विस्तरभयान्नोच्यन्ते । उदाहरणं मदीये श्रीकण्ठस्तवे यथा
‘अहीनभुजगाधीशवपुर्वलयकङ्कणम् । |
एतच्च सुबन्तापेक्षया । तिङ्कृन्तापेक्षया च यथा तत्रैव
भुजंगकुण्डली व्यक्तशशिशुभ्रांशुशीतगु ।
जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः ।।'
शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपैौनरुक्त्यं च । अलंकारप्रस्तावे केवलं स्वरपौनरुक्त्यमचारुत्वान्न गण्यते । इति द्वैविध्य मेव स्वरव्यञ्जनसमुदायपौनरुक्त्यं च ।
कार्यालंकरणभावात्तस्याश्रयाश्रयिभावेनोपपत्तेः । अत एव सर्वेषामेवार्थालंकाराणामुपमितार्था दिवादित्वाच्छब्दस्य तदलंकारत्वं स्यादित्युक्तम् । नापि तृतीयः । पुनरुक्तवदाभासमित्यन्वर्थसंज्ञाश्रयणात् । पौनरुक्तयाख्यधर्मप्रयोजकीकारेणालंकारस्योपक्रान्तत्वात् श्लिष्टत्व स्येहानौपयिकत्वात् । तत्पुनरत्रार्थपौनरुक्तयावगमे निमित्तमात्रम् । निमित्तनिमित्तिभावश्च नालंकारत्वप्रयोजक इत्यविवादः। तस्मादर्थाश्रयत्वात्पौनरुक्तयस्य तदलंकारत्वमेवेति युक्तम् । एवं वक्रालंकारतापि निरस्ता । सर्वेषामपि वक्रतिशयरूपत्वात्तथात्वानुपपत्तेः । विस्तर भयादिति । न तु चित्रत्वाभावात् । नोच्यन्त इति । वस्तुतस्तु संभवन्त्येवेत्यर्थः । अतश्चायं प्रायो वाक्यार्थपदार्थाश्रयत्वात्प्रथमं द्विधाभवन्समस्तासमस्तपदत्वेन चतुर्विधः । क्रमेण यथा-तुहिनक्षितिभृद्युष्मान्पातात्सर्वत्र सर्वदा ख्यातः । हिमवानवतु सदा वो वि श्वत्र समागतः ख्यातिम् ॥’ ‘नदीप्रकरमुलिङ्गितवन्तं मनोहरहस्तमत्यजन्तं च, सपर्याणां रुचिं वहन्तं सर्वत्र पूजनीयं च, सकुम्भं सकलशंचरन्तं च, सदानदन्तं मदपर्याक्लिदशनं च, करटं कमपि बिभ्रतं कवाटविभ्रमममुञ्चन्तं च, कुञ्जराजिवर्धितरुचिं वारणरणरणि काकुलितं च, राजमानविसंधायिनं विराजमानं च, शारीभूतं मदसलिलेन शवलीभूतं च, इति पुनरुक्ताश्रयम्’ इत्यनङ्गलेखायां हस्तिवर्णने । ‘वतहन्तासितः कालो गोविभावसुदी धिती: । क्षिपास्य रक्षावसितश्वेतराजयशोभय ॥' असमस्तपदं तु ग्रन्थकृतैवोदाहृतम् केवलस्वरपौनरुक्त्यं किं न गणितमित्याशङ्कयाह-अलंकारेत्यादि । यथा-‘इन्दीव
१. ‘तथात्वोपपत्तेः.' ख.