा सा कन्येति मिथ्या राजानमब्रुवन् ।। ७१
ततो राज्ञा परित्यक्तां स तामुन्मादिनीं वणिक् ।
तत्सेनापतये प्रादादन्तर्जातविमाननाम् ।। ७२
भर्तृवेश्मनि हर्म्यस्था साथ जातु तमागतम् ।
राजानं तेन मार्गेण बुद्ध्वात्मानमदर्शयत् ।। ७३
दृष्ट्वैव च स तां राजा जगत्संमोहनौषधिम् ।
प्रयुक्तामिव कामेन जातोन्माद इवाभवत् ।। ७४
गत्वा स्वभवनं ज्ञात्वा तां च पूर्वावधीरिताम् ।
उन्मना ज्वरसंतापपीडां गाढमवाप सः ।। ७५
सा दासी न परस्त्रीति गृह्यतां यदि वाप्यहम् ।
त्यजामि तां देवकुले स्वीकरोतु ततः प्रभुः ।। ७६
इति तेन च तद्भर्त्रा स्वसेनापतिना ततः ।
अभ्यर्थ्यमानो यत्नेन जगादैवं स भूपतिः ।। ७७
नाहं परस्त्रीमादास्ये त्वं वा त्यक्ष्यसि तां यदि ।
ततो नङ्क्ष्यति ते धर्मो दण्ड्यो मे च भविष्यसि ।। ७८
तच्छ्रुत्वा मन्त्रिणोऽन्ये च तूष्णीमासन्स च क्रमात् ।
स्मरज्वरेण तेनैव नृपः पञ्चत्वमाययौ ।। ७९
एवं स राजा नष्टोऽभूद्धीरोऽप्युन्मादिनीं विना ।
विना वासवदत्तां तु वत्सराजः कथं भवेत् ।। ८०
एतद्रुमण्वतः श्रुत्वा पुनर्यौगन्धरायणः ।
उवाच सह्यते क्लेशो राजभिः कार्यदर्शिभिः ।।८१
रावणोच्छित्तये देवैः कृत्वा युक्तिं वियोजितः ।
सीतादेव्या न किं रामो विषेहे विरहव्यथाम् ।। ८२
एतच्छ्रुत्वा च भूयोऽपि रुमण्वानभ्यभाषत ।
ते हि रामादयो देवास्तेषां सर्वसहं मनः ।। ८३
असहं तु मनुष्याणां तथा च श्रूयतां कथा ।
अस्तीह बहुरत्नाढ्या मथुरेति महापुरी ।। ८४
तस्यामभूद्वणिक्पुत्रः कोऽपि नाम्ना यइल्लकः ।
तस्य चाभूत्प्रिया भार्या तदेकाबद्धमानसा ।। ८५
तया सह वसन्तोऽथ कदाचित्कार्यगौरवात् ।
द्वीपान्तरं वणिक्पुत्रो गन्तुं व्यवसितोऽभवत् ।। ८६
तद्भार्यापि च तेनैव सह गन्तुमियेष सा ।
स्त्रीणां भावानुरक्तं हि विरहासहनं मनः ।। ८७
ततः स च वणिक्पुत्रः प्रतस्थे कृतमङ्गलः ।
न च तां सह जग्राह भार्यां क्लृप्तप्रसाधनाम् ।। ८८
साथ तं प्रस्थितं पश्चात्पश्यन्ती साश्रुलोचना ।
अतिष्ठत्प्राङ्गणद्वारकवाटान्तविलम्बिनी ।। ८९
गते दृष्टिपथात्तस्मिन्सा वियोगासहा ततः ।
निर्यातुं नाशकन्मुग्धा प्राणास्तस्या विनिर्ययुः ।। ९०
तद्बुद्ध्वा च वणिक्पुत्रः प्रत्यावृत्य च तत्क्षणम् ।
ददर्श विह्वलां कान्तामेतामुत्क्रान्तजीविताम् ।। ९१
सुन्दरापाण्डुरच्छायां विलोलालकलाञ्छनाम् ।
भुवि चान्द्रमसीं लक्ष्मीं दिवः सुप्तच्युतामिव ।। ९२
अङ्के कृत्वा च तां सद्यः क्रन्दतस्तस्य निर्ययुः ।
शोकाग्निज्वलिताद्देहाद्द्रुतं भीता इवासवः ।। ९३
एवमन्योन्यविरहाद्दंपती तौ विनेशतुः ।
अतोऽस्य राज्ञो देव्याश्च रक्ष्यान्योन्यवियोगिता ।। ९४
इत्युक्त्वा विरते तस्मिन्बद्धाशङ्के रुमण्वति ।
जगाद धैर्यजलधिर्धीमान्यौगन्धरायणः ।। ९५
मयैतन्निश्चितं सर्वं कार्याणि च महीभृताम् ।
भवन्त्येवंविधान्येव तथा चात्र कथां शृणु ।। ९६
उज्जयिन्यामभूत्पूर्वं पुण्यसेनाभिधो नृपः ।
स जातु बलिनान्येन राज्ञा गत्वाभ्ययुज्यत ।। ९७
