शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ४६
।। ब्रह्मोवाच ।।
अथ शंभुः प्रसन्नात्मा सदूतं स्वगणैस्सुरैः ।।
सर्वैरन्यैर्गिरेर्द्धाम जगाम सकुतूहलम् ।। १ ।।
मेनापि स्त्रीगणैस्तैश्च हिमाचलवरप्रिया ।।
तत उत्थाय स्वगृहा भ्यंतरं सा जगाम ह ।। २ ।।
नीराजनार्थं शम्भोश्च दीपपात्रकरा सती ।।
सर्वर्षिस्त्रीगणैस्साकमगच्छद्द्वारमादरात् ।। ३ ।।
तत्रागतं महेशानं शंकरं गिरिजावरम् ।।
ददर्श प्रीतितो मेना सेवितं सकलैस्सुरैः ।।४।।
चारुचंपकवर्णाभं ह्येकवक्त्रं त्रिलोचनम्।।
ईषद्धास्यप्रसन्नास्यं रत्नस्वर्णादिभूषितम् ।।५।।
मालतीमालया युक्तं सद्रत्नमुकुटोज्ज्वलम् ।।
सत्कंठाभरणं चारुवलयांगदभूषितम् ।।६।।
वह्निशौचेनातुलेन त्वतिसूक्ष्मेण चारुणा ।।
अमूल्यवस्त्रयुग्मेन विचित्रेणातिराजितम् ।।७।।
चन्दनागरुकस्तूरीचारुकुंकुम भूषितम् ।।
रत्नदर्पणहस्तं च कज्जलोज्ज्वललोचनम् ।।८।।
सर्वस्वप्रभयाच्छन्नमतीवसुमनोहरम् ।।
अतीव तरुणं रम्यं भूषितांगैश्च भूषितम् ।।९।।
कामिनीकांतमव्यग्रं कोटिचन्द्राननांबुजम् ।।
कोटिस्मराधिकतनुच्छविं सर्वांगसुंदरम् ।।2.3.46.१०।।
ईदृग्विधं सुदेवं तं स्थितं स्वपुरतः प्रभुम् ।।
दृष्ट्वा जामातरं मेना जहौ शोकम्मुदाऽन्विता ।। ११ ।।
प्रशशंस स्वभाग्यं सा गिरिजां भूधरं कुलम् ।।
मेने कृतार्थमात्मानं जहर्ष च पुनः पुनः ।। १२ ।।
नीराजनं चकारासौ प्रफुल्लवदना सती ।।
अवलोकपरा तत्र मेना जामातरं मुदा ।। १३ ।।
गिरिजोक्तमनुस्मृत्य मेना विस्मयमागता ।।
मनसैव ह्युवाचेदं हर्षफुल्लाननाम्बुजा ।। १४ ।।
यद्वै पुरोक्तं च तया पार्वत्या मम तत्र च ।।
ततोधिकं प्रपश्यामि सौन्दर्य्यं परमेशितुः ।। १५ ।।
महेशस्य सुलावण्यमनिर्वाच्यं च संप्रति ।।
एवं विस्मयमापन्ना मेना स्वगृहमाययौ ।।१६।।
प्रशशंसुर्युवतयो धन्या धन्या गिरेः सुता ।।
दुर्गा भगवतीत्येवमूचुः काश्चन कन्यकाः।।१७।।
न दृष्टो वर इत्येवमस्माभिर्द्दानगोचरः ।।
धन्या हि गिरिजा देवीमूचुः काश्चन कन्यकाः ।।१८।।
जगुर्गन्धर्व्वप्रवरा ननृतुश्चाप्सरोगणाः ।।
दृष्ट्वा शंकररूपं च प्रहृष्टास्सर्वदेवताः।।१९।।
नानाप्रकारवाद्यानि वादका मधुराक्षरम् ।।
नानाप्रकारशिल्पेन वादयामासुरादरात् ।।2.3.46.२०।।
हिमाचलोऽपि मुदितो द्वाराचारमथाकरोत् ।।
मेनापि सर्वनारीभिर्महोत्सवपुरस्सरम् ।।२१।।
परपुच्छां चकारासौ मुदिता स्वगृहं ययौ ।।
शिवो निवेदितं स्थानं जगाम गणनिर्जरैः ।।२२।।
एतस्मिन्नन्तरे दुर्गां शैलान्तःपुरचारिका ।।
बहिर्जग्मुस्समादाय पूजितुं कुलदेवताम् ।। २३ ।।
तत्र तां ददृशुर्देवा निमेषरहिता मुदा ।।
सुनीलांजनवर्णाभां स्वांगैश्च प्रतिभूषिताम्। ।।२४।।
त्रिनेत्रादृतनेत्रांतामन्यवारितलोचनाम् ।।
ईषद्धास्यप्रसन्नास्यां सकटाक्षां मनोहराम् ।। २५ ।।
सुचारुकबरीभारां चारुपत्रक शोभिताम् ।।
कस्तूरीबिन्दुभिस्सार्द्धं सिन्दूरबिन्दुशोभिताम् ।।२६।।
रत्नेन्द्रसारहारेण वक्षसा सुविराजिताम् ।।
रत्नकेयूरवलयां रत्नकङ्कणमंडिताम् ।। २७ ।।
सद्रत्नकुण्डलाभ्यां च चारुगण्डस्थलोज्ज्वलाम् ।।
मणिरत्नप्रभामुष्टिदन्तराजिविराजिताम् ।।२८।।
मधुबिम्बाधरोष्ठां च रत्नयावकसंयुताम् ।।
रत्नदर्प्पणहस्तां च क्रीडापद्मविभूषिताम् ।। २९ ।।
चन्दनागुरुकस्तूरीकुंकुमेनाति च र्चिताम् ।।
क्वणन्मंजीरपादां च रक्तांघ्रितलराजिताम् ।। 2.3.46.३० ।।
प्रणेमुश्शिरसा देवीं भक्तियुक्ताः समेनकाम् ।।
सर्वे सुरादयो दृष्ट्वा जगदाद्यां जगत्प्रसूम् ।। ३१ ।।
त्रिनेत्रो नेत्रकोणेन तां ददर्श मुदान्वितः ।।
शिवः सत्याकृतिं दृष्ट्वा विजहौ विरहज्वरम् ।। ३२ ।।
शिवस्सर्वं विसस्मार शिवासंन्यस्तलोचनः ।।
पुलकांचितसर्वाङ्गो हर्षाद्गौरीविलोचनः ।।३३।।
अथ कालीबहिः पुर्य्यां गत्वा पूज्य कुलाम्बिकाम् ।।
विवेश भवनं रम्यं स्वपितुस्सद्विजाङ्गना ।।३४।।
शङ्करोपि सुरैस्सार्द्धं हरिणा ब्राह्मणा तथा ।।
हिमाचलसमुद्दिष्टं स्वस्थानमगमन्मुदा ।।३५।।
तत्र सर्वे सुखं तस्थुस्सेवन्तश्शङ्करं यथा ।।
सम्मानिता गिरीशेन नानाविधसुसम्पदा ।। ३६ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वरागमादिवर्णनं नाम षट्चत्शरिंशोऽध्यायः ।।४६।।