सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२११
बालमनोरमा ।

किति लिटि परत्वात्सम्प्रसारणे षत्वे च कृते द्वित्वम् । 'पूर्वत्रासिद्धीयमद्विर्वचने' (प १२७) । सुषुषुपतु:| सुषुषुपुः | पिति तु द्वित्वेऽभ्यासस्य सम्प्रसारणम् । षत्वस्यासिद्धत्वात्ततः पूर्वं 'हलादिः शेषः' (सू २१७९) । नित्यवाच्च । ततः सुपिरूपाभावान्न षः | सुसुष्वाप । सुस्वप्ता । अस्वपीत्-अस्वपत् |वप्यात् । सुप्यात् । सुषुप्यात् । अस्वाप्सीत् । श्वस १०६९ प्राणने । श्वसिति | श्वसिता । अश्वसीत्-अश्वसत् । श्वस्याताम् । श्वस्यास्ताम् | 'ह्म्यन्तक्षण' (सू २२९९) इति न वृद्धिः । अश्वसीत् । अन १०७० च । अनिति । आन | अनिता | आनीत्-आनत् |

२४७८ । अनितेः । (८-४-१९)


यते ततश्च द्वित्वात्प्रागेव परत्वात्सम्प्रसारणे सति सुप् इत्यस्य सु इत्युपसर्गपूर्वकत्वमादाय षत्वे च कृते सति पुन. प्रसङ्गविज्ञानात् षुप् इत्यस्य कृतषत्वस्य द्वित्वे सति खण्डद्वयेऽपि षकारश्रवणं निर्बाधमित्यर्थः । तदुक्तम्भाष्ये “षुपि भूते द्विरुच्यते ” इति । ननु कृतषत्वस्य कथं द्वित्वं द्वित्वे कर्तव्ये षत्वस्यासिद्धत्वादित्यत आह पूर्वत्रासिद्धीयमिति ॥ ननु तर्हि सुसुष्वापेत्यत्रापि पूर्वखण्डे षत्व श्रूयेतेत्यत आह । पिति त्विति ॥ पिति णलि कित्त्वाभावात् 'वचिस्वपि' इत्यस्याप्रवृत्तौ कृते द्वित्वे ‘लिट्यभ्यासस्य’ इति पूर्वखण्डस्य सम्प्रसारणम् । सु सुप् स्वप अ इति स्थिते 'सुविनिर्दुर्भ्य' इति षत्वस्यासिद्धत्वात् हलादिशेष इत्यर्थः । नित्यत्वाच्चेति ॥ कृते अकृते च षत्वे हलादिशेषस्य प्राप्तेरिति भाव: | ततः इति ॥ हलादिशेषोत्तर सु इत्यस्यैव स्थित्या सुप् इति रूपस्याभावन्न ष इत्यर्थ | एकादेशविकृतत्वादनन्यत्वेऽपि अभ्यासस्यार्थवत्त्वाभावान्न ष इति द्रष्टव्यम् । स्वप्ता । स्वप्स्यति । स्वपितु-स्वपितात् । स्वपिताम् | स्वपन्तु । स्वपिहि-स्वपितात् । स्वपितम् । स्वपित । स्वपानि । स्वपाव । स्वपाम । लड्याह | अस्वपीत्-अस्वपदिति ॥ 'रुदश्च पञ्चभ्यः' इति ईटि 'अड् गाग्र्यगालवयोः' इत्यटि च रूपे । अन्यानि रुदिवद्रूपाणि । लिड्याह । सुप्यादिति ॥ 'वचिस्वपि' इति सम्प्रसारणमिति भावः ‘सुविनिर्दुभ्य.’ इति षत्वम्मत्वा आह । सुषुप्यादिति । अस्वाप्सीदिति ॥ अनिट्कत्वान्न सिज्लोप इति भावः । श्वस प्राणने इति ॥ वलाद्यार्धधातुके सेडयम् । सार्वधातुके तु वलादौ- 'रुदादिभ्यः' इति इट् । लडस्तिपि 'रुदश्च' इति ईटं अड् गाग्र्येत्यटश्च मत्वा आह |अश्वसीत्-अश्वसदिति ॥ विध्द्याशीलिङोः श्वस्यादिति सिद्धवत्कृत्य आह |श्वस्याताम् । श्वस्यास्तामिति । अन चेति ॥ अनधातुरपि प्राणने वर्तते इत्यर्थः | सेडयम् । सार्वधातुकेऽपि वलादौ 'रुदादिभ्यः' इति xट् । लडि ईडटौ मत्वा आह । आनीत् आनदिति । अनितेः ॥ 'रषाभ्यां नो णः' इत्यनुवर्तते । 'उपसर्गदसमासेऽपि' इत्यतः उप-