अथ तन्मन्त्रिणो धीरास्तमरिं वीक्ष्य दुर्जयम् ।
मिथ्या राजा मृत इति प्रवादं सर्वतो व्यधुः ।। ८
प्रच्छन्नं स्थापयामासुः पुण्यसेनं नृपं च ते ।
अन्यं कंचिदधाक्षुश्च राजार्हविधिना शवम् ।। ९९
अराजकानामधुना भव राजा त्वमेव नः ।
इति दूतमुखेनाथ तमरिं जगदुश्च ते ।। १००
तथेत्युक्तवतस्तस्य रिपोस्तुष्टस्य ते ततः ।
मिलित्वा सैन्यसहिताः कटकं बिभिदुः क्रमात् ।। १०१
भिन्ने च सैन्ये राजानं पुण्यसेनं प्रकाश्य तम् ।
ते संप्राप्तबलाः शत्रुं तं निजघ्नुः स्वमन्त्रिणः ।। १०२
ईदृशि राजकार्याणि भवन्ति तदिदं वयम् ।
देवीदाहप्रवादेन कार्यं धैर्येण कुर्महे ।। १०३
इत्येतन्निश्चितमतेः श्रुत्वा यौगन्धरायणात् ।
रुमण्वानब्रवीदेवं तर्हि यद्येष निश्चयः ।। १०४
तद्गोपालकमानीय देव्या भ्रातरमादृतम् ।
संमन्त्र्य च समं तेन सम्यक्सर्वं विधीयताम् ।। १०५
एवमस्त्विति वक्ति स्म ततो यौगन्धरायणः ।
तत्प्रत्ययाद्रुमण्वांश्च चक्रे कर्तव्यनिश्चयम् ।। १०६
अन्येद्युर्मन्त्रिमुख्यौ तौ दूतं व्यसृजतां निजम् ।
गोपालकं तमानेतुमुत्कण्ठाव्यपदेशतः ।। १०७
कार्यहेतोर्गतः पूर्वं तद्दूतवचनाच्च सः ।
आगाद्गोपालकस्तत्र स्वयं मूर्त इवोत्सवः ।। १०८
आगतं तदहश्चैनं स्वैरं यौगन्धरायणः ।
निनाय सरुमण्वत्कं गृहं गोपालकं निशि ।। १०९
तत्र चास्मै तदुत्साहं शशंस स्वचिकीर्षितम् ।
यत्पूर्वं मन्त्रितं तेन सर्वं सह रुमण्वता ।। ११०
स च राजहितैषी सन्दुःखावहमपि स्वसुः ।
गोपालकोऽनुमेने यत्कर्तव्यं हि सतां वचः ।। १११
सर्वमेतत्सुविहितं देवीं दग्धामवेत्य तु ।
प्राणांस्त्यजन्कथं रक्ष्यो वत्सेश इति चिन्त्यताम् ।। ११२
सदुपायादिसामग्रीसंभवे किल सत्यपि ।
मुख्यमङ्गं हि मन्त्रस्य विनिपातप्रतिक्रिया ।। ११३
इति भूयोऽपि तत्कालमुक्ते तत्र रुमण्वता ।
उवाचालोचिताशेषकार्यो यौगन्धरायणः ।। ११४
नास्त्यत्र चिन्ता यद्राजपुत्री गोपालकस्य सा ।
कनीयसी स्वसा देवी प्राणेभ्योऽप्यधिका प्रिया ।। ११५
एतस्य चाल्पमालोक्य शोकं वत्सेश्वरस्तदा ।
जीवेत्कदाचिद्देवीति मत्वा धैर्यमवाप्स्यति ।। ११६
अपि चोत्तमसत्त्वोऽयं शीघ्रं च परिणीयते ।
पद्मावती ततो देवी दर्श्यते चाचिरादिति ।। ११७
एवमेतद्विनिश्चित्य ततो यौगन्धरायणः ।
गोपालको रुमण्वांश्च ततो मन्त्रमिति व्यधुः ।। ११८
युक्त्या लावाणकं यामः सह देव्या नृपेण च ।
पर्यन्तो मगधासन्नवर्ती हि विषयोऽस्ति सः ।। ११९
सुभगाखेटभूमित्वाद्राज्ञश्चासंनिधानकृत् ।
तत्रान्तःपुरमादीप्य क्रियते यदि चिन्तितम् ।। १२०
देवी च स्थाप्यते नीत्वा युक्त्या पद्मावतीगृहे ।
छन्नस्थिताया येनास्याः सैव स्याच्छीलसाक्षिणी ।। १२१
एवं रात्रौ मिथः कृत्वा मन्त्रं सर्वेऽपरेऽहनि ।
यौगन्धरायणाद्यास्ते प्राविशन्राजमन्दिरम् ।। १२२
तत्रैवमथ विज्ञप्तो वत्सराजो रुमण्वता ।
देव लावाणकेऽस्माकं गतानां वर्तते शिवम् ।। १२३
स चातिरम्यो विषयस्तत्र चाखेटभूमयः ।
