सामग्री पर जाएँ

पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
अलंकारसर्वखम् ।

वृत्तिः । सा च परुषकोमलमध्यमवर्णारब्धत्वात्रिधा । तदुपलक्षितोऽयमनु प्रास् यथा

‘आटोपेन पटीयसा यदपि सा वाणी कवेरामुखे
खेलन्ती प्रथते तथापि कुरुते नो मन्मनोरञ्जनम् ।
न स्याद्यावदमन्दसुन्दरगुणालंकारकारितः
सप्रस्यन्दिलसद्रसायनरसासारानुसारी रसः ।।'

यथा वा

 ‘सह्याः पन्नगफूत्कृतानलशिखानाराचपाल्योऽपि वा
राकेन्दोः किरणा विषद्रवमुचो वर्षासु वा वायवः ।
न त्वेताः सरलाः सितासितरुचः साचीकृताः सालसाः
साकूताः समदाः कुरङ्गकदृशां मानानुविद्धा दृशः ।।'

स्वरव्यञ्जनसमुदायपौनरुक्त्यं यमकम्

अत्र क्वचिद्भिन्नार्थत्वं क्वचिदभिन्नार्थत्वं क्वचिदेकस्यानर्थकत्वमपरस्य सार्थकत्वमिति संक्षेपतः प्रकारत्रयम् । यथा

त्तममतिः सती सुतमसूत सा ॥’ ‘कमलदृशः कमलामलकोमलकमनीयकान्तिवपुरमलम् । कमलं कुरुते तावत्कमलापतितोऽपि यो विमलः ॥' आदिशब्दाश्चतुरक्षरादेर्ग्रहणम् । यथा-‘स ददातु वासवादिदेवतासंस्तवस्तुतः । सदा सद्वसतिं देवः सविता विततां स ताम् ॥' वर्णरचनेह वृत्तिरिति । उपचारादिति भावः । त्रिधेति । यदुक्तम्-‘शषाभ्यां रेफसंयोगैष्टवर्गेण च योजिता । परुषा नाम वृत्तिः स्याद्ह्याद्यैश्च संयुता ॥ सरूपसंयोगयुतां मूर्धवर्गान्त्ययोगिभिः । स्पशैर्युतां च मन्यन्ते उपनागरिकां बुधाः ॥' शेषवणैर्यथायोगं रचितां कोमलाख्यया। ग्राम्यां वृत्तिं प्रशंसन्ति काव्येष्वादृतबुद्धयः।।' यथा-‘निरर्गलाविनिर्गलद्गुल गुलाकरालैर्गलैरमी तडिति ताडितोड्डमरडिण्डिमोङ्डामराः । मदाचमनचञ्चुरप्रचुरचश्चरीको चयाः पणः परिणतिक्षणक्षततटान्तरा दन्तिनः ॥’ अत्र लकाराद्यावृत्या मध्यमत्वमिति वृत्तित्रैविध्यम् । एवं व्यञ्जनमात्राश्रयमलंकारद्वयं लक्षयित्वा स्वरव्यञ्जनाश्रयं यमकं लक्ष यति-स्वरेत्यादि । एकस्येत्याद्युपलक्षणपरम् । अतो बहूनां यमकानां कचित्सार्थकत्वं निरर्थकत्वं च स्थितं संगृहीतमेव । ‘क्वचित्सार्थकत्वं क्वचिन्निरर्थकत्वं' इति तु पाठे प्रथ ममेव भेदद्वयमुक्तं स्यान्न तृतीयः प्रकारः । अतश्च भेदनिर्देशग्रन्थो यथास्थित एव ज्या यान् । संक्षेपत इति । एतच काव्यात्मभूतरसचर्वणाप्रत्यूहकारित्वात्प्रपञ्चयितुं न यो


१. ‘वल्गन्ती' ख . २. ‘होताः' ख.


१. ‘पूर्व' ख