शोभनाः सन्ति ते राजन्नडघासाश्च सुग्रहाः ।। १२४
बाधते तं च नैकट्यात्सर्वं स मगधेश्वरः ।
तत्तत्र रक्षाहेतोश्च विनोदाय च गम्यताम् ।। १२५
एतच्छ्रुत्वा च वत्सेशः समं वासवदत्तया ।
क्रीडैकलालसश्चक्रे गन्तुं लावाणके मतिम् ।। १२६
निश्चिते गमनेऽन्येद्युर्लग्ने च परिकल्पिते ।
अकस्मान्नारदमुनिः कान्तिद्योतितदिङ्मुखः ।। १२७
अवतीर्य नभोमध्यात्प्रदत्तनयनोत्सवः ।
शशीव स्वकुलप्रीत्या तं वत्सेश्वरमभ्यगात् ।। १२८
गृहीतातिथ्यसत्कारः पारिजातमयीं स्रजम् ।
प्रीतः स च मुनिस्तस्मै ददौ प्रह्वाय भूभृते ।। १२९
विद्याधराधिपं पुत्रं कामदेवांशमाप्स्यसि ।
इति वासवदत्तां च सोऽभ्यनन्दत्कृतादरः ।। १३०
ततश्चोवाच वत्सेशं स्थिते यौगन्धरायणे ।
राजन्वासवदत्तां ते दृष्ट्वा हन्त स्मृतं मया ।। १३१
युधिष्ठिरादयोऽभूवन्पुरा ते प्रपितामहाः ।
पञ्चानां द्रौपदी तेषामेका पत्नी बभूव च ।। १३२
सा च वासवदत्तेव रूपेणाप्रतिमाभवत् ।
ततस्तद्दोषमाशङ्क्य तानेवमहमभ्यधाम् ।। १३३
स्त्रीवैरं रक्षणीयं वस्तद्धि वीजमिहापदाम् ।
तथाहि शृणुतैतां च कथां वः कथयाम्यहम् ।। १३४
सुन्दोपसुन्दनामानौ भ्रातरौ द्वौ बभूवतुः ।
असुरौ विक्रमाक्रान्तलोकत्रितयदुर्जयौ ।। १३५
तयोर्विनाशकामश्च दत्त्वाज्ञां विश्वकर्मणा ।
ब्रह्मा निर्मापयामास दिव्यनारीं तिलोत्तमाम् ।। १३६
रूपमालोकितुं यस्याश्चतुर्दिक्कं चतुर्मुखः ।
बभूव किल शर्वोऽपि कुर्वाणायाः प्रदक्षिणम् ।। १३७
सा पद्मयोनेरादेशात्पार्श्वं सुन्दोपसुन्दयोः ।
प्रलोभनाय प्रययौ कैलासोद्यानवर्तिनोः ।। १३८
तौ चासुरौ जगृहतुस्तां दृष्ट्वैवान्तिकागताम् ।
उभावप्युभयोर्बाह्वोः सुन्दरीं काममोहितौ ।। १३९
परस्परविरोधेन हरन्तौ तां च तत्क्षणम् ।
प्रवृत्तसंप्रहारत्वाद्द्वावपि क्षयमीयतुः ।। १४०
एवं स्त्रीनाम विषयो निदानं कस्य नापदाम् ।
युष्माकं द्रौपदी चैका बहूनामिह वल्लभा ।। १४१
तत्तन्निमित्तः संघर्षः संरक्ष्यो भवतां किल ।
मद्वाक्यादयमेतस्याः समयश्चास्तु वः सदा ।। १४२
ज्येष्ठान्तिकगता माता मन्तव्येयं कनीयसा ।
ज्येष्ठेन च स्नुषा ज्ञेया कनिष्ठान्तिकवर्तिनी ।। १४३
इत्येतन्मद्वचो राजंस्तव ते प्रपितामहाः ।
तथेति प्रत्यपद्यन्त कल्याणकृतबुद्धयः ।। १४४
ते च मे सुहृदोऽभूवंस्तत्प्रीत्या चाहमागतः ।
त्वां द्रष्टुमिह वत्सेश तदिदं शणु वच्मि ते ।। १४५
यथैतन्मे कृतं वाक्यं कुर्यास्त्वं मन्त्रिणां तथा ।
अचिरेण च कालेन महतीमृद्धिमाप्स्यसि ।। १४६
कंचित्कालं च दुःखं ते भविष्यति न च त्वया ।
तत्रातिमोहः कर्तव्यः सुखान्तं भविता हि तत् ।। १४७
सम्यगेवमभिधाय तत्क्षणं वत्सराजमुदयस्य भाविनः ।
भङ्गिसूचनविधौ विशारदो नारदो मुनिरदर्शनं ययौ ।। १४८
सर्वे च तस्य वचसा मुनिपुंगवस्य यौगन्धरायणमुखाः सचिवास्ततस्ते ।
संभाव्य सिद्ध्युदयमात्मचिकीर्षितस्य संपादनाय सुतरां जगृहुः प्रयत्नम् ।। १४९
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके प्रथमस्तरङ्गः